स्नेहलतिकया कृतं पुरुषोत्तमस्तोत्रम् ११

स्नेहलतिकया कृतं पुरुषोत्तमस्तोत्रम् ११

(धनिष्ठकोशश्रेष्ठिनः भार्यया स्नेहलतिकया कृतं पुरुषोत्तमस्तोत्रम्०) अथाऽस्य पुत्राः पुत्र्यश्च पत्नी साध्वी सधर्मिणी ॥ २७॥ नाम्ना स्नेहलतादेवी शुशोच स्वपतिस्थितिम् । महाभागवती पत्नी भजते श्रीहरिं तु माम् ॥ २८॥ प्रार्थयत्येव पूजायां पत्युर्धर्मस्य रक्षणम् । अधर्मस्य परित्यागं यशः कीर्तिं सुवंशजाम् ॥ २९॥ बालकृष्ण हरे कृष्ण पुरुषोत्तम माधव । तव भक्तस्य चित्ते यच्चाञ्चल्यं तत्प्रशामय ॥ ३०॥ अनादिश्रीकृष्ण नारायण श्रीकान्त केशव । मम पत्युर्व्यवायस्य व्यसनं त्वं प्रमोचय ॥ ३१॥ राजाऽपि तव भक्तः स्यात्तथा कृष्ण विधेहि च । गणिका अपि भक्ताः स्युर्यथा ते परमात्मनः ॥ ३२॥ प्रजाश्चापि च भक्ताः स्युस्तथा कृष्ण कृपां कुरु । व्रतं चाद्यदिनात्तेऽहं वर्षान्तं त्वेकभोजनम् ॥ ३३॥ करिष्ये च तथा साधुसतीसेवा समाहिता । प्रत्यहं पूजनं ते च करिष्ये घटिकावधिम् ॥ ३४॥ षोडशैरुपचारैश्च कारयिष्ये तु सूतके । प्रेङ्खां स्वर्णमयीं चापि मूर्तिं स्वर्णमयीं च ते ॥ ३५॥ कारयिष्ये श्रिया युक्तां राधया रमया युताम् । पद्मावत्या युतां युक्तां माणिक्यया च शोभनाम् ॥ ३६॥ लक्ष्म्या युक्तां तथा रम्यां विभूषाढ्यां सुयौवनाम् । शय्यापर्यङ्कमेवापि कारयिष्ये शुभोत्तमाम् ॥ ३७॥ स्वर्णराजतजन्यं च तवोपकरणान्यपि । व्यजने चामरे छत्रं पादुके भूषणानि च ॥ ३८॥ कारयिष्ये स्वर्णरत्नमयानि तव तुष्टये । नित्यं सुगन्धसारैश्च तैलसारैश्च मर्दनम् ॥ ३९॥ अभ्यञ्जनं द्रवैश्चापि पूजनं तुलसीदलैः । नैवेद्यं घृतमिष्टानैः कारयिष्येऽतितुष्टये ॥ ४०॥ तवोत्सवान् कारयिष्ये वार्षिकान् कान्त केशव । वणिजं मे पतिं वाराङ्गनाव्यसनान्मोचय ॥ ४१॥ एषा ते शरणं प्राप्ता पतिता तव पादयोः । मम पत्युस्तु पापानि प्रज्वालय प्रियं कुरु ॥ ४२॥ इत्युक्त्वा स्नेहलतिका दीपोत्सवीदिने हरेः । कृत्वा मे पूजनं चाप्यासंवत्सरं व्रतं व्यधात् ॥ ४३॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे १९२-अध्यायान्तर्गतं धनिष्ठकोशश्रेष्ठिनः भार्यया स्नेहलतिकया कृतं पुरुषोत्तमस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १९२/२७-४३॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 192/27-43.. Proofread by PSA Easwaran
% Text title            : Snehalatikaya Kritam Purushottama Stotram
% File name             : snehalatikayAkRRitaMpuruShottamastotram11.itx
% itxtitle              : puruShottamastotram 11 (snehalatikayAkRitaM lakShmInArAyaNIyasaMhitAntargatam athA.asya putrAH putryashcha patnI sAdhvI sadharmiNI)
% engtitle              : snehalatikayAkRRitaM puruShottamastotram 11
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 192/27-43||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : April 12, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org