शान्तिकं सहितं श्रीहरिमङ्गलकवचम्

शान्तिकं सहितं श्रीहरिमङ्गलकवचम्

श्रीशाण्डिल्य उवाच । शान्तिकं सम्प्रवक्ष्यामि भक्तानां हितकाम्यया । येन प्रयुज्यमानेन सर्वा भीतिर्निवर्तते ॥ १॥ समुद्भूतो यदा ब्रह्मा सृष्ट्वेदमयजद्धरिम् । स्वाहायै पश्यतस्तस्य हेतोर्यातो यदृच्छया ॥ २॥ तेन यज्ञात्मना यज्ञे पुरे कृत्वा निवर्तितुम् । यावद्दिष्टं ततस्तावज्जग्राह शिखया शुचिः ॥ ३॥ तेन सम्पीतमात्रेण देवकार्ये महत्तरे । असूत भगवानग्निः ऋषीन् षष्टिसहस्रिणः ॥ ४॥ ब्रह्मणा कृपया तेभ्यः सर्वमङ्गलमङ्गलम् । कवचञ्च पाठितं दिव्यं यदुक्तं हरिणात्मने ॥ ५॥ ये गुप्ता मुनिवरा ब्रह्मघ्नै रावणादिभिः । अधृष्यास्तप आतस्थुः प्रीतो येभ्यो रघूत्तमः ॥ ६॥ प्रसादशक्तेः सम्पर्कात् पूजनाच्च मधुद्विषः । प्रिया बभूवुस्ते लोके तदहं वच्मि भो द्विजाः ॥ ७॥ कवचस्यास्य मुनयो ब्रह्माग्नितनया मताः । गायत्रञ्च भवेच्छन्दो देवता श्रीपतिः स्वयम् ॥ ८॥ प्रसादाख्या भवेच्छक्तिः बीजं लीलाप्रियो हरिः । निष्प्रत्यूहनिजानन्दावाप्तये विनियोजनम् ॥ ९॥ मूलतोऽस्य षडङ्गानि भाचक्राद्यैश्च रक्षणम् । तीर्थगोपादरजसा न्यासः सर्वाङ्गलैः शुचेः ॥ १०॥ अथ श्रीमङ्गलकवचम् । ॐ श्रीहरये नमः । श्रीकृष्णः सर्वतः पायात् शिरः श्रीपुरुषोत्तमः । ललाटमक्षरः पायान्मायेशो नयने उभे ॥ १॥ श्रवणे भगवान् कालः नासिके कृतिमान् विभुः । परमात्मा च वाचं मे जीवेशो रसनां मम ॥ २॥ हृदयं वासुदेवो मे अहं सङ्कर्षणः प्रभुः । प्रद्युम्नश्च धियं पातु अनिरुद्धोऽपि मानसम् ॥ ३॥ भुजौ मे यादसामीशः पादौ मे कमठेश्वरः । मूलाधारन्तु वाराहो नृहरिर्मणिपूरकम् ॥ ४॥ नाभिं मे भार्गवो रामः पार्श्वं मे रघुनन्दनः । पृष्ठं बलः ककुद् बुद्धः कल्किः शेषं कलाधरः ॥ ५॥ दृष्टिं त्रिविक्रमः पातु कृत्तिं च कमलापतिः । सूत्रं सुदर्शनः पातु अनुसूत्रं महेश्वरः ॥ ६॥ रूपं रमापतिः पातु रसं रक्षोविनाशनः । गन्धं गणानामधिपः स्पर्शं मे मधुसूदनः ॥ ७॥ नन्दको मे नभस्तत्त्वं नभस्वन्तं गदाधरः । चक्रपाणिर्हुताशं मे शङ्खभृत्सलिलं सदा ॥ ८॥ धरां मे कमली पातु स्वरूपं रविमण्डली । अभिधां मे हरिः पातु सर्वतो जगदीश्वरः ॥ ९॥ अव्यक्तं मां हरिः पायाद् व्यक्तं मां केशवो विभुः । मायिनं मां रमानाथो माधवः परतन्त्रगम् ॥ १०॥ गोविन्दो मां निरानन्दं दुर्भगं विष्णुरव्ययः । कर्मणोऽभिमुखं देवो मधुद्विट् प्राकृतं प्रभुः ॥ ११॥ भूगतं वामनः पातु अन्नगं श्रीधरोऽवतु । रेतस्थं तु हृषीकेशः पद्मनाभोऽपि गर्भगम् ॥ १२॥ दामोदरश्चोदरस्थजातं सङ्कर्षणोऽवतु । शिशुं श्रीवासुदेवोऽव्यात् प्रद्युम्नोऽपि स्तनन्धयम् ॥ १३॥ मात्राऽनिरुद्धः सार्द्धं मां धात्र्यापि पुरुषोत्तमः । अधोक्षजश्च ताताद्यैः बालैर्नरहरिः स्वयम् ॥ १४॥ अच्युतः क्रीडने पातु कुमारन्तु जनार्दनः । भुञ्जानं वा पिबन्तं वा उपेन्द्रो हसितं रतम् ॥ १५॥ उच्चरन्तं चरन्तञ्च शयानं श्रीपतिर्हरिः । रुदन्तं क्षुधितं पातु श्रीकृष्णः परिपीडितम् ॥ १६॥ ग्रहैर्बालग्रहैर्वापि कृत्रिमैश्च विषैः क्षतैः । जन्तुभिः पापकैर्हिंस्रैः पातु श्रीरघुनन्दनः ॥ १७॥ भूतप्रेतक्षेत्रपालैर्महोत्पातैर्महाभयैः । कार्मणैर्डाकिनीभिश्च पातु मां गरुडध्वजः ॥ १८॥ विषदंशैर्विषश्वासैर्विषसस्यैर्विषाक्षिभिः । विषयोगैः चोपविषैः शेषशायी सदाऽवतु ॥ १९॥ किशोरे कमलाकान्तः पौगण्डे परमेश्वरः । विहरन्तं विहारेषु देवो वै विष्टरश्रवाः ॥ २०॥ संस्कारे यज्ञभुक् पातु श्रौतस्मार्तकृतौ हरिः । वार्त्तायां व्यवहारे च श्रीनाथश्च पराश्रयः ॥ २१॥ सेवायां परवासे च सदा लाभे सदा व्यये । गृहकृत्येषु सर्वेषु पातु मां जगदीश्वरः ॥ २२॥ गृहे पातु सदा रामः बहिः पातु बलाधिकः । सन्धौ सभासु मार्गेषु वैकुण्ठः पातु भूतले ॥ २३॥ क्रीडन्तं भार्ययैकान्ते रुक्मिणीशो सदाऽवतु । लालयन्तमपत्यानि पातु द्वारावतीपतिः ॥ २४॥ पचन्तं गृहकृत्येषु हसन्तं सखिभिः पुनः । व्रजन्तं दुर्गभागेषु तिष्ठन्तं दुर्जनैरपि ॥ २५॥ शार्ङ्गधन्वा हरिः पातु विवदन्तं परैः क्वचित् । विद्यावादे मन्त्रवादे विवादे कलहे परैः ॥ २६॥ क्रियासु पौरुषे युद्धे पातु चाणूरदर्पहा । भुक्ताभुक्तैरमुक्तैश्च मुक्तैः शस्त्रास्त्रसञ्चयैः ॥ २७॥ मणिमन्त्रौषधैर्यन्त्रैस्तन्त्रैरव्याद्दिशां पतिः । जले तु भगवान्मत्स्यः कमठश्च जले स्थले ॥ २८॥ वाराहो धरणीपृष्ठे दुर्गे नरहरिर्हरिः । जलमार्गे दुर्गमार्गे हिममार्गेऽग्निमार्गके ॥ २९॥ नानाविधेषु यानेषु खगयानः सदाऽवतु । आकाशाच्छब्दतश्चापि पातु मां परमेश्वरः ॥ ३०॥ वायुतः स्पर्शतश्चापि पातु मां मुरमर्द्दनः । वैश्वानरात्प्रकाशाच्च पातु मां माधवः स्वयम् ॥ ३१॥ कीलालाद्रसतः पातु नरकोच्छेदको विभुः । धराया गन्धतः पातु परमात्मा सनातनः ॥ ३२॥ इन्द्रियेभ्यः क्रियाभ्यश्च पातु दैत्यनिषूदनः । हृषीकेभ्यो गोचरेभ्यो हृषीकेशः सदाऽवतु ॥ ३३॥ देवताभ्यः प्रकाशेभ्योऽप्यन्तःकरणतः प्रभुः । आत्मनः परतश्चापि देवः पातु स्वभूः सदा ॥ ३४॥ देशतः कालतश्चापि निजेच्छातोऽप्यदृष्टतः । सर्वतोऽपि हरिः पायादुक्तानुक्तस्वरूपतः ॥ ३५॥ श्रीकृष्णायेति मामूर्ध्वं गोविन्दायेति मध्यतः । गोपीजनवल्लभाय नमः स्वाहेत्यधोऽवतु ॥ ३६॥ क्लीं कृष्णाय नमश्चाग्रे ग्लौं कृष्णायेति पृष्ठतः । श्रीकृष्णायेत्यूर्ध्वतो मां मां कृष्णायेत्यधःस्थलात् ॥ ३७॥ श्रीमन्मुकुन्दचरणं शरणं मे सदा भवेत् । तेन सार्वात्मिकी शुद्धी रक्षा भवतु सर्वतः ॥ ३८॥ अहं हरेर्मम हरिः हरये सर्वमर्पितम् । तेन मामनुगृह्णातु यशोदानन्दनन्दनः ॥ ३९॥ हरिदासान् प्रपन्नं मां प्रपन्नं हरिभावुकान् । श्रीमदार्यान् प्रपन्नं मां पातु श्रीगोकुलेश्वरः ॥ ४०॥ श्रीमद्गुणानां श्रवणे श्रद्धया सक्तमानसम् । श्रवणं मेऽवतु श्रोत्रे मनस्तत्त्वञ्च पातु मे ॥ ४१॥ कीर्त्तनं वह्निना वाच्यं स्मरणं हृदयं धिया । सेवनं स्थूलगात्रं मे अर्चनं च तनुं तनूम् ॥ ४२॥ वन्दनं दैवतकुलं दास्ये जीवं पुनातु मे । सख्यं मे भजनानन्दं स्वानन्दञ्चार्पणं ददेत् ॥ ४३॥ प्रेमस्फूर्तिं सदा मां सा करोतु भगवन्मयम् । येन केनाप्युपायेन अनुगृह्णातु मां हरिः ॥ ४४॥ ददातु भजनानन्दं भक्तिं मह्यं ददातु सः । दर्शनं निजलीलायाः कृपया कारयत्वथ ॥ ४५॥ माथुरं मण्डलं पातु पातु दिव्यं व्रजस्थलम् । गोकुलं गिरिराट् पातु वृन्दारण्यञ्च रक्षतु ॥ ४६॥ श्रीराधिका स्वात्मरूपा नित्यसिद्धा व्रजेश्वरी । अनुगृह्णातु गृह्णातु दासीवर्गे क्वचिच्च माम् ॥ ४७॥ श्रीमच्चन्द्रावली दिव्यनिगमागमसंस्तुता । नियोजयतु मां कार्ये दासीवर्गे समाश्रितम् ॥ ४८॥ ललिता ललिता मान्या मुनीन्द्रैर्भक्तवत्सला । पुनातु मां निजप्रेष्या निचये संश्रितं हिता ॥ ४९॥ कालिन्दिनी महाभागा भक्तवृन्दैर्नमस्कृता । सेवाधिकारसम्पत्तिं देहि देहि हरिप्रिये ॥ ५०॥ यज्ञपत्न्यो हरेः पत्न्यो गोकुलस्थाश्च गोपिकाः । सर्वास्ताः सर्वदा मह्यं प्रसीदन्तु हरिप्रियाः ॥ ५१॥ श्रीयशोदा हरेर्माता मिहिरः श्रीहरेः पिता । बलभद्रो हरेर्भ्राता सुभद्रा श्रीहरेः स्वसा ॥ ५२॥ गोपाला गोपिका गावो व्रजबाला व्रजद्रुमाः । ये केचिद्व्रजलीलास्थास्ते सर्वे कृपयन्तु मे ॥ ५३॥ अविद्यां पूतनाहन्ता हन्याद् बालग्रहानपि । बकारिर्मम पाषण्डं नागारिर्मम कल्मषम् ॥ ५४॥ श्रीमद्गोवर्धनधरो देवेभ्योऽपि स रक्षतु । असुरेभ्यश्च कंसारिर्मुरारिः पातु सर्वतः ॥ ५५॥ रागेभ्यो निजभोगेभ्यः पीडाभ्योऽप्यतिपीडनात् । दावानलाद् हरः पातु सुदर्शनविमोचकः ॥ ५६॥ परतश्चापि दक्षिणोत्तरतस्तथा । ऊर्ध्वतश्चाप्यधस्ताच्च पातु ब्रह्मविमोहनः ॥ ५७॥ अङ्गानि सुन्दरः श्यामः प्रत्यङ्गानि मनोहरः । मनसा वचसा चापि पातु चीरहरः प्रभुः ॥ ५८॥ कालतः कृतितो दैवात्पापेभ्योऽप्यतिपीडितम् । भक्तापराधतः क्षीणं पातु मां खरसूदनः ॥ ५९॥ इन्द्रियाणाञ्च वैकल्याद्वपुषो जरयापि च । मृत्युनापि वै ग्रस्तं मां पातु गोकुलपालकः ॥ ६०॥ धनधान्यसमृद्धिर्मे वृद्धिर्वा पुत्रपौत्रिकी । सम्पत्तिः शस्त्रशास्त्रेभ्यो जायतां भवदाश्रयात् ॥ ६१॥ नान्यत् किमपि वाञ्छामि नान्यत्किमपि संश्रये । तथा मां कुरु कल्याण इति ध्याये महाप्रभो ॥ ६२॥ इति श्रीमङ्गलं नाम कवचं । फलश्रुतिः । कमलापतिः कुमारेभ्यो जगौ पूर्वं (?) । (?) विरिञ्चिः कमलोद्भवः ॥ ६३॥ नानेन सदृशं किञ्चिद्वैष्णवानां हिताय वै । सर्वरक्षाकरं विप्रा भक्तेः सम्पत्तिदायकम् ॥ ६४॥ एतद्धारणतो ब्रह्मा सृष्टिं चक्रे हरिप्रियाम् । रजसापि न सम्बद्धो भक्तानां प्रवरो बभौ ॥ ६५॥ गोष्ठे सहस्रमभ्यस्य श्रीगोपालस्य सन्निधौ । हुत्वा मधुभिः सिद्धः पालाशैर्जायते ध्रुवम् ॥ ६६॥ कार्तिके तु पठेन्नित्यं वृन्दारण्ये विशेषतः । यद्वाञ्छति कल्याणं तत्तद्भक्तेः प्रयच्छति ॥ ६७॥ वेदनासु च घोरासु रोगे मृत्युभयेषु च । तुलसीमूलमृल्लिप्तः पठेदस्माद्विमुच्यते ॥ ६८॥ नित्यं पठन् भक्तिमान् स्यात्कामी कामानवाप्नुयात् । किं विप्र बहुनोक्तेन श्रद्धया सर्वमश्नुते ॥ ६९॥ (१-१०, १-६९) इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे सप्तदशोऽध्याये स्तोत्रकवचनिरूपणं सम्पूर्णम् । Proofread by Manish Gavkar
% Text title            : Shantikam Sahitam Shri Hari Mangala Kavacham
% File name             : shAntikaMsahitaMshrIharimangalakavacham.itx
% itxtitle              : shrIharimaNgalakavacham (shAntikaMsahitaM shANDilyasaMhitAntargatam)
% engtitle              : shAntikaMsahitaM shrIharimangalakavacham
% Category              : vishhnu, mangala, kavacha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org