श्वेतकृतं विष्णुस्तोत्रम्

श्वेतकृतं विष्णुस्तोत्रम्

श्वेत उवाच । ॐ नमो वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय नमो नारायणाय च ॥ ३४॥ नमोऽस्तु बहुरूपाय विश्वरूपाय वेधसे । निर्गुणायाप्रतर्क्याय शुचये शुक्लकर्मणे ॥ ३५॥ ॐ नमः पद्मनाभाय पद्मगर्भोद्भवाय च । नमोऽस्तु पद्मवर्णाय पद्महस्ताय ते नमः ॥ ३६॥ ॐ नमः पुष्कराक्षाय सहस्राक्षाय मीढुषे । नमः सहस्रपादाय सहस्रभुज मन्यवे ॥ ३७॥ ॐ नमोऽस्तु वराहाय वरदाय सुमेधसे । वरिष्ठाय वरेण्याय शरण्यायाच्युताय च ॥ ३८॥ ॐ नमो बालरूपाय बालपद्मप्रभाय च । बालार्कसोमनेत्राय मुञ्जकेशाय धीमते ॥ ३९॥ केशवाय नमो नित्यं नमो नारायणाय च । माधवाय वरिष्ठाय गोविन्दाय नमो नमः ॥ ४०॥ ॐ नमो विष्णवे नित्यं देवाय वसुरेतसे । मधुसूदनाय नमः शुद्धायांशुधराय च ॥ ४१॥ नमोऽनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे । त्रिविक्रमाय च नमो दिव्यपीताम्बराय च ॥ ४२॥ सृष्टिकर्त्रे नमस्तुभ्यं गोप्त्रे धात्रे नमो नमः । नमोऽस्तु गुणभूताय निर्गुणाय नमो नमः ॥ ४३॥ नमो वामनरूपाय नमो वामनकर्मणे । नमो वामननेत्राय नमो वामनवाहिने ॥ ४४॥ नमो रम्याय पूज्याय नमोऽस्त्वव्यक्तरूपिणे । अप्रतर्क्याय शुद्धाय नमो भयहराय च ॥ ४५॥ संसारार्णवपोताय प्रशान्ताय स्वरूपिणे । शिवाय सौम्यरूपाय रुद्रायोत्तारणाय च ॥ ४६॥ भवभङ्गकृते चैव भवभोगप्रदाय च । भवसङ्घातरूपाय भवसृष्टिकृते नमः ॥ ४७॥ ॐ नमो दिव्यरूपाय सोमाग्निश्वसिताय च । सोमसूर्यांशुकेशाय गोब्राह्मणहिताय च ॥ ४८॥ ॐ नमो ऋक्स्वरूपाय पदक्रमस्वरूपिणे । ऋक्स्तुताय नमस्तुभ्यं नमो ऋक्साधनाय च ॥ ४९॥ ॐ नमो यजुषां धात्रे यजूरूपधराय च । यजुर्याज्याय जुष्टाय यजुषां पतये नमः ॥ ५०॥ ॐ नमः श्रीपते देव श्रीधराय वराय च । श्रियः कान्ताय दान्ताय योगिचिन्त्याय योगिने ॥ ५१॥ ॐ नमः सामरूपाय सामध्वनिवराय च । ॐ नमः सामसौम्याय सामयोगविदे नमः ॥ ५२॥ साम्ने च सामगीताय ॐ नमः सामधारिणे । सामयज्ञविदे चैव नमः सामकराय च ॥ ५३॥ नमस्त्वथर्वशिरसे नमोऽथर्वस्वरूपिणे । नमोऽस्त्वथर्वपादाय नमोऽथर्वकराय च ॥ ५४॥ ॐ नमो वज्रशीर्षाय मधुकैटभघातिने । महोदधिजलस्थाय वेदाहरणकारिणे ॥ ५५॥ नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः । नमो भगवते तुभ्यं वासुदेवाय ते नमः ॥ ५६॥ नारायण नमस्तुभ्यं नमो लोकहिताय च । ॐ नमो मोहनाशाय भवभङ्गकराय च ॥ ५७॥ गतिप्रदाय च नमो नमो बन्धहराय च । त्रैलोक्यतेजसां कर्त्रे नमस्तेजःस्वरूपिणे ॥ ५८॥ योगीश्वराय शुद्धाय रामायोत्तरणाय च । सुखाय सुखनेत्राय नमः सुकृतधारिणे ॥ ५९॥ वासुदेवाय वन्द्याय वामदेवाय वै नमः । देहिनां देहकर्त्रे च भेदभङ्गकराय च ॥ ६०॥ देवैर्वान्दितदेहाय नमस्ते दिव्यमौलिने । नमो वासनिवासाय वासव्यवहराय च ॥ ६१॥ ॐ नमो वसुकर्त्रे च वसुवासप्रदाय च । नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने ॥ ६२॥ यतियोगकरेशाय नमो यज्ञाङ्गधारिणे । सङ्कर्षणाय च नमः प्रलम्बमथनाय च ॥ ६३॥ मेघघोषस्वनोत्तीर्णवेगलाङ्गलधारिणे । नमोऽस्तु ज्ञानिनां ज्ञान नारायणपरायण ॥ ६४॥ न मेऽस्ति त्वामृते बन्धुर्नरकोत्तारणे प्रभो । अतस्त्वां सर्वभावेन प्रणतो नतवत्सल ॥ ६५॥ मलं यत्कायजं वाऽपि मानसं चैव केशव । न तस्यान्योऽस्ति देवेश क्षालकस्त्वामृतेऽच्युत ॥ ६६॥ संसर्गाणि समस्तानि विहाय त्वामुपस्थितः । सङ्गो मेऽस्तु त्वया सार्धमात्मलाभाय केशव ॥ ६७॥ कष्टमापत्सुदुष्पारं संसारं वेद्मि केशव । तापत्रयपरिक्लिष्टस्तेन त्वां शरणं गतः ॥ ६८॥ एषणाभिर्जगत्सर्वं मोहितं मायया तव । आकर्षितं च लोभाद्यैरतस्त्वामहमाश्रितः ॥ ६९॥ नास्ति किञ्चित्सुखं विष्णो संसारस्थस्य देहिनः । यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते ॥ ७०॥ तथा फलविहीनं तु सुखमात्यन्तिकं लभेत् । नष्टो विवेकशून्योऽस्मि दृश्यते जगदातुरम् ॥ ७१॥ गोविन्द त्राहि संसारान्मामुद्धर्तुं त्वमर्हसि । मग्नस्य मोहसलिले निरुत्तारे भवार्णवे । उद्धर्ता पुण्डरीकाक्ष त्वामृतेऽन्यो न विद्यते ॥ ७२॥ इति ब्रह्मपुराणे एकोनषष्टितमाध्यायान्तर्गतं श्वेतकृतं विष्णुस्तोत्रं समाप्तम् । ब्रह्मपुराण । अध्याय ५९/३४-७२॥ brahmapurANa . adhyAya 59/34-72.. Proofread by PSA Easwaran
% Text title            : Shvetakritam Vishnu Stotram
% File name             : shvetakRRitaMviShNustotram.itx
% itxtitle              : viShNustotram (shvetakRitaM brahmapurANAntargatam OM namo vAsudevAya namaH saNkarShaNAya cha)
% engtitle              : shvetakRRitaM viShNustotram
% Category              : vishhnu, vishnu, brahmapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmapurANa | adhyAya 59/34-72||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : September 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org