सन्तानगोपालमन्त्रप्रयोगः

सन्तानगोपालमन्त्रप्रयोगः

अथ सन्तानगोपालमन्त्रप्रयोगः - मूलमन्त्रो यथा - ॐ क्लीं श्रीं ह्रीं जीं ॐ भूर्भुवः स्वः ॐ । देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ॐ स्वः भुवः भूः ॐ जीं ह्रीं श्रीं क्लीं ॐ । इति चतुःपञ्चाशद्वर्णात्मको मन्त्रः । ॐ अस्य श्रीसबीजसन्तानगोपालमन्त्रस्य नारायण ऋषिः, अनुष्टुप्छन्दः, पुत्रप्रदश्रीगोपालो देवता, क्लीं बीजं, श्रीं ह्रीं शक्तिः, जीं कीलकम्, श्रीसन्तानगोपालप्रसादसिद्धिपूर्वकं मम (यजमानस्य वा) चिरायुः-पुत्र-प्राप्त्यर्थे जपे विनियोगः ॥ ॐ नारायणऋषये नमः शिरसि । ॐ अनुष्टुप्छन्दसे नमः मुखे । ॐ पुत्रप्रदश्रीगोपालदेवतायै नमः हृदि । ॐ क्लीं बीजाय नमः गुह्ये । ॐ श्रीं ह्रीं शक्तये नमः पादयोः । ॐ जीं कीलकाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ ॐ दवकीसुत गोविन्द अङ्गुष्ठाभ्यां नमः । ॐ वासुदेव जगत्पते तर्जनीभ्यां नमः । ॐ देहि मे तनयं कृष्ण मध्यमाभ्यां नमः । ॐ त्वामहं शरणं गतः अनामिकाभ्यां नमः । ॐ देवकीसुत गोविन्द वासुदेव जगत्पते कनिष्ठिकाभ्यां नमः । ॐ देहि मे तनयं कृष्ण त्वामहं शरणं गतः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ ॐ देवकीसुत गोविन्द हृदयाय नमः । ॐ वासुदेव जगत्पते शिरसे स्वाहा । ॐ देहि मे तनयं कृष्ण शिखायै वषट् । ॐ त्वामहं शरणं गतः कवचाय हुँ । ॐ देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः, अस्त्राय फट् । इति हृदयादिन्यासः ॥ इति नेत्रहीनं पञ्चाङ्गन्यासं कृत्वा ध्यायेत् - ॐ वैकुण्ठतेजसा दीप्तमर्जुनेन समन्वितम् । समर्पयन्तं विप्राय नष्टानानीय बालकान् ॥ (अथवा) विजयेन युतो रथस्थितः प्रसमानीय समुद्रमध्यतः । प्राददत्तनयान् द्विजन्मने स्मरणीयो वसुदेवनन्दनः ॥ इति ध्यात्वा मानसोपचारैः(१) सम्पूज्य जपं कुर्यात् । लक्षचतुष्टयजपे पुत्राप्तिः ॥ (१ मानसोपचारैः एवं अत्र नैवेद्यमपि मानसं परिकल्पयेदिति महार्णवः) इति सन्तानगोपालमन्त्रप्रयोगः सम्पूर्णः । Encoded and proofread by Paresh Panditrao
% Text title            : Santanagopala Mantra PrayogaH
% File name             : santAnagopAlamantraprayogaH.itx
% itxtitle              : santAnagopAlamantraprayogaH
% engtitle              : santAnagopAlamantraprayogaH
% Category              : vishhnu, krishna, mantra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Paresh Panditrao
% Proofread by          : Paresh Panditrao
% Indexextra            : (Scan)
% Latest update         : October 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org