शिवकृतं २ विष्णुस्तोत्रम्

शिवकृतं २ विष्णुस्तोत्रम्

महेश्वर उवाच । यत्तत् कारणमाहुस्तत् सांख्याः प्रकृतिसंज्ञितम् । त्रिधाभूतं जगद्योनिं प्रधानं कारणात्मकम् ॥ १॥ सत्त्वं रजस्तमो विष्णो जगदण्डं जनार्दन । तस्य कारणमहुस्त्वां सांख्यास्तत्त्वविदो हरे ॥ २॥ तद्रूपेण भवान् विष्णो परिणम्याधितिष्ठति । ततो महान् समुत्पन्नः प्रकृतिर्यस्य कारणम् ॥ ३॥ तस्मात्तु महतो घोरादहंकारो महानभूत् । स त्वमादौ जगन्नाथ परिणामस्तथा हि सः ॥ ४॥ अहंकारात्प्रभो देव कारणानि महान्ति च । तन्मात्राणि तथा पञ्च भूतानि प्रभवन्त्युत ॥ ५॥ तानि त्वामाहुरीशानं भूतानीति जगत्पते । पृथिवी वायुरकाशमपो ज्योतिश्च पञ्चमम् ॥ ६॥ चक्षुर्घ्राणं तथा स्पर्शो रसना श्रोत्रमेव च । मनः षष्ठं तथा देव प्रेरकं तत्र तत्र ह ॥ ७॥ कर्मेन्द्रियाणि चाप्याहुः पादादीनि जनार्दन । त्वमेव तानि सर्वाणि करोषि नियतात्मवान् ॥ ८॥ स्वेषु स्वेषु जगन्नाथ विषयेषु तथा हरे । निवेशयसि देवेश योग्यामिन्द्रियपद्धतिम् ॥ ९॥ यदा त्वं रजसा युक्तस्तदा भूतानि सृष्टवान् । यदा च सत्त्वयुक्तोऽसि तदा पाता जगत्त्रयम् ॥ १०॥ यदा ते तम उत्कृष्टं तदा संहरसे जगत् । त्रिभिरेव गुणैर्युक्तः सृष्टिरक्षाविनाशने ॥ ११॥ वर्तसे विविधां भूतिमादाय नियतात्मवान् । इन्द्रियाणीन्द्रियार्थेषु नियोजयसि माधव ॥ १२॥ प्राणिनामुपभोगार्थमन्तः स्थित्वा जगद्गुरो । तस्मात्सर्वत्र भूतेषु वर्तसे सर्वगो भवान् ॥ १३॥ ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो । संहारे रुद्रनामासि त्रिधामा त्वमिति प्रभो ॥ १४॥ भूमिरपोऽनलो वायुः खं मनो बुद्धिरेव च । एताः प्रकृतयो देव भिन्नाः सर्वत्र ते हरे ॥ १५॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रोदरसाहस्री सहस्रात्मा दिवस्पतिः ॥ १६॥ भूमिं सर्वामिमां प्राप्य सप्तद्वीपां ससागराम् । अणुः सर्वत्रगो भूत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥ १७॥ त्वमेवेदं जगत्सर्वं यद्भूतं यद्भविष्यति । त्वत्तो विराट् प्रादुरभूत् सम्राट् चैव जनार्दन ॥ १८॥ तव वक्त्राज्जगन्नाथ ब्राह्मणो लोकरक्षकः । प्रादुरासीत् पुराणात्मन् षट्कर्मनिरतः सदा ॥ १९॥ राजन्यस्तु तथा बाह्वोरासीत् संरक्षणे रतः । ऊर्वोर्वैश्यस्तथा विष्णो पादाच्छूद्र उदाहृतः ॥ २०॥ एवं वर्णा जगन्नाथ तव देहात् सनातनात् । मनसस्तव देवेश चन्द्रमाः समपद्यत ॥ २१॥ सुखकृत् सर्वभूतानां शीतांशुरमृतप्रभः । अक्ष्णोः सूर्यः समुत्पन्नः सर्वप्राणिविलोचनः ॥ २२॥ यस्य भासा जगत्सर्वं भासते भानुमानसौ । मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥ २३॥ नाभेरन्तरिक्षमुत्पन्नं तव देव जनार्दन । द्यौरासीत्तु महाघोरा शिरसस्तव गोपते ॥ २४॥ पद्भ्यां भूमिः समुत्पन्ना दिशः श्रोत्राज्जगत्पते । एवं सृष्ट्वा जगत्सर्वं व्याप्य सर्वं व्यवस्थितः ॥ २५॥ व्याप्य सर्वानिमांल्लोकान् स्थितः सर्वत्र केशव । ततश्च विष्णुनामासि धातोर्व्याप्तेश्च दर्शनात् ॥ २६॥ नारा आपः समाख्यातास्तासामयनमदितः । यतस्त्वं भूतभव्येश तन्नारायणशब्दितः ॥ २७॥ वसनाद्देवनाद्देव वासुदेवेति शब्दितः । हरसि प्राणिनो देव ततो हरिरिति स्मृतः ॥ २८॥ शं करोषि सदा देव ततः शंकरनामवान् । बृहत्त्वाद्बृंहणत्वाच्च तस्माद्ब्रह्मेति शब्दितः ॥ २९॥ मधुरिन्द्रियनामेति ततो मधुनिषूदनः । हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान् ॥ ३०॥ हृषीकेशस्ततो विष्णो ख्यातो वेदेषु पठ्यते । को ब्रह्मेति समाख्यात ईशोऽहं सर्वदेहिषु ॥ ३१॥ आवां तवाङ्गे संभूतौ ततः केशवनामवान् । मा विद्या च हरे प्रोक्ता तस्या ईशो यतो भवान् ॥ ३२॥ तस्मान्माधवनामासि धवः स्वामीति शब्दितः । गौरेषा तु यतो वाणी तां च वेद यतो भवान् ॥ ३३॥ गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवान् । त्रिरित्येव त्रयो वेदाः कीर्तिता मुनिसत्तमैः ॥ ३४॥ क्रमते तांस्तथा सर्वांस्त्रिविक्रम इति स्मृतः । अणुर्वामननामासि यतस्त्वं वामनाख्यया ॥ ३५॥ मननान्मुनिरेवासि यमनाद्यतिरुच्यसे । अपश्चरसि यस्मात्त्वं तपस्वीति च शब्दितः ॥ ३६॥ वसन्ति त्वयि भूतानि भूतावासस्ततो हरे । ईशस्त्वं सर्वभूतानामीश्वरोऽसि ततो हरे ॥ ३७॥ प्रणवः सर्ववेदानां गायत्री छन्दसां प्रभो । अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः ॥ ३८॥ रुद्राणामहमेवास्मि वसूनां पावको भवान् । आदित्यनां भवान् विष्णुरिन्द्रो देवेश्वरो भवान् ॥ ३९॥ अश्वत्थो वृक्षजातीनां ब्रह्मा लोकगुरुर्भवान् । मेरुस्त्वं पर्वतेन्द्राणां देवर्षीणां च नारदः ॥ ४०॥ दानवानां भवान् दैत्यः प्रह्रादो भक्तवत्सल । सर्पाणामेव सर्वेषां भवान् वासुकिसंज्ञकः ॥ ४१॥ गुह्यकानां च सर्वेषां भवान् धनद एव च । वरुणो यादसां राजा गङ्गा त्रिपथगा भवान् ॥ ४२॥ आदिस्त्वं सर्वभूतानां मध्यमन्तस्तथा भवान् । त्वत्तः समभवद्विश्वं त्वयि सर्वं प्रलीयते ॥ ४३॥ अहं त्वं सर्वगो देव त्वमेवाहं जनार्दन । आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते ॥ ४४॥ नामानि तव गोविन्द यानि लोके महान्ति च । तान्येव मम नामानि नात्र कार्या विचारणा ॥ ४५॥ त्वदुपासा जगन्नाथ सैवास्तु मम गोपते । यश्च त्वां द्वेष्टि देवेश स मां द्वेष्टि न संशयः ॥ ४६॥ त्वद्विस्तारो यतो देव अहं भूतपतिस्ततः । न तदस्ति विना देव यत्ते विरहितं हरे ॥ ४७॥ यदासीद्वर्तते यच्च यच्च भावि जगत्पते । सर्वं त्वमेव देवेश विना किंचित्त्वया न हि ॥ ४८॥ स्तुवन्ति देवाः सततं भवन्तं स्वैर्गुणैः प्रभो । ऋक् च त्वं यजुरेवासि सामासि सततं विभो ॥ ४९॥ किमुच्यते मया देव सर्वं त्वं भूतभावनः । नमः सर्वात्मने देव मुनीनाह पुनः शिवः ॥ ५०॥ एवं जानीत हे विप्रा ये भक्ता द्रष्टुमगताः । एतदेव परं वस्तु नैतस्मात् परमस्ति वः ॥ ५१॥ नमः सर्वात्मने देव विष्णो माधव केशव । नमस्करोमि सर्वात्मन्नमस्तेऽस्तु सदा हरे । नमः पुष्करनाभाय वन्दे त्वामहमीश्वर ॥ ५२॥ इति हरिवंशान्तर्गतं शिवकृतं विष्णुस्तोत्रं सम्पूर्णम् । हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय अ३१.११३५॥ harivaMsha . anubandha - parishiShTa . adhyAya a31.1135.. Proofread by PSA Easwaran
% Text title            : Shivakritam 2 Vishnu Stotram
% File name             : shivakRRitaM2viShNustotram.itx
% itxtitle              : viShNustotram (shivakRitaM 2 harivaMshAntargatam yattat kAraNamAhustat sAMkhyAH prakRitisaMjnitam)
% engtitle              : shivakRRitaM 2 viShNustotram
% Category              : vishhnu, vishnu, harivaMsha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : harivaMsha | anubandha - parishiShTa | adhyAya a31.1135||
% Indexextra            : (Scan
% Latest update         : September 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org