शतदूषणीस्थहयग्रीवस्तोत्रम्

शतदूषणीस्थहयग्रीवस्तोत्रम्

श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ समाहारस्साम्नां प्रतिपदमृचां धाम यजुषा लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादर्पक्षुभ्यत्कलिकथककोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ १॥ हयग्रीवसुधासिन्धुहर्षहेषारवोर्मयः। जयन्ति वादवेलान्तक्षिप्तबाह्यकुदृष्टयः ॥ २॥ संप्रज्ञातस्थितिमधिगते निर्विकल्पे समाधौ शान्तावद्यं स्तिमितबहुलानन्दसन्दाहमन्तः । यत्तद्ब्रह्म स्फुरति यमिनां पूर्णषाड्गुण्यरूपं सा मे नित्यं हृदि हयमुखी देवता सन्निधत्ताम् ॥ ३॥ यदात्मानो वेदा यदनुगुणवर्णाकृतिजुषः प्रमाणं यत्रैते नियतमपरिच्छेध्यविभवे । य एषामाहर्ता दनुजमथनो वाजिवदनः स मे देवः श्रीमान् विदलयतु सम्मोहमखिलम् ॥ ४॥ अबाधादध्यक्षप्रभृति मितिवर्गेष्ववधृतं शरीरं यस्येदं जगदखिलमन्तर्यमयितुः । स मे तर्कैरेतैर्निजविभवलुण्टाकमथनैः प्रसीदत्वासीदन्निगमशतसीमा हयमुखः ॥ ५॥ अज्ञानसन्तमसमाश्रयणोन्मुखानां संवित्प्रदीपमहसा सहसा निरुन्धन् । विद्यास्वयंवरपतिर्व्यपहन्त्वविद्यां सर्वानुभूः स भगवान् पुरुषोत्तमो नः ॥ ६॥ विदितमनुवदन्तो विश्वमेतद्यथावत् विदधति निगमान्ताः केवलं यन्मयत्वम् । अविदितबहुभूमा नित्यमन्तर्विधत्तां हयवरवदनोसौ सन्निधिः सन्निधिं नः ॥ ७॥ हयमुखमुखैस्तत्तद्रूपैरकर्मविनिर्मितै- रुपदिशति यस्तथ्यं पथ्यं सतामवसीदताम् । जननपदवीयातायातश्रमापहरां धियं जनयतु स मे देवः श्रीमान् धनञ्जयसारथिः ॥ ८॥ नमस्त्रेधा विभक्तानामात्मनामन्तरात्मने । ब्रह्मणे हयवक्त्राय बन्धमोक्षैकहेतवे ॥ ९॥ य एको दुर्लङ्घ्यत्रिगुणनिजमयानिगलितै- र्विचित्रैः क्षेत्रज्ञैर्विहरति सरोजासहचरः । जगत्सर्गक्षेमक्षपणपरिकर्मीणमहिमा दयालुर्देवोसौ तुरगवदनस्तारयतु नः ॥ १०॥ अनन्यानां पुंसामनवधिकभक्तिस्थितिजुषा- मविद्याध्वंसो यञ्चरणवरिवस्यापरिणतेः । तदेकं सत्संवित्सुखमवघिदूरिकृतगुणं हताशेषावद्यं हयवदनमीडीमहि महः ॥ ११॥ हताशेषक्लेशा निरवधि महानन्दधनिनो वयं भूयास्मेति स्थिरमनघवर्मन्यधिकृताः । अनाघ्रातद्वन्द्वा हयमुखपदद्वन्द्वरुचयः स्वदन्तां मे सन्तः श्रुतिजलधिमुष्टिन्धयधियः ॥ १२॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ इति श्रीशतदूषणीस्थहयग्रीवस्तोत्रं सम्पूर्णम् । Encoded and proofread by Vedha Nathan vnathan.lab at gmail.com, NA
% Text title            : shatadUShaNIstha hayagrIvastotram
% File name             : shatadUShaNIsthahayagrIvastotram.itx
% itxtitle              : hayagrIvastotram shatadUShaNIstha
% engtitle              : shatadUShaNIstha hayagrIvastotram
% Category              : vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vedha Nathan vnathan.lab at gmail.com
% Proofread by          : Vedha Nathan vnathan.lab at gmail.com, NA
% Latest update         : February 2, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org