श्रुतधामाकृतं विष्णुस्तोत्रम्
ॐ नमस्सत्यसङ्कल्पविकल्पोल्लासितात्मने ।
निर्गुणाय गुणाविष्टकर्मणे ब्रह्मणे नमः ॥ ७०॥
सत्यं ज्ञानमनन्तं यद्धाम नामादिवर्जितम् ।
ओमित्युपहिताकारमहङ्कारमुपास्महे ॥ ७१॥
यतो वाचो निवर्तन्ते मनसाप्राप्य माधवम् ।
हृद्यन्तं परं पश्ये भद्रस्यावाप्तये हरिम् ॥ ७२॥
हृषीकं जगतां साक्षात् श्रुतयो यत् प्रशंसिरे ।
तमादिपौरुषं तेजः प्रपद्ये व्योमलक्षणम् ॥ ७३॥
अलक्ष्यमक्ष्णां गुणिनां ब्रह्मादीनां यदैश्वरम् ।
महः प्रपद्ये निर्मायं यत्परं परमं हरिः ॥ ७४॥
यमन्विष्य महस्तत्त्वमागमान्तगिरां ततिः ।
तद्धाम कामयैकान्तकलिकल्मषनाशनम् ॥ ७५॥
अणोरणीयमाद्यन्तमध्यविप्लववर्जितम् ।
अहमाराधये चित्ते मायाजालविमुक्तये ॥ ७६॥
देवदेवं महादेवं हरिमभ्युदयेश्वरम् ।
पश्यामि परतत्त्वार्थं निर्मुक्ताशेषकल्मषम् ॥ ७७॥
भगवन् परितुष्टोऽस्मि मायालास्यप्रदर्शनात् ।
अहो विभूतिविस्तारो लीलावैशिष्यलक्षणः ॥ ७८॥
पुनाति लोकान् गङ्गेव दर्शनात्कीर्तनादपि ।
इतः परं न शोचामि येनाहं त्वत्प्रसादतः ॥ ७९॥
तथा कुरु दयां मह्यं त्वामहं शरणं गतः ।
इति ताम्रपर्णीमाहात्म्ये ६१-अध्यायान्तर्गतं
श्रुतधामाकृतं विष्णुस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ६१/७०-८०॥
tAmraparNImAhAtmya . adhyAya 61/70-80..
Proofread by PSA Easwaran