शम्भुकृतं हरिस्तोत्रम्

शम्भुकृतं हरिस्तोत्रम्

ॐ नमोऽक्षरवासाय परधाम्नि विराजते । परेशाय किशोराय मुक्तेशाय नमोऽस्तु ते ॥ २॥ शुद्धाय मूलरूपायाऽनन्ताय ते नमो नमः । सर्वरूपस्वरूपाय सहस्रबाहवे नमः ॥ ३॥ सहस्ररश्मियुक्ताय वेधसे शुद्धकर्मणे । विशालदेहवासाय विश्वार्त्तिहारिणे नमः ॥ ४॥ सहस्रार्कस्वरूपाय शम्भवे तै नमो नमः । समस्तविद्यावासाय चक्रिणे ते नमो नमः ॥ ५॥ सदा समस्तगीर्वाणैर्नुते कृष्णाय ते नमः । अनादिने भूपतयेऽच्युताय शेषवासिने ॥ ६॥ मरुतां पतये सर्वपतये ते सदा नमः । जलेशाय क्षितीशाय विश्वनेत्राय ते नमः ॥ ७॥ शशाङ्काय च सूर्याय विश्वेश्वराय ते नमः । अप्रतर्क्यस्वरूपायाऽमृतरूपाय ते नमः ॥ ८॥ दिगन्तरप्रकाशाय हृदम्बराय ते नमः । नारायणाऽयनायेति विश्वतोमुखिने नमः ॥ ९॥ देवार्तिहारिणेऽसङ्ख्यवक्त्राय विष्णवे नमः । पुराणाय महेशाय जगत्प्रसूयते नमः ॥ १०॥ कोटिदेहिषु कैश्चित् त्वं सन्मार्गिभिरुपास्यसे । एको भवान् प्रकृतेश्च परादक्षरतः परः ॥ ११॥ विदामग्रेसरः सर्वविज्ञो विशालमूर्तिकः । सूक्ष्मरूपो गुणा यत्र प्राकृता न वसन्ति हिम् ॥ १२॥ वाचा न विषयो यश्च भक्तवाग्विषयोऽस्ति सः । न च कर्माऽभिभूतो यः करोति सततं सृजिम् ॥ १३॥ अनिन्द्रियोऽपि चेन्द्राद्यैरुपास्यश्चेन्द्रियादिमान् । असारेऽपि च संसारे साररूपोऽस्ति वै भवान् ॥ १४॥ यजद्भिरवसीयेताऽतादृशोऽपि चतुर्भुजः । परं रूपं न जानीमो जानीमो दृष्टिगोचरम् ॥ १५॥ अवतारतनुं विद्मस्तद्द्वाराऽऽश्रयमाप्नुमः । अब्जयोनिस्तव वर्ष्म नैव वेद न चाप्यहम् ॥ १६॥ वेद्मि विशुद्धतपसा पुराणं कविमीश्वरम् । अहं पद्मासनाद्याश्च प्रसूताश्चासकृद्विभोः ॥ १७॥ बालेनैव मया चान्यैः सम्बुद्ध्यसे न कीदृशः । नत्या तुष्टिं प्रगच्छामः स्तुत्या तृप्ताश्च वैदिकाः ॥ १८॥ जन्मान्तरविवेकोत्थत्वत्प्रसादान्मतिर्यदि । लब्धलाभा भवेत्तेन शिवं स्याद्ब्रह्मपारगम् ॥ १९॥ सूक्ष्मः स्थूलो भवँश्चाऽद्य मम नेत्रस्य भूरभूः । दृष्टोऽसि कृतकृत्योऽहं सुलभो मेऽद्य भाग्यतः ॥ २०॥ नतोऽस्मि दण्डवद्विष्णोऽर्पितोऽस्मि पादयोस्तव । स्तुतिं जुषस्व भक्तस्य जनार्दन! विशेषतः ॥ २१॥ सृष्टिं सृजस्व वै ब्रह्मा निदेशमकरोन्मम । देहि तद्विज्ञतां सार्वभौमीं सृजामि सेवया ॥ २२॥ हृदिस्थोऽसि नमस्तेऽस्तु बहिःष्ठोऽस्मि नमामि ते । सर्वगस्य न चात्राऽस्ति व्यवस्था मत्पृथक् तव ॥ २३॥ इति प्रकाशं स्तवनं बुद्ध्वाऽऽन्तरं च वाचिकम् । भीतं पुनीहि भगवन् तवास्मीति विभावय ॥ २४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ५५३-अध्यायान्तर्गतं शम्भुकृतं हरिस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ५५३/२-२४॥ lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 553/2-24.. Proofread by PSA Easwaran
% Text title            : Shambhukritam Hari Stotram
% File name             : shambhukRRitaMharistotram.itx
% itxtitle              : haristotram (shambhukRitaM lakShmInArAyaNIyasaMhitAntargatam OM namo.akSharavAsAya paradhAmni virAjate)
% engtitle              : shambhukRRitaM haristotram
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 1 | adhyAya 553/2-24||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 5, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org