रुद्रकृतं १ श्रीकृष्णस्तोत्रम्

रुद्रकृतं १ श्रीकृष्णस्तोत्रम्

नमो भगवते तुभ्यं वासुदेवाय धीमते । यस्य भासा जगत्सर्वं भासते नित्यमच्युत ॥ १॥ नमो भगवते देव नित्यं सूर्यात्मने नमः । यः शीतयति शीतांशुर्लोकान् सर्वानिमान् प्रभुः ॥ २॥ नमस्ते विष्णवे देव तुभ्यं सोमात्मने नमः । यः प्रजाः प्राणयत्येको विश्वात्मा भूतभावनः ॥ ३॥ नमः सर्वात्मने देव नमो वाय्वात्मने हरे । यो दधार करेणासौ कुशचीरादि यत्सदा ॥ ४॥ दधार वेदान् सर्वांश्च तुभ्यं ब्रह्मात्मने नमः । सर्वान् संहरते यस्तु संहारे विश्वदृक्सदा ॥ ५॥ क्रोधात्मा विश्वरूपोऽसि तुभ्यं रुद्रात्मने नमः । सृष्टौ स्रष्टा समस्तानां प्राणिनां प्राणदायिने ॥ ६॥ अजाय विष्णवे तुभ्यं स्रष्ट्रे विश्वसृजे नमः । आदौ प्रकृतिमूलाय भूतानां प्रभवाय च ॥ ७॥ नमस्ते देवदेवेश प्रधानाय नमो नमः । पृथिव्यां गन्धरूपेण संस्थितः प्राणिनां हरे ॥ ८॥ दृढाय दृढरूपाय तुभ्यं गन्धात्मने नमः । अपां रसाय सर्वत्र प्राणिनां सुखहेतवे ॥ ९॥ नमस्ते विश्वरूपाय रसाय च नमो नमः । तेजसा भास्वरो यस्तु गुणो जन्तुहितः सदा ॥ १०॥ तस्मै देव जगन्नाथ नमो भास्वररूपिणे । वायोः स्पर्शो गुणो यत्र शीतोष्णसुखदुःखदः ॥ ११॥ नमस्ते वायुरूपाय नमः स्पर्शात्मने हरे । आकाशेऽवस्थितः शब्दः सर्वश्रोत्रनिवेशनः ॥ १२॥ नमस्ते भगवन् विष्णो तुभ्यं शब्दात्मने नमः । यो दधार जगत्सर्वं मायामानुषदेहवान् ॥ १३॥ नमस्तुभ्यं जगन्नाथ मायिनेऽमायदायिने । नम आद्याय बीजाय निर्गुणाय गुणात्मने ॥ १४॥ अचिन्त्याय सुचिन्त्याय तस्मै चिन्त्यात्मने नमः । हराय हरिरूपाय ब्रह्मणे ब्रह्मवादिने ॥ १५॥ नमो ब्रह्मविदे तुभ्यं ब्रह्मब्रह्मात्मने नमः । नमः सहस्रशिरसे सहस्रचरणाय च ॥ १६॥ नमः सहस्रवक्त्राय सहस्रनयनाय च । विश्वाय विश्वरूपाय विश्वकर्त्रे नमो नमः ॥ १७॥ विश्वहर्त्रे नमो नित्यं भूतावास नमो नमः । इन्द्रियायेन्द्ररूपाय विषयाय सदा हरे ॥ १८॥ नमोऽश्वशिरसे तुभ्यं वेदाहरणरूपिणे । अग्नयेऽग्निपते तुभ्यं ज्योतिषां पतये नमः ॥ १९॥ नमः सूर्याय भद्राय तेजसां पतये नमः । नमः सोमाय सौम्याय नमः शीतात्मने हरे ॥ २०॥ रुद्राय रुद्ररूपाय विषयाय सदा हरे । नमो वषट्कृते तुभ्यं स्वधास्वाहास्वरूपिणे ॥ २१॥ नमो यज्ञाय ईज्याय हविषे हव्यसंस्कृते । नमः स्रुवाय पात्राय यज्ञाङ्गाय पराय च ॥ २२॥ नमः प्रणवदेहाय क्षरायाप्यक्षराय च । वेदाय वेदरूपाय अक्षय्याय क्षयाय च ॥ २३॥ वेदाय वेदरूपाय शस्त्रिणे शस्त्ररूपिणे । गदिने खड्गिने तुभ्यं शङ्खिने चक्रिणे नमः ॥ २४॥ शूलिने चर्मिणे नित्यं वरादाय नमो नमः । बुद्धप्रियाय बुद्धाय प्रबुद्धाय सुखाय च ॥ २५॥ हरये विष्णवे तुभ्यं नमः सर्वात्मने गुरो । नमस्ते सर्वलोकेश सर्वकर्त्रे नमो नमः ॥ २६॥ नमः स्वभावशुद्धाय नमस्ते यज्ञसूकर । नमो विष्णो नमो विष्णो नमो विष्णो नमो हरे ॥ २७॥ नमस्ते वासुदेवाय वासुदेवाय धीमते । नमः कृष्णाय कृष्णाय सर्वावास नमो नमः । नमो भूयो नमस्तेऽस्तु पाहि लोकाञ् जनार्दन ॥ २८॥ इति हरिवंशान्तर्गतं रुद्रकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् । हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय अ३१.१२८०॥ harivaMsha . anubandha - parishiShTa . adhyAya a31.1280.. Proofread by PSA Easwaran
% Text title            : Rudrakritam 1 Shri Krishna Stotram
% File name             : rudrakRRitaMshrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (rudrakRitaM 1 harivaMshAntargatam namo bhagavate tubhyaM vAsudevAya dhImate)
% engtitle              : rudrakRRitaM 1 shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, harivaMsha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : harivaMsha | anubandha - parishiShTa | adhyAya a31.1280||
% Indexextra            : (Scan
% Latest update         : September 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org