शालग्राममूर्तिलक्षणम्

शालग्राममूर्तिलक्षणम्

हरिरुवाच । प्रसङ्गात्कथयिष्यामि शालग्रामस्य लक्षणम् । शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् ॥ १॥ शङ्खचक्रगदापद्मी(हस्तः)केशवाख्यो गदाधरः । साब्जकौमादकीचक्रशङ्खी नारायणो विभुः ॥ २॥ सचक्रशङ्खाब्जगदो माधवः श्रीगदाधरः । गदाब्जशङ्खचक्री वा गोविन्दोऽर्च्यो गदाधरः ॥ ३॥ पद्मशङ्खारिगादिने विष्णुरूपाय ते नमः । सशङ्खाब्जगदाचक्र मधुसूदनमूर्त्तये ॥ ४॥ नमो गदारिशङ्खाब्जमूर्तित्रैविक्रमाय च । सारिकौमोदकीपद्मशङ्खवामनमूर्त्तये ॥ ५॥ चक्राब्जशङ्खगादिने नमः श्रीधरमूर्त्तये । हृषीकेशायाऽब्जगदाशङ्खिने चक्रिणे नमः ॥ ६॥ साब्जचक्रगदाशङ्खपद्मनाभस्वरूपिणे । शङ्खचक्रगदापद्मिन् दामोदर नमो नमः ॥ ७॥ सारिशङ्खगदाब्जाय वासुदेवाय वै नमः । शङ्खाब्जचक्रगदिने नमः सङ्कर्षणाय च ॥ ८॥ सुशङ्खसुगदाब्जारिधृते प्रद्युम्नमूर्त्तये । नमोऽनिरुद्धाय गदाशङ्खाब्जारिविधारिणे ॥ ९॥ साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये । नमोऽधोक्षजरूपाय गदाशङ्खारिपद्मिने ॥ १०॥ नृसिंहमूर्त्तये पद्मगदाशङ्खारिधारिणे । पद्मारिशङ्खगदिने नमोऽस्त्वच्युतमूर्त्तये ॥ ११॥ सशङ्खचक्राब्जगदं जनार्दनमिहानये । उपेन्द्र सगद सारे पद्मशङ्खिन्नमो नमः ॥ १२॥ सुचक्राब्जगदाशङ्खयुक्ताय हरिमूर्त्तये । सगदाब्जारिशङ्खाय नमः श्रीकृष्णमूर्त्तये ॥ १३॥ शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् । शुक्लाभो वासुदेवाख्यः सोऽव्याद्वः श्रीगदाधरः ॥ १४॥ लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः । सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः ॥ १५॥ स दीर्घः स शिरश्छिद्रो योऽनिरुद्धस्तु वर्तुलः । नीलो द्वारि त्रिरेखश्च अथ नारायणोऽसितः ॥ १६॥ मध्ये गादकृती रेखा नाभिचक्रो महोन्नतः । पृथुवक्षा नृसिंहो वः कपिलोऽव्यात्त्रिबिन्दुकः ॥ १७॥ अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः । वराहः शक्तिलिङ्गोऽव्याद्विषमद्वयचक्रकः ॥ १८॥ नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्त्तिः स बिन्दुमान् । कृष्णः स वर्त्तुलावर्त्तः पातु वो नतपृष्ठकः ॥ १९॥ श्रीधरः पञ्चरेखोऽव्याद्वनमाली गादाङ्कितः । वामनो वर्त्तुलो ह्रस्वो वामचक्रः सुरेश्वरः ॥ २०॥ नानावर्णोऽनेकमूर्त्तिर्नागभोगी त्वनन्तकः । स्थूलो दामोदरो नीलो मध्येव(च)क्रः सुनीलकः ॥ २१॥ सङ्कीर्णद्वारकः सोऽव्यादथ ब्रह्मा सुलोहितः । स दीर्घरेखः सुषिर एकचक्राम्बुजः पृथुः ॥ २२॥ पृथुच्छिद्रः स्थूलचक्रः कृष्णो विष्णुश्च बिन्दुमत् । हयग्रीवोऽङ्कुशाकारः पञ्चरेखः सकौस्तुभः ॥ २३॥ वैकुण्ठो मणिरत्नाभ एकचक्राम्बुजोऽसितः । मत्स्यो दीर्घोऽम्बुजाकारो द्वाररेखश्च पातु वः ॥ २४॥ रामचक्रो दक्षरेखः श्यामो वोऽव्यात्त्रिविक्रमः । शालग्रामे द्वारकायां स्थिताय गदिने नमः ॥ २५॥ एकद्वारश्चतुश्चक्रो वनमालाविभूषितः । स्वर्णरेखासमायुक्तो गोष्पदेन विराजितः ॥ २६॥ कदम्बकुसुमाकारो लक्ष्मीनारायणोऽवतु । एकेन लक्षितो योऽव्याद्गदाधारी (सुदर्शनः)॥ २७॥ लक्ष्मीनारायणो द्वाभ्यां त्रिभिर्मूर्त्तेस्त्रिविक्रमः । चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पञ्चभिः ॥ २८॥ प्रद्युम्नः षड्भिरेव स्यात् सङ्कर्षण इतस्ततः । पुरुषोत्तमोऽष्टभिः स्यान्नवव्यूहो नवाङ्कितः ॥ २९॥ दशावतारो दशभिरनिरुद्धोऽवतादथ । द्वादशात्मा द्वादशभिरत ऊर्द्ध्वमनन्तकः ॥ ३०॥ विष्णोर्मूर्त्तिमयं स्तोत्रं यः पठेत्स दिवं व्रजेत् । ब्रह्मा चतुर्मुखो दण्डी कमण्डलुयुगान्वितः ॥ ३१॥ महेश्वरः प्रञ्चवक्त्रो दशबाहुर्वृषध्वजः । यथायुधस्तथा गौरी चण्डिका च सरस्वती ॥ ३२॥ महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः । गजास्यश्च गणः स्कन्दः षण्मुखोऽनेकधागुणाः ॥ ३३॥ एतेऽर्चिताः स्थापिताश्च प्रासादे वास्तुपूजिते । धर्मार्थकाममोक्षाद्याः प्राप्यन्ते पुरुषेण च ॥ ३४॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे । शालग्राममूर्त्तिलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५॥ गरुडपुराण । पूर्वखण्ड । अध्याय ४५/४-३०॥ garuDapurANa . pUrvakhaNDa . adhyAya 45/4-30.. Proofread by PSA Easwaran
% Text title            : Shalagramamurtilakshanam
% File name             : shAlagrAmamUrtilakShaNam.itx
% itxtitle              : shAlagrAmamUrtilakShaNam (garuDapurANAntargatam)
% engtitle              : shAlagrAmamUrtilakShaNam
% Category              : vishhnu, vishnu, garuDapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : garuDapurANa | pUrvakhaNDa |adhyAya 45/4-30||
% Indexextra            : (Scans 1, 2, 3, 4, English)
% Latest update         : October 3, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org