श्रीकृष्ण मानसिक पूजा
श्री गणेशाय नमः ।
ध्यानम्-
वन्दे श्रीकृष्णचन्द्रं छवियुगलयुतं राधिकानाथमेकं
वन्दे वेदान्तसारं परमपदमजं दिव्यकैवल्यधामम् ।
वन्दे शुद्धात्मरूपं गुणरहितनिजं ज्ञानिनां ज्ञानगम्यं
वन्दे देवाधिदेवं सकलगुणनिधिं कृष्ण त्रैलोक्यनाथम् ॥ १॥
आवाहनम्-
सच्चित्स्वरूपात्मकवासुदेवं
कैवल्यधामं परमं पवित्रम् ।
एकाक्षरं निर्मलतत्त्वमात्रं
आवाहयाम्यात्मस्वरूपमेकम् ॥ २॥
आसनम्-
रम्ये सदा स्वच्छसुवर्णनिर्मिते
देदीप्यमाने मनसोऽभिरञ्जने ।
रत्नासने तिष्ठतु वासुदेव
गोविन्द ! योगेश्वर ! गोकुलेश ! ॥ ३॥
पाद्यम्-
श्रीविष्णुपादार्चनयोग्यमुत्तमं
देवादिवन्द्यं परमं पवित्रम् ।
गङ्गाजलं शुद्धमिदं हि निर्मितं
पाद्यञ्च कृष्णाय समर्पयामि ॥ ४॥
अर्घ्यम्-
गन्धाक्षतैश्चैव सुगन्धिपुष्पैः
गङ्गाजलैर्निर्मितशुद्धमर्घ्यम् ।
त्रैलोक्यनाथाय परात्पराय
तुभ्यं च कृष्णाय समर्पयामि ॥ ५॥
आचमनीयम्-
सम्पूर्ण तीर्थाम्ब्वमलं शिवं जलं
सुगन्धसम्पन्नमिदं मनोहरम् ।
आचम्यतामाचमनीयमेतद्
हे कृष्ण ! सर्वात्मक ! वासुदेव ! ॥ ६॥
स्नानीयम्-
मन्दाकिनी दिव्यसरस्वती तथा
गङ्गा च रेवा यमुना च नर्मदा ।
नारायणीत्यादि नदी जलैर्हरे
स्नानीयमेतद्धि समर्पयामि ॥ ७॥
पञ्चामृतस्नानम्-
चित्तेन सङ्कल्पितशुद्धगोघृतं
दुग्धं दधीक्षोरसमाक्षिकान्वितम् ।
सौगन्धिकैर्द्रव्यगणैश्च संयुतं
पञ्चामृतं कृष्ण ! समर्पयामि ॥ ८॥
शुद्धोदकस्नानम्-
हे कृष्ण ! सर्वोत्तम ! दिव्यरूप !
हे देवकीनन्दन ! रुक्मिणीश ! ।
हे द्वारकानाथ ! जगत्पते ! प्रभो !
स्नानं च शुद्धोदकमर्पयामि ॥ ९॥
उद्वर्तनस्नानम्-
मेरुसमुद्भूतसुगन्धिचन्दनं
सुशीतलं पुष्टिकरं सदैव ।
द्रव्यं सुगन्धिं परमोत्तमोत्तम-
मुद्वर्तनं देव ! समर्पयामि ॥ १०॥
वस्त्रम्-
पीताम्बरं रम्यमलौकिकं तथा
शोभाढ्य विद्युत्समवस्त्रमुत्तमम् ।
तुभ्यं मया कृष्ण समर्प्यते प्रभो !
हे कृष्ण ! हे व्यापक ! हे रमेश ! ॥ ११॥
यज्ञोपवीतम्-
रम्यं पवित्रं नवतन्तु निर्मितं
वर्णेन पीतं नवदेवतामयम् ।
ग्रन्थित्रयं तत् त्रिगुणात्मकं शुभं
यज्ञोपवीतं च समर्पयामि ॥ १२॥
चन्दनम्-
देवार्चनायाखिलशास्त्रवर्णितं
श्रीखण्डनामाख्यमतीवनिर्मलम् ।
अत्युत्तमं सौख्यकरं सुचन्दनं
तुभ्यं मयाकृष्ण ! समर्प्यते प्रभो ! ॥ १३॥
पुष्पादीनि-
रम्याणि नानाविध वृक्षजानि
श्वेतानि पुष्पाणि सुगन्धितानि ।
दिव्यानि कृष्णातुलसीदलानि
माल्यानि चैवाद्य समर्पयामि ॥ १४॥
तिलाक्षतान्-
हे देव हे कृष्ण रमापते विभो
हे गोपिकानाथ जनार्दन प्रभो ।
हे श्रीश हे केशव हे जगत्पते
तिलाक्षतान् कृष्ण समर्पयामि ॥ १५॥
धूपम्-
नानाविधं तन्निगमागमोक्तं
वनस्पतीनां रससम्भवं शुभम् ।
दिव्यं पवित्राष्टसुगन्धिसंयुतं
घूपं च कृष्णाय समर्पयाम्यहम् ॥ १६॥
दीपम्-
वर्त्तिर्घृतं वह्निरिति त्रयान्वितं
शुभ्रं सदा स्वच्छ प्रकाशमानम् ।
ज्योतिर्मयं मङ्गलकारकं शुभं
दीपं च कृष्णाय समर्पयाम्यहम् ॥ १७॥
नैवेद्यम्-
स्वाद्विष्टमत्युत्तमदिव्यशर्करं
मिष्टान्नमत्यन्त मृदुं पवित्रकम् ।
नैवेद्यकं गोघृतपक्वमुत्तमं
तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ १८॥
पायसम्-
सुस्वादु गोदुग्धघृतादि संयुतं
देवार्चने योग्यपवित्रपायसम् ।
भक्त्या प्रभो ! निर्मितस्वर्णपात्रे
तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ १९॥
शुद्धोजलम्-
आकाशगङ्गाजलमुत्तमं शिवं
श्री विष्णुनारायणपूजनार्थकम् ।
एवं तुलस्यादलयुक्तमक्षयं
तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २०॥
ताम्बूलम्-
पूगीफलैला खदिराढ्यमुत्तमं
चूर्णादिभिश्चैवयुतं पवित्रकम् ।
देवादि कार्यार्थ विनिर्मितं प्रभो !
ताम्बूलकं कृष्ण ! समर्पयाम्यहम् ॥ २१॥
फलम्-
नानाविधं केवलसूर्यपक्वं
धात्रीफलं पेरूकमाम्रकर्कटीम् ।
अक्षोटकं श्रीकदलीं च दाडिमं
तुम्यं च कृष्णाय समर्पयाम्यहम् ॥ २२॥
रत्नादिद्रव्यम्-
छत्रं च रत्नैर्जटितं प्रकाशकं
आदर्शकं चामरदिव्यकुण्डलम् ।
नानाविधां रत्नसुवर्णपादुकां
तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २३॥
दक्षिणाम्-
तेजोमयं शुभ्रसुवर्णरूप्यकं
वज्रादि रत्नैश्च सहैव दक्षिणाम् ।
भक्त्या मया ह्युत्तमश्रद्धया कृतां
तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २४॥
आरार्तिकम्-
आरार्तिकं तं कदलीसमुद्भवं
कर्पूरनामाख्यमतीव मङ्गलम् ।
ज्योतिर्मयं सूर्यसमानकान्तिदं
तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २५॥
प्रदक्षिणां -
सर्वाणि पापानि च यानि तानि
नश्यन्ति नाम्ना तव हे मुरारे ।
नाम्नाचते देव प्रदक्षिणा कृता
तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २६॥
पुष्पाञ्जलीम्-
पुष्पाणि हे देव ! सुगन्धितानि
देशे च काले समयोद्भवानि ।
बध्वाञ्जलिर्नम्रतया सुभक्त्या
तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २७॥
क्षमापनम्-
प्रभो ! हरे ! देव ! जपं न पूजां
ज्ञानं न जानामि न पाठ मन्त्रम् ।
तथापि हे देव ! क्षमापनङ्कृतं
तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २८॥
प्रार्थना-
हे देवकीनन्दन ! कृष्णचन्द्र !
हे देव ! सर्वात्मक ! वासुदेव ! ।
हे कृष्ण ! विष्णोऽव्यय ! व्यापक ! प्रभो !
नित्यं प्रसन्नोभव हे मुरारे ! ॥ २९॥
रम्यं तुलस्या वनमालया युतं
वंश्या च चक्रेण सपीतवस्त्रम् ।
पद्माक्षनीलाम्बुजश्यामलाङ्गं
त्वां द्रष्टुमिच्छामि सदैव विष्णो ! ॥ ३०॥
पाठफलप्राप्ति-
इत्थं पवित्रं परमामृतं हरिं
अलौकिकं केवलदिव्यमूर्तिम् ।
अनन्तपारामृतमव्ययं प्रभुं
नारायणं केवल कृष्णपूजनम् ॥ ३१॥
उत्थाय च ब्राह्ममुहुर्त मध्ये
ध्यात्वा परंब्रह्म हरिं सदैव ।
कृत्वा शुभं मानसपूजनं हरेः
सर्वं फलं प्राप्स्यति कृष्ण भक्तः ॥ ३२॥
इति श्री गायत्रीस्वरूप ब्रह्मचारिणा विरचितं मानसिक-
कृष्णपूजनं सम्पूर्णम् ॥
Proofread by Vani V