सनन्दनादि योगिभिः कृतं विष्णुस्तोत्रम्
तं तुष्टुवुस्तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः
सनन्दनाद्या ह्यतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम् ॥ ३०॥
सनन्दनाद्या योगिन ऊचुः ।
जयेश्वराणां परमेश केशव प्रभो गदाशङ्खधरासिचक्रधृक्
प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम् ॥ ३१॥
पादेषु वेदास्तव यूपदंष्ट्रा दन्तेषु जज्ञाश्चितयश्च वक्त्रे ।
हुताशजिह्वोऽसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ॥ ३२॥
विलोचने रात्र्यहनी महात्मन्सर्वाश्रयं ब्रह्मपरं शिरस्ते ।
सूक्तान्यशेषानि सटाकलापो घ्राणं समस्तानि हवींषि देव ॥ ३३॥
स्रुक्तुण्डसामस्वरधीरनादप्राग्वंशकायाखिलसत्रसन्धे ।
पूर्तेष्टधर्मश्रवणोऽसि देव सनातनात्मन्भगवन्प्रसीद ॥ ३४॥
पदक्रमाक्रान्तभुवं भवन्तमादिस्थितं चाक्षरविश्वमूर्ते ।
विश्वस्य विद्मः परमेश्वरोऽसि प्रसीद नाथोऽसि परावरस्य ॥ ३५॥
दंष्ट्राग्रविन्यस्तमशेषमेतद्भूमण्डलं नाथ विभाव्यते ते ।
विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रमिवोढपङ्कम् ॥ ३६॥
द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव ।
व्याप्तं जगद्व्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम् ॥ ३७॥
परमार्थस्त्वमेवैको नान्योऽस्ति जगतः पते ।
तवैष महिमा येन व्याप्तमेतच्चराचरम् ॥ ३८॥
यदेतद्दृश्यते मूर्त्तमेतज्ज्ञानात्मनस्तव ।
भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः ॥ ३९॥
ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ।
अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसम्प्लवे ॥ ४०॥
ये तु ज्ञानविदः शुद्धचेतसस्तेऽखिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥ ४१॥
प्रसीद सर्व सर्वात्मन्भवाय जगतामिमाम् ।
उद्धरोर्वीममेयात्मञ्छन्नो देह्यब्जलोचन ॥ ४२॥
सत्त्वोद्रिक्तोऽसि भगवन् गोविन्द पृथिवीमिमाम् ।
समुद्धर भवायेश शन्नो देह्यब्जलोचन ॥ ४३॥
सर्गप्रवृत्तिर्भवतो जगतामुपकारिणी ।
भवत्वेषा नमस्तेऽस्तु शन्नो देह्यब्जलोचन ॥ ४४॥
इति विष्णुपुराणे प्रथमभागे चतुर्थाध्यायान्तर्गतं
सनन्दनादि योगिभिः कृतं विष्णुस्तोत्रं समाप्तम् ।
विष्णुपुराण । अध्याय ४/३०-४४॥
viShNupurANa . adhyAya 4/30-44..
Proofread by PSA Easwaran