शार्ङ्गपाणिस्तोत्रम्
सकलभुवनसारं गात्रकान्त्यामसारं
मणिवरमभिभूतं सञ्चरन्तं प्रभूतम् ।
स्वगपरिवृढपत्रं चन्द्रकान्तातपत्रं
स्मरनतमुचुकुन्दं शार्ङ्गपाणिं मुकुन्दम् ॥ १॥
स्वर्णाब्जिनीदर्शनमात्रपूताः
श्रीकुम्भघोणे कृतनित्यवासाः ।
श्रीशार्ङ्गपाणौ दृढभक्तियुक्ताः
सन्तः कियन्तो निवसन्ति लोके ॥ २॥
निर्निद्रनीरेरुहपत्रनेत्रं
शरान्निशानाथमुखारविन्दम् ।
शनैः शनैस्त्यज्य (?)भवाभिलाषं
श्रीशार्ङ्गिणं चिन्तय मत्कचेतः ॥ ३॥
कदा नीरदापायराकेन्दुपद्म-
प्रतिच्छन्दमास्यं तवालोकयिष्यै ।
कदा क्रूरभाषं मुखं दुष्प्रभूणां
धनाशावबद्धो न पश्यामि शार्ङ्गिन् ॥ ४॥
नमः शार्ङ्गहस्ताय हस्तीन्द्रपात्रे
नमश्चन्द्रवक्त्राय पीताम्बराय ।
नमः सिंहराजाय सिंहारिभेत्त्रे
नमः शुद्धसत्त्वात्मने मुक्तिदायि ॥ ५॥
नमो नीलजीमूतनीकाश तुभ्यं
नमो विक्रमाक्रान्तलोकत्रयाय ।
अपारामितक्लेशसंसारसिन्धो-
र्निजं सेवकं शार्ङ्गभृत्तारयाशु ॥ ६॥
नमामि शार्ङ्गिणं हरिं स्मरामि चक्रिणं परं
वदामि नाम केशिहन्तुरिन्दिरापतेरहम् ।
न दैवतान्तरं स्मेर नमामि नान्यमेकदा-
प्यहं तवैव किङ्करोस्मि नान्यनाम वा वदे ॥ ७॥
गजानन, जनार्दन, प्रणतपावन श्रीवर-
घुसद्म, हृदयाम्बुजप्रकटनार्कदैत्यान्तक ।
विरिञ्चिवचनावलिविनुतपाद (?)विष्णो हरे
रथाङ्गदरशार्ङ्गभृद्भयहरेति जिह्वे वद ॥ ८॥
अतिनिकटे वसतो मे परिचरणार्थं तव प्रभो शार्ङ्गिन् ।
चामरमयूरपत्रव्यजनादिषु देयमेकं मे ॥ ९॥
कौमुदीविशदस्मितं मधुभाषणं सुरपालनं
चन्द्रपङ्कजबन्धुलोचनमिन्दिरारमणं हरिम् ।
चण्डबाहुपराक्रमासुरसङ्घमर्दनमद्भुतं(?)
शार्ङ्गचापमुपास्महे शुभकुम्भघोणकृतालयम् ॥ १०॥
अभूकलत्रैरपतङ्गवाहैरमेघनीलैररथाङ्गहस्तैः ।
अपङ्कजाक्षारैपयोधिवासैरशार्ङ्गचापैरलमन्यदेवैः ॥ ११॥
मरुच्चन्द्रसूर्यौ वियञ्चाग्निरीशो
जलं भूरिमामूर्तयो यस्य चाष्टौ ।
तृणं वापि न स्पन्दते यस्य शक्तिं
विना वन्द्य एकः स नश्शार्ङ्गपाणिः ॥ १२॥
भवति मतिरुदारा शार्ङ्गपाणौ कदा नः
परिहृतकलिदोषे शेषशय्याशयाने ।
विरमति च कदा वा दुःखदारिद्र्यमूर्छा
जटिलभवनितान्तासक्तिदुर्व्यापृतेश्च ॥ १३॥
नवजलधरनीलं निर्मितानङ्गखेलं
रहसि जलधिकन्याबाहुसंशोभिकण्ठम् ।
किमपि मधुरवाचां च वृन्दमुच्चारयन्तं
मनसि सततमीडे शार्ङ्गपाणिं मुकुन्दम् ॥ १४॥
वज्राङ्कुशादिशुभरेखमुमाधवेन
धात्रार्पितं शिरसि भक्तिभरेण दिव्यम् ।
नानाविधैः सुरतरुप्रभवैः प्रसूनैः
संशोभिशार्ङ्गधरपादसरोजमीडे ॥ १५॥
लसन्मन्दहासं श्वसद्भोगिराजे
शयानं दयानन्दपूर्णान्तरङ्गम् ।
सहस्रारशङ्खासिकौमोदकीभिः
सदा सेवितं शार्ङ्गपाणिं नमामि ॥ १६॥
वियद्रूपिणं विश्रुतामेयकीर्तिं
विरूपाक्षविध्यन्तरमभोजसूर्यम् ।
वियद्भङ्गया क्षालिताङ्घ्रिं प्रसन्नं
श्रये शार्ङ्गपाणिं शिवं सज्जनानाम् ॥ १७॥
नवमणिमयमुद्रामण्डितस्वङ्गुलीयं
करकमलमुदारं मस्तके मे निधेहि ।
दशशतरविराकाचन्द्रसाहस्रचञ्च-
त्तरविपुलविमानारूढ हे शार्ङ्गधन्वन् ॥ १८॥
लसन्नासिका ते सुचाम्पेयकोश-
प्रभा शारदाम्भोदपत्रायताक्ष ।
भ्रुवौ कामबाणासनाहङ्कृतिघ्ने
वपुस्ते जगन्मोहनं शार्ङ्गपाणे ॥ १९॥
त्वयि सति करुणार्द्रे शार्ङ्गधन्वाभिधाने
करिवरद जगत्यां कामधेनौ त्वदन्यम् ।
किमिति नरमुपासे शोकगर्वाभिभूतं
कलय हृदयमेतत्त्वत्पदाम्भोजलग्नम् ॥ २०॥
कदा शार्ङ्गचापप्रमुक्तैः पृषत्कैः
विदार्यारिसङ्गान्मदीयान्दयाब्धे ।
नृसिंहस्य वेषं वहन्दैत्यपुत्रं
यथा पालयस्त्वं तथा पासि शार्ङ्गिन् ॥ २१॥
धवलनलिनदाम्ना शोभमानं विरिञ्चि-
प्रमुखविभुदवृन्दैर्वर्णितानन्तलीलम् ।
निखिलनिगमगीतं निर्निमेषाधिराजं
निरतिशयसुखाब्धिं शार्ङ्गपाणिं भजामः ॥ २२॥
निजवषुषि दधानः सर्वलोकानिमांस्त्वं
किमु न वहसि विष्णो मां तृणात्फल्गुभूतम् ।
ननु विदितममोघं नाम तेनन्त विश्वं-
भर इति भरणं मे किं तवातीव भारः ॥ २३॥
चन्द्रमौलिसरोजसम्भववन्दितं विबुधेश्वरं
क्षीरवारिधिमध्यमन्दिरसौधभागविलासिनम् ।
भोगिराजशयं वरं विमलाशयावनदीक्षितं
शार्ङ्गपाणिमहं भजे परतत्त्वरूपमधान्तकम् ॥ २४॥
कुण्डलद्वयमण्डितांसयुगं युगाभचतुर्भुजी
प्रस्फुरद्दरचक्रशार्ङ्गसरोजमम्बुजलोचनम् ।
चामरैरुपवीजितं चपलायुतप्रभवाससं
शार्ङ्गिणं भवहारिणं फणिशायिनं प्रणमामि तम् ॥ २५॥
नखाग्रधाता भिदलत्कठोर-
हिरण्यमर्भाण्डकभित्तिजन्मा ।
गङ्गाप्रवाहः किल यस्य साक्षा-
च्छिवेन शीर्ष्णा विधृतः स्मरे तम् ॥ २६॥
भूमौ देवगणा वसन्ति शतशो भक्तावलीवत्सला
ब्रह्माद्या अतिशीघ्रमेव फलदाः पादानतः खण्डलाः ।
हित्वा तान् कृतपूर्वदेव कदने निद्रालसे निर्ममे
देवेशर्ङ्गधरे कलिप्रियसखे चेतः स्थिरं मेद्भुतम् ॥ २७॥
विश्वम्भरे जाग्रति चक्रपाणौ,
विहाय तत्सेवनमद्य मोहात् ।
खिन्नं सदा स्वोदरपूरणेऽपि
पुमाम्समन्ये खलु हा भजामः ॥ २८॥
चातक इव जीमूतं चकोरपक्षीमिव चन्द्रमसम् ।
कादम्बिनीमिव शिखी सदैव शार्ङ्गिन् स्मरामि ॥ २९॥ (तव रूपं)
जलधितनया वामोत्सङ्गे शयानमनामयं
शमितदनुजं शान्ताकारं शरीरभृतां प्रभुम् ।
शरणमधुना यामि श्रेयस्करं नमतां सदा
शशिरविसदृशं श्रीमच्छार्ङ्गायुधं विबुधेश्वरम् ॥ ३०॥
चतुर्भुजं चन्दनचर्चिताङ्गं
चतुर्मुखाद्यैरभिवन्द्यपादम् ।
चामीकराद्रीन्द्रधनुप्रियं तं
चक्रायुधं शार्ङ्गधरं प्रपद्ये ॥ ३१॥
प्रफुल्लमल्लीवकुलाम्बुजात-
चाम्पेयमालोत्करशोभिकण्ठम् ।
कण्ठीरवास्यं दलितारिवर्गं
प्रभुं भजामो हृदि शार्ङ्गपाणिम् ॥ ३२॥
शरच्चन्द्रिकामज्जुलं मन्दहासं
कदा शार्ङ्गपाणेर्वयं लोकयामः ।
रमाराधितं पादपङ्केरुहं तत्
कदा संस्पृशामो मुदा मस्तकेन ॥ ३३॥
दरिद्रापदं दारयाद्यैव देव
स्वकीयान् सदा रक्ष ऋक्षेशवक्त्र ।
स्वपूरैर्गृहं पूरयाद्यास्मदीयं
स्वतन्त्रोऽसि यद्रोचते तत्कुरुष्व ॥ ३४॥
त्वत्कीर्तनं तव कथाश्रवणं जनानां
संसारहारि नमतामपवर्गकारि ।
ब्रह्मादिवद्यपदपङ्कज दिव्यमूर्ते
मां पाहि शार्ङ्गधर सर्वसुराधिराज ॥ ३५॥
कस्तूरिकातिलकशोभिमुखेन्दुर्बिम्ब-
मोषत्स्मिताञ्चितममोघकृपार्द्रवीक्षम् ।
द्रक्ष्ये कदा मधुरभाषि पवित्रकीर्ते
श्रीशार्ङ्गचापधर वेदशिरः सुवेद्य ॥ ३६॥
राकाशरच्छशधरातुलगर्वपूर-
सङ्कर्षणं करुणया कलिताधिवासम् ।
सन्दर्शयास्यमधुना नवपद्मकान्ति-
निक्षेपहारि मम सुन्दर शार्ङ्गपाणे ॥ ३७॥
वन्दामहे तव पदं सुरवृन्दमौलि-
माणिक्यदीप्तिकलितं हृदि शार्ङ्गपाणे ।
मोहान्धकारतरणे करुणाम्बुराशे
हे वारिजाक्ष शशिबिम्बसमास्यबिम्ब ॥ ३८॥
शम्भुप्रजेश्वरशतक्रतुभिः सदैव
संस्तूयमानकृतमन्दिर कुम्भघोणे ॥
सर्पेन्द्रतार्क्ष्यशयनार्वकिरीटभासा
धिक्कारितार्क शरणं भव शार्ङ्गपाणे ॥ ३९॥
त्वं मातासि पिता त्वमेव च सुहृद्बन्धुस्त्वदन्यं हरे
मन्ये नैव सुरं सुरेन्द्रमपि वा ब्रह्माणमीशं गृहम् ।
वैकुण्ठे तव सन्निधौ निवसतिस्त्वन्मूर्यवेक्षा सदा
भूयान्मे न परं वृणे वरमहं श्रीशार्ङ्गपाणिप्रभो ॥ ४०॥
निगमशिरसा वेद्यं हृद्यं जितारुणपल्लवं
जनिमृतिजरार्तिघ्नं निघ्नं सदा स्मरतां हृदि ।
चरणयुगलं त्वत्कं स्वामिन् प्रदर्शय नः सदा
निरवधिकृपाकूपारोसि प्रभो वरशार्ङ्गभृत् ॥ ४१॥
त्वत्सेवादर्पभृतं ब्रह्मेशादीन् सुरानगणयन्तम् ।
अहमात्मानं विष्णो कदा विलोके कृतार्थमिव शार्ङ्गिन् ॥ ४२॥
कमलनयनं कालोदञ्चत्सितेतरपङ्कज-
द्युतिशरदुमाकान्तोत्तंसप्रभाधवलस्मितम् ।
त्रिजगदुदरव्याप्तं तेजो विरिञ्चिभवादिभि-
र्हृदि मम सदा भूयाच्छार्ङ्गं दरं च दधन्मुदे ॥ ४३॥
प्रसीद मे दयानिधे समुद्धरातिम्वारिधेः
प्रभो पयोधिजासखे दरिद्रतां निरस्य मे ।
तवैकदेश विष्ठितं जगच्चराचरात्मकं
तदेकदेशरूपिणो न मेवनं तवाधिकम् ॥ ४४॥
शातकुम्मलसदाभरणाढ्यां
श्यामलां सुरुचिरामसमानाम् ।
शार्ङ्गचापधरतावकमूर्तिं
शान्तचित्त इह नित्यमुपासे ॥ ४५॥
निर्मलं नियमितासुरजङ्घं
निर्जरौधवरसम्मदहेतुम् ।
नन्दकाख्यकरवालमुदारं
नौमि शार्ङ्गधनुषो मयनुत्यै ॥ ४६॥
भर्जितासुरकलेवरवृन्दां
शार्ङ्गिणः करतले विलसन्तीम् ।
कालिकाग्निचयभीषणकान्तिं
चिन्तये वरगदां रिपुहत्यै ॥ ४७॥
नादमूर्च्छित सरोजमवाण्डं
निर्मलेन्दुसद्दृशं रविर्भीमम् ।
कान्दिशीकदितिसम्भवसैन्यं
शङ्खराजमरिभृत्तव नौमि ॥ ४८॥
काशिकानगरतत्पतिकृत्या-
दाहकारणममोघममेयम् ।
सर्वदेवमयसर्वशरीरं
चक्रमीश तव नौमि करालम् ॥ ४९॥
सर्वदेवादिदेवेश शार्ङ्गपाणे कृपाम्बुधे ।
स्तुतिव्याजान्ममागस्त्वं सहस्व सकलं प्रभो ॥ ५०॥
इति शार्ङ्गपाणिस्तोत्रं सम्पूर्णम् ।
Encoded by Saritha Sangameswaran
Proofread by Saritha Sangameswaran, NA