शतापराधस्तोत्रम्

शतापराधस्तोत्रम्

नारद उवाच - नापराधांश्चरेत् क्वापि विष्णोर्देवस्य चक्रिणः । इति त्वयोदितं पूर्वं तानाचक्ष्व ममाधुना ॥ ज्ञात्वैव विनिवर्तन्ते पण्डिताः पापबुद्धितः(पद्धतेः) । तस्मात् तत्कर्तृकानाहुर्माधवो यैर्न तुष्यति ॥ ब्रह्मोवाच - अपराधसहस्राणि क्रियन्तेऽहर्निशं नरैः । वक्तुं तान् कः क्षमो लोके तस्मान्मुख्यानहं ब्रुवे ॥ १॥ ज्ञात्वा वै विनिवर्तन्ते पण्डिताः पापमार्गतः । निवृत्तिं मानवा यान्ति तद्विष्णोः परमं पदम् ॥ २॥ अस्नात्वा देवपूजायाः करणं शङ्कया विना । देवालये प्रवेशश्च दीपहीनालयेऽपि च ॥ ३॥ अप्रक्षालितपादश्च प्रवेशोऽभिमुखागतिः । गोमयाननुलिप्ते च देशे देवस्य पूजनम् ॥ ४॥ अप्रक्षाल्य च पुष्पाणि प्रक्षाल्य तुलसीं विभो । प्रलपन् देवतापूजा गन्धवर्जितपूजनम् ॥ ५॥ अघण्टादेवतार्चा च मुखफूत्कृतवह्निना । धूपार्तिकार्पणं विष्णोः स्तोत्रपाठं विना तथा ॥ ६॥ निर्माल्योद्वासनं वस्त्राशोधिताग्र्योदकाहृतिः । अग्र्योदके नरच्छायापतनं चाभिषेचनम् ॥ ७॥ अग्र्योदके नखस्पर्शो जानुजङ्घावलम्बनम् । देवोपकरणस्पर्शः पदा नारीनरैस्तथा ॥ ८॥ अधूतवस्त्रैरस्नातैर्नैवेद्यस्यापि पाचनम् । अनाच्छाद्य तु कुम्भस्य मुखमग्र्योदकाहृतिः ॥ ९॥ अभक्ष्यभक्षणं विष्णोरभक्ष्यस्य निवेदनम् । केशश्मश्रुनखस्पर्शहस्ताभ्यां देवस्पर्शनम् ॥ १०॥ अन्यावशिष्टवस्त्रस्य देवतानां समर्पणम् । हीनवस्त्रार्पणं विष्णोर्नीलवस्त्रसमर्पणम् ॥ ११॥ अधूतवस्त्रपूजा च निषिद्धान्ननिवेदनम् । अष्टाक्षरोपदेशाच्च ऋते देवार्चनं तथा ॥ १२॥ चौर्याहृतानां पुष्पाणां देवानां च समर्पणम् । अन्यावशिष्टपर्युष्टम्लानपुष्टसमर्पणम् ॥ १३॥ छिन्नभिन्नातिरिक्तानां पुष्पाणां च समर्पणम् । स्वाङ्गभूगलितानां च निकृन्तनां समर्पणम् ॥ १४॥ वस्त्रार्कैरण्डपत्रेष्वाहृतानां समर्पणम् । निर्गन्धकुसुमानां च तुलसीरहितार्चनम् ॥ १५॥ लोकवार्तां वदन् विष्णोर्निर्माल्यस्य विसर्जनम् । अर्चने वर्जनं षट्कमुद्राणां मुनिसत्तम ॥ १६॥ एरण्डतैलदीपश्च पञ्चसंस्कारवर्जनम् । भूत्वा शून्यललाटश्च देवतायाः प्रपूजनम् ॥ १७॥ साम्येन शङ्कराद्यैश्च पूजा वा समकालतः । तुलसीपद्माक्षमालानां तथा कण्ठे त्वधारणम् ॥ १८॥ उत्तरीयपरित्यागः पवित्रग्रन्थिवर्जनम् । अकच्छः पुच्छकच्छो वा देवतायाः प्रपूजनम् ॥ १९॥ पाखण्डीनां च संसर्गो दुःशास्त्राभ्यास एव च । नरस्तुतीनां श्रवणं नरस्तुत्या च जीवनम् ॥ २०॥ पूज्यस्तुतिपरित्यागः सच्छास्त्राभ्यासवर्जनम् । श्रवणं विष्णुनिन्दाया गुरुनिन्दाश्रुतिस्तथा ॥ २१॥ सत्पुरुषनिन्दाश्रवणं सच्छास्त्रस्यापि नारद । देवस्य पूजासमये बालानां लालनं तथा ॥ २२॥ व्यासङ्गो देवतार्चायां केशादीनां विसर्जनम् । आज्याभिघारहीनस्य नैवेद्यस्य समर्पणम् ॥ २३॥ आलस्याद्देवपूजा च तुच्छीकृत्य तथा विभो । मलं बध्वा देवपूजाऽजीर्णान्नेनार्चितं विभो ॥ २४॥ देवस्य पूजासमये विदित्वाऽऽगमनं सताम् । अनुभ्युत्थानमार्याणां परित्यागश्च कर्मणाम् ॥ २५॥ शठत्वाच्छ्रवणं विष्णोः कथायाः पुरुषर्षभ । पुराणश्रुतिसमये ताम्बूलादेश्च चर्वणम् ॥ २६॥ गुरोः समासनारूढः पुराणश्रवणं तथा । अश्रद्धया पुराणस्य श्रवणं कथनं तथा ॥ २७॥ दिनापनयनं लोकवार्तया गृहचिन्तया । नमस्कारात् परं विष्णोर्धूलिधूतावधूनना ॥ २८॥ आर्द्रवस्त्रेण देवस्य पूजायाः करणं तथा । एकादशीपरित्यागः पर्वमैथुनमेव च ॥ २९॥ पुंसूक्तमपठित्वा च देवपूजासमापनम् । आदावन्ते सहस्राणां नाम्नां पाठविवर्जितम् ॥ ३०॥ अहुत्वावाऽप्यदत्वा वा भोजनं ऋषिसत्तम । पुण्यकालातिशयितदेवपूजासमर्पणम् ॥ ३१॥ भोगे निवेदितान्नस्य ह्यन्यदेवार्पितस्य च । विष्णोश्च स्थानरहितो ग्रामवासश्च पण्डितः ॥ ३२॥ सत्सङ्गमविहीने च विष्ण्वन्यन्नामधारणम् । नित्यं सकामपूजा च देवोपकरणैस्तथा ॥ ३३॥ संसारयात्राकरणं तथा वै देवमन्दिरे । शयने मिथुनीभावः शङ्खवर्जितपूजनम् ॥ ३४॥ देवताभिमुखः पादप्रसारो मुनिसत्तम । अवृन्दावनगेहे च वासो व्रतव्यतिक्रमः ॥ ३५॥ तुलामकरमेषेषु प्रातःस्नानविवर्जितम् । पूजान्ते देवदेवस्य मुखवस्त्रासमर्पणम् ॥ ३६॥ ब्रह्मपारपरस्तोत्रापठनं त्विति नारद । अपराधशतं चैतन्महानर्थस्य साधनम् ॥ ३७॥ ज्ञात्वा पुंसा परित्याज्यं विष्णोः प्रीतिमिहेच्छता । अन्यथा नरकं याति विष्णोर्मार्गं न पश्यति ॥ ३८॥ शतापराधमध्यायुं यो वा पठति नित्यशः । तस्यापराधशतकं सहते विष्णुरव्ययः ॥ ३९॥ विष्णोर्नामसहस्रं तु यो वा पठति नित्यशः । तस्य पुण्यफलं धत्ते पठतस्तु दयानिधिः ॥ ४०॥ ॥ इति श्रीगरुडपुराणे ब्रह्मनारदसंवादे शतापराधस्तोत्रं सम्पूर्णम् ॥
% Text title            : shatAparAdhastotram
% File name             : shatAparAdhastotram.itx
% itxtitle              : shatAparAdhastotram (shrIgaruDapurANAntargatam)
% engtitle              : Shata Aparadha Stotram
% Category              : vishhnu, upadesha, misc
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : shrIgaruDapurANe brahmanAradasaMvAde
% Latest update         : December 30, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org