श्रीरङ्गनाथसुप्रभातम्

श्रीरङ्गनाथसुप्रभातम्

अम्भोरुहाणि विकसन्त्यरुणस्य भासा शक्रस्य दिग्भवति पाटलिता तथैव । म्लाना भवत्युडुगणस्य रुचिर्जय त्वं श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ १॥ भृङ्गाः पतन्ति कुमुदानि विहाय पद्मे- ष्वार्तं रथाङ्गमिथुनं समुपैति योगम् । रौतीह पक्षिपरिषत्परितो जय त्वं श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ २॥ उद्यानसद्मसु विहृत्य सह प्रियाभि- र्नक्तं युवान उपयान्ति पुनर्गृहाणि । चन्द्रो न भाति सह दीपगणैर्जय त्वं श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ३॥ नक्तं प्रपासु पथिकाः सुखसुप्तिभाजो निद्रां विहाय परितः स्वपथान् प्रयान्ति । शोश्रूयते निगमपाठरवो जय त्वं श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ४॥ विप्रा गृहीतसकलोपकराः प्रयान्ति स्नानादिकर्मकरणाय कवेरकन्याम् । सङ्कल्पयन्ति वनिता वसतीर्जय त्वं श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ५॥ सह्याद्रिजापयसि चोषसि यायजूकाः स्नात्वाग्निहोत्रशरणे प्रणयन्ति वह्नीन् । वीथ्यां परिभ्रमति भक्तततिर्जय त्वं श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ६॥ गोवाजिहस्तिगणिकाः पुरतः स्थितास्ते वीणाध्वनिः परिजना जलपूर्णकुम्भः । सज्जार्चकाश्च सकला इतरे जय त्वं श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ७॥ वेदान्तयुग्ममुभये विबुधाश्च सर्वे त्वां बोधयन्ति मुदिताः स्तुतिभिः प्रियाभिः । उत्तिष्ठ शेषशयनादव तान् जय त्वं श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ८॥ इति श्रीरङ्गनाथसुप्रभातं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Ranganatha Suprabhatam
% File name             : ranganAthasuprabhAtam.itx
% itxtitle              : raNganAthasuprabhAtam (ambhoruhANi vikasantyaruNasya bhAsA)
% engtitle              : ranganAthasuprabhAtam
% Category              : vishhnu, suprabhAta, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scans 1, 2)
% Latest update         : March 26, 2024
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org