सद्भिः कृता श्रीहरिस्तुतिः
षट्चत्वारिंशत्तमे तरङ्गे लब्धाकृता श्रीहरिस्तुतिः सम्पूर्णा ।
सम्बन्धात्ते नाथ वृक्षाः सरोऽदः सर्वे चेमेऽत्राधुना भूमिकेयम् ।
सौधश्चायं वाटिका वापिकेयं धन्यं सर्वं चाश्रमः क्षेत्रमेतत् ॥ १॥
चित्तं नोऽहन्धीर्मनस्त्वक् च नेत्रे घ्राणं जिह्वा कर्णयुग्मं च तीक्ष्णम् ।
एतान्यन्यच्चापि सर्वं कदाचिद् वल्गन्त्वन्यं त्वां विना नैव धार्मे ॥ २॥
यस्यापाराः सद्गुणाः शुभ्रकीर्तिर्ज्ञानं धर्मो यस्य वैराग्यमीश ।
भक्तिर्यवाग् यच्चरित्राणि यच्छं यन्माहात्म्यं रूपधामानि यस्य ॥ ३॥
सर्वस्यैतस्यापि लेशं च किञ्चिद् वक्तुं शेषो नाम देवो हि तस्य ।
शक्तस्ते किं देव्यपि स्याच्च तद्गीस्तस्याऽऽनन्त्यात्त्वां तु वन्दामहे यत् ॥ ४॥
कामः क्रोधो दुस्त्यजो मानलोभौ स्वादो गर्यो मत्सरो दम्भ एते ।
उर्जिष्ठा नः सञ्जिता दस्यवोऽस्मिँस्तादृक्तेजा यह शैकस्त्वमेव ॥ ५॥
ज्योतिर्दीप्तं घूर्णते शैशुमारं चक्रं चेदं यस्य सङ्कल्पतः खे ।
नित्यं तोये कुः स्थिरेयं स्थितापि त्वं नः स्वामी स्मोऽस्यतः सोऽतिधन्याः ॥ ६॥
तं तं तन्तुषु ग्रन्थितोऽङ्ग त्वय्याधारेऽदः पटश्चेव विश्वम् ।
भिन्नोऽस्यस्मात्त्वं तथापीश्वरो नो दृष्टस्त्वय्यस्यापि को यद्गुणो न ॥ ७॥
स्वामिन् ब्रह्माण्डानि वै कालवेगान्नाशं यान्त्यत्योजसो यर्हि धानि ।
दिव्ये जुष्टः शिष्यते वासुदेवः स्वैः स्वे यो नः प्राणवत् स प्रियः स्तात् ॥ ८॥
इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे तृतीयप्रवाहे
पञ्चाशत्तमे तरङ्गे सद्भिः कृता श्रीहरिस्तुतिः सम्पूर्णा ।