सप्तबुद्धस्तोत्रम्
उत्पन्नो वन्धुमत्यां नृपतिवरकुले यो विपश्यीतिनाम्ना
यस्याशीतिसहस्राण्यमरनरगुरोरायुरासीद् गतानाम् ।
येन प्राप्तं जिनत्वं दशबलबलिना पोतलावृक्षमूले
तं वन्दे ज्ञानवारि प्रणमितसकलं क्लेशवह्निं जिनेन्द्रम् ॥ १॥
वंशे पृथ्वीश्वराणां महति पुरवरे यः प्रजातोऽरूणाक्षो
वर्षाणामायुरासीत् सकलगुणनिधेर्यस्य सप्तायुतानाम् ।
संप्राप्ता येन बोधिः परहितपटुना पुण्डरीकस्य मूले
तं वन्दे ज्ञानराशिं शिखिनमृषिवरं प्राप्तसंसारपारम् ॥ २॥
यो जातो नोपमायां सुप्रथितयशसामन्वये पार्थिवाना-
मायुः षष्टिसहस्रादभवदुरुमतेर्यस्य संवत्सराणाम् ।
जित्वा क्लेशानशेषानमृतमधिगतं येन शालस्य मूले
तं वन्दे धर्मराजं भुवनहितकरं विश्वभूनामधेयम् ॥ ३॥
क्षेमावत्यां प्रजातो मनुजपतिसमे यो वशी विप्रवंशे
आयुर्वर्षायुतानि प्रवरगुणनिधेरष्टचत्वारि चैव ।
जैनेन्द्रं येन लब्धं त्रिभववधकरं ज्ञानखड्गेश्वरेण
वन्देऽहं सिंहकायं सुगतमनुपमं ककुप्छन्दं मुनीन्द्रम् ॥ ४॥
शोभावत्यां द्विजानां नरपतिमहिते योऽन्वये संप्रसूतस्
तस्यामायुः सहस्राण्यतिशयवपुषस्त्रिंशदेवं बभूव ।
बुद्धत्वं येन रत्नाचलवरगुरुणौदुम्बरे प्राप्तमासीद्
तं वन्दे शासितारं कनकमुनिमृषिं ध्वस्तमोहान्धकारम् ॥ ५॥
वाराणस्यां कृषीशक्षितिपतिमहिते विप्रवंशेऽभिजातो
यस्यामायुः सहस्राण्यतिशयमहितं विंशतिर्वत्सराणाम् ।
येन न्यग्रोधमूले त्रिभवजलनिधिः पोषितो दिव्यगत्या
तं वन्दे वन्दनीयं मुनिवरमनघं काश्यपं लोकनाथम् ॥ ६॥
यो जातः श्रीविशाले कपिलपुरवरे शाक्यराजेन्द्रवंशे
यस्यासीदायुरेकंशतमिह शरदां सर्वलोकैकबन्धोः ।
निर्गत्याश्वत्थमूले नमुचिमपि सताऽनुत्तरा येन बोधिस्
तं वन्दे शाक्यसिंहं सुरनरनमितं बुद्धमादित्यबन्धुम् ॥ ७॥
जातिं विप्रेतिवंशे नृपवरमहिते केतुमत्यां गृहीत्वा
बुद्धत्वं येन लब्धमतिगुणनिधिना नागवृक्षस्य मूले ।
अष्टावब्दायुतानि क्षपितभगवतो भावि यस्याग्रमायुर्
वन्दे मैत्रेयनाथं तुषितपुरवरे भाविनं लोकनाथम् ॥ ८॥
स्तुत्वा वै सप्तबुद्धान् सकलमुपगतान् सप्तसप्तार्कभासो
मैत्रेयं च स्तुवन् वै तुषितपुरगतं भाविनं लोकनाथम् ।
यत्पुण्यं संप्रसूतं शुभगतिफलदं देहिनामेव सर्वं
छित्वा सङ्क्लेशपाशान् मुनय इव चरन् निर्वृतिं स प्रयातु ॥ ९॥
इति श्रीसप्तबुद्धस्तोत्रं सम्पूर्णम् ॥