$1
सकलावतारसाम्यरूपम्
$1

सकलावतारसाम्यरूपम्

श्रीमदाचार्यचरणानां सकलावतारसाम्यरूपं निरूप्यते । (श्रीहरिरायचरणाः) यथा श्रीमद्वराहेण दंष्ट्रया चोद्धृता मही । हिरण्याक्षश्च निहतो गोद्विजामरदुःखदः ॥ १॥ तथा श्रीवागधीशेन नष्टा भक्तिः समुद्धृता । निहत्य भक्तद्वेष्टारं दुष्टसङ्घं भयप्रदम् ॥ २॥ यतोऽथ वल्लभाधीशो विख्यातः पृथिवीतले । रोषदृक्पातसम्प्लुष्टभक्तद्विडिति नामतः ॥ ३॥ इति वाराहसाम्यम् ॥ १॥ सनन्दनादयो देवा ब्रह्मचर्यप्रकाशकाः । बभूवुर्ब्रह्मणः पुत्राः शुद्धमार्गप्रवर्तकाः ॥ ४॥ तथायमपि वागीशो ह्यन्यस्त्रीसङ्गमत्यजत् । अत एवास्य नामास्ति सुपूरितः रहःप्रियः ॥ ५॥ पतिव्रतापतिश्चेति तेन तद्वद्बभूव सः । ब्रह्मचर्यत्वसंसिद्धिस्तेन जाता महाप्रभोः ॥ ६॥ इति सनकादिसाम्यम् ॥ २॥ यथा श्रीनारदः पञ्चरात्रं व्यरचयत्प्रभुः । यस्मिन्सेवाप्रकारश्च स्फुटं श्रीमानकल्पयत् ॥ ७॥ भक्त्याचारोपदेष्टाभूत्कर्ममार्गप्रवर्त्तकः ॥ ८॥ येनाचारश्च यज्ञश्च पुष्टिमार्गः प्रवर्त्तितः । ततोऽयं यज्ञकर्ता च यज्ञभोक्तेति विश्रुतः ॥ ९॥ इति नारदसाम्यम् ॥ ३॥ यथा नारायणो देवो गन्धमादनवासभाक् । कामसेनां विजित्याशु तिष्ठत्येकान्त ईश्वरः ॥ १०॥ तथायमपि दुष्टौघं विजित्य करुणानिधिः । कृष्णप्रिये व्रजेऽवात्सीद्यतोऽयं श्रीव्रजप्रियः ॥ ११॥ इति नारायणसाम्यम् ॥ ४॥ यथा श्रीकपिलः साङ्ख्यमुक्त्वाऽज्ञानमपाहरत् । जीवानां दुष्टमनसां देवहूतीप्रियावहः ॥ १२॥ तथाणुभाष्यव्याख्यानादयमप्यखिलेश्वरः । विनाश्याज्ञानपटलं चरतां निजवर्त्मनि ॥ १३॥ बभौ सर्वत्र विजयी श्री‍इलम्माप्रियावहः । अत एवास्य नामोक्तं सूत्रभाष्यप्रवर्त्तकः ॥ १४॥ इति कपिलसाम्यम् ॥ ५॥ आन्वीक्षिकीं यथा दत्तः प्रह्लादादिभ्य उक्तवान् । नानावाक्यप्रचारेण दृढीकृत्य सतां मतम् ॥ १५॥ तथायमपि वागीशः समाश्रित्य सतां मतम् । भक्त्याचारोपदेशार्थ नानावाक्यनिरूपकः ॥ १६॥ तदर्थमेव भगवान् कथयामास वै बहून् । स्तवान्कृष्णाश्रयाद्यांश्च प्रभुः श्रीकृष्णहार्दवित् ॥ १७॥ इतिदत्तसाम्यम् ॥ ६॥ यथा यज्ञावतारश्च यामादिद्वादशात्मजैः । सार्द्धं गुणगणाब्धिश्चारक्षत्स्वायम्भुवान्तरम् ॥ १८॥ तथा श्रीवल्लभाधीशः कुमाराभ्यां च नप्तृभिः । दूरीकृत्यासुरान् सर्वानपात्सारस्वतान्तरम् ॥ १९॥ इतियज्ञावतारसाम्यम् ॥ ७॥ यथा श्रीऋषभो देवः पुत्राणां ज्ञानदोऽभवत् । अज्ञानान्तर्द्धिरमलः पुंसां मोहाब्धिमज्जताम् ॥ २०॥ तथायं चाज्ञातलीलो नाम्ना ख्यातश्च भूतले । स्ववंशे स्थापिताशेषस्वमाहात्म्यश्च सोऽभवत् ॥ २१॥ इति ऋषभदेवसाम्यम् ॥ ८॥ यथा श्रीपृथुराजा च गोरूपोर्वीं दुदोह वै । सर्वजीवार्थमनघो महाराजोऽवसेवितः ॥ २२॥ तथा महेन्दिरास्वामी सामवेदसमुद्भवः । ऋग्धेनूः सन्दुदोहाथ भक्तेच्छापूरकाह्वयः ॥ २३॥ पुष्टिमार्गप्रचारार्थं शुद्धद्वैतमताप्तये । लीलामृतरसौघाद्रिकृताखिलशरीरभृत् ॥ २४॥ इति पृथुसाम्यम् ॥ ९॥ भक्तं यथैकं मत्स्यस्तु सत्यवन्तमपात्प्रभुः । जलात्प्रलयकालीनात् मात्स्यं संश्रावयञ्जनान् ॥ २५॥ तथा श्रीवल्लभेशस्तु संसारभयवारिधेः । भक्तानपाद्बहून् श्रीशः श्रावयित्वा सुबोधिनीम् ॥ २६॥ सुरासुराणामुदधिं मथ्नताममृतं यदा । भूतोऽप्राप्तामृतानां च क्लिश्यतां तेन कर्मणा ॥ २७॥ इति मत्स्यसाम्यम् ॥ १०॥ यथा श्रीकमठः साक्षाद्दधे मन्दरपर्वतम् । पुष्टे च हाटकमयं लक्षयोजनविस्तृते ॥ २८॥ तथैव दैवजीवानामसुराणां च वाक्पतिः । क्लिश्यतां भवसिन्धौ च मोक्षपीयूषहेतवे ॥ २९॥ गृहीत्वा ज्ञानसर्पस्य मुखपुच्छौ महाप्रभुः । तदा प्रलुप्तं निगमपर्वतं चोद्दधार ह ॥ ३०॥ दुष्टोत्थापितपाखण्डविषं भूरि पराक्रमम् । पत्रावलम्बनशिवरूपेणाथ पपौ मुदा ॥ ३१॥ इति कमठसाम्यम् ॥ ११॥ यथा धन्वतरिः पुंसां स्मृतिमात्रार्तिनाशनः । तथा सतामयमपि स्मृतिमात्रार्तिनाशकः ॥ ३२॥ इति धन्वतरिसाम्यम् ॥ १२॥ यथा श्रीमोहिनी दैत्यान् मोहयित्वाऽथ चाक्षुषैः । दैत्योत्सङ्गगतं पात्रं सुधायाः प्राप्य निर्मलम् ॥ ३३॥ सुरेभ्यश्चामृतं भूयो ददौ दैत्येभ्य एव न । पुरुषोऽपि महाविष्णुर्धृत्वा स्त्रीरूपमद्भुतम् ॥ ३४॥ एवं श्रीवल्लभोऽपीशो नष्टं वेदमनुत्तमम् । उद्धृत्य जगतां नाथो निजभक्तार्थमादरात् ॥ ३५॥ विरुद्धाश्रयतो दुष्टान् मोहयित्वा महाप्रभुः । तेन सम्मथ्य निगमगिरिणास्मिन्भवे शुभम् ॥ ३६॥ पुष्टिरूपामृतमयं निष्कास्य गुणवारिधिः । देवेभ्योऽदादसुरेभ्यो न ददौ भक्तवत्सलः ॥ ३७॥ पूर्वमासीत् स्वयमपि वल्लभोऽथ द्वितीयके । अवतारे सम्बभूव वाक्पतिः पुरुषाकृतिः ॥ ३८॥ इति मोहिनीसाम्यम् ॥ १३॥ अथ सकलजगदार्तितटिनीपतिवारको भगवान्नृसिंहो यथा स्तम्भादाविर्भूय हिरण्यकशिपुं कराग्रेण विदार्य निजभक्तं प्रह्लादं ररक्षैवं भगवान् श्रीवल्लभाधीशोऽपि चम्पकारण्ये वीतिहोत्रात्प्रकटीभूयाखिलदुःखदातारं जीवाज्ञानरूपमहादैत्यं सद्वाक्यप्रचारनखैर्भित्त्वा प्रह्लादरूपवैष्णववृन्दमरक्षदित्यत एव उग्रप्रताप इति नामनिर्देश इति ॥ ३९॥ इति नृसिंहसाम्यम् ॥ १४॥ अथ च यथाऽखिलगीर्वाणकदम्बसमीडितगरिष्ठ- गुणगणपटलो भगवान् वामनः कश्यपसुतं आदौ भिक्षुरूपं गृहीत्वा बलेः सर्वस्वमाच्छिद्य ववृधे पुनश्च तेन सम्पूजितस्तमनुगृह्यान्तर्दधे तथैव भगवानिलापतिः श्रीलक्ष्मणराजकुमारः शुद्धः भिलुकवद्रूपं समाश्रित्य तत्र च महाभिमानिनं पण्डितसमूहं विजित्याचार्यपदवीं च प्राप्य विद्यानगराधीश्वरमनुगृह्य तेषां निरुत्तराणां जयेन पुष्टिमार्गमार्त्तण्डोदयं कृत्वा मातुलाभिमानं चाहत्य कनकाभिषेकाप्तयशःप्रसारेण वृद्धिं प्राप्य पृथिवीं पर्यक्रामदिति ॥ ४०॥ इति वामनसाम्यम् ॥ १५॥ यथा द्विजद्रोहकारान् जघान क्षत्रियान् बहून् । परश्वधेन तीक्ष्णेन रेणुकानन्दवर्धनः ॥ ४१॥ तथा श्रौतद्रोहकरान् यः स्मार्तानसुरान् प्रभुः । पत्रावलम्बखण्डेन जित्वा चक्रे निरुत्तरान् ॥ ४२॥ इति परशुरामसाम्यम् ॥ १६॥ कलिकालमलग्रस्तान् जीवानालोक्य दुर्मतीन् । मन्दभाग्यांस्तथा दुष्टान् श्रीमान् सत्यवतीसुतः ॥ ४३॥ श्रीमद्भागवतालापादुद्दधार दयापरः । पाषण्डतिमिराक्रान्तजीवजालं द्विधाऽकरोत् ॥ ४४॥ तथा महाप्रभुरपि दुष्टाध्वार्णवमज्जितान् । जीवानालोक्य भगवान् पुष्टिमार्गोपदेशतः ॥ ४५॥ अङ्गीकृत्य मन्त्रदानाच्चक्रे भयविवर्जितान् । पुत्रपौत्रप्रपौत्राद्यैः करोति च करिष्यति ॥ ४६॥ इति वेदव्याससाम्यम् ॥ १७॥ अयोध्याधिपती रामः सेतुं कृत्वा यथार्णवे । स्वसेनां स्थापयामास जिग्येऽसुरचमूर्द्रुतम् ॥ ४७॥ तथेलम्माकुमारोऽपि श्रीमद्भागवतार्णवे । सेतुं सुबोधिनीरूपं विधायातारयज्जनान् ॥ ४८॥ जिगायासुरवर्गं च वैष्णवद्वेषकारकम् । श्रीभागवतपीयूषसमुद्रमथनक्षमः ॥ ४९॥ इति दाशरथिरामसाम्यम् ॥ १८॥ अथ यथा सकलजगदभीष्टसम्पादकः श्रीभगवान् श्रीनन्दराजकुमारो निजसहोदरेण श्रीरेवतीरमणेन पूर्णारेवतीरमणसदृशेन सारस्वतकल्पेऽवतीर्य दुष्ट- कदम्बरूपं भूभारमुज्जहार स्वहस्तमारणेन च तन्मोक्षं चकारैवमसावपि भगवान् पुरुषोत्तमो नारायणादि- दीक्षितानां सोमयागफलस्वरूपः श्रीलक्ष्मणाङ्गजः कलाववतीर्य पुत्राभ्यां श्रीगोपीनाथविठ्ठलाभ्यां सहाष्टा- क्षरदानेन निगददानेन च केनचिदपराधविशेषेण विनष्ट- मतीन् अत एव गोलोकच्युतान् जीवानुद्दधारेति ॥ ५०॥ इति श्रीकृष्णसाम्यम् ॥ १९॥ यथा हलधरः श्रीमान् निजानन्दाब्धिमज्जितः । कृष्णसौख्यप्रयत्नात्मा रोहिण्यानन्दवर्धनः ॥ ५१॥ किञ्च- निजभाण्डकारकाणामभीष्टदाताऽथ रेवतीश्रेष्ठः । श्रीपुष्टिमार्गसंस्थैः सद्भिः सेव्यो व्रजेशवन्नित्यम् ॥ ५२॥ तथायमपि वागीशो नामभिस्तत्सद्रक्षकैः । विख्यातस्त्रिषु लोकेषु कृष्णानुग्रहभोजनः ॥ ५३॥ आनन्दः परमानन्दः पूर्णानन्दो जगद्गुरुः । स्वानन्दतुन्दिलश्चेति इलम्मानन्दवर्धनः ॥ ५४॥ अदेयदानदक्षश्च श्री‍अक्काप्राणवल्लभः । भक्तेच्छापूरकः कृष्णभक्तिकृन्निखिलेष्टदः ॥ ५५॥ इति हलधरसाम्यम् ॥ २०॥ अथ च यथा भगवान् बुद्धो देवकार्यार्थं सर्वान् विनिन्द्य विश्ववैपरीत्यं कर्माचरन् सर्वान् दैत्यान् मोहयामास तथयमपि भगवान् श्रीकृष्णाख्यः प्राकृतानुकृतिव्याजमोहितासुरमानुषः इतिनामानु- करणसम्पन्नो वैष्णवानां वैपरीत्यं कर्म प्रकाशयन् निगूढहृदयत्त्वं च दर्शयन् सन्न्यासधारणमङ्गी- कृत्यासुरस्य मोहलीलामाचचारेति ॥ ५६॥ इति बुद्धसाम्यम् ॥ २१॥ हयग्रीवो यथा नष्टवेदाविर्भावकारकः । तथायमपि वेदोक्तं नष्टमार्गमदशर्यत् ॥ ५७॥ इति हयग्रीवसाम्यम् ॥ २२॥ हंसो यथा च महतां पुत्राणां ब्रह्मणः पुरा । ज्ञानदः सम्बभूवेह ब्रह्मानुग्रहकारकः ॥ ५८॥ तथा महाप्रभुरपि महतां ज्ञानदोऽभवत् । हनुमत्सदृशानां च रामसन्तोषकारकः ॥ ५९॥ इति हंससाम्यम् ॥ २३॥ कल्किर्यथा कलेरन्ते जीवाज्ञानं विनाशयन् । भद्रप्रदश्च जीवानां सम्भविष्यति सर्वतः ॥ ६०॥ एवं वैश्वानरोऽपीशः कलिनष्टं च दुर्बलम् । पुष्टिमार्गं पुनः श्रीमान्द्योतयिष्यति निर्मलम् ॥ ६१॥ पुष्टिमार्गं तु भगवान् सर्वकाले तु रक्षति । पुत्रपौत्रादिरूपैश्च दुर्लभाङ्घ्रिसरोरुहः ॥ ६२॥ भूतेषु च भविष्येषु वर्त्तमानेष्वपीश्वरः । चतुर्युगेषु कृतभुग् मार्गं रक्षति रक्षति ॥ ६३॥ इति कल्किसाम्यम् ॥ २४॥ एवं सर्वावताराणां गुणकर्मपराक्रमान् । दधाति नितरां सन्तः श्रीमाँल्लक्ष्मणनन्दनः ॥ ६४॥ तस्मात्सर्वैर्वैष्णवैश्च त्रैलोक्ये विबुधेश्वरः । प्रकीर्तितः कृष्णरूपः श्रीपूर्णपुरुषोत्तमः ॥ ६५॥ अतः स एव संसेव्यो वैष्णवैः पापभीरुभिः । ध्यातव्यः स्मरणीयश्च तैलङ्गतिलकः प्रभुः ॥ ६६॥ आर्या- अस्य श्रवणात्पाठात्प्रभवेत्पुंसामभेदत्वम् । श्रीमन्नन्दकुमारवाक्यत्योश्चापि नूनमुर्व्यां वै ॥ ६७॥ एतन्मदुदितं बालस्वभावाद्वंशवत्सलः । श्रीवल्लभाचार्यनामा प्रभुः क्षाम्यतु सर्वथा ॥ ६८॥ स्वकीयं श्रीवल्लभीयं मामानन्दनिधिर्हरिः । निःसाधनं च वृणुते स कृष्णः शरणं मम ॥ ६९॥ इति श्रीहरिदासविरचितं श्रीमहाप्रभुसर्वावतारसाम्यनिरूपणं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : sakalAvatArasAmyarUpam
% File name             : sakalAvatArasAmyarUpam.itx
% itxtitle              : sakalAvatArasAmyarUpam (haridAsavirachitam)
% engtitle              : sakalAvatArasAmyarUpam
% Category              : vishhnu, krishna, puShTimArgIya, haridAsa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : haridAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org