श्रीसत्यनारायण व्रतकथा
॥ श्री गणेशाय नमः ॥
॥ श्रीपरमात्मने नमः ॥
अथ कथा प्रारम्भः ।
अथ प्रथमोऽध्यायः ।
श्रीव्यास उवाच ।
एकदा नैमिषारण्ये ऋषयः शौनकादयः ।
पप्रच्छुर्मुनयः सर्वे सूतं पौराणिकं खलु ॥ १॥
ऋषय ऊचुः ।
व्रतेन तपसा किं वा प्राप्यते वाञ्छितं फलम् ।
तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥ २॥
सूत उवाच ।
नारदेनैव सम्पृष्टो भगवान् कमलापतिः ।
सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः ॥ ३॥
एकदा नारदो योगी परानुग्रहकाङ्क्षया ।
पर्यटन् विविधान् लोकान् मर्त्यलोकमुपागतः ॥ ४॥
ततोदृष्ट्वा जनान्सर्वान् नानाक्लेशसमन्वितान् ।
नानायोनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभिः ॥ ५॥
केनोपायेन चैतेषां दुःखनाशो भवेद् ध्रुवम् ।
इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा ॥ ६॥
तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् ।
शङ्ख-चक्र-गदा-पद्म-वनमाला-विभूषितम् ॥ ७॥
दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे ।
नारद उवाच ।
नमो वाङ्गमनसातीतरूपायानन्तशक्तये ।
आदिमध्यान्तहीनाय निर्गुणाय गुणात्मने ॥ ८॥
सर्वेषामादिभूताय भक्तानामार्तिनाशिने ।
श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत ॥ ९॥
श्रीभगवानुवाच ।
किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते ।
कथयस्व महाभाग तत्सर्वं कथायामि ते ॥ १०॥
नारद उवाच ।
मर्त्यलोके जनाः सर्वे नानाक्लेशसमन्विताः ।
ननायोनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ॥ ११॥
तत्कथं शमयेन्नाथ लघूपायेन तद्वद ।
श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ॥ १२॥
श्रीभगवानुवाच ।
साधु पृष्टं त्वया वत्स लोकानुग्रहकाङ्क्षया ।
यत्कृत्वा मुच्यते मोहत् तच्छृणुष्व वदामि ते ॥ १३॥
व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् ।
तव स्नेहान्मया वत्स प्रकाशः क्रियतेऽधुना ॥ १४॥
सत्यनारायणस्यैव व्रतं सम्यग्विधानतः । (सत्यनारायणस्यैवं)
कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् ।
तच्छ्रुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत् ॥ १५॥
नारद उवाच ।
किं फलं किं विधानं च कृतं केनैव तद् व्रतम् ।
तत्सर्वं विस्तराद् ब्रूहि कदा कार्यं व्रतं प्रभो ॥ १६॥ (कार्यंहितद्व्रतम्)
श्रीभगवानुवाच ।
दुःखशोकादिशमनं धनधान्यप्रवर्धनम् ॥ १७॥
सौभाग्यसन्ततिकरं सर्वत्र विजयप्रदम् ।
यस्मिन् कस्मिन् दिने मर्त्यो भक्तिश्रद्धासमन्वितः ॥ १८॥
सत्यनारायणं देवं यजेच्चैव निशामुखे ।
ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ॥ १९॥
नैवेद्यं भक्तितो दद्यात् सपादं भक्ष्यमुत्तमम् ।
रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् ॥ २०॥
अभावे शालिचूर्णं वा शर्करा वा गुडस्तथा ।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥ २१॥
विप्राय दक्षिणां दद्यात् कथां श्रुत्वा जनैः सह ।
ततश्च बन्धुभिः सार्धं विप्रांश्च प्रतिभोजयेत् ॥ २२॥
प्रसादं भक्षयेद् भक्त्या नृत्यगीतादिकं चरेत् ।
ततश्च स्वगृहं गच्छेत् सत्यनारायणं स्मरन् ॥ २३॥
एवं कृते मनुष्याणां वाञ्छासिद्धिर्भवेद् ध्रुवम् ।
विशेषतः कलियुगे लघूपायोऽस्ति भूतले ॥ २४॥ (लघूपायोस्ति)
॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथायां प्रथमोऽध्यायः ॥ १॥
अथ द्वितीयोऽध्यायः ।
सूत उवाच ।
अथान्यत् सम्प्रवक्ष्यामि कृतं येन पुरा द्विजाः ।
कश्चित् काशीपुरे रम्ये ह्यासीद्विप्रोऽतिनिर्धनः ॥ १॥ (ह्यासीद्विप्रोतिनिर्धनः)
क्षुत्तृड्भ्यां व्याकुलोभूत्वा नित्यं बभ्राम भूतले ।
दुःखितं ब्राह्मणं दृष्ट्वा भगवान् ब्राह्मणप्रियः ॥ २॥
वृद्धब्राह्मण रूपस्तं पप्रच्छ द्विजमादरात् ।
किमर्थं भ्रमसे विप्र महीं नित्यं सुदुःखितः ।
तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विज सत्तम ॥ ३॥
ब्राह्मण उवाच ।
ब्राह्मणोऽति दरिद्रोऽहं भिक्षार्थं वै भ्रमे महीम् ॥ ४॥ (ब्राह्मणोति)
उपायं यदि जानासि कृपया कथय प्रभो ।
वृद्धब्राह्मण उवाच ।
सत्यनारायणो विष्णुर्वाञ्छितार्थफलप्रदः ॥ ५॥
तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम । (व्रतमुत्तमम्)
यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ ६॥
विधानं च व्रतस्यापि विप्रायाभाष्य यत्नतः ।
सत्यनारायणो वृद्धस्तत्रैवान्तरधीयत ॥ ७॥
तद् व्रतं सङ्करिष्यामि यदुक्तं ब्राह्मणेन वै ।
इति सञ्चिन्त्य विप्रोऽसौ रात्रौ निद्रा न लब्धवान् ॥ ८॥ (निद्रां)
ततः प्रातः समुत्थाय सत्यनारायणव्रतम् ।
करिष्य इति सङ्कल्प्य भिक्षार्थमगमद्विजः ॥ ९॥ (भिक्षार्थमगमद्द्विजः)
तस्मिन्नेव दिने विप्रः प्रचुरं द्रव्यमाप्तवान् ।
तेनैव बन्धुभिः सार्धं सत्यस्यव्रतमाचरत् ॥ १०॥
सर्वदुःखविनिर्मुक्तः सर्वसम्पत्समन्वितः ।
बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावतः ॥ ११॥
ततः प्रभृति कालं च मासि मासि व्रतं कृतम् ।
एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तमः ॥ १२॥
सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान् ।
व्रतमस्य यदा विप्र पृथिव्यां सङ्करिष्यति ॥ १३॥ (विप्राः)
तदैव सर्वदुःखं तु मनुजस्य विनश्यति । (च मनुजस्य)
एवं नारायणेनोक्तं नारदाय महात्मने ॥ १४॥
मया तत्कथितं विप्राः किमन्यत् कथयामि वः ।
ऋषय ऊचुः ।
तस्माद् विप्राच्छ्रुतं केन पृथिव्यां चरितं मुने ।
तत्सर्वं श्रोतुमिच्छामः श्रद्धाऽस्माकं प्रजायते ॥ १५॥ (श्रद्धास्माकं)
सूत उवाच ।
शृणुध्वं मुनयः सर्वे व्रतं येन कृतं भुवि ।
एकदा स द्विजवरो यथाविभव विस्तरैः ॥ १६॥
बन्धुभिः स्वजनैः सार्धं व्रतं कर्तुं समुद्यतः ।
एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत् ॥ १७॥
बहिः काष्ठं च संस्थाप्य विप्रस्य गृहमाययौ ।
तृष्णाया पीडितात्मा च दृष्ट्वा विप्रं कृतं व्रतम् ॥ १८॥ (कृत)
प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया ।
कृते किं फलमाप्नोति विस्तराद् वद मे प्रभो ॥ १९॥ (विस्ताराद्)
विप्र उवाच ।
सत्यनारायणेस्येदं व्रतं सर्वेप्सितप्रदम् ।
तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥ २०॥
तस्मादेतद् व्रतं ज्ञात्वा काष्ठक्रेताऽतिहर्षितः ।
पपौ जलं प्रसादं च भुक्त्वा स नगरं ययौ ॥ २१॥
सत्यनारायणं देवं मनसा इत्यचिन्तयत् ।
काष्ठं विक्रयतो ग्रामे प्राप्यते चाद्य यद् धनम् ॥ २२॥ (प्राप्यतेमेऽद्य)
तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् ।
इति सञ्चिन्त्य मनसा काष्ठं धृत्वा तु मस्तके ॥ २३॥
जगाम नगरे रम्ये धनिनां यत्र संस्थितिः ।
तद्दिने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ ॥ २४॥
ततः प्रसन्नहृदयः सुपक्वं कदली फलम् ।
शर्कराघृतदुग्धं च गोधूमस्य च चूर्णकम् ॥ २५॥
कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ ।
ततो बन्धून् समाहूय चकार विधिना व्रतम् ॥ २६॥
तद् व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत् । (धनपुत्रान्वितोभवत्)
इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥ २७॥
॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथायां द्वितीयोऽध्यायः ॥ २॥
अथ तृतीयोऽध्यायः ।
सूत उवाच ।
पुनरग्रे प्रवक्ष्यामि शृणुध्वं मुनि सत्तमाः ।
पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ १॥
जितेन्द्रियः सत्यवादी ययौ देवालयं प्रति ।
दिने दिने धनं दत्त्वा द्विजान् सन्तोषयत् सुधीः ॥ २॥
भार्या तस्य प्रमुग्धा च सरोजवदना सती ।
भद्रशीलानदी तीरे सत्यस्यव्रतमाचरत् ॥ ३॥
एतस्मिन्नन्तरे तत्र साधुरेकः समागतः ।
वाणिज्यार्थं बहुधनैरनेकैः परिपूरितः ॥ ४॥
नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति ।
दृष्ट्वा स व्रतिनं भूपं प्रपच्छ विनयान्वितः ॥ ५॥
साधुरुवाच ।
किमिदं कुरुषे राजन् भक्तियुक्तेन चेतसा ।
प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम् ॥ ६॥
राजोवाच ।
पूजनं क्रियते साधो विष्णोरतुलतेजसः ।
व्रतं च स्वजनैः सार्धं पुत्राद्यावाप्ति काम्यया ॥ ७॥
भूपस्य वचनं श्रुत्वा साधुः प्रोवाच सादरम् ।
सर्वं कथय मे राजन् करिष्येऽहं तवोदितम् ॥ ८॥
ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम् ।
ततो निवृत्त्य वाणिज्यात् सानन्दो गृहमागतः ॥ ९॥
भार्यायै कथितं सर्वं व्रतं सन्तति दायकम् ।
तदा व्रतं करिष्यामि यदा मे सन्ततिर्भवेत् ॥ १०॥
इति लीलावतीं प्राह पत्नीं साधुः स सत्तमः ।
एकस्मिन् दिवसे तस्य भार्या लीलावती सती ॥ ११॥ (भार्यां)
भर्तृयुक्तानन्दचित्ताऽभवद् धर्मपरायणा ।
र्गभिणी साऽभवत् तस्य भार्या सत्यप्रसादतः ॥ १२॥ (साभवत्)
दशमे मासि वै तस्याः कन्यारत्नमजायत ।
दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥ १३॥
नाम्ना कलावती चेति तन्नामकरणं कृतम् ।
ततो लीलावती प्राह स्वामिनं मधुरं वचः ॥ १४॥
न करोषि किमर्थं वै पुरा सङ्कल्पितं व्रतम् ।
साधुरुवाच ।
विवाह समये त्वस्याः करिष्यामि व्रतं प्रिये ॥ १५॥
इति भार्यां समाश्वास्य जगाम नगरं प्रति ।
ततः कलावती कन्या ववृधे पितृवेश्मनि ॥ १६॥
दृष्ट्वा कन्यां ततः साधुर्नगरे सखिभिः सह ।
मन्त्रयित्वा द्रुतं दूतं प्रेषयामास धर्मवित् ॥ १७॥
विवाहार्थं च कन्याया वरं श्रेष्ठं विचारय ।
तेनाज्ञप्तश्च दूतोऽसौ काञ्चनं नगरं ययौ ॥ १८॥
तस्मादेकं वणिक्पुत्रं समादायागतो हि सः ।
दृष्ट्वा तु सुन्दरं बालं वणिक्पुत्रं गुणान्वितम् ॥ १९॥
ज्ञातिभिर्बन्धुभिः सार्धं परितुष्टेन चेतसा ।
दत्तावान् साधुपुत्राय कन्यां विधिविधानतः ॥ २०॥ (साधुःपुत्राय)
ततोऽभाग्यवशात् तेन विस्मृतं व्रतमुत्तमम् । (ततोभाग्यवशात्)
विवाहसमये तस्यास्तेन रुष्टो भवत् प्रभुः ॥ २१॥ (रुष्टोऽभवत्)
ततः कालेन नियतो निजकर्म विशारदः ।
वाणिज्यार्थं ततः शीघ्रं जामातृ सहितो वणिक् ॥ २२॥
रत्नसारपुरे रम्ये गत्वा सिन्धु समीपतः ।
वाणिज्यमकरोत् साधुर्जामात्रा श्रीमता सह ॥ २३॥
तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च । (नगरेतस्य)
एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः ॥ २४॥
भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् ।
दारुणं कठिनं चास्य महद् दुःखं भविष्यति ॥ २५॥
एकस्मिन्दिवसे राज्ञो धनमादाय तस्करः ।
तत्रैव चागत श्चौरो वणिजौ यत्र संस्थितौ ॥ २६॥
तत्पश्चाद् धावकान् दूतान् दृष्टवा भीतेन चेतसा ।
धनं संस्थाप्य तत्रैव स तु शीघ्रमलक्षितः ॥ २७॥
ततो दूताःसमायाता यत्रास्ते सज्जनो वणिक् ।
दृष्ट्वा नृपधनं तत्र बद्ध्वाऽऽनीतौ वणिक्सुतौ ॥ २८॥ (बद्ध्वानीतौ)
हर्षेण धावमानाश्च प्रोचुर्नृपसमीपतः ।
तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥ २९॥
राज्ञाऽऽज्ञप्तास्ततः शीघ्रं दृढं बद्ध्वा तु ता वुभौ ।
स्थापितौ द्वौ महादुर्गे कारागारेऽविचारतः ॥ ३०॥
मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वचः ।
अतस्तयोर्धनं राज्ञा गृहीतं चन्द्रकेतुना ॥ ३१॥
तच्छापाच्च तयोर्गेहे भार्या चैवाति दुःखिता ।
चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम् ॥ ३२॥
आधिव्याधिसमायुक्ता क्षुत्पिपाशाति दुःखिता । (क्षुत्पिपासाति)
अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे ।
कलावती तु कन्यापि बभ्राम प्रतिवासरम् ॥ ३३॥
एकस्मिन् दिवसे याता क्षुधार्ता द्विजमन्दिरम् । (दिवसे जाता)
गत्वाऽपश्यद् व्रतं तत्र सत्यनारायणस्य च ॥ ३४॥ (गत्वापश्यद्)
उपविश्य कथां श्रुत्वा वरं र्प्राथितवत्यपि ।
प्रसाद भक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ॥ ३५॥
माता कलावतीं कन्यां कथयामास प्रेमतः ।
पुत्रि रात्रौ स्थिता कुत्र किं ते मनसि वर्तते ॥ ३६॥
कन्या कलावती प्राह मातरं प्रति सत्वरम् ।
द्विजालये व्रतं मातर्दृष्टं वाञ्छितसिद्धिदम् ॥ ३७॥
तच्छ्रुत्वा कन्यका वाक्यं व्रतं कर्तुं समुद्यता ।
सा मुदा तु वणिग्भार्या सत्यनारायणस्य च ॥ ३८॥
व्रतं चक्रे सैव साध्वी बन्धुभिः स्वजनैः सह ।
भर्तृजामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम् ॥ ३९॥
अपराधं च मे भर्तुर्जामातुः क्षन्तुमर्हसि ।
व्रतेनानेन तुष्टोऽसौ सत्यनारायणः पुनः ॥ ४०॥ (तुष्टोसौ)
दर्शयामास स्वप्नं ही चन्द्रकेतुं नृपोत्तमम् ।
बन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥ ४१॥
देयं धनं च तत्सर्वं गृहीतं यत् त्वयाऽधुना । (त्वयाधुना)
नो चेत् त्वां नाशयिष्यामि सराज्यधनपुत्रकम् ॥ ४२॥
एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभुः । (ध्यानगम्योभवत्)
ततः प्रभातसमये राजा च स्वजनैः सह ॥ ४३॥
उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति ।
बद्धौ महाजनौ शीघ्रं मोचय द्वौ वणिक्सुतौ ॥ ४४॥
इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ ।
समानीय नृपस्याग्रे प्राहुस्ते विनयान्विताः ॥ ४५॥
आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगडबन्धनात् ।
ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम् ॥ ४६॥
स्मरन्तौ पूर्व वृत्तान्तं नोचतुर्भयविह्वलौ ।
राजा वणिक्सुतौ वीक्ष्य वचः प्रोवाच सादरम् ॥ ४७॥
देवात् प्राप्तं महद्दुःखमिदानीं नास्ति वै भयम् ।
तदा निगडसन्त्यागं क्षौरकर्माद्यकारयत् ॥ ४८॥
वस्त्रालङ्कारकं दत्त्वा परितोष्य नृपश्च तौ ।
पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोषयद् भृशम् ॥ ४९॥ (वचसातोषयद्भृशम्)
पुरानीतं तु यद् द्रव्यं द्विगुणीकृत्य दत्तवान् ।
प्रोवाच च ततो राजा गच्छ साधो निजाश्रमम् ॥ ५०॥ (प्रोवाचतौ)
राजानं प्रणिपत्याह गन्तव्यं त्वत्प्रसादतः ।
इत्युक्त्वा तौ महावैश्यौ जग्मतुः स्वगृहं प्रति ॥ ५१॥ (महावैश्यो)
॥ इति श्रीस्कन्द पुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथायां तृतीयोऽध्यायः ॥ ३॥
अथ चतुर्थोऽध्यायः ।
सूत उवाच ।
यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम् ।
ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ ॥ १॥
कियद् दूरे गते साधो सत्यनारायणः प्रभुः ।
जिज्ञासां कृतवान् साधौ किमस्ति तव नौस्थितम् ॥ २॥
ततो महाजनौ मत्तौ हेलया च प्रहस्य वै । (मतौ)
कथं पृच्छसि भो दण्डिन् मुद्रां नेतुं किमिच्छसि ॥ ३॥
लतापत्रादिकं चैव वर्तते तरणौ मम ।
निष्ठुरं च वचः श्रुत्वा सत्यं भवतु ते वचः ॥ ४॥
एवमुक्त्वा गतः शीघ्रं दण्डी तस्य समीपतः ।
कियद् दूरे ततो गत्वा स्थितः सिन्धु समीपतः ॥ ५॥
गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा ।
उत्थितां तरणीं दृष्ट्वा विस्मयं परमं ययौ ॥ ६॥
दृष्ट्वा लतादिकं चैव मूर्च्छितो न्यपतद् भुवि ।
लब्धसंज्ञो वणिक्पुत्रस्ततश्चिन्तान्वितोऽभवत् ॥ ७॥ (वणिक्पुत्रस्ततश्चिन्तान्वितोभवत्)
तदा तु दुहितुः कान्तो वचनं चेदमब्रवीत् ।
किमर्थं क्रियते शोकः शापो दत्तश्च दण्डिना ॥ ८॥
शक्यते तेन सर्वं हि कर्तुं चात्र न संशयः । (शक्यतेने न)
अतस्तच्छरणं यामो वाञ्छतार्थो भविष्यति ॥ ९॥ (वाञ्छितार्थो)
जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा ।
दृष्ट्वा च दण्डिनं भक्त्या नत्वा प्रोवाच सादरम् ॥ १०॥
क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ ।
एवं पुनः पुनर्नत्वा महाशोकाकुलोऽभवत् ॥ ११॥ (महाशोकाकुलोभवत्)
प्रोवाच वचनं दण्डी विलपन्तं विलोक्य च ।
मा रोदीः शृणुमद्वाक्यं मम पूजाबहिर्मुखः ॥ १२॥
ममाज्ञया च दुर्बुद्धे लब्धं दुःखं मुहुर्मुहुः ।
तच्छ्रुत्वा भगवद्वाक्यं स्तुतिं कर्तुं समुद्यतः ॥ १३॥
साधुरुवाच ।
त्वन्मायामोहिताः सर्वे ब्रह्माद्यास्त्रिदिवौकसः ।
न जानन्ति गुणान् रूपं तवाश्चर्यमिदं प्रभो ॥ १४॥
मूढोऽहं त्वां कथं जाने मोहितस्तवमायया । (मूढोहं)
प्रसीद पूजयिष्यामि यथाविभवविस्तरैः ॥ १५॥
पुरा वित्तं च तत् सर्वं त्राहि मां शरणागतम् ।
श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दनः ॥ १६॥
वरं च वाञ्छितं दत्त्वा तत्रैवान्तर्दधे हरिः ।
ततो नावं समारूह्य दृष्ट्वा वित्तप्रपूरिताम् ॥ १७॥
कृपया सत्यदेवस्य सफलं वाञ्छितं मम ।
इत्युक्त्वा स्वजनैः सार्धं पूजां कृत्वा यथाविधि ॥ १८॥
हर्षेण चाभवत् पूर्णःसत्यदेवप्रसादतः ।
नावं संयोज्य यत्नेन स्वदेशगमनं कृतम् ॥ १९॥
साधुर्जामातरं प्राह पश्य रत्नपुरीं मम ।
दूतं च प्रेषयामास निजवित्तस्य रक्षकम् ॥ २०॥
ततोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च । (दूतोसौ)
प्रोवाच वाञ्छितं वाक्यं नत्वा बद्धाञ्जलिस्तदा ॥ २१॥
निकटे नगरस्यैव जामात्रा सहितो वणिक् ।
आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युतः ॥ २२॥
श्रुत्वा दूतमुखाद्वाक्यं महाहर्षवती सती ।
सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति ॥ २३॥
व्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय च ।
इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य च ॥ २४॥
प्रसादं च परित्यज्य गता साऽपि पतिं प्रति । (सापि)
तेन रुष्टाः सत्यदेवो भर्तारं तरणिं तथा ॥ २५॥ (रुष्टः, तरणीं)
संहृत्य च धनैः सार्धं जले तस्यावमज्जयत् ।
ततः कलावती कन्या न विलोक्य निजं पतिम् ॥ २६॥
शोकेन महता तत्र रुदन्ती चापतद् भुवि । (रुदती)
दृष्ट्वा तथाविधां नावं कन्यां च बहुदुःखिताम् ॥ २७॥
भीतेन मनसा साधुः किमाश्चर्यमिदं भवेत् ।
चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहकाः ॥ २८॥
ततो लीलावती कन्यां दृष्ट्वा सा विह्वलाऽभवत् ।
विललापातिदुःखेन भर्तारं चेदमब्रवीत ॥ २९॥
इदानीं नौकया सार्धं कथं सोऽभूदलक्षितः ।
न जाने कस्य देवस्य हेलया चैव सा हृता ॥ ३०॥
सत्यदेवस्य माहात्म्यं ज्ञातुं वा केन शक्यते ।
इत्युक्त्वा विललापैव ततश्च स्वजनैः सह ॥ ३१॥
ततो लीलावती कन्यां क्रौडे कृत्वा रुरोद ह ।
ततःकलावती कन्या नष्टे स्वामिनि दुःखिता ॥ ३२॥
गृहीत्वा पादुके तस्यानुगतुं च मनोदधे । (पादुकां)
कन्यायाश्चरितं दृष्ट्वा सभार्यः सज्जनो वणिक् ॥ ३३॥
अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित् ।
हृतं वा सत्यदेवेन भ्रान्तोऽहं सत्यमायया ॥ ३४॥
सत्यपूजां करिष्यामि यथाविभवविस्तरैः ।
इति सर्वान् समाहूय कथयित्वा मनोरथम् ॥ ३५॥
नत्वा च दण्डवद् भूमौ सत्यदेवं पुनः पुनः ।
ततस्तुष्टः सत्यदेवो दीनानां परिपालकः ॥ ३६॥
जगाद वचनं चैनं कृपया भक्तवत्सलः ।
त्यक्त्वा प्रसादं ते कन्या पतिं द्रष्टुं समागता ॥ ३७॥
अतोऽदृष्टोऽभवत्तस्याः कन्यकायाः पतिर्ध्रुवम् ।
गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुनः ॥ ३८॥ (सायाति)
लब्धभर्त्री सुता साधो भविष्यति न संशयः ।
कन्यका तादृशं वाक्यं श्रुत्वा गगनमण्डलात् ॥ ३९॥
क्षिप्रं तदा गृहं गत्वा प्रसादं च बुभोज सा ।
पश्चात् सा पुनरागत्य ददर्श स्वजनं पतिम् ॥ ४०॥ (सापश्चात्पुनरागत्य, सजनं)
ततः कलावती कन्या जगाद पितरं प्रति ।
इदानीं च गृहं याहि विलम्बं कुरुषे कथम् ॥ ४१॥
तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद्वणिक्सुतः ।
पूजनं सत्यदेवस्य कृत्वा विधिविधानतः ॥ ४२॥
धनैर्बन्धुगणैः सार्धं जगाम निजमन्दिरम् ।
पौर्णमास्यां च सङ्क्रान्तौ कृतवान् सत्यस्य पूजनम् ॥ ४३॥ (सत्यपूजनम्)
इहलोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥ ४४॥
॥ इति श्रीस्कन्द पुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथायां चतुर्थोऽध्यायः ॥ ४॥
अथ पञ्चमोऽध्यायः ।
सूत उवाच ।
अथान्यच्च प्रवक्ष्यामि श्रुणुध्वं मुनिसत्तमाः ।
आसीत् तुङ्गध्वजो राजा प्रजापालनतत्परः ॥ १॥
प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ।
एकदा स वनं गत्वा हत्वा बहुविधान् पशून् ॥ २॥
आगत्य वटमूलं च दृष्ट्वा सत्यस्य पूजनम् । (चापश्यत्)
गोपाः कुर्वन्ति सन्तुष्टा भक्तियुक्ताः स बान्धवाः ॥ ३॥
राजा दृष्ट्वा तु दर्पेण न गतो न ननाम सः ।
ततो गोपगणाः सर्वे प्रसादं नृपसन्निधौ ॥ ४॥
संस्थाप्य पुनरागत्य भुक्तत्वा सर्वे यथेप्सितम् ।
ततः प्रसादं सन्त्यज्य राजा दुःखमवाप सः ॥ ५॥
तस्य पुत्रशतं नष्टं धनधान्यादिकं च यत् ।
सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम् ॥ ६॥
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् ।
मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ ॥ ७॥
ततोऽसौ सत्यदेवस्य पूजां गोपगणैःसह ।
भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृपः ॥ ८॥
सत्यदेवप्रसादेन धनपुत्रान्वितोऽभवत् ।
इहलोके सुखं भुक्तत्वा चान्ते सत्यपुरं ययौ ॥ ९॥
य इदं कुरुते सत्यव्रतं परमदुर्लभम् ।
शृणोति च कथां पुण्यां भक्तियुक्तः फलप्रदाम् ॥ १०॥
धनधान्यादिकं तस्य भवेत् सत्यप्रसादतः ।
दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात् ॥ ११॥
भीतो भयात् प्रमुच्येत सत्यमेव न संशयः ।
ईप्सितं च फलं भुक्त्वा चान्ते सत्यपुरंव्रजेत् ॥ १२॥
इति वः कथितं विप्राः सत्यनारायणव्रतम् ।
यत् कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ १३॥
विशेषतः कलियुगे सत्यपूजा फलप्रदा ।
केचित् कालं वदिष्यन्ति सत्यमीशं तमेव च ॥ १४॥
सत्यनारायणं केचित् सत्यदेवं तथापरे ।
नानारूपधरो भूत्वा सर्वेषामीप्सितप्रदम् ॥ १५॥ (सर्वेषामीप्सितप्रदः)
भविष्यति कलौ सत्यव्रतरूपी सनातनः ।
श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम् ॥ १६॥
य इदं पठते नित्यं शृणोति मुनिसत्तमाः ।
तस्य नश्यन्ति पापानि सत्यदेवप्रसादतः ॥ १७॥
व्रतं यैस्तु कृतं पूर्वं सत्यनारायणस्य च ।
तेषां त्वपरजन्मानि कथयामि मुनीश्वराः ॥ १८॥
शतानन्दोमहाप्राज्ञःसुदामाब्राह्मणो ह्यभूत् ।
तस्मिञ्जन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह ॥ १९॥
काष्ठभारवहो भिल्लो गुहराजो बभूव ह ।
तस्मिञ्जन्मनि श्रीरामं सेव्य मोक्षं जगाम वै ॥ २०॥
उल्कामुखो महाराजो नृपो दशरथोऽभवत् ।
श्रीरङ्गनाथं सम्पूज्य श्रीवैकुण्ठं तदागमत् ॥ २१॥ (श्रीरामचन्द्रसम्प्राप्य)
र्धामिकः सत्यसन्धश्च साधुर्मोरध्वजोऽभवत् । (साधुर्मोरध्वजोभवत्)
देहार्धं क्रकचैश्छित्त्वा दत्वा मोक्षमवाप ह ॥ २२॥
तुङ्गध्वजो महाराजः स्वायम्भुवोऽभवत् किल । (स्वायम्भूरभवत्)
सर्वान् भागवतान् कृत्वा श्रीवैकुण्ठं तदाऽगमत् ॥ २३॥ (कृत्त्वा, तदागमत्)
भूत्वा गोपाश्च ते सर्वे व्रजमण्डलवासिनः ।
निहत्य राक्षसान् सर्वान् गोलोकं तु तदा ययुः ॥ २४॥
॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथायां पञ्चमोऽध्यायः ॥ ५॥
Proofread by Preeti Bhandare