रमादेवीकृतं विष्णुस्तोत्रम्
आद्यं नमः कारुणिकं पवित्रं
नतार्तिशमनाधारबद्धदीक्षम् ॥ १५९॥
साक्षिं पुनःसकलजीवनपरिश्रमाणां
विश्रान्तिमण्डपपदाम्बुरुहं नतानाम् ।
आद्योऽयमस्य जनकः स्वपिता पिता च
नेता गतिं निजपदाम्बुरुहाननानाम् ॥ १६०॥
नाथः समस्तभुवनस्य ममापि जीव-
लेखामयो भवतु नः पुरतः पुराणः ।
वाणी पुराणपदवी निखिलश्रुतीनां
सार्थं परिश्रममुपेत्य मनो विकारैः ॥ १६१॥
जानाति वा न हि विमृश्य निवर्तिता वा
तं केवलं परमकारुणिकं नतास्मि ।
यं प्राहुराद्यमनपायमशेषवेधा
मोहान्धकारपटलाथ परं प्रकाशम् ॥ १६२॥
ब्रह्मादयोऽपि तमिमं हृदयं प्रपद्ये
प्राप्तं प्रकाममभिलाषमहोदयानाम् ।
यज्ञैर्जपैरपि मनुप्रवरस्य दानैः
पूजाविशेषपुषिताभ्युदयप्रणामैः ॥ १६३॥
प्राणेन्द्रियोपशमनैः प्रविशन्ति सिद्धाः
यन्तं पुमांसमुरुकायमुपैमि नित्यम् ।
यत्पादपद्ममकरन्दजुषां मुनीनां
ब्रह्मेन्द्ररुद्रपदवीविभवो हि हेयः ॥ १६४॥
नाथो ममास्तु नलिनायतलोचनोऽयं
अग्रे जगत्त्रयसुरक्षणजागरूकः ।
एकोऽप्यनेकविधमूर्तिविकल्पनाभिः
कर्ता यमाविति पिपीलिकजीविकानाम् ॥ १६५॥
भक्त्या पुनः प्रलयतः प्रणयैकधामा
कामाय मे भवतु कारणकारणात्मा ।
आद्योऽयमस्य जगतः प्रभुरप्रकाशः
पापात्मनामसुकृतिनां विहतप्रकाशः ॥ १६६॥
ईशे पदे भवतु मे भगवान् पुराणः
भक्तावलम्बितपदाम्बुरुहः श्रुतीनाम् ।
श्रान्तोऽस्मि नाथ निखिलश्रमशान्तिहेतोः
स्वान्तात्प्रमृज्य परितापततिं मदीयाम् ॥ १६७॥
आयाहि पाहि पुरतो न सहे वियोग-
मुर्वीव घर्मतपनांशुमसह्यमानाम् ।
नारायणं नरसखं नलिनायताक्षं
साक्षात्करोमि हृदये सदयं दयालुम् ॥ १६८॥
त्वामादिनाथमखिलश्रुतिसारमेकं
मा ते विलम्बनदशा परिवर्तनीया ।
मा हर्तुमर्हसि भवच्छरणाब्जभृङ्गी-
मङ्गीकुरुष्व सहसा करुणामृताब्धे ॥ १६९॥
काङ्क्षे मुहुः कमललोचनपादमूले
कर्तुं शिरस्सकरुणं परिपश्य दीनाम् ।
इति ताम्रपर्णीमाहात्म्ये ६१-अध्यायान्तर्गतं
रमादेवीकृतं विष्णुस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ६१/१५९-१६९॥
tAmraparNImAhAtmya . adhyAya 61/159-169..
Proofread by PSA Easwaran