शतानन्दमुनिकृता श्रीहरिस्तुतिः

शतानन्दमुनिकृता श्रीहरिस्तुतिः

(शार्दूलविक्रीडितम्) नीलेन्दीवरलोचनं शशिमुखं सन्दीप्तरूपार्चितं श्रीमत्केसरचन्दनार्चितमथो हारावलीभूषितम् । सद्दिव्याक्षरधामसंस्थितममुं मन्दस्मितं राजितं वन्देऽहं पुरुषोत्तमं प्रभुवरं श्रीस्वामिनारायणम् ॥ १॥ शिक्षापत्रिविचारमौक्तिकप्रभासर्वात्मतासाधकं दिव्याभैर्वचनामृतोत्थरणितैः सन्ध्वस्तजाड्यावलिम् । श्रीशाल्युद्धवमार्गचालकमहो धर्मात्मजं श्रीहरिं वन्देऽहं पुरुषोत्तमं प्रभुवरं श्रीस्वामिनारायणम् ॥ २॥ प्रोद्दामप्रसरत्प्रशस्यमहिम श्रीधीधृतिप्रार्चितं त्रैलोक्येष्टविधानगौरवचणप्रज्ञाविभालङ्कृतम् । सर्वानन्दकरप्रचारुचरितं वन्दारुसंवन्दितं वन्देऽहं पुरुषोत्तमं प्रभुवरं श्रीस्वामिनारायणम् ॥ ३॥ अष्टैश्वर्यविभूषितञ्च सहजानन्दप्रपावर्षिणं सर्वप्रार्थितदिव्यभव्यविभवोद्दीप्तप्रभावं ध्रुवम् । भक्ताभीष्टततिप्रदाननिपुणं कारुण्यरत्नाकरं वन्देऽहं पुरुषोत्तमं प्रभुवरं श्रीस्वामिनारायणम् ॥ ४॥ नव्योत्सर्पिरुचिप्रभावनिबिडप्रोल्लासिशर्म्मप्रदं स्कन्धालम्बितदिव्यकुण्डलधरं मन्दोन्नतभ्रूलतम् । सर्वं स्थावरजङ्गमं जगदिदं सञ्चालयन्तं सदा वन्देऽहं पुरुषोत्तमं प्रभुवरं श्रीस्वामिनारायणम् ॥ ५॥ यन्नामश्रवणेन केवलमहो पापोच्चयो नश्यति यन्नामप्रजपेन जायत अहो संवित्प्रभासञ्चितिः । यन्मूर्तिप्रविलोकनेन सहसा बोभोति मुक्तिर्नृणां वन्देऽहं पुरुषोत्तमं प्रभुवरं श्रीस्वामिनारायणम् ॥ ६॥ भर्तारं हरिकृष्णदेवमनघं कार्तान्तकृन्तनं चेतोध्वान्तहरं समस्तजगतामेकान्तरक्षाकरम् । दिव्यौदार्यसमञ्चितं शुभकरं मुक्तिप्रदं सौख्यदं वन्देऽहं पुरुषोत्तमं प्रभुवरं श्रीस्वामिनारायणम् ॥ ७॥ आनन्दैकरसप्रवाहसरसं देवाधिदेवं विभुं योगक्षेमवितानकर्म्मलसितं सत्कर्मचुञ्चप्रियम् । श्रेयः सर्वजनीनमाशुविमलं विस्तारयन्तं भुवि वन्देऽहं पुरुषोत्तमं प्रभुवरं श्रीस्वामिनारायणम् ॥ ८॥ इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे चतुर्थप्रवाहे चतुर्थतरङ्गे शतानन्दमुनिकृता श्रीहरिस्तुतिः सम्पूर्णा ।
% Text title            : Shatanandamunikrita Shri Hari Stuti
% File name             : shatAnandamunikRRitAshrIharistutiH.itx
% itxtitle              : shrIharistutiH (shatAnandamunikRitA)
% engtitle              : shatAnandamunikRRitA shrIharistutiH
% Category              : vishhnu, svAminArAyaNa, krishna, stuti, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : shatAnandamuni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org