रुद्रकृतं विष्णुस्तोत्रम्
रुद्र उवाच ।
नमोऽस्त्वनन्ताय विशुद्धचेतसे सरूपरूपाय सहस्रबाहवे ।
सहस्ररश्मिप्रवराय वेधसे विशालदेहाय विशुद्धकर्मिणे ॥ १७॥
समस्तविश्वार्तिहराय शम्भवे सहस्रसूर्यानिलतिग्मतेजसे ।
समस्तविद्याविधृताय चक्रिणे समस्तगीर्वाणनुते सदाऽनघ ॥ १८॥
अनादिदेवाच्युत शेषशेखर प्रभो विभो भूतपते महेश्वर ।
मरुत्पते सर्वपते जगत्पते भुवः पते भुवनपते सदा नमः ॥ १९॥
जलेश नारायण विश्वशङ्कर क्षितीश विश्वेश्वर विश्वलोचन ।
शशाङ्कसूर्याच्युत वीर विश्वगाप्रतर्क्यमूर्त्तेऽमृतमूर्तिरव्ययः ॥ २०॥
ज्वलद्धुताशार्चिविरुद्धमण्डल प्रपाहि नारायण विश्वतोमुख ।
नमोऽस्तु देवार्त्तिहरामृताव्यय प्रपाहि मां शरणगतं सदाच्युत ॥ २१॥
वक्त्राण्यनेकानि विभो तवाहं पश्यामि मध्यस्थगतं पुराणम् ।
ब्रह्माणमीशं जगतां प्रसूतिं नमोऽस्तु तुभ्यं तु पितामहाय ॥ २२॥
संसारचक्रभ्रमणैरनेकैः क्वचिद्भवान् देववरादिदेव ।
सन्मार्गिभिर्ज्ञानविशुद्धसत्त्वैरुपास्यसे किं प्रलपाम्यहं त्वाम् ॥ २३॥
एकं भवन्तं प्रकृतेः परस्ताद्यो वेत्त्यसौ सर्वविदादिबोद्धा ।
गुणा न तेषु प्रसभं विभेद्या विशालमूर्तिर्हि सुसूक्ष्मरूपः ॥ २४॥
निर्वाक्यो निर्मनो विगतेन्द्रियोऽसि कर्माभवान्नो विगतैककर्मा ।
संसारवांस्त्वं हि न तादृशोऽसि पुनः कथं देववरासि वेद्यः ॥ २५॥
मूर्तामूर्तं त्वतुलं लभ्यते ते परं वपुर्देव विशुद्धभावैः ।
संसारविच्छित्तिकरैर्यजद्भिरतोऽवसीयेत चतुर्भुजस्त्वम् ॥ २६॥
परं न जानन्ति यतो वपुस्ते देवादयोऽप्यद्भुतकारणं तत् ।
अतोऽवतारोक्ततनुं पुराणमाराधयेयुः कमलासनाद्याः ॥ २७॥
न ते वपुर्विश्वसृगब्जयोनिरेकान्ततो वेद महानुभावः ।
परं त्वहं वेद्मि कविं पुराणं भवन्तमाद्यं तपसा विशुद्धः ॥ २८॥
पद्मासनो मे जनकः प्रसिद्धश्चैतत् प्रसूतावसकृत्पुराणैः ।
सम्बोध्यते नाथ न मद्विधोऽपि विदुर्भवन्तं तपसा विहीनाः ॥ २९॥
ब्रह्मादिभिस्तत्प्रवरैरबोध्यं त्वां देव मूर्खाः स्वमनन्तनत्या ।
प्रबोधमिच्छन्ति न तेषु बुद्धिरुदारकीर्त्तिष्वपि वेदहीनाः ॥ ३०॥
जन्मान्तरैर्वेदविदां विवेकबुद्धिर्भवेन्नाथ तव प्रसादात् ।
त्वल्लब्धलाभस्य न मानुषत्वं न देवगन्धर्वगतिः शिवं स्यात् ॥ ३१॥
त्वं विष्णुरूपोऽसि भवान् सुसूक्ष्मः स्थूलोऽसि चेदं कृतकृत्यतायाः ।
स्थूलः सुसूक्ष्मः सुलभोऽसि देव त्वद्वाह्यवृत्त्या नरके पतन्ति ॥ ३२॥
किमुच्यते वा भवति स्थितेऽस्मिन् खात्म्येन्दुवह्न्यर्कमहीमरुद्भिः ।
तत्त्वैः सतोयैः समरूपधारिण्यात्मस्वरूपे विततस्वभावे ॥ ३३॥
इति स्तुतिं मे भगवन्ननन्त जुषस्व भक्तस्य विशेषतश्च ।
सृष्टिं सृजस्वेति तवोदितस्य सर्वज्ञतां देहि नमोऽस्तु विष्णो ॥ ३४॥
चतुर्मुखो यो यदि कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः ।
स ते गुणानामयुतैरनेकैर्वदेत्तदा देववर प्रसीद ॥ ३५॥
समाधियुक्तस्य विशुद्धबुद्धेस्त्वद्भावभावैकमनोऽनुगस्य ।
सदा हृदिस्थोऽसि भवान्नमस्ते न सर्वगस्यास्ति पृथग्व्यवस्था ॥ ३६॥
इति प्रकाशं कृतमेतदीश स्तवं मया सर्वगतं विबुद्ध्वा ।
संसारचक्रक्रममाणयुक्त्या भीतं पुनीह्यच्युत केवलत्वम् ॥ ३७॥
इति वराहपुराणे त्रिस्सप्ततितमाध्यायान्तर्गतं रुद्रकृतं
विष्णुस्तोत्रं समाप्तम् ।
वराहपुराण । अध्याय ७३/१७-३७॥
varAhapurANa . adhyAya 73/17-37..
Proofread by PSA Easwaran