शान्तिकं सहितं श्रीहरिमङ्गलकवचम्
श्रीशाण्डिल्य उवाच ।
शान्तिकं सम्प्रवक्ष्यामि भक्तानां हितकाम्यया ।
येन प्रयुज्यमानेन सर्वा भीतिर्निवर्तते ॥ १॥
समुद्भूतो यदा ब्रह्मा सृष्ट्वेदमयजद्धरिम् ।
स्वाहायै पश्यतस्तस्य हेतोर्यातो यदृच्छया ॥ २॥
तेन यज्ञात्मना यज्ञे पुरे कृत्वा निवर्तितुम् ।
यावद्दिष्टं ततस्तावज्जग्राह शिखया शुचिः ॥ ३॥
तेन सम्पीतमात्रेण देवकार्ये महत्तरे ।
असूत भगवानग्निः ऋषीन् षष्टिसहस्रिणः ॥ ४॥
ब्रह्मणा कृपया तेभ्यः सर्वमङ्गलमङ्गलम् ।
कवचञ्च पाठितं दिव्यं यदुक्तं हरिणात्मने ॥ ५॥
ये गुप्ता मुनिवरा ब्रह्मघ्नै रावणादिभिः ।
अधृष्यास्तप आतस्थुः प्रीतो येभ्यो रघूत्तमः ॥ ६॥
प्रसादशक्तेः सम्पर्कात् पूजनाच्च मधुद्विषः ।
प्रिया बभूवुस्ते लोके तदहं वच्मि भो द्विजाः ॥ ७॥
कवचस्यास्य मुनयो ब्रह्माग्नितनया मताः ।
गायत्रञ्च भवेच्छन्दो देवता श्रीपतिः स्वयम् ॥ ८॥
प्रसादाख्या भवेच्छक्तिः बीजं लीलाप्रियो हरिः ।
निष्प्रत्यूहनिजानन्दावाप्तये विनियोजनम् ॥ ९॥
मूलतोऽस्य षडङ्गानि भाचक्राद्यैश्च रक्षणम् ।
तीर्थगोपादरजसा न्यासः सर्वाङ्गलैः शुचेः ॥ १०॥
अथ श्रीमङ्गलकवचम् ।
ॐ श्रीहरये नमः ।
श्रीकृष्णः सर्वतः पायात् शिरः श्रीपुरुषोत्तमः ।
ललाटमक्षरः पायान्मायेशो नयने उभे ॥ १॥
श्रवणे भगवान् कालः नासिके कृतिमान् विभुः ।
परमात्मा च वाचं मे जीवेशो रसनां मम ॥ २॥
हृदयं वासुदेवो मे अहं सङ्कर्षणः प्रभुः ।
प्रद्युम्नश्च धियं पातु अनिरुद्धोऽपि मानसम् ॥ ३॥
भुजौ मे यादसामीशः पादौ मे कमठेश्वरः ।
मूलाधारन्तु वाराहो नृहरिर्मणिपूरकम् ॥ ४॥
नाभिं मे भार्गवो रामः पार्श्वं मे रघुनन्दनः ।
पृष्ठं बलः ककुद् बुद्धः कल्किः शेषं कलाधरः ॥ ५॥
दृष्टिं त्रिविक्रमः पातु कृत्तिं च कमलापतिः ।
सूत्रं सुदर्शनः पातु अनुसूत्रं महेश्वरः ॥ ६॥
रूपं रमापतिः पातु रसं रक्षोविनाशनः ।
गन्धं गणानामधिपः स्पर्शं मे मधुसूदनः ॥ ७॥
नन्दको मे नभस्तत्त्वं नभस्वन्तं गदाधरः ।
चक्रपाणिर्हुताशं मे शङ्खभृत्सलिलं सदा ॥ ८॥
धरां मे कमली पातु स्वरूपं रविमण्डली ।
अभिधां मे हरिः पातु सर्वतो जगदीश्वरः ॥ ९॥
अव्यक्तं मां हरिः पायाद् व्यक्तं मां केशवो विभुः ।
मायिनं मां रमानाथो माधवः परतन्त्रगम् ॥ १०॥
गोविन्दो मां निरानन्दं दुर्भगं विष्णुरव्ययः ।
कर्मणोऽभिमुखं देवो मधुद्विट् प्राकृतं प्रभुः ॥ ११॥
भूगतं वामनः पातु अन्नगं श्रीधरोऽवतु ।
रेतस्थं तु हृषीकेशः पद्मनाभोऽपि गर्भगम् ॥ १२॥
दामोदरश्चोदरस्थजातं सङ्कर्षणोऽवतु ।
शिशुं श्रीवासुदेवोऽव्यात् प्रद्युम्नोऽपि स्तनन्धयम् ॥ १३॥
मात्राऽनिरुद्धः सार्द्धं मां धात्र्यापि पुरुषोत्तमः ।
अधोक्षजश्च ताताद्यैः बालैर्नरहरिः स्वयम् ॥ १४॥
अच्युतः क्रीडने पातु कुमारन्तु जनार्दनः ।
भुञ्जानं वा पिबन्तं वा उपेन्द्रो हसितं रतम् ॥ १५॥
उच्चरन्तं चरन्तञ्च शयानं श्रीपतिर्हरिः ।
रुदन्तं क्षुधितं पातु श्रीकृष्णः परिपीडितम् ॥ १६॥
ग्रहैर्बालग्रहैर्वापि कृत्रिमैश्च विषैः क्षतैः ।
जन्तुभिः पापकैर्हिंस्रैः पातु श्रीरघुनन्दनः ॥ १७॥
भूतप्रेतक्षेत्रपालैर्महोत्पातैर्महाभयैः ।
कार्मणैर्डाकिनीभिश्च पातु मां गरुडध्वजः ॥ १८॥
विषदंशैर्विषश्वासैर्विषसस्यैर्विषाक्षिभिः ।
विषयोगैः चोपविषैः शेषशायी सदाऽवतु ॥ १९॥
किशोरे कमलाकान्तः पौगण्डे परमेश्वरः ।
विहरन्तं विहारेषु देवो वै विष्टरश्रवाः ॥ २०॥
संस्कारे यज्ञभुक् पातु श्रौतस्मार्तकृतौ हरिः ।
वार्त्तायां व्यवहारे च श्रीनाथश्च पराश्रयः ॥ २१॥
सेवायां परवासे च सदा लाभे सदा व्यये ।
गृहकृत्येषु सर्वेषु पातु मां जगदीश्वरः ॥ २२॥
गृहे पातु सदा रामः बहिः पातु बलाधिकः ।
सन्धौ सभासु मार्गेषु वैकुण्ठः पातु भूतले ॥ २३॥
क्रीडन्तं भार्ययैकान्ते रुक्मिणीशो सदाऽवतु ।
लालयन्तमपत्यानि पातु द्वारावतीपतिः ॥ २४॥
पचन्तं गृहकृत्येषु हसन्तं सखिभिः पुनः ।
व्रजन्तं दुर्गभागेषु तिष्ठन्तं दुर्जनैरपि ॥ २५॥
शार्ङ्गधन्वा हरिः पातु विवदन्तं परैः क्वचित् ।
विद्यावादे मन्त्रवादे विवादे कलहे परैः ॥ २६॥
क्रियासु पौरुषे युद्धे पातु चाणूरदर्पहा ।
भुक्ताभुक्तैरमुक्तैश्च मुक्तैः शस्त्रास्त्रसञ्चयैः ॥ २७॥
मणिमन्त्रौषधैर्यन्त्रैस्तन्त्रैरव्याद्दिशां पतिः ।
जले तु भगवान्मत्स्यः कमठश्च जले स्थले ॥ २८॥
वाराहो धरणीपृष्ठे दुर्गे नरहरिर्हरिः ।
जलमार्गे दुर्गमार्गे हिममार्गेऽग्निमार्गके ॥ २९॥
नानाविधेषु यानेषु खगयानः सदाऽवतु ।
आकाशाच्छब्दतश्चापि पातु मां परमेश्वरः ॥ ३०॥
वायुतः स्पर्शतश्चापि पातु मां मुरमर्द्दनः ।
वैश्वानरात्प्रकाशाच्च पातु मां माधवः स्वयम् ॥ ३१॥
कीलालाद्रसतः पातु नरकोच्छेदको विभुः ।
धराया गन्धतः पातु परमात्मा सनातनः ॥ ३२॥
इन्द्रियेभ्यः क्रियाभ्यश्च पातु दैत्यनिषूदनः ।
हृषीकेभ्यो गोचरेभ्यो हृषीकेशः सदाऽवतु ॥ ३३॥
देवताभ्यः प्रकाशेभ्योऽप्यन्तःकरणतः प्रभुः ।
आत्मनः परतश्चापि देवः पातु स्वभूः सदा ॥ ३४॥
देशतः कालतश्चापि निजेच्छातोऽप्यदृष्टतः ।
सर्वतोऽपि हरिः पायादुक्तानुक्तस्वरूपतः ॥ ३५॥
श्रीकृष्णायेति मामूर्ध्वं गोविन्दायेति मध्यतः ।
गोपीजनवल्लभाय नमः स्वाहेत्यधोऽवतु ॥ ३६॥
क्लीं कृष्णाय नमश्चाग्रे ग्लौं कृष्णायेति पृष्ठतः ।
श्रीकृष्णायेत्यूर्ध्वतो मां मां कृष्णायेत्यधःस्थलात् ॥ ३७॥
श्रीमन्मुकुन्दचरणं शरणं मे सदा भवेत् ।
तेन सार्वात्मिकी शुद्धी रक्षा भवतु सर्वतः ॥ ३८॥
अहं हरेर्मम हरिः हरये सर्वमर्पितम् ।
तेन मामनुगृह्णातु यशोदानन्दनन्दनः ॥ ३९॥
हरिदासान् प्रपन्नं मां प्रपन्नं हरिभावुकान् ।
श्रीमदार्यान् प्रपन्नं मां पातु श्रीगोकुलेश्वरः ॥ ४०॥
श्रीमद्गुणानां श्रवणे श्रद्धया सक्तमानसम् ।
श्रवणं मेऽवतु श्रोत्रे मनस्तत्त्वञ्च पातु मे ॥ ४१॥
कीर्त्तनं वह्निना वाच्यं स्मरणं हृदयं धिया ।
सेवनं स्थूलगात्रं मे अर्चनं च तनुं तनूम् ॥ ४२॥
वन्दनं दैवतकुलं दास्ये जीवं पुनातु मे ।
सख्यं मे भजनानन्दं स्वानन्दञ्चार्पणं ददेत् ॥ ४३॥
प्रेमस्फूर्तिं सदा मां सा करोतु भगवन्मयम् ।
येन केनाप्युपायेन अनुगृह्णातु मां हरिः ॥ ४४॥
ददातु भजनानन्दं भक्तिं मह्यं ददातु सः ।
दर्शनं निजलीलायाः कृपया कारयत्वथ ॥ ४५॥
माथुरं मण्डलं पातु पातु दिव्यं व्रजस्थलम् ।
गोकुलं गिरिराट् पातु वृन्दारण्यञ्च रक्षतु ॥ ४६॥
श्रीराधिका स्वात्मरूपा नित्यसिद्धा व्रजेश्वरी ।
अनुगृह्णातु गृह्णातु दासीवर्गे क्वचिच्च माम् ॥ ४७॥
श्रीमच्चन्द्रावली दिव्यनिगमागमसंस्तुता ।
नियोजयतु मां कार्ये दासीवर्गे समाश्रितम् ॥ ४८॥
ललिता ललिता मान्या मुनीन्द्रैर्भक्तवत्सला ।
पुनातु मां निजप्रेष्या निचये संश्रितं हिता ॥ ४९॥
कालिन्दिनी महाभागा भक्तवृन्दैर्नमस्कृता ।
सेवाधिकारसम्पत्तिं देहि देहि हरिप्रिये ॥ ५०॥
यज्ञपत्न्यो हरेः पत्न्यो गोकुलस्थाश्च गोपिकाः ।
सर्वास्ताः सर्वदा मह्यं प्रसीदन्तु हरिप्रियाः ॥ ५१॥
श्रीयशोदा हरेर्माता मिहिरः श्रीहरेः पिता ।
बलभद्रो हरेर्भ्राता सुभद्रा श्रीहरेः स्वसा ॥ ५२॥
गोपाला गोपिका गावो व्रजबाला व्रजद्रुमाः ।
ये केचिद्व्रजलीलास्थास्ते सर्वे कृपयन्तु मे ॥ ५३॥
अविद्यां पूतनाहन्ता हन्याद् बालग्रहानपि ।
बकारिर्मम पाषण्डं नागारिर्मम कल्मषम् ॥ ५४॥
श्रीमद्गोवर्धनधरो देवेभ्योऽपि स रक्षतु ।
असुरेभ्यश्च कंसारिर्मुरारिः पातु सर्वतः ॥ ५५॥
रागेभ्यो निजभोगेभ्यः पीडाभ्योऽप्यतिपीडनात् ।
दावानलाद् हरः पातु सुदर्शनविमोचकः ॥ ५६॥
परतश्चापि दक्षिणोत्तरतस्तथा ।
ऊर्ध्वतश्चाप्यधस्ताच्च पातु ब्रह्मविमोहनः ॥ ५७॥
अङ्गानि सुन्दरः श्यामः प्रत्यङ्गानि मनोहरः ।
मनसा वचसा चापि पातु चीरहरः प्रभुः ॥ ५८॥
कालतः कृतितो दैवात्पापेभ्योऽप्यतिपीडितम् ।
भक्तापराधतः क्षीणं पातु मां खरसूदनः ॥ ५९॥
इन्द्रियाणाञ्च वैकल्याद्वपुषो जरयापि च ।
मृत्युनापि वै ग्रस्तं मां पातु गोकुलपालकः ॥ ६०॥
धनधान्यसमृद्धिर्मे वृद्धिर्वा पुत्रपौत्रिकी ।
सम्पत्तिः शस्त्रशास्त्रेभ्यो जायतां भवदाश्रयात् ॥ ६१॥
नान्यत् किमपि वाञ्छामि नान्यत्किमपि संश्रये ।
तथा मां कुरु कल्याण इति ध्याये महाप्रभो ॥ ६२॥
इति श्रीमङ्गलं नाम कवचं ।
फलश्रुतिः ।
कमलापतिः कुमारेभ्यो जगौ पूर्वं (?) ।
(?) विरिञ्चिः कमलोद्भवः ॥ ६३॥
नानेन सदृशं किञ्चिद्वैष्णवानां हिताय वै ।
सर्वरक्षाकरं विप्रा भक्तेः सम्पत्तिदायकम् ॥ ६४॥
एतद्धारणतो ब्रह्मा सृष्टिं चक्रे हरिप्रियाम् ।
रजसापि न सम्बद्धो भक्तानां प्रवरो बभौ ॥ ६५॥
गोष्ठे सहस्रमभ्यस्य श्रीगोपालस्य सन्निधौ ।
हुत्वा मधुभिः सिद्धः पालाशैर्जायते ध्रुवम् ॥ ६६॥
कार्तिके तु पठेन्नित्यं वृन्दारण्ये विशेषतः ।
यद्वाञ्छति कल्याणं तत्तद्भक्तेः प्रयच्छति ॥ ६७॥
वेदनासु च घोरासु रोगे मृत्युभयेषु च ।
तुलसीमूलमृल्लिप्तः पठेदस्माद्विमुच्यते ॥ ६८॥
नित्यं पठन् भक्तिमान् स्यात्कामी कामानवाप्नुयात् ।
किं विप्र बहुनोक्तेन श्रद्धया सर्वमश्नुते ॥ ६९॥
(१-१०, १-६९)
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे सप्तदशोऽध्याये
स्तोत्रकवचनिरूपणं सम्पूर्णम् ।
Proofread by Manish Gavkar