श्रीरुद्रकृतं श्रीकृष्णस्तोत्रम्

श्रीरुद्रकृतं श्रीकृष्णस्तोत्रम्

श्रीरुद्र उवाच । त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये । यं पश्यन्त्यमलात्मान आकाशमिव केवलम् ॥ ३४॥ नाभिर्नभोऽग्निर्मुखमम्बु रेतो द्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुर्वी । चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्रः ॥ ३५॥ रोमाणि यस्यौषधयोऽम्बुवाहाः केशा विरिञ्चो धिषणा विसर्गः । प्रजापतिर्हृदयं यस्य धर्मः स वै भवान् पुरुषो लोककल्पः ॥ ३६॥ तवावतारोऽयमकुण्ठधामन् धर्मस्य गुप्त्यै जगतो भवाय । वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त ॥ ३७॥ त्वमेक आद्यः पुरुषोऽद्वितीय- स्तुर्यः स्वदृग्घेतुरहेतुरीशः । प्रतीयसेऽथापि यथाविकारं स्वमायया सर्वगुणप्रसिद्ध्यै ॥ ३८॥ यथैव सूर्यः पिहितश्छायया स्वया छायां च रूपाणि च सञ्चकास्ति । एवं गुणेनापिहितो गुणांस्त्व- मात्मप्रदीपो गुणिनश्च भूमन् ॥ ३९॥ यन्मायामोहितधियः पुत्रदारगृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ४०॥ देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः । यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥ ४१॥ यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् । विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ ४२॥ अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः । सर्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम् ॥ ४३॥ तं त्वा जगत्स्थित्युदयान्तहेतुं समं प्रशान्तं सुहृदात्मदैवम् । अनन्यमेकं जगदात्मकेतं भवापवर्गाय भजाम देवम् ॥ ४४॥ अयं ममेष्टो दयितोऽनुवर्ती मयाभयं दत्तममुष्य देव । सम्पाद्यतां तद्भवतः प्रसादो यथा हि ते दैत्यपतौ प्रसादः ॥ ४५॥ इति श्रीमद्भागवतमहापुराणे दशमस्कन्धे उत्तरार्धे त्रिषष्टितमाध्यायान्तर्गतं श्रीरुद्रकृतं श्रीकृष्णस्तोत्रं समाप्तम् । भागवतपुराण । अध्याय १०/६३/३४-४५॥ bhAgavatapurANa . adhyAya 10/63/34-45.. Proofread by PSA Easwaran
% Text title            : Shri Rudrakritam 2 Shrikrishna Stotram
% File name             : rudrakRRitaM2shrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (rudrakRitaM 2 bhAgavatapurANAntargatam tvaM hi brahma paraM jyotirgUDhaM brahmaNi vANmaye)
% engtitle              : rudrakRRitaM 2 shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, bhAgavatapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhAgavatapurANa | adhyAya 10/63/34-45||
% Indexextra            : (Text 1, 2, 3, Scans 1, 2, 3, 4, 5, 6, Hindi)
% Latest update         : October 1, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org