$1
श्रीमदन्नवरसत्यनारायणसुप्रभातस्तोत्रम्
$1

श्रीमदन्नवरसत्यनारायणसुप्रभातस्तोत्रम्

श्रीरस्तु । उत्तिष्ठान्नवराधीश उत्तिष्ठ व्रतमोदित । उत्तिष्ठोत्तिष्ठ विश्वेश सत्यदेव दयानिधे ॥ १॥ ब्राह्मे मुहूर्त उत्थाय करिष्यन्ति तव व्रतम् । सत्यव्रतानुमोदार्थं उत्तिष्ठोत्तिष्ठ सत्वरम् ॥ २॥ उत्तिष्ठ निर्गुणाकार भक्तानां पालनं कुरु । उत्तिष्ठोत्तिष्ठ शुद्धात्मन् रत्नाद्रिवसतिप्रिय ॥ ३॥ उत्तिष्ठ कमलाकान्त उत्तिष्ठ पुरुषोत्तम । उत्तिष्ठानन्तपालेश त्रैलोक्यं परिपालय ॥ ४॥ विना सत्यदेवं कलौ नास्ति मुक्तिः सदा सत्यदेवं स्मरामि स्मरामि । करोमीश सत्यव्रतं दीनबन्धो न चान्यं स्मरामो न चान्यं भजामः ॥ ५॥ भजामि त्वदङ्घ्रिं न याचेऽन्यदेवं सदा देव याचे कृपालो भवन्तम् । प्रभो दीनबन्धो विभो लोकरक्षिन् शरण्यस्त्वमेवास्य दीनस्य नाथ ॥ ६॥ न जानामि धर्मं न जानामि चान्यं त्वमेकश्शरण्यो गतिस्त्वं त्वमेकः । अनाथं दरिद्रं जरारोगयुक्तं कृपापात्रमेनं कुरु श्रीनिवास ॥ ७॥ न तातो न माता न बन्धुर्न दाता गतिस्त्वं त्वमेकश्शरण्यस्त्वमेकः । हरीशं हरेशं सुरेशं गिरीशं भजेऽहं सदाहं न जानामि चान्यम् ॥ ८॥ प्रातः स्मरामि बलसत्यपदाब्जयुग्मं शीर्षोपरिस्थितगुरोरपरस्वरूपम् । वेदान्तवेद्यमभयं धृतदेवरूपं सत्यावतारजगतीतलपावनं च । ९॥ प्रातर्नमामि वरसत्यविभुं पवित्रं रक्षोगणाय भयदं वरदं जनेभ्यः । सत्यावतीसहितवीरवरस्वरूपं दीनानुपालनरतं परमादिदेवम् ॥ १०॥ प्रातर्भजामि वरसत्यपदारविन्दं पद्माङ्कुशादिशुभलाञ्छनरञ्जितं तत् । योगीन्द्रमानसमधुव्रतसेव्यमानं पापापहं सकलदीनजनावलम्बम् ॥ ११॥ प्रातर्वदामि वचसा वरसत्यनाम वाग्दोषहारिसकलाघनिवारणं च । सत्यव्रताचरणपावनभक्तजाल वाञ्छाप्रदातृसकलादृतभव्यतेजः । १२॥ प्रातः करोमि कलिकल्मषनाशकर्म तद्धर्मदं भवतु भक्तिकरं परं मे । अन्तःस्थितेन शुभभानुचिदात्मकेन सत्येन लोकगुरुणा मम सिद्धिरस्तु ॥ १३॥ लक्ष्मीसमेत जगतां सुखदानशील पद्मायतेक्षण मनोहरदिव्यमूर्ते । लोकेश्वर श्रितजनप्रिय सत्यदेव श्रीरत्नपर्वतनिकेतन सुप्रभातम् ॥ १४॥ पापापहार कलिदोषहरातिदक्ष श्रीमन्नगालय मनोहरसत्यमूर्ते । कारुण्यवीक्षण महामहिमाढ्य देव नित्यं प्रभातसमये तव सुप्रभातम् ॥ १५॥ तापत्रयापहर सत्यवतीप्रसन्न दामोदरामरपते कमलासुसेव्य । उत्तिष्ठ पालय दरिद्रजनालिबन्धो सत्यव्रतप्रिय विभो तव सुप्रभातम् ॥ १६॥ श्रीपद्मनाभ पुरुषोत्तम सत्यदेव पम्पानदीतटनिवास समस्तरूप । संसारबन्धनविमोचन दीनबन्धो श्रीकृष्ण पालक विभो तव सुप्रभातम् ॥ १७॥ श्रीराम एव भवदीय दयाविशेषात् सेतुं बबन्ध जितरावणराक्षसौघः । सत्यव्रतस्य महिमा गदितुं न शक्या सत्यव्रतप्रियपते तव सुप्रभातम् ॥ १८॥ सत्यव्रतस्य फलदानवशानुबद्ध सन्तानलाभकर हे प्रभुसत्यदेव । सक्तालिरिच्छति तव व्रतसाधनं भोः उत्तिष्ठ साधय विभो तव सुप्रभातम् ॥ १९॥ संसेव्य साधुहृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमनन्तमतीन्द्रियं च । प्राप्नोति भक्त इह मुक्तिपदं स्थिरं च मां रक्ष नित्यकृपया तव सुप्रभातम् ॥ २०॥ सत्यप्रभुस्तु मनसो वचसामगम्यः वाचो विभान्ति निखिला यदनुग्रहेण । यस्य व्रताचरणभाग्यमहं स्मरामि नारायणाच्युत विभो तव सुप्रभातम् ॥ २१॥ साम्बेन युक्तवरसत्यविभुस्वरूपः सेव्यः सदा हरिहरात्मकदिव्यमूर्तिः । एतादृशः स्थितिरगम्यमहाविचित्रः त्वं देव पालय विभो तव सुप्रभातम् ॥ २२॥ श्रीमन्नभीष्टवरदाखिललोकबन्धो श्री श्रीनिवास जनतापह वीरवर्य । श्री भ्राजदन्नवरवास सुसत्यमूर्ते मां पाहि पाहि वरदाच्युत सुप्रभातम् ॥ २३॥ इति श्रीसत्यनारायण सुप्रभातं समाप्तम् । Proofread by PSA Easwaran
$1
% Text title            : Shrimad Annavara Satyanarayana Suprabhata Stotram
% File name             : satyanArAyaNasuprabhAtam.itx
% itxtitle              : satyanArAyaNasuprabhAtam
% engtitle              : satyanArAyaNa suprabhAtam
% Category              : vishhnu, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : suprabhAta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Latest update         : February 22, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org