शार्ङ्गपाणिस्तोत्रम्

शार्ङ्गपाणिस्तोत्रम्

सकलभुवनसारं गात्रकान्त्यामसारं मणिवरमभिभूतं सञ्चरन्तं प्रभूतम् । स्वगपरिवृढपत्रं चन्द्रकान्तातपत्रं स्मरनतमुचुकुन्दं शार्ङ्गपाणिं मुकुन्दम् ॥ १॥ स्वर्णाब्जिनीदर्शनमात्रपूताः श्रीकुम्भघोणे कृतनित्यवासाः । श्रीशार्ङ्गपाणौ दृढभक्तियुक्ताः सन्तः कियन्तो निवसन्ति लोके ॥ २॥ निर्निद्रनीरेरुहपत्रनेत्रं शरान्निशानाथमुखारविन्दम् । शनैः शनैस्त्यज्य (?)भवाभिलाषं श्रीशार्ङ्गिणं चिन्तय मत्कचेतः ॥ ३॥ कदा नीरदापायराकेन्दुपद्म- प्रतिच्छन्दमास्यं तवालोकयिष्यै । कदा क्रूरभाषं मुखं दुष्प्रभूणां धनाशावबद्धो न पश्यामि शार्ङ्गिन् ॥ ४॥ नमः शार्ङ्गहस्ताय हस्तीन्द्रपात्रे नमश्चन्द्रवक्त्राय पीताम्बराय । नमः सिंहराजाय सिंहारिभेत्त्रे नमः शुद्धसत्त्वात्मने मुक्तिदायि ॥ ५॥ नमो नीलजीमूतनीकाश तुभ्यं नमो विक्रमाक्रान्तलोकत्रयाय । अपारामितक्लेशसंसारसिन्धो- र्निजं सेवकं शार्ङ्गभृत्तारयाशु ॥ ६॥ नमामि शार्ङ्गिणं हरिं स्मरामि चक्रिणं परं वदामि नाम केशिहन्तुरिन्दिरापतेरहम् । न दैवतान्तरं स्मेर नमामि नान्यमेकदा- प्यहं तवैव किङ्करोस्मि नान्यनाम वा वदे ॥ ७॥ गजानन, जनार्दन, प्रणतपावन श्रीवर- घुसद्म, हृदयाम्बुजप्रकटनार्कदैत्यान्तक । विरिञ्चिवचनावलिविनुतपाद (?)विष्णो हरे रथाङ्गदरशार्ङ्गभृद्भयहरेति जिह्वे वद ॥ ८॥ अतिनिकटे वसतो मे परिचरणार्थं तव प्रभो शार्ङ्गिन् । चामरमयूरपत्रव्यजनादिषु देयमेकं मे ॥ ९॥ कौमुदीविशदस्मितं मधुभाषणं सुरपालनं चन्द्रपङ्कजबन्धुलोचनमिन्दिरारमणं हरिम् । चण्डबाहुपराक्रमासुरसङ्घमर्दनमद्भुतं(?) शार्ङ्गचापमुपास्महे शुभकुम्भघोणकृतालयम् ॥ १०॥ अभूकलत्रैरपतङ्गवाहैरमेघनीलैररथाङ्गहस्तैः । अपङ्कजाक्षारैपयोधिवासैरशार्ङ्गचापैरलमन्यदेवैः ॥ ११॥ मरुच्चन्द्रसूर्यौ वियञ्चाग्निरीशो जलं भूरिमामूर्तयो यस्य चाष्टौ । तृणं वापि न स्पन्दते यस्य शक्तिं विना वन्द्य एकः स नश्शार्ङ्गपाणिः ॥ १२॥ भवति मतिरुदारा शार्ङ्गपाणौ कदा नः परिहृतकलिदोषे शेषशय्याशयाने । विरमति च कदा वा दुःखदारिद्र्यमूर्छा जटिलभवनितान्तासक्तिदुर्व्यापृतेश्च ॥ १३॥ नवजलधरनीलं निर्मितानङ्गखेलं रहसि जलधिकन्याबाहुसंशोभिकण्ठम् । किमपि मधुरवाचां च वृन्दमुच्चारयन्तं मनसि सततमीडे शार्ङ्गपाणिं मुकुन्दम् ॥ १४॥ वज्राङ्कुशादिशुभरेखमुमाधवेन धात्रार्पितं शिरसि भक्तिभरेण दिव्यम् । नानाविधैः सुरतरुप्रभवैः प्रसूनैः संशोभिशार्ङ्गधरपादसरोजमीडे ॥ १५॥ लसन्मन्दहासं श्वसद्भोगिराजे शयानं दयानन्दपूर्णान्तरङ्गम् । सहस्रारशङ्खासिकौमोदकीभिः सदा सेवितं शार्ङ्गपाणिं नमामि ॥ १६॥ वियद्रूपिणं विश्रुतामेयकीर्तिं विरूपाक्षविध्यन्तरमभोजसूर्यम् । वियद्भङ्गया क्षालिताङ्घ्रिं प्रसन्नं श्रये शार्ङ्गपाणिं शिवं सज्जनानाम् ॥ १७॥ नवमणिमयमुद्रामण्डितस्वङ्गुलीयं करकमलमुदारं मस्तके मे निधेहि । दशशतरविराकाचन्द्रसाहस्रचञ्च- त्तरविपुलविमानारूढ हे शार्ङ्गधन्वन् ॥ १८॥ लसन्नासिका ते सुचाम्पेयकोश- प्रभा शारदाम्भोदपत्रायताक्ष । भ्रुवौ कामबाणासनाहङ्कृतिघ्ने वपुस्ते जगन्मोहनं शार्ङ्गपाणे ॥ १९॥ त्वयि सति करुणार्द्रे शार्ङ्गधन्वाभिधाने करिवरद जगत्यां कामधेनौ त्वदन्यम् । किमिति नरमुपासे शोकगर्वाभिभूतं कलय हृदयमेतत्त्वत्पदाम्भोजलग्नम् ॥ २०॥ कदा शार्ङ्गचापप्रमुक्तैः पृषत्कैः विदार्यारिसङ्गान्मदीयान्दयाब्धे । नृसिंहस्य वेषं वहन्दैत्यपुत्रं यथा पालयस्त्वं तथा पासि शार्ङ्गिन् ॥ २१॥ धवलनलिनदाम्ना शोभमानं विरिञ्चि- प्रमुखविभुदवृन्दैर्वर्णितानन्तलीलम् । निखिलनिगमगीतं निर्निमेषाधिराजं निरतिशयसुखाब्धिं शार्ङ्गपाणिं भजामः ॥ २२॥ निजवषुषि दधानः सर्वलोकानिमांस्त्वं किमु न वहसि विष्णो मां तृणात्फल्गुभूतम् । ननु विदितममोघं नाम तेनन्त विश्वं- भर इति भरणं मे किं तवातीव भारः ॥ २३॥ चन्द्रमौलिसरोजसम्भववन्दितं विबुधेश्वरं क्षीरवारिधिमध्यमन्दिरसौधभागविलासिनम् । भोगिराजशयं वरं विमलाशयावनदीक्षितं शार्ङ्गपाणिमहं भजे परतत्त्वरूपमधान्तकम् ॥ २४॥ कुण्डलद्वयमण्डितांसयुगं युगाभचतुर्भुजी प्रस्फुरद्दरचक्रशार्ङ्गसरोजमम्बुजलोचनम् । चामरैरुपवीजितं चपलायुतप्रभवाससं शार्ङ्गिणं भवहारिणं फणिशायिनं प्रणमामि तम् ॥ २५॥ नखाग्रधाता भिदलत्कठोर- हिरण्यमर्भाण्डकभित्तिजन्मा । गङ्गाप्रवाहः किल यस्य साक्षा- च्छिवेन शीर्ष्णा विधृतः स्मरे तम् ॥ २६॥ भूमौ देवगणा वसन्ति शतशो भक्तावलीवत्सला ब्रह्माद्या अतिशीघ्रमेव फलदाः पादानतः खण्डलाः । हित्वा तान् कृतपूर्वदेव कदने निद्रालसे निर्ममे देवेशर्ङ्गधरे कलिप्रियसखे चेतः स्थिरं मेद्भुतम् ॥ २७॥ विश्वम्भरे जाग्रति चक्रपाणौ, विहाय तत्सेवनमद्य मोहात् । खिन्नं सदा स्वोदरपूरणेऽपि पुमाम्समन्ये खलु हा भजामः ॥ २८॥ चातक इव जीमूतं चकोरपक्षीमिव चन्द्रमसम् । कादम्बिनीमिव शिखी सदैव शार्ङ्गिन् स्मरामि ॥ २९॥ (तव रूपं) जलधितनया वामोत्सङ्गे शयानमनामयं शमितदनुजं शान्ताकारं शरीरभृतां प्रभुम् । शरणमधुना यामि श्रेयस्करं नमतां सदा शशिरविसदृशं श्रीमच्छार्ङ्गायुधं विबुधेश्वरम् ॥ ३०॥ चतुर्भुजं चन्दनचर्चिताङ्गं चतुर्मुखाद्यैरभिवन्द्यपादम् । चामीकराद्रीन्द्रधनुप्रियं तं चक्रायुधं शार्ङ्गधरं प्रपद्ये ॥ ३१॥ प्रफुल्लमल्लीवकुलाम्बुजात- चाम्पेयमालोत्करशोभिकण्ठम् । कण्ठीरवास्यं दलितारिवर्गं प्रभुं भजामो हृदि शार्ङ्गपाणिम् ॥ ३२॥ शरच्चन्द्रिकामज्जुलं मन्दहासं कदा शार्ङ्गपाणेर्वयं लोकयामः । रमाराधितं पादपङ्केरुहं तत् कदा संस्पृशामो मुदा मस्तकेन ॥ ३३॥ दरिद्रापदं दारयाद्यैव देव स्वकीयान् सदा रक्ष ऋक्षेशवक्त्र । स्वपूरैर्गृहं पूरयाद्यास्मदीयं स्वतन्त्रोऽसि यद्रोचते तत्कुरुष्व ॥ ३४॥ त्वत्कीर्तनं तव कथाश्रवणं जनानां संसारहारि नमतामपवर्गकारि । ब्रह्मादिवद्यपदपङ्कज दिव्यमूर्ते मां पाहि शार्ङ्गधर सर्वसुराधिराज ॥ ३५॥ कस्तूरिकातिलकशोभिमुखेन्दुर्बिम्ब- मोषत्स्मिताञ्चितममोघकृपार्द्रवीक्षम् । द्रक्ष्ये कदा मधुरभाषि पवित्रकीर्ते श्रीशार्ङ्गचापधर वेदशिरः सुवेद्य ॥ ३६॥ राकाशरच्छशधरातुलगर्वपूर- सङ्कर्षणं करुणया कलिताधिवासम् । सन्दर्शयास्यमधुना नवपद्मकान्ति- निक्षेपहारि मम सुन्दर शार्ङ्गपाणे ॥ ३७॥ वन्दामहे तव पदं सुरवृन्दमौलि- माणिक्यदीप्तिकलितं हृदि शार्ङ्गपाणे । मोहान्धकारतरणे करुणाम्बुराशे हे वारिजाक्ष शशिबिम्बसमास्यबिम्ब ॥ ३८॥ शम्भुप्रजेश्वरशतक्रतुभिः सदैव संस्तूयमानकृतमन्दिर कुम्भघोणे ॥ सर्पेन्द्रतार्क्ष्यशयनार्वकिरीटभासा धिक्कारितार्क शरणं भव शार्ङ्गपाणे ॥ ३९॥ त्वं मातासि पिता त्वमेव च सुहृद्बन्धुस्त्वदन्यं हरे मन्ये नैव सुरं सुरेन्द्रमपि वा ब्रह्माणमीशं गृहम् । वैकुण्ठे तव सन्निधौ निवसतिस्त्वन्मूर्यवेक्षा सदा भूयान्मे न परं वृणे वरमहं श्रीशार्ङ्गपाणिप्रभो ॥ ४०॥ निगमशिरसा वेद्यं हृद्यं जितारुणपल्लवं जनिमृतिजरार्तिघ्नं निघ्नं सदा स्मरतां हृदि । चरणयुगलं त्वत्कं स्वामिन् प्रदर्शय नः सदा निरवधिकृपाकूपारोसि प्रभो वरशार्ङ्गभृत् ॥ ४१॥ त्वत्सेवादर्पभृतं ब्रह्मेशादीन् सुरानगणयन्तम् । अहमात्मानं विष्णो कदा विलोके कृतार्थमिव शार्ङ्गिन् ॥ ४२॥ कमलनयनं कालोदञ्चत्सितेतरपङ्कज- द्युतिशरदुमाकान्तोत्तंसप्रभाधवलस्मितम् । त्रिजगदुदरव्याप्तं तेजो विरिञ्चिभवादिभि- र्हृदि मम सदा भूयाच्छार्ङ्गं दरं च दधन्मुदे ॥ ४३॥ प्रसीद मे दयानिधे समुद्धरातिम्वारिधेः प्रभो पयोधिजासखे दरिद्रतां निरस्य मे । तवैकदेश विष्ठितं जगच्चराचरात्मकं तदेकदेशरूपिणो न मेवनं तवाधिकम् ॥ ४४॥ शातकुम्मलसदाभरणाढ्यां श्यामलां सुरुचिरामसमानाम् । शार्ङ्गचापधरतावकमूर्तिं शान्तचित्त इह नित्यमुपासे ॥ ४५॥ निर्मलं नियमितासुरजङ्घं निर्जरौधवरसम्मदहेतुम् । नन्दकाख्यकरवालमुदारं नौमि शार्ङ्गधनुषो मयनुत्यै ॥ ४६॥ भर्जितासुरकलेवरवृन्दां शार्ङ्गिणः करतले विलसन्तीम् । कालिकाग्निचयभीषणकान्तिं चिन्तये वरगदां रिपुहत्यै ॥ ४७॥ नादमूर्च्छित सरोजमवाण्डं निर्मलेन्दुसद्दृशं रविर्भीमम् । कान्दिशीकदितिसम्भवसैन्यं शङ्खराजमरिभृत्तव नौमि ॥ ४८॥ काशिकानगरतत्पतिकृत्या- दाहकारणममोघममेयम् । सर्वदेवमयसर्वशरीरं चक्रमीश तव नौमि करालम् ॥ ४९॥ सर्वदेवादिदेवेश शार्ङ्गपाणे कृपाम्बुधे । स्तुतिव्याजान्ममागस्त्वं सहस्व सकलं प्रभो ॥ ५०॥ इति शार्ङ्गपाणिस्तोत्रं सम्पूर्णम् । Encoded by Saritha Sangameswaran Proofread by Saritha Sangameswaran, NA
% Text title            : Sharngapani Stotram
% File name             : shArngapANistotram.itx
% itxtitle              : shArNgapANistotram
% engtitle              : shArngapANistotram
% Category              : vishhnu, viShNu, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Saritha Sangameswaran
% Proofread by          : Saritha Sangameswaran, NA
% Indexextra            : (Scan)
% Latest update         : January 19, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org