श्रीश्रीनिवासस्तोत्रम्
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ श्रीनिवासाय विद्महे । लक्ष्मीवराय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥
श्रीनिवासं सलक्ष्मीकं वेङ्कटाद्रिशुभालयम् ।
सप्ताचलप्रभासन्तं लक्ष्मीकान्तं नमाम्यहम् ॥ १॥
आनन्दनिलयावासं परमानन्दविग्रहम् ।
अचलानन्दसंवर्धं श्रीनिवासं नमाम्यहम् ॥ २॥
स्मिताननलयानन्दं कारुण्यमयवीक्षितम् ।
मुखतेजोजितार्कं तं श्रीनिवासं नमाम्यहम् ॥ ३॥
पतिताश्रयपादाब्जं शरणार्थिकृपाकरम् ।
कराभयप्रदं वन्दे श्रीनिवासं नमाम्यहम् ॥ ४॥
रोगहं वरदं शान्तं आयुरारोग्यवर्धनम् ।
भवरोगभयापोहं श्रीनिवासं नमाम्यहम् ॥ ५॥
पद्मावतीपतिं श्रीदं मनःपद्मसुवासनम् ।
पद्मनेत्रविमोक्तारं श्रीनिवासं नमाम्यहम् ॥ ६॥
सर्वाभीष्टवराप्तं तं सर्वव्यापिपरार्थकम् ।
सर्वपापविनाशं सं श्रीनिवासं नमाम्यहम् ॥ ७॥
षट्शत्रुसूदनं मालं दहरात्मलयावहम् ।
कलिप्रत्यक्षदैवं तं श्रीनिवासं नमाम्यहम् ॥ ८॥
वसुधातलवैकुण्ठं वसुधातनयाधवम् ।
वसुदं वासुदेवं तं श्रीनिवासं नमाम्यहम् ॥ ९॥
वेदगुप्तमहासारं वरसप्तगिरीश्वरम् ।
वेङ्कटेशसुनामानं श्रीनिवासं नमाम्यहम् ॥ १०॥
नागाचलप्रभावं तं रागनागगुरुस्तुतम् ।
त्यागराजकृतिप्रीतं श्रीनिवासं नमाम्यहम् ॥ ११॥
सप्तस्वरप्रियारामं सङ्गीतस्वरपूजितम् ।
स्वररागसुधामिष्टं श्रीनिवासं नमाम्यहम् ॥ १२॥
मङ्गलं श्रीनिवासाय लक्ष्मीपाय सुमङ्गलम् ।
त्यागब्रह्मसुगेयाय पुष्पार्चिताय मङ्गलम् ॥ १३॥
त्यागराजगुरुस्वामिशिष्यापुष्पासमर्पितम् ।
श्रीनिवासशुभस्तोत्रं गानीयं सर्वमङ्गलम् ॥ १४ ॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीश्रीनिवासस्तोत्रं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan