श्रीरूपगोस्वामिविरचिता स्तवमाला

श्रीरूपगोस्वामिविरचिता स्तवमाला

श्रीश्रीकृष्णचैतन्यचन्द्राय नमः । श्रीमदीश्वररूपेण रसामृतकृता कृता । स्तवमालानुजीवेन जीवेन समगृह्यत ॥ १॥ पूर्वं चैतन्यदेवस्य कृष्णदेवस्य तत्परम् । श्रीराधायास्ततः कृष्णराधयोर्लिख्यते स्तवः ॥ २॥ विरुदावली ततो नानाच्छन्दोभिः केलिसंहतिः । ततश्चित्रकवित्वानि ततो गीतावली ततः ॥ ३॥ ललितायमुनावृष्णिपुरीश्रीहरिभूभृताम् । वृन्दाटवीकृष्णनाम्नोः क्रमेण स्तवपद्धतिः ॥ ४॥

Chaitanyashtakam 1 ॥ चैतन्याष्टकम् १ ॥

अथ श्रीचैतन्यदेवस्य प्रथमाष्टकं सदोपास्यः श्रीमान् धृतमनुजकायैः प्रणयितां वहद्भिर्गीर्वाणैर्गिरिशपरमेष्ठिप्रभृतिभिः । स्वभक्तेभ्यः शुद्धां निजभजनमुद्रामुपदिशन् स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ १॥ सुरेशानां दुर्गं गतिरतिशयेनोपनिषदां मुनीनां सर्वस्वं प्रणतपटलीनां मधुरिमा । विनिर्यासः प्रेम्णो निखिलपशुपालाम्बुजदृशां स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ २॥ स्वरूपं बिभ्राणो जगदतुलमद्वैतदयितः प्रपन्नश्रीवासो जनितपरमानन्दगरिमा । हरिर्दीनोद्धारी गजपतिकृपोत्सेकतरलः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ३॥ रसोद्दामा कामार्बुदमधुरधामोज्ज्वलतनु- र्यतीनामुत्तंसस्तरणिकरविद्योतिवसनः हिरण्यानां लक्ष्मीभरमभिभवन्न् आङ्गिकरुचा स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ४॥ हरे कृष्णेत्युच्चैः स्फुरितरसनो नामगणना कृतग्रन्थिश्रेणीसुभगकटिसूत्रोज्ज्वलकरः । विशालाक्षो दीर्घार्गलयुगलखेलाञ्चितभुजः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ५॥ पयोराशेस्तीरे स्फुरदुपवनालीकलनया मुहुर्वृन्दारण्यस्मरणजनितप्रेमविवशः । क्वचित् कृष्णावृत्तिप्रचलरसनोभक्तिरसिकः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ६॥ रथारूढस्यारादधिपदवि नीलाचलपते- रदभ्रप्रेमोर्मिस्फुरितनटनोल्लासविवशः । सहर्षं गायद्भिः परिवृततनुर्वैष्णवजनैः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ७॥ भुवं सिञ्चन्नश्रुश्रुतिभिरभितः सान्द्रपुलकैः परीताङ्गो नीपस्तबकनवकिञ्जल्कजयिभिः । घनस्वेदस्तोमस्तिमिततनुरुत्कीर्तनसुखी स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ८॥ अधीते गौराङ्गस्मरणपदवीमङ्गलतरं कृती यो विश्रम्भस्फुरदमलधीरष्टकमिदम् । परानन्दे सद्यस्तदमलपदाम्भोजयुगले परिस्फारा तस्य स्फुरतु नितरां प्रेमलहरी ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां चैतन्याष्टकं प्रथमं सम्पूर्णम् ।

Chaitanyashtakam 2 ॥ चैतन्याष्टकम् २ ॥

अथ श्रीचैतन्यदेवस्य द्वितीयाष्टकं कलौ यं विद्वांसः स्फुटमभियजन्ते द्युतिभराद् अकृष्णाङ्गं कृष्णं मखविधिभिरुत्कीर्तनमयैः । उपास्यं च प्राहुर्यमखिलचतुर्थाश्रमजुषां स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ १॥ चरित्रं तन्वानः प्रियमघवदाह्लादनपदं जयोद्घोषैः सम्यग्विरचितशचीशोकहरणः । उदञ्चन्मार्तण्डद्युतिहरदुकूलाञ्चितकटिः स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ २॥ अपारं कस्यापि प्रणयिजनवृन्दस्य कुतुकी रसस्तोमं हृत्वा मधुरमुपभोक्तुं कमपि यः । रुचिं स्वामावव्रे द्युतिमिह तदीयां प्रकटयन् स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ३॥ अनाराध्यः प्रीत्या चिरमसुरभावप्रणयिनां प्रपन्नानां दैवीं प्रकृतिमधिदैवं त्रिजगति । अजस्रं यः श्रीमान् जयति सहजानन्दमधुरः स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ४॥ गतिर्यः पौण्ड्राणां प्रकटितनवद्वीपमहिमा भवेनालङ्कुर्वन् भुवनमहितं श्रोत्रियकुलम् । पुनात्यङ्गीकाराद् भुवि परमहंसाश्रमपदं स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ५॥ मुखेनाग्रे पीत्वा मधुरमिह नामामृतरसं दृशोर्द्वारा यस्तं वमति घनबाष्पाम्बुमिषतः । भुवि प्रेम्णस्तत्त्वं प्रकटयितुमुल्लासिततनुः स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ६॥ तनूमाविष्कुर्वन्नवपुरटभासं कटिलसत् करङ्कालङ्कारस्तरुणगजराजाञ्चितगतिः । प्रियेभ्यो यः शिक्षां दिशति निजनिर्माल्यरुचिभिः स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ७॥ स्मितालोकः शोकं हरति जगतां यस्य परितो गिरां तु प्रारम्भः कुशलीपटलीं पल्लवयति । पदालम्बः कं वा प्रणयति नहि प्रेमनिवहं स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ८॥ शचीसूनोः कीरित्स्तवकनवसौरभ्यनिविडं पुमान् यः प्रीतात्मा पठति किल पद्याष्टकमिदम् । स लक्ष्मीवान् एतं निजपदसरोजे प्रणयितां ददानः कल्याणीमनुपदमबाधं सुखयतु ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां चैतन्याष्टकं द्वितीयं सम्पूर्णम् ।

Chaitanyashtakam 3 ॥ चैतन्याष्टकम् ३ ॥

अथ श्रीचैतन्यदेवस्य तृतीयाष्टकं उपासितपदाम्बुजस्त्वमनुरक्तरुद्रादिभिः प्रपद्य पुरुषोत्तमं पदमदभ्रमुद्भ्राजितः । समस्तनतमण्डलीस्फुरदभीष्टकल्पद्रुमः शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ १॥ न वर्णयितुमीशते गुरुतरावतारायिता भवन्तमुरुबुद्धयो न खलु सार्वभौमादयः । परो भवतु तत्र कः पटुरतो नमस्ते परं शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ २॥ न यत् कथमपि श्रुतावुपनिषद्भिरप्याहितं स्वयं च विवृतं न यद् गुरुतरावतारान्तरे । क्षिपन्नसि रसाम्बुधे तदिह भाक्तरत्नं क्षितौ शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ३॥ निजप्रणयविस्फुरन्नटनरङ्गविस्मापित त्रिनेत्रनतमण्डलप्रकटितानुरागामृत । अहङ्कृतिकलङ्कितोद्धतजनादिदुर्बोध हे शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ४॥ भवन्ति भुवि ये नराः कलितदुष्कुलोत्पत्तय- स्त्वमुद्धरसि तान् अपि प्रचुरचारुकारुण्यतः । इति प्रमुदितान्तरः शरणमाश्रितस्त्वामहं शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ५॥ मुखाम्बुजपरिस्खलन्मृदुलवाङ्मधूलीरस प्रसङ्गजनिताखिलप्रणतभृङ्गरङ्गोत्कर । समस्तजनमङ्गलप्रभवनामरत्नाम्बुधे शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ६॥ मृगाङ्कमधुरानन स्फुरदनिद्रपद्मेक्षण स्मितस्तवकसुन्दराधर विशङ्कटोरस्तटे । भुजोद्धतभुजङ्गमप्रभ मनोजकोटिद्युते शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ७॥ अहं कनककेतकीकुसुमगौर दुष्टः क्षितौ न दोषलवदर्शिता विविधदोषपूर्णेऽपि ते । अतः प्रवणया धिया कृपणवत्सल त्वां भजे शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ८॥ इदं धरणिमण्डलोत्सव भवत्पदाङ्केषु ये निविष्टमनसो नराः परिपठन्ति पद्याष्टकम् । शचीहृदयनन्दन प्रकटकीर्तिचन्द्र प्रभो निजप्रणयनिर्भरं वितर देव तेभ्यः शुभम् ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां चैतन्याष्टकं तृतीयं सम्पूर्णम् ।

Anandastotram ॥ आनन्दस्तोत्रम् ॥

श्रीकृष्णः परमानन्दो गोविन्दो नन्दनन्दनः । तमालश्यामलरुचिः शिखण्डकृतशेखरः ॥ १॥ पीतकौशेयवसनो मधुरस्मितशोभितः । कन्दर्पकोटिलावण्यो वृन्दारण्यमहोत्सवः ॥ २॥ वैजयन्तीस्फुरद्वक्षाः कक्षात्तलगुडोत्तमः । कुञ्जापितरतिर्गुञ्जापुञ्जमञ्जुलकण्ठकः ॥ ३॥ कर्णिकाराढ्यकर्णश्रीधृतिस्वर्णाभवर्णकः । मुरलीवादनपटुर्वल्लवीकुलवल्लभः ॥ ४॥ गान्धर्वाप्तिमहापर्वा राधाराधनपेशलः । इति श्रीकृष्णचन्द्रस्य नाम विंशतिसंज्ञितम् ॥ ५॥ आनन्दाख्यं महास्तोत्रं यः पठेच्छृणुयाच्च यः । स परं सौख्यमासाद्य कृष्णप्रेमसमन्वितः ॥ ६॥ सर्वलोकप्रियो भूत्वा सद्गुणावलिभूषितः । व्रजराजकुमारस्य सन्निकर्षमवाप्नुयात् ॥ ७॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीमहानन्दाख्यस्तोत्रं समाप्तम् ।

Lilamritastotram ॥ लीलामृतस्तोत्रम् ॥

श्रीकृष्णस्य श्रीलीलामृतनामकदशनामस्तोत्रं राधिकाहृदयोन्मादिवंशीक्वाणमधुच्छटः । राधापरिमलोद्गारगरिमाक्षिप्तमानसः ॥ १॥ कम्रराधामनोमीनवडिशीकृतविभ्रमः । प्रेमगर्बान्धगान्धर्वाकिलकिञ्चितरञ्जितः ॥ २॥ ललितावश्यधीराधामानाभासवशीकृतः । राधावक्रोक्तिपीयूषमाधुर्यभरलम्पटः ॥ ३॥ मुखेन्दुचन्द्रिकोद्गीर्णराधिकारागसागरः । वृषभानुसुताकण्ठहारिहारहरिन्मणिः ॥ ४॥ फुल्लराधाकमलिनीमुखाम्बुजमधुव्रतः । राधिकाकुचकस्तूरीपत्रस्फुरदुरःस्थलः ॥ ५॥ इति गोकुलभूपालीसूनुलीलामनोहरम् । यः पठेन्नामदशकं सोऽस्य वल्लभतां व्रजेत् ॥ ६॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां लीलामृतस्तोत्रं सम्पूर्णम् ।

Premendusagarastotram ॥ प्रेमेन्दुसागरस्तोत्रम् ॥

श्रीप्रेमेन्दुसागरसंज्ञकश्रीकृष्णाष्टोत्तरशतनाममालिका कलहान्तरितावृत्ता काचिद् वल्लवसुन्दरी । विरहोत्तापखिन्नाङ्गी सखीं सोत्कण्ठमब्रवीत् ॥ १॥ हन्त गौरि स किं गन्ता पन्थानं मम नेत्रयोः । श्रीकृष्णः करुणासिन्धुः कृष्णो गोकुलवल्लभः ॥ २॥ गोविन्दः परमानन्दो नन्दमन्दिरमङ्गलम् । यशोदाखनिमाणिक्यं गोपेन्द्राम्भोधिचन्द्रमाः ॥ ३॥ नवाम्भोधरसंरम्भविडम्बिरुचिडम्बरः । क्षिप्तहाटकशौटीर्यपट्टपीताम्बरावृतः ॥ ४॥ कन्दर्परूपसन्दर्पहारिपादनखद्युतिः । ध्वजाम्भोरुहदम्भोलि यवाङ्कुशलसत्पदः ॥ ५॥ पदपञ्जरसिञ्जानमञ्जुमञ्जीरखञ्जनः । मसारसम्पुटाकारधारि जानुयुगोज्ज्वलः ॥ ६॥ शौण्डस्तम्बेरमोद्दण्डशुण्डारम्योरुसौष्ठवः । मणिकिङ्किणिसङ्कीर्णविशङ्कटकटिस्थलः ॥ ७॥ मध्यमाधुर्यविध्वस्तदिव्यसिंहमदोद्धतिः । गारुत्मतगिरिग्रावगरिष्ठोरस्तटान्तरः ॥ ८॥ कम्बुकण्ठस्थलालम्बिमणिसम्राड् अलङ्कृतिः । आखण्डलमणिस्तम्भस्पर्धिदोर्दण्डचण्डिमा ॥ ९॥ खण्डिताखण्डकोटीन्दुसौन्दर्यमुखमण्डलः । लावण्यलहरीसिन्धुः सिन्दूरतुलिताधरः ॥ १०॥ फुल्लारविन्दसौन्दर्य कन्दलीतुन्दिलेक्षणः । गण्डान्तताण्डवक्रीडाहिण्डन्मकरकुण्डलः ॥ ११॥ नवीनयौवनारम्भजृम्भितोज्ज्वलविग्रहः । अपाङ्गतुङ्गितानङ्गकोटिकोदण्डविक्रमः ॥ १२॥ सुधानिर्यासमाधुर्यधुरीणोदारभाषितः । सान्द्रवृन्दाटवीकुञ्जकन्दरागन्धसिन्धुरः ॥ १३॥ धन्यगोवर्धनोत्तुङ्गश‍ृङ्गोत्सङ्गनवाम्बुधः । कलिन्दनन्दिनीकेलिकल्याणकलहंसकः ॥ १४॥ नन्दीश्वरधृतानन्दो भाण्डीरतटताण्डवी । शङ्खचूडहरः क्रीदागेण्डूकृतगिरीश्वरः ॥ १५॥ वारीन्द्रार्बुधगम्भीरः पारीन्द्रार्बुदविक्रमी । रोहिणीनन्दनानन्दी श्रीदामोद्दामसौहृदः ॥ १६॥ सुबलप्रेमदयितः सुहृदां हृदयङ्गमः । नन्दव्रजजनानन्दसन्दीपनमहाव्रती ॥ १७॥ श‍ृङ्गिनीसङ्घसङ्ग्राहिवेणुसङ्गीतमण्डलः । उत्तुङ्गपुङ्गवारब्धसङ्गरासङ्गकौतुकी ॥ १८॥ विस्फुरद्वन्यश‍ृङ्गारः श‍ृङ्गाराभीष्टदैवतम् । उदञ्चत्पिञ्छविञ्छोलीलाञ्छितोज्ज्वलविग्रहः ॥ १९॥ सञ्चरच्चञ्चरीकालिपञ्चवर्णस्रगञ्चितः । सुरङ्गरङ्गणस्वर्णयूथिग्रथितमेखलः ॥ २०॥ धातुचित्रविचित्राङ्गलावण्यलहरीभरः । गुञ्जापुञ्जकृताकल्पः केलितल्पितपल्लवः ॥ २१॥ वपुरामोदमाध्वीकवर्धितप्रमदामदः । वृन्दावनारविन्दाक्षीवृन्दकन्दर्पदीपनः ॥ २२॥ मीनाङ्कसङ्कुलाभीरीकुचकुङ्कुमपङ्किलः । मुखेन्दुमाधुरीधारारुद्धसाध्वीविलोचनः ॥ २३॥ कुमारीपटलुण्ठाकः प्रौढनर्मोक्तिकर्मठः । अमन्दमुग्धवैदग्धीदिग्धराधासुधाम्बुधि ॥ २४॥ चारुचन्द्रावलीबुद्धिकौमुदीशरदागमः । धीरलालित्यलक्ष्मीवान् कन्दर्पानन्दबन्धुरः ॥ २५॥ चन्द्रावलीचकोरेन्द्रो राधिकामाधवीमधुः । ललिताकेलिललितो विशाखोडुनिशाकरः ॥ २६॥ पद्मावदनपद्मालिः शैव्यासेव्यपदाम्बुजः । भद्राहृदयनिद्रालुः श्यामलाकामलालसः ॥ २७॥ लोकोत्तरचमत्कारलीलामञ्जरिनिष्कुटः । प्रेमसम्पदयस्कान्तकान्तकृतकृष्णायसव्रतः ॥ २८॥ मुरलीचौरगौराङ्गीकुचकञ्चुकलुञ्चनः । राधाभिसारसर्वस्वः स्फारनागरतागुरुः ॥ २९॥ राधानर्मोक्तिशुश्रूषावीरुन्नीरुद्धविग्रहः । कदम्बमञ्जरीहारिराधिकारोधनोद्धुरः ॥ ३०॥ कुडुङ्गक्रोडसङ्गूढराधासङ्गमरङ्गवान् । क्रीडोड्डामरधीराधाताडङ्कोत्पलताडितः ॥ ३१॥ अनङ्गसङ्गरोद्गारिक्षुण्णकुङ्कुमकङ्कटः । त्रिभङ्गिलङ्गिमाकारो वेणुसङ्गमिताधरः ॥ ३२॥ वेणुविस्तृतगान्धर्वसारसन्दर्भसौष्ठवः । गोपीयूथसहस्रेन्द्रः सान्द्ररासरसोन्मदः ॥ ३३॥ स्मरपञ्चशरीकोटिक्षोभकारिदृगञ्चलः । चण्डांशुनन्दिनीतीरमण्डलारब्धताण्डवः ॥ ३४॥ वृषभानुसुताभृङ्गीकामधुक्कमलाकरः । गूढाकूतपरीहासराधिकाजनितस्मितः ॥ ३५॥ नारीवेशनिगूढात्मा व्यूढचित्तचमत्कृतिः । कर्पूरालम्बिताम्बूलकरम्बितमुखाम्बुजः ॥ ३६॥ मानिचन्द्रावलीदूतीकॢप्तसन्धानकौशलः । छद्मघट्टतटीरुद्धराधाभ्रूकुटिघट्टितः ॥ ३७॥ दक्षराधासखीहासव्याजोपालम्भलज्जितः । मूर्तिमद्वल्लवीप्रेमा क्षेमानन्दरसाकृतिः ॥ ३८॥ अभिसारोल्लसद्भद्राकिङ्किणीनिनदोन्मुखः । वाससज्जीभवत्पद्माप्रेक्ष्यमाणाग्रपद्धतिः ॥ ३९॥ उत्कण्ठितार्तललितावितर्कपदवीं गतः । विप्रलब्धविशाखोरुविलापभरवर्धनः ॥ ४०॥ कलहान्तरिताश्यामामृग्यमाणमुखेक्षणः । खण्डितोच्चण्डधीशैव्यारोषोक्तिरसिकान्तरः ॥ ४१॥ विश्लेषविक्लवच्चन्द्रावलीसन्देशनन्दितः । स्वाधीनभर्तृकोत्फुल्लराधामण्डनपण्डितः ॥ ४२॥ चुम्बवेणुग्लहद्युतिजयिराधाधृताञ्चलः । राधाप्रेमरसावर्तविभ्रमभ्रमितान्तरः ॥ ४३॥ इत्येषोन्मत्तधीः प्रेम्ना शंसन्ती कंसमर्दनम् । स्फुरन्तं पुरतः प्रेक्ष्य प्रौढानन्दोत्सवं ययौ ॥ ४४॥ प्रेमेन्दुसागराख्येऽस्मिन्नाम्नामष्टोत्तरे शते । विगाहयन्तु विबुधाः प्रीत्या रसनमन्दरम् ॥ ४५॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां प्रेमेन्दुसागरस्तोत्रं सम्पूर्णम् ।

Keshavashtakam ॥ केशवाष्टकम् ॥

नवप्रियकमञ्जरीरचितकर्णपूरश्रियं विनिद्रतरमालतीकलितशेखरेणोज्ज्वलम् । दरोच्छ्वसितयूथिकाग्रथितवल्गुवैकक्षकृत् व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ १॥ पिशङ्गि मणिकस्तनि प्रणतश‍ृङ्गि पिङ्गेक्षणे मृदङ्गमुखि धूमले शवलि हंसि वंशीप्रिये । इति स्वसुरभिकुलं तरलमाह्वयन्तं मुदा व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ २॥ घनप्रणयमेदुरान् मधुरनर्मगोष्ठीकला विलासनिलयान् मिलद्विविधवेशविद्योतिनः । सखीन् अखिलसारया पथिषु हासयन्तं गिरा व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ३॥ श्रमाम्बुकणिकावलीदरविलीढगण्डान्तरं समूढागिरिधातुभिर्लिखितचारुपत्राङ्कुरम् । उदञ्चदलिमण्डलीद्युतिविडम्बिवक्रालकं व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ४॥ निबद्धनवतर्णकावलिविलोकनोत्कण्ठया नटत्खुरपुटाञ्चलैरलघुभिर्भुवं भिन्दतीम् । कलेन धवलाघटां लघु निवर्तयन्तं पुरो व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ५॥ पद्माङ्कततिभिर्वरां विरचयन्तमध्वश्रियं चलत्तरलनैचिकीनिचयधूलिधूम्रस्रजम् । मरुल्लहरिचञ्चलीकृतदुकूलचूडाञ्चलं व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ६॥ विलासमुरलीकलध्वनिभिरुल्लसन्मानसाः क्षणादखिलवल्लवीः पुलकयन्तमन्तर्गृहे । मुहुर्विदधतं हृदि प्रमुदितां च गोष्ठेश्वरीं व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ७॥ उपेत्य पथि सुन्दरीततिभिराभिरभ्यर्चितं स्मिताङ्कुरकरम्बितैर्नटदपाङ्गभङ्गीशतैः । स्तनस्तवकसञ्चरन्नयनचञ्चरीकाञ्चलं व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ८॥ इदं निखिलवल्लवीकुलमहोत्सवोल्लासनं क्रमेण किल यः पुमान् पठति सुष्ठु पद्याष्टकम् । तमुज्ज्वलधियं सदा निजपदारविन्दद्वये रतिं दददचञ्चलां सुखयताद् विशाखासखः ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकेशवाष्टकं सम्पूर्णम् ।

Shri Kunjaviharyashtakam 1 ॥ श्रीकुञ्जविहार्यष्टकम् १ ॥

प्रथमं श्रीकुञ्जविहार्यष्टकं नमः कुञ्जविहारिणे । इन्द्रनीलमणिमञ्जुलवर्णः फुल्लनीपकुसुमाञ्चितकर्णः । कृष्णलाभिरकृशोरसि हारी सुन्दरो जयति कुञ्जविहारी ॥ १॥ राधिका वदनचन्द्रचकोरः सर्ववल्लववधूधृतिचोरः । चर्चरीचतुरताञ्चितचारी चारुतो जयति कुञ्जविहारी ॥ २॥ सर्वतः प्रथितकौलिकपर्व ध्वंसनेन हृतवासवगर्वः । गोष्ठरक्षणकृते गिरिधारी लीलया जयति कुञ्जविहारी ॥ ३॥ रागमण्डलविभूषितवंशी विभ्रमेण मदनोत्सवशंसी । स्तूयमानचरितः शुकशारी श्रेणिभिर्जयति कुञ्जविहारी ॥ ४॥ शातकुम्भरुचिहारिदुकूलः कोकचन्द्रकविराजितचूलः । नव्ययौवनलसद्व्रजनारी रञ्जनो जयति कुञ्जविहारी ॥ ५॥ स्थासकीकृतसुगन्धिपटीरः स्वर्णकाञ्चिपरिशोभिकटीरः । राधिकोन्नतपयोधरवारी कुञ्जरो जयति कुञ्जविहारी ॥ ६॥ गौरधातुतिलकोज्ज्वलभालः केलिचञ्चलितचम्पकमालः । अद्रिकन्दरगृहेष्वभिसारी सुभ्रुवां जयति कुञ्जविहारी ॥ ७॥ विब्रमोच्चलदृगञ्चलनृत्य क्षिप्तगोपललनाखिलकृत्यः । प्रेममत्तवृषभानुकुमारी नागरो जयति कुञ्जविहारी ॥ ८॥ अष्टकं मधुरकुञ्जविहारी क्रीडया पठति यः किल हारि । स प्रयाति विलसत्परभागं तस्य पादकमलार्चनरागम् ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकुञ्जविहारिणः प्रथमाष्टकं समाप्तम् ।

Shri Kunjaviharyashtakam 2 ॥ श्रीकुञ्जविहार्यष्टकम् २ ॥

द्वितीयं श्रीकुञ्जविहार्यष्टकं नमः कुञ्जविहारिणे । अविरतरतिबन्धुस्मेरताबन्धुरश्रीः कवलित इव राधापाङ्गभङ्गीतरङ्गैः । मुदितवदनचन्द्रश्चन्द्रकापीडधारी मुदिरमधुरकान्तिर्भाति कुञ्जे विहारी ॥ १॥ ततशुषिरघनानां रागमानद्धभाजां जनयति तरुणीनां मण्डले मण्डितानाम् । तटभुवि नटराजक्रीडया भानुपुत्र्या विदधदतुलचारीर्भाति कुञ्जे विहारी ॥ २॥ शिखिनि कलितषड्जे कोकिले पञ्चमाढ्ये स्वयमपि नववंश्योद्दामयन् ग्राममुख्यम् । धृतमृगमदगन्धः सुष्ठु गान्धारसंज्ञं त्रिभुवनधृतिहारी भाति कुञ्जे विहारी ॥ ३॥ अनुपमकरशाखोपात्तराधाङ्गुलीको लघु लघु कुसुमानां पर्यटन् बाटिकायाम् । सरभसमनुगीतश्चित्रकण्ठीभिरुच्चै- र्व्रजनवयुवतीभिर्भाति कुञ्जे विहारी ॥ ४॥ अहिरिपुकृतलास्ये कीचकारब्धवाद्ये व्रजगिरितटरङ्गे भृङ्गसङ्गीतभाजि । विरचितपरिचर्याश्चित्रतौर्यत्रिकेण स्तिमितकरणवृत्तिर्भाति कुञ्जे विहारी ॥ ५॥ दिशि दिशि शुकशारीमण्डलैर्गूढलीलाः प्रकटमनुपठद्भिर्निर्मिताश्चर्यपूरः । तदतिरहसि वृत्तं प्रेयसीकर्णमूले स्मितमुखमभिजल्पन् भाति कुञ्जे विहारी ॥ ६॥ तव चिकुरकदम्बं स्तम्भते प्रेक्ष्य केकी नयनकमललक्ष्मीर्वन्दते कृष्णसारः । अलिरलमलकान्तं नौति पश्येति राधां सुमधुरमनुशंसन् भाति कुञ्जे विहारी ॥ ७॥ मदनतरलबालाचक्रवालेन विष्व- ग्विविधवरकलानां शिक्षया सेव्यमानः । स्खलितचिकुरवेशे स्कन्धदेशे प्रियायाः प्रथितपृथुलबाहुर्भाति कुञ्जे विहारी ॥ ८॥ इदमनुपमलीलाहारि कुञ्जविहारी स्मरणपदमधीते तुष्टधीरष्टकं यः । निजगणवृतया श्रीराधया राधितस्तं नयति निजपदाब्जं कुञ्जसद्माधिराजः ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकुञ्जविहार्यष्टकं द्वितीयं सम्पूर्णम् ।

Shri Mukundashtakam ॥ श्रीमुकुन्दाष्टकम् ॥

श्रीमुकुन्दाय नमः । बलभिदुपलकान्तिद्रोहिणि श्रीमदङ्गे घुसृणरसविलासैः सुष्ठु गान्धर्विकायाः । स्वमदननृपशोभां वर्धयन् देहराज्ये प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ १॥ उदितविधुपरार्धज्योतिरुल्लङ्घिवक्त्रो नवतरुणिमरज्यद्बाल्यशेषातिरम्यः । परिषदि ललितालीं दोलयन् कुण्डलाभ्यां प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ २॥ कनकनिवहशोभानन्दि पीतं नितम्बे तदुपरि नवरक्तं वस्त्रमित्थं दधानः । प्रियमिव किल वर्णं रागयुक्तं प्रियायाः प्रणयतु मम नेत्राभीष्टपूर्तिं मुकुन्दः ॥ ३॥ सुरभिकुसुमवृन्धैर्वासिताम्भःसमृद्धे प्रियसरसि निदाघे सायमालीपरीताम् । मदनजनकसेकैः खेलयन्न् एव राधां प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ४॥ परमलमिह लब्ध्वा हन्त गान्धर्विकायाः पुलकिततनुरुच्चैरुन्मदस्तत्क्षणेन । निखिलविपिनदेशान् वासितान् एव जिघ्रन् प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ५॥ प्रणिहितभुजदण्डः स्कन्धदेशे वराङ्ग्याः स्मितविकसितगण्डे कीर्तिदाकन्यकायाः । मनसिजजनिसौख्यं चुम्बनेनैव तन्वन् प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ६॥ प्रमददनुजगोष्ठ्याः कोऽपि संवर्तवह्नि- र्व्रजभुवि किल पित्रोर्मूर्तिमान् स्नेहपुञ्जः । प्रथमरसमहेन्द्रः श्यामलो राधिकायाः प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ७॥ स्वकदनकथयाङ्गीकृत्य मृद्वीं विशाखां कृतचटु ललितां तु प्रार्थन् प्रौढशीलाम् । प्रणयविधुरराधामानविध्वंसनाय प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ८॥ परिपठति मुकुन्दस्याष्टकं काकुभिर्यः सकलविषयसङ्गात् सन्नियम्येन्द्रियाणि । व्रजनवयुवराजो दर्शयन् स्वं सराधे स्वजनगणनमध्ये तं प्रियायास्तनोति ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीमुकुन्दाष्टकं समाप्तम् ।

Shri Vrajanavayuvarajashtakam ॥ श्रीव्रजनवयुवराजाष्टकम् ॥

श्रीव्रजनवयुवराजाय नमः । मुदिरमदमुदारं मर्दयन्नङ्गकान्त्या वसनरुचिनिरस्ताम्भोजकिञ्जल्कशोभः । तरुणिमतरणीक्षाविक्लवद्बाल्यचन्द्रो व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ १॥ पितुरनिशमगण्यप्राणनिर्मन्थनीयः कलिततनुरिवाद्धा मातृवात्सल्यपुञ्जः । अनुगुणगुरुगोष्ठीदृष्टिपीयूषवर्ति- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ २॥ अखिलजगति जाग्रन्मुग्धवैदग्ध्यचर्या प्रथमगुरुरुदग्रस्थामविश्रामसौधः । अनुपमगुणराजीरञ्जिताशेषबन्धु- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ३॥ अपि मदनपराअर्धैर्दुष्करं विक्रियोर्मिं युवतिषु निदधानो भ्रूधनुर्धूननेन । प्रियसहचरवर्गप्राणमीनाम्बुराशि- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ४॥ नयनश‍ृणिम्विनोदक्षोभितानङ्गनागो न्मथितगहनराधाचित्तकासारगर्भः । प्रणयरसमरन्दास्वादलीलाषडङ्घ्रि- र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ५॥ अनुपदमुदयन्त्या राधिकासङ्गसिद्ध्या स्थगितपृथुरथाङ्गद्वन्द्वरागानुबन्धः । मधुरिममधुधाराधोरणीनामुदन्वान् व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ६॥ अलघुकुटिलराधादृष्टिवारीनिरुद्ध त्रिजगदपरतन्त्रोद्दामचेतोगजेन्द्रः । सुखमुखरविशाखानर्मणा स्मेरवक्त्रो व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ७॥ त्वयि रहसि मिलन्त्यां सम्भ्रमन्यासभुग्नाप्य्- उषसि सखि तवालीमेखला पश्य भाति । इति विवृतरहस्यैर्ह्रेपयन्न् एव राधां व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ८॥ व्रजनवयुवराजस्याष्टकं तुष्टबुद्धिः कलितवरविलासं यः प्रयत्नादधिते । परिजनगणनायां नाम तस्यानुरज्यन् विलिखति किल् वृन्दारण्यराज्ञीरसज्ञः ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीव्रजनवयुवराजाष्टकं समाप्तम् ।

Pranamapranayakhyastavah ॥ प्रणामप्रणयाख्यस्तवः ॥

श्रीकृष्णाय नमः । कन्दर्पकोटिरम्याय स्फुरदिन्दीवरत्विषे । जगन्मोहनलीलाय नमो गोपेन्द्रसूनवे ॥ १॥ कृष्णलाकृतहाराय कृष्णलावण्यशालिने । कृष्णाकूलकरीन्द्राय कृष्णाय करवै नमः ॥ २॥ सर्वानन्दकदम्बाय कन्दम्बकुसुमस्रजे । नमः प्रेमावलम्बाय प्रलम्बारिकनीयसे ॥ ३॥ कुण्डलस्फुरदंसाय वंशायत्तमुखश्रिये । राधामानसहंसाय व्रजोत्तंसाय ते नमः ॥ ४॥ नमः शिखण्डचूडाय दण्डमण्डितपाणये । कुण्डलीकृतपुष्पाय पुण्डरीकेक्षणाय ते ॥ ५॥ राधिकाप्रेममाध्वीकमाधुरीमुदितान्तरम् । कन्दर्पवृन्दसौन्दर्यं गोविन्दमभिवादये ॥ ६॥ श‍ृङ्गाररसश‍ृङ्गारं कर्णिकारात्तकर्णिकम् । वन्दे श्रिया नवाभ्राणां बिभ्राणं विभ्रमं हरिम् ॥ ७॥ साध्वीमणिव्रातपश्यतोहरवेणवे । कह्लारकृतचूडाय शङ्खचूडभिदे नमः ॥ ८॥ राधिकाधरबन्धूकमकरन्दमधुव्रतम् । दैत्यसिन्धुरपारीन्द्रं वन्दे गोपेन्द्रनन्दनम् ॥ ९॥ बर्हेन्द्रायुधरम्याय जगज्जीवनदायिने । राधाविद्युद्वृताङ्गाय कृष्णाम्भोदाय ते नमः ॥ १०॥ प्रेमान्धवल्लवीवृन्दलोचनेन्द्रीवरेन्दवे । काश्मीरतिलकाढ्याय नमः पीताम्बराय ते ॥ ११॥ गीर्वाणेशमदोद्दाम दावनिर्वाणनीरदम् । कन्दूकीकृतशैलेन्द्रं वन्दे गोकुलबान्धवम् ॥ १२॥ दैन्यार्णवे निमग्नोऽस्मि मन्तुग्रावभरार्दितः । दुष्टे कारुण्यपारीण मयि कृष्ण कृपां कुरु ॥ १३॥ आधारोऽप्यपराधानामविवेकहतोऽप्यहम् । त्वत्कारुण्यप्रतीक्षोऽस्मि प्रसीद मयि माधव ॥ १४॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां प्रणामप्रणयाख्यः स्तवः सम्पूर्णः ।

Shri Harikusumastavah ॥ श्रीहरिकुसुमस्तवः ॥

गतिगञ्जितमत्ततरद्विरदं रदनिन्दितसुन्दरकुन्दमदम् । मदनार्बुदरूपमदघ्नरुचिं रुचिरस्मितमञ्जरि मञ्जुमुखम् ॥ १॥ मुखरीकृतवेणुहृतप्रमदं मदवल्गितलोचनतामरसम् । रसपूरविकासककेलिपरं परमार्थपरायणलोकगतिम् ॥ २॥ गतिमण्डितयामुनतीरभुवं भुवनेश्वरवन्दितचारुपदम् । पदकोज्ज्वलकोमलकण्ठरुचं रुचकात्तविशेषकवल्गुतरम् ॥ ३॥ तरलप्रचलाकपरीतशिखं शिखरीन्द्रधृति प्रतिपन्नभुजम् । भुजगेन्द्रफणाङ्गणरङ्गधरं धरकन्दरखेलनलुब्धहृदम् ॥ ४॥ हृदयालुसुहृद्गणदत्तमहं महनीयकथाकुलधूतकलिम् । कलिताखिलदुर्जयबाहुबलं बलवल्लवशावकसन्निहितम् ॥ ५॥ हितसाधुसमीहितकल्पतरुं तरुणीगणनूतनपुष्पशरम् । शरणागतरक्षणदक्षतमं तमसाधुकुलोपलचण्डकरम् ॥ ६॥ करपद्ममिलत्कुसुमस्तवकं बकदानवमत्तकरीन्द्रहरिम् । हरिणीगणहारकवेणुकलं कलकण्ठरवोज्ज्वलकण्ठरणम् ॥ ७॥ रणखण्डितदुर्जनपुण्यजनं जनमङ्गलकीर्तिलताप्रभवम् । भवसागरकुम्भजनामगुणं गुणसङ्गविवर्जितभक्तगणम् ॥ ८॥ गणनातिगदिव्यगुणोल्लसितं स्मितरश्मिसहोदरवक्त्रवरम् । वरदृप्तवृषासुरदारघनं घनविभ्रमवेशविहारमयम् ॥ ९॥ मयपुत्रतमःक्षयपूर्णविधुं विधुरीकृतदानवराजकुलम् । कुलनन्दनमत्र नमामि हरिम् ॥ १०॥ उरसि परिस्फुरदिन्दिरमिन्दिन्दिरमन्दिरश्रजोल्लसितम् । हरिमङ्गनातिमङ्गलमङ्गलसच्चन्दनं वन्दे ॥ ११॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीहरिकुसुमस्तवः सम्पूर्णः ।

Gathachandahstavah ॥ गाथाछन्दःस्तवः ॥

परितोषितगोपवधूपटलं पटलङ्घितकाञ्चनसारचयम् । रचयन्तमुदारविलासकलां सकलाञ्चितपादमगाधबलं धवलं नवकीर्तिकुलैरमितम् ॥ १॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां गाथाछन्दःस्तवः सम्पूर्णः ।

Tribhangipanchakam ॥ त्रिभङ्गीपञ्चकम् ॥

नमः श्रीकृष्णाय । यमलार्जुनभञ्जनमाश्रितरञ्जनमहिगञ्जनघनलास्यभरं पशुपालपुरन्दरमभिसृतकन्दरमतिसुन्दरमरविन्दकरम् । वरगोपवधूजनविरचितपूजनमूरुकूजननववेणुधरं स्मरनर्मविचक्षणमखिलविलक्षणतनुलक्षणमतिदक्षतरम् ॥ १॥ प्रणताशनिपञ्जरं नम्बरपिञ्जरमरिकुञ्जरहरिमिन्दुमुखं गोमण्डलरक्षिणमनुकृतपक्षिणमतिदक्षिणमैम्तात्मसुखम् । गुरुगैरिकमण्डितमनुनयपण्डितमवखण्डितपुरुहूतमखं व्रजकमलविरोचनमलिकसुरोचनगोरोचनमतिताम्रनखम् ॥ २॥ उन्मदरतिनायकशाणितशायकविनिधायकचलचिल्लिलतं उद्धतसङ्कोचनमम्बुजलोचनमघमोचनममरालिनतम् । निखिलाधिकगौरवमुज्ज्वलसौरभमतिगौरभपशुपीषु रतं कोमलपदपल्लवमभ्रमु वल्लभरुचिदुर्लभसविलासगतम् ॥ ३॥ भुजमूर्ध्नि विशङ्कटमधिगतशङ्कटनतकङ्कटमटवीषु चलं नवनीत्पकरम्बितवनरोलम्बितमवलम्बितकलकण्ठकलम् । दुर्जनतृणपावकमनुचरशावकनिकरावकमरुणोष्ठदलं निजविक्रमचर्चितभुजगुरुगर्वितगन्धर्वितदनुजार्दिबलम् ॥ ४॥ श्रुतिरत्नविभूषणरुचिजितपूषणमलिदूषणनयनान्तगतिं यमुनातटतल्पितपुष्पमनल्पितमदजल्पितदयिताप्तरतिम् । वन्देमहि वन्दितमन्दममन्दितकुलमन्धितखलकंसमतिं त्वामिह दामोदर हलधरसोदर हर नो दरमनुबद्धरतिम् ॥ ५॥ विरचय मयि दण्डं दीनबन्धो दयां वा गतिरिह न भवत्तः काचिदन्या ममास्ति । निपततु शतकोटिर्निर्भरं वा नवाम्भ- स्तदपि किल पयोदः स्तूयते चातकेन ॥ १॥ प्राचीनानां भजनमतुलं दुष्करं श‍ृण्वतो मे नैराश्येन ज्वलति हृदयं भक्तिलेशालसस्य । विश्वद्रीचीमघहर तवाकर्ण्य कारुण्यवीचीं आशाबिन्दूक्षितमिदमुपैत्यन्तरे हन्त शैत्यम् ॥ २॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां त्रिभङ्गीपञ्चकं सम्पूर्णम् ।

Shri Mukundamuktavali ॥ श्रीमुकुन्दमुक्तावली ॥

श्रीव्रजनागराय नमः । नवजलधवर्णं चम्पकोद्भासिकर्णं विकसितनलिनास्यं विस्फुरन्मन्दहास्यम् । कनकरुचिदुकूलं चारुबर्हावचूलं कमपि निखिलसारं नौमि गोपकुमारम् ॥ १॥ मुखजितशरदिन्दुः केल्लावण्यसिन्धुः करविन्हितकन्दुर्वल्लवीप्राणबन्धुः । वपुरुपसृतरेणुः कक्षनिक्षिप्तवेणु- र्वचनवशगधेनुः पातु मां नन्दसूनुः ॥ २॥ ॥ मालिनी ॥ ध्वस्तदुष्टशङ्खचूड वल्लवीकुलोपगूढ भक्तमानसाधिरूढ नीलकण्ठपिञ्छचूड । कण्ठलम्बिमञ्जुगुञ्ज केलिलब्धरम्यकुञ्ज कर्णवर्तिफुल्लकुन्द पाहि देव मां मुकुन्द ॥ ३॥ यज्ञभङ्गरौष्टशत्रुनुन्नघोरमेघचक्र वृष्टिपुरखिन्नगोपवीक्षणोपजातकोप । क्षिप्रसव्यहस्तपद्मधारितोच्चशैलसद्म गुप्तगोष्ठ रक्ष रक्ष मां तथाद्य पङ्कजाक्ष ॥ ४॥ ॥ चित्रा ॥ मुक्ताहारं दधदुडुचक्राकारं सारं गोपीमनसि मनोजारोपी । कोपी कंसे खलनिकुरम्बोत्तंसे वंशे रङ्गी दिशतु नः शार्ङ्गी ॥ ५॥ लीलोद्दामा जलधरमालाश्यामा क्षामाः कामादभिरचयन्ती रामाः । सा मामव्यादखिलमुनीनां स्तव्या गव्यापूर्तिः प्रभुरघशत्रोर्मूर्तिः ॥ ६॥ ॥ जलधरमाला ॥ पर्ववर्तुलशर्वरीपतिगर्वरीतिहराननं नन्दनन्दनमिन्दिराकृतवन्दनं धृतचन्दनम् । सुन्दरीरतिमन्दिरीकृतकन्दरं धृतमन्दरं कुण्डलद्युतिमण्डलप्लुतकन्धरं भज सुन्दरम् ॥ ७॥ गोकुलाङ्गनमण्डनं कृतपूतनाभवमोचनं कुन्दसुन्दरदन्तमम्बुजवृन्दवन्दितलोचनम् । सौरभाकरफुल्लपुष्करविस्फुरत्करपल्लवं दैवतव्रजदुर्लभं भज वल्लवीकुलवल्लभम् ॥ ८॥ ॥ रङ्गिनी ॥ तुण्डकान्तिदण्डितोरुपाण्डुरांशुमण्डलं गण्डपालिताण्डबालिशालिरत्नकुण्डलम् । फुल्लपुण्डरीकषण्डकॢप्तमाल्यमण्डनं चण्डबाहुदण्डमत्र नौमि कंसखण्डनम् ॥ ९॥ उत्तरङ्गदङ्गरागसङ्गमातिपिङ्गल- स्तुङ्गश‍ृङ्गसङ्गिपाणिरङ्गनातिमङ्गलः । दिग्विलासिमल्लिहासि कीर्तिवल्लिपल्लव- स्त्वां स पातु फुल्लचारुचिल्लिरद्य वल्लवः ॥ १०॥ ॥ तूणकम् ॥ इन्द्रनिवारं व्रजपतिवारं निर्धुतवारं हृतघनवारम् । रक्षितगोत्रं प्रीणितगोत्रं त्वां धृतगोत्रं नौमि सगोत्रम् ॥ ११॥ कंसमहीपतिहृद्गतशूलं सन्ततसेवितयामुनकूलम् । वन्दे सुन्दरचन्द्रकचूलं त्वामहमखिलचराचरमूलम् ॥ १२॥ मलयजरुचिरस्तनुजितमुदिरः पालितविधुस्तोषितवसुधः । मामतिरसिकः केलिभिरधिकः सितसुभगरदः कृपयतु वरदः ॥ १३॥ उररीकृतमुररीरुतभङ्गं नवजलधरकिरणोल्लसदङ्गम् । युवतिहृदयधृतमदनतरङ्गं प्रणमत यामुनतटकृतरङ्गम् ॥ १४॥ ॥ पज्झटिका ॥ नवाम्भोदनीलं जगत्तोषशीलं मुखासङ्गिवंशं शिखण्डावतंसम् । करालम्बिवेत्रं वराम्भोजनेत्रं धृतस्फीतगुञ्जं भजे लब्धकुञ्जम् ॥ १५॥ हृतक्षौणिभारं कृतक्लेशहारं जगद्गीतसारं महारत्नहारम् । मृदुश्यामकेशं लसद्वाम्यवेशं कृपाभिर्नदेशं भजे वल्लवेशम् ॥ १६॥ ॥ भुजङ्गप्रयातम् ॥ उल्लसद्वल्लवीवाससां तस्कर- स्तेजसा निर्जितप्रस्फुरद्भास्करः । पीनदोःस्तम्भयोरुल्लसच्चन्दनः पातु वः सर्वतो देवकीनन्दनः ॥ १७॥ संसृतेस्तारकं तं गवां चारकं वेणुना मण्डितं क्रीडने पण्डितम् । धातृभिर्वेषिणं दनवद्वेषिणं चिन्तय स्वामिनं वल्लवीकामिनम् ॥ १८॥ ॥ स्रग्विणी ॥ उपात्तकवलं परागशबलं सदेकशरणं सरोजचरणम् । अरिष्टदलनं विकृष्टललनं नमामि समहं सदैव तमहम् ॥ १९॥ विहारसदनं मनोज्ञरदनं प्रणीतमदनं शशङ्कवदनम् । उरःस्थकमलं यशोभिरमलं करात्तकमलं भजस्व तमलम् ॥ २०॥ ॥ जलोद्धतगतिः ॥ दुष्टध्वंसः कर्णिकारावतंसः खेलद्वंशी पञ्चमध्वानशंसी । गोपीचेतःकेलिभङ्गिनिकेतः पातु स्वैरी हन्त वः कंसवैरी ॥ २१॥ वृन्दाटव्यां केलिमानन्दनव्यां कुर्वन्नारीचित्तकन्दर्पधारी । नर्मोद्गारी मां दुकूलापहारी नीपारूढः पातु बर्हावचूडः ॥ २२॥ ॥ शालिनी ॥ रुचिरनखे रचय सखे वलितरतिं भजनततिम् । त्वमविरतिस्त्वरितगति- र्नतशरणे हरिचरणे ॥ २३॥ रुचिरपटः पुलिननटः पशुपगतिर्गुणवसतिः । स मम शुचिर्जलदरुचि- र्मनसि परिस्फुरतु हरिः ॥ २४॥ ॥ त्वरितगतिः ॥ केलिविहितयमुलार्जुनभञ्जन सुललितचरितनिखिलजनरञ्जन । लोचननर्तनजितचलखञ्जन मां परिपालय कालियगञ्जन ॥ २५॥ भुवनविसृत्वरमहिमाडम्बर विरचितनिखिलखलोत्करसंवर । वितर यशोदातनय वरं वरं अभिलषितं मे धृतपीताम्बर ॥ २६॥ चिकुरकरम्बित चारुशिखण्डं भालविनिर्जितवरशशिखण्डम् । रदरुचिर्निर्धूतमुद्रितकुन्दं कुरुत बुधा हृदि सपदि मुकुन्दम् ॥ २७॥ यः परिरक्षितसुरभीलक्ष- स्तदपि च सुरभीमर्दनदक्षः । मुरलीवादनखुरलीशाली स दिशतु कुशलं तव वनमाली ॥ २८॥ ॥ पज्झटिका ॥ रमितनिखिलडिम्बे वेणुपीतोष्ठबिम्बे हतखलनिकुरम्बे वल्लवीदत्तचुम्बे । भवतु महितनन्दे तत्र वः केलिकन्दे जगदविरलतुन्दे भक्तिरुर्वी मुकुन्दे ॥ २९॥ पशुपयुवतीगोष्ठीचुम्बितश्रीमदोष्ठी स्मरतरलितदृष्टिनिर्मितानन्दवृष्टिः । नवजलधरधामा पातु वः कृष्णनामा भुवनमधुरवेशा मालिनी मुक्तिरेषा ॥ ३०॥ ॥ मालिनी ॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीमुकुन्दमुक्तावलिः समाप्ता ।

Anandachandrikastotram ॥ आनन्दचन्द्रिकास्तोत्रम् ॥

श्रीश्रीराधाकृष्णाभ्यां नमः । ध्यानः अङ्गश्यामलिमच्छटाभिरभितो मन्दीकृतेन्दीवरं जाड्यं जागुडरोचिषां विदधतं पट्टाम्बरस्य श्रिया । वृन्दारण्यविलासिनं हृदि लसद्दामाभिरामोदरं राधास्कन्धनिवेशितोज्ज्वलभुजं ध्यायेम दामोदरम् ॥ अथ श्रीराधिकाया आनन्दचन्द्रिकास्तोत्रं श्रीराधिकायै नमः । राधादामोदरप्रेष्ठा राधिका वार्षभानवी । समस्तवल्लवीवृन्दधम्मिल्लोत्तंसमल्लिका ॥ १॥ कृष्णप्रियावलीमुख्या गान्धर्वा ललितासखी । विशाखासख्यसुखिनी हरिहृद्भृङ्गमञ्जरी ॥ २॥ इमां वृन्दावनेश्वर्या दशनाममनोरमाम् । आनन्दचन्द्रिकां नाम यो रहस्यां स्तुतिं पठेत् ॥ ३॥ स क्लेशरहितो भूत्वा भूरिसौभाग्यभूषितः । त्वरितं करुणापात्रं राधामाधवयोर्भवेत् ॥ ४॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां आनन्दचन्द्रिकास्तोत्रं समाप्तम् ।

Shri Premasudhasatram ॥ श्रीप्रेमसुधासत्रम् ॥

श्रीवृन्दावनेश्वर्या अष्टोत्तरशतनामस्तोत्रं नमो वृन्दावनेश्वर्यै मानसं मानसं त्यागादुत्कण्ठार्तं निरुन्धतीम् । राधां संविद्य विद्याढ्या तुङ्गविद्येदमब्रवीत् ॥ १॥ विमुञ्च बन्धुरे मानं निर्बन्धं श‍ृणु मे वचः । पुरा कन्दर्पसुन्दर्यै यान्युत्कण्ठितचेतसे ॥ २॥ भगवतोपदिष्टानि तव सख्योपलब्धये । इङ्गिताभिज्ञया तानि सिन्दूरेणाद्य वृन्दया ॥ ३॥ विलिख्य सखि दत्तानि स जीवितसुहृत्तमः । विरहार्तस्तवेमानि जपन्नामानि शाम्यति ॥ ४॥ राधा कृष्णवनाधीशा मुकुन्दमधुमाधवी । गोविन्दप्रेयसीवृन्दमुख्या वृन्दावनेश्वरी ॥ ५॥ ब्रह्माण्डमण्डलोत्तंसकीरित्ः कार्तिकदेवता । दामोदरप्रियसखी राधिका वार्षभानवी ॥ ६॥ भानुभक्तिभराभिज्ञा वृषभानुकुमारिका । मुखराप्राणदौहित्री कीर्तिदाकीर्तिदायिनी ॥ ७॥ कृष्णप्रेमाब्धिकरी वत्सलाच्युतमातृका । सखीमण्डलजीवातुर्ललिताजीविताधिका ॥ ८॥ विशाखाप्राणसर्वस्वं कारुण्यामृतमेदुरा । पौर्णमासीपृथुप्रेमपात्री सुबलनन्दिता ॥ ९॥ कृष्णाधिराजमहिषी वृन्दारण्यविहारिणी । विशाखासख्यविख्याता ललिताप्रेमलालिता ॥ १०॥ सदा किशोरिका गोष्ठयुवराजविलासिनी । गोविन्दप्रेमशिक्षार्थनटीकृतनिजांशका ॥ ११॥ प्रबोधिनीनिशानृत्यमाहात्म्यभरदर्शिनी । चन्द्रकान्तिचरी सर्वगन्धर्वकुलपावनी ॥ १२॥ स्वजन्मभूषितोत्तुङ्गवृषभानुकुलस्थितिः । लास्यविद्याव्रतस्नाता रासक्रीडादिकारणम् ॥ १३॥ रासोत्सवयपुरगण्या कृष्णनीतरहःस्थला । गोविन्दबन्धकवरी कृष्णोत्तंसितकुन्तला ॥ १४॥ व्यक्तगोष्ठारविन्दाक्षि वृन्दोत्कर्षातिहर्षिणी । अन्नतर्पितदुर्वासा गान्धर्वा श्रुतिविश्रुता ॥ १५॥ गान्धर्विका स्वगान्धर्वविस्मापितबलाच्युता । शङ्खचूडारिदयिता गोपीचूडाग्रमालिका ॥ १६॥ चारुगोरोचनागौरी गारुत्मतनिभाम्बरा । विचित्रपट्टचमरीचारुवेणीशिखारुचिः ॥ १७॥ पद्मेन्दुजैत्रवक्त्रश्रीनिरुद्धमुरमर्दना । चकोरिकाचमत्कारीहरिहारिविलोचना ॥ १८॥ कालियदमनोत्कम्पिभङ्गुरभ्रूभुजङ्गमा । नासिकाशिखरालम्बिलवलीस्थलमौक्तिका ॥ १९॥ बन्धुराधरबन्धूकविकृष्टमधुसूदना । दन्तनिर्धूतशिखरा शिखरीन्द्रधरप्रिया ॥ २०॥ कपोलमण्डलान्दोलिमणिकुण्डलमण्डिता । पीतांशुकशुकाकर्षिनिस्तलस्तनदाडिमा ॥ २१॥ मणिकिङ्किण्यलङ्कारझङ्कारिश्रोणिमण्डला । स्थलारविन्दविञ्छोलीनिर्मञ्छितपदद्युतिः ॥ २२॥ अरिष्टवधनर्मार्थनिर्मापितसरोवरा । गन्धोन्मादितगोविन्दो माधवद्वन्द्वताङ्किता ॥ २३॥ कालिन्दीकूलकुञ्जश्रीर्भाण्डीरतटमण्डना । धृतनन्दीश्वरस्थेमा गोवर्धनदरीप्रिया ॥ २४॥ वंशीबडिशिकाबिद्धरसोत्तर्षमनोझषा । वंशिकाध्वनिविश्रंसिनीवीबन्धग्रहातुरा ॥ २५॥ मुकुन्दनेत्रशफरी विहारामृतदीर्घिका । निजकुण्डकुडुङ्गान्तस्तुङ्गानङ्गरसोन्मदा ॥ २६॥ कृष्णभ्रूचण्डकोदण्डोड्डीनधैर्यविहङ्गमा । अनुरागसुधासिन्धुहिन्दोलान्दोलिताच्युता ॥ २७॥ व्रजेन्द्रनन्दनास्येन्दुतुङ्गितानङ्गसागरा । अनङ्गसङ्गरोत्तृष्णकृष्णलुञ्चितकञ्चुका ॥ २८॥ लीलापद्महतोद्दामनर्मलम्पटकेशवा । हरिवक्षोहरिग्रावहरितालीयरेखिका ॥ २९॥ माधवोत्सङ्गपर्यङ्का कृष्णबाहूपधानिका । रतिकेलिविशेषोहसखीस्मितविलज्जिता ॥ ३०॥ आलीपुरोरहःकेलिजल्पोत्कहरिवन्दिनी । वैजयन्ती कलाभिज्ञा वनस्रक्शिल्पकल्पिनी ॥ ३१॥ धातुचित्रातिवैचित्रीविसृष्टिपरमेष्ठिनी । विअदग्धीप्रथमाचार्या चारुचातुर्यचित्रिता ॥ ३२॥ असाधारणसौभाग्यभाग्यामृततरङ्गिनी । मौग्ध्यप्रगल्भतारम्या धीराधीराङ्कभूषिता ॥ ३३॥ श्यामलप्रच्छदपटी मूकनूपुरधारिणी । निकुञ्जधामसंस्कारमाधवाध्वेक्षणक्रिया ॥ ३४॥ प्रादुर्भूतघनोत्कण्ठा विप्रलम्भविषण्णधीः । प्रातरुत्प्रासितोपेन्द्रा चन्द्रावलिकटाक्षिणी ॥ ३५॥ अनाकर्णितकंसारिकाकूवादा मनस्विनी । चाटुकारहरित्यागजातानुशयकातरा ॥ ३६॥ धृतकृष्णेक्षणोत्सुक्या ललिताभीतिमानिनी । विप्रयोगव्यथाहारिहरिसन्देशनन्दिता ॥ ३७॥ मदाल्पजल्पिताधीनपुण्डरीकाक्षमण्डिता । भ्रूलीलामोहितोपेन्द्रहस्ताग्रहृतवंशिका ॥ ३८॥ अतुलाच्युतमाधुर्यस्वादनाद्वैतभाग्यभूः । नियुद्धश्रान्तिनिद्राण हरिहारापहारिणी ॥ ३९॥ द्यूतनिर्जितवंशार्थिकंसारिपरिहासिनी । निजप्राणार्बुदप्रेष्ठकृष्णपादनखाञ्चला ॥ ४०॥ इति राधा सखीवाचमाचम्य पुलकाञ्चिता । छद्मना पद्मनाभस्य लतासद्मान्तिकं गता ॥ ४१॥ यः सेवते जनो राधानाम्नामष्टोत्तरं शतम् । नाम्ना प्रेमसुधासत्रं लिह्यात् प्रेमसुधामसौ ॥ ४२॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां प्रेमेन्दुसुधासत्रनामकश्रीराधिकाष्टोत्तरशतनाम समाप्तम् ।

Shri Radhashtakam ॥ श्रीराधाष्टकम् ॥

श्रीश्रीवृन्दावनेश्वर्यै नमः । दिशि दिशि रचयन्ती सञ्चरन्नेत्रलक्ष्मी विलसितखुरलीभिः खञ्जरीटस्य खेलाम् । हृदयमधुपमल्लीं वल्लवाधीशसूनो- रखिलगुणगभीरां राधिकामर्चयामि ॥ १॥ पितुरिह वृषभानोरन्ववायप्रशस्तिं जगति किल समस्ते सुष्ठु विस्तारयन्तीम् । व्रजपतिकुमारं खेलयन्तीं सखीभिः सुरभिणि निजकुण्डे राधिकामर्चयामि ॥ २॥ शरदुपचितराकाकौमुदीनाथकीर्ति प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् । नटदघभिदपाङ्गोत्तुङ्गितानङ्गरङ्गां कलितरुचितरङ्गां राधिकामर्चयामि ॥ ३॥ विविधकुसुमवृन्दोत्फुल्लधम्मिल्लधाटी विघटितमदघूर्णत्केकिपिच्छप्रशस्तिम् । मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग स्फुरदमलकपोलां राधिकामर्चयामि ॥ ४॥ अमलिनललितान्तःस्नेहसिक्तान्तराङ्गां अखिलविधविशाखासख्यविख्यातशीलाम् । स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं धृतमधुरविनोदां राधिकामर्चयामि ॥ ५॥ अतुलमहसि वृन्दारण्यराज्येऽभिषिक्तां निखिलसमयभर्तुः कार्तिकस्याधिदेवीम् । अपरिमितमुकुन्दप्रेयसीवृन्दमुख्यां जगदघहरकीर्तिं राधिकामर्चयामि ॥ ६॥ हरिपदनखकोटीपृष्ठपर्यन्तसीमा तटमपि कलयन्तीं प्राणकोटेरभीष्टाम् । प्रमुदितमदिराक्षीवृन्दवैदग्ध्यदीक्षा गुरुमतिगुरुकीर्तिं राधिकामर्चयामि ॥ ७॥ अमलकनकपट्टोद्घृष्टकाश्मीरगौरीं मधुरिमलहरीभिः सम्परीतां किशोरीम् । हरिभुजपरिरब्धां लब्धरोमाञ्चपालिं स्फुरदरुणदुकूलां राधिकामर्चयामि ॥ ८॥ तदमलमधुरिम्णां काममाधाररूपं परिपठति वरिष्ठं सुष्ठु राधाष्टकं यः । अहिमकिरणपुत्रीकूलकल्याणचन्द्रः स्फुटमखिलमभीष्टं तस्य तुष्टस्तनोति ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीराधाष्टकं सम्पूर्णम् ।

Prarthanapaddhatih ॥ प्रार्थनापद्धतिः ॥

श्रीराधिकायै नमः । शुद्धगाङ्गेयगौराङ्गीं कुरङ्गीलङ्गिमेक्षणाम् । जितकोटीन्दुबिम्बास्यामम्बुदाम्बरसंवृताम् ॥ १॥ नवीनवल्लवीवृन्दधम्मिल्लोत्फुल्लमल्लिकाम् । दिव्यरत्नाद्यलङ्कारसेव्यमानतनुश्रियम् ॥ २॥ विदग्धमण्डलगुरुं गणगौरवमण्डिताम् । अतिप्रेष्ठवयस्याभिरष्टाभिरभिवेष्टिताम् ॥ ३॥ चञ्चलापाङ्गभङ्गेन व्याकुलीकृतकेशवाम् । गोष्ठेन्द्रसुतजीवातुरम्यबिम्बाधरामृताम् ॥ ४॥ त्वामसौ याचते नत्वा विलुठन् यमुनातटे । काकुभिर्व्याकुलस्वान्तो जनो वृन्दावनेश्वरि ॥ ५॥ कृतागस्केऽप्ययोग्येऽपि जनेऽस्मिन् कुमतावपि । दास्यदानप्रदानस्य लवमप्युपपादय ॥ ६॥ युक्तस्त्वया जनो नैव दुःखितोऽयमुपेक्षितुम् । कृपाद्द्योतद्रवच्चित्तनवनीतासि यत् सदा ॥ ७॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां प्रार्थनापद्धतिः समाप्ता ।

Chatupushpanjalih ॥ चाटुपुष्पाञ्जलिः ॥

श्रीराधिकायै नमः । नवगोरोचनागौरी प्रवरेन्द्रीवराम्बराम् । मणिस्तवकविद्योतिवेणीव्यालाङ्गणाफणाम् ॥ १॥ उपमानघटमानप्रहारिमुखमण्डलाम् । नवेन्दुनिन्दिभालोद्यत्कस्तुरीतिलकश्रियम् ॥ २॥ भ्रूजितानङ्गकोदण्डां लोलनीलालकावलिम् । कज्जलोज्ज्वलताराजच्चकोरीचारुलोचनाम् ॥ ३॥ तिलपुष्पाभनासाग्रविराजद्वरमौलिकाम् । अधरोद्भूतबन्धूकां कुन्दालीबन्धुरद्विजाम् ॥ ४॥ सरत्नस्वर्णराजीवकर्णिकाकृतकर्णिकाम् । कस्तूरीबिन्दुचिबुकां रत्नग्रैवेयकोज्ज्वलाम् ॥ ५॥ दिव्याङ्गदपरिष्वङ्गलसद्भुजमृणालिकाम् । बलारिरत्नवलयकलालम्बिकलाविकाम् ॥ ६॥ रत्नाङ्गुरीयकोल्लासिवराङ्गुलिकराम्बुजाम् । मनोहरमहाहारविहारिकुचकुट्मलाम् ॥ ७॥ रोमालिभुजगीमूर्धरत्नाभतरलाञ्चिताम् । वलित्रयीलताबद्धक्षीणभङ्गुरमध्यमाम् ॥ ८॥ मणिसारसनाधारविस्फारश्रोणिरोधसम् । हेमरम्भामदारम्भस्तम्भनोरुयुगाकृतिम् ॥ ९॥ जानुद्युतिजितक्षुल्लपीतरत्नसमुद्रकाम् । शरन्नीरजनीराज्यमञ्जीरविरणत्पदाम् ॥ १०॥ राकेन्दुकोटिसौन्दर्यजैत्रपादनखद्युतिम् । अष्टाभिः सात्त्विकैर्भावैराकुलीकृतविग्रहाम् ॥ ११॥ मुकुन्दाङ्गकृपापाङ्गामनङ्गोर्मितरङ्गिताम् । त्वामारब्धश्रियानन्दां वन्दे वृन्दावनेश्वरि ॥ १२॥ अयि प्रोद्यन्महाभावमाधुरीविह्वलान्तरे । अशेषनायिकावस्थाप्राकट्याद्भुतचेष्टिते ॥ १३॥ सर्वमाधुर्यविञ्जोलीनिर्माञ्छितपदाम्बुजे । इन्दिरामृग्यसौन्दर्यस्फुरदङ्घ्रिनखाञ्चले ॥ १४॥ गोकुलेन्दुमुखीवृन्दसीमन्तोत्तंसमञ्जरि । ललितादिसखीयूथजीवातुस्मितकोरके ॥ १५॥ चटुलापाङ्गमाधुर्यबिन्दून्मादितमाधवे । तातपादयशःस्तोमकैरवानन्दचन्द्रिके ॥ १६॥ अपारकरुणापूरपूरितान्तर्मनोह्रदे । प्रसीदास्मिन् जने देवि निजदास्यस्पृहाजुषि ॥ १७॥ कच्चित् त्वं चाटुपटुना तेन गोष्ठेन्द्रसूनुना । प्रार्थ्यमानचपालाङ्गप्रसादा द्रक्ष्यसे मया ॥ १८॥ त्वां साधु माधवीपुष्पैर्माधवेन कलाविदा । प्रसाध्यमानां स्विद्यन्तीं बीजयिष्याम्यहं कदा ॥ १९॥ केलिविस्रंसिनो बककेशवृन्दस्य सुन्दरि । संस्काराय कदा देवि जनमेतं निदेक्ष्यसि ॥ २०॥ कदा बिम्बोष्ठि ताम्बूलं मया तव मुखाम्बुजे । अर्प्यमाणं व्रजाधीशसूनुराच्छिद्य भोक्ष्यते ॥ २१॥ व्रजराजकुमारवल्लभाकुलसीमन्तमणि प्रसीद मे । परिवारगणस्य ते यथा पदवी मे न दवीयसी भवेत् ॥ २२॥ करुणां मुहुरर्थये परं तव वृन्दावनचक्रवर्तिनि । अपि केशरिपोर्यथा भवेत् स चटुप्रार्थनभाजनं जनः ॥ २३॥ इमं वृन्दावनेश्वर्या जनो यः पठति स्तवम् । चाटुपुष्पाञ्जलिं नाम स स्यादस्याः कृपास्पदम् ॥ २४॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीचाटुपुष्पाञ्जलिः समाप्ता ।

Shri Gandharvasa.nprarthanashtakam ॥ श्रीगान्धर्वासंप्रार्थनाष्टकम् ॥

श्रीश्रीगान्धर्विकायै नमः । वृन्दावने विहरतोरिह किलेकुञ्जे मत्तद्विपप्रवरकौतुकविभ्रमेण । सन्दर्शयस्व युवयोर्वदनारविन्द द्वन्द्वं विधेहि मयि देवि कृपां प्रसीद ॥ १॥ हा देवि काकुभरगद्गदयाद्य वाचा याचे निपत्य भुवि दण्डवदुद्भटार्तिः । अस्य प्रसादमबुधस्य जनस्य कृत्वा गान्धर्विके निजगणे गणनां विधेहि ॥ २॥ श्यामे रमारमणसुन्दरतावरिष्ठ सौन्दर्यमोहितसमस्तजगज्जनस्य । श्यामस्य वामभुजबद्धतनुं कदाहं त्वामिन्दिराविरलरूपभरां भजामि ॥ ३॥ त्वां प्रच्छदेन मुदिरच्छविना पिधाय मञ्जीरमुक्तचरणां च विधाय देवि । कुञ्जे व्रजेन्द्रतनयेन विराजमाने नक्तं कदा प्रमुदितामभिसारयिष्ये ॥ ४॥ कुञ्जे प्रसूनकुलकल्पितकेलितल्पे संविष्टयोर्मधुरनर्मविलासभाजोः । लोकत्रयाभरणयोश्चरणाम्बुजानि संवाहयिष्यति कदा युवयोर्जनोऽयम् ॥ ५॥ त्वत्कुण्डरोधसि विलासपरिश्रमेण स्वेदाम्बुचुम्बिवदनाम्बुरुहश्रियो वाम् । वृन्दावनेश्वरि कदा तरुमूलभाजो संवीजयामि चमरीचयचामरेण ॥ ६॥ लीनां निकुञ्जकुहरे भवतीं मुकुन्दे चित्रैव सूचितवतीं रुचिराक्षि नाहम् । भुग्नां भ्रुवं न रचयेति मृषारुषां त्वां अग्रे व्रजेन्द्रतनयस्य कदा नु नेष्ये ॥ ७॥ वाग्युद्धकेलिकुतुके व्रजराजसूनुं जित्वोन्मदामधिकदर्पविकासिजल्पाम् । फुल्लाभिरालिभिरनल्पमुदीर्यमाण स्तोत्रां कदा नु भवतीमवलोकयिष्ये ॥ ८॥ यः कोऽपि सुष्ठु वृषभानुकुमारिकायाः संप्रार्थनाष्टकमिदं पठति प्रपन्नः । सा प्रेयसा सह समेत्य धृतप्रमोदा तत्र प्रसादलहरीमुररीकरोति ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीगान्धर्वासंप्रार्थनाष्टकं सम्पूर्णम् ।

Namayugalashtakam ॥ नामयुगलाष्टकम् ॥

अथ श्रीराधामाधवयोर्नामयुगलाष्टकं श्रीश्रीराधाकृष्णाभ्यां नमः । राधामाधवयोरेतद् वक्ष्ये नामयुगाष्ट्कम् । राधादामोदरौ पूर्वं राधिकामाधवौ ततः ॥ १॥ वृषभानुकुमारी च तथा गोपेन्द्रनन्दनः । गोविन्दस्य प्रियसखी गान्धर्वाबान्धवस्तथा ॥ २॥ निकुञ्जनागरौ गोष्ठकिशोरजनशेखरौ । वृन्दावनाधिपौ कृष्णवल्लभाराधिकाप्रियौ ॥ ३॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीराधामाधवयोर्नामयुगाष्टकं सम्पूर्णम् ।

Shri Vrajanavinayuvadvandvashtakam ॥ श्रीव्रजनवीनयुवद्वन्द्वाष्टकम् ॥

श्रीराधाकृष्णौ जयतः । अदुर्विधविदग्धतास्पदविमुग्धवेशश्रियो- रमन्दशिखिकन्धराकनकनिन्दिवासस्त्विषोः । स्फुरत्पुरटकेतकीकुसुमविभ्रमाभ्रप्रभा निभाङ्गमहसोर्भजे व्रजनवीनयूनोर्युगम् ॥ १॥ समृद्धविधुमाधुरीविधुरताविधानोद्धुरै- र्नवाम्बुरुहरम्यतामदविडम्बनारम्भिभिः । विलिम्पदिव कर्णकावलिसहोदरैर्दिक्तटी मुखद्युतिभरैर्भजे व्रजनवीनयूनोर्युगम् ॥ २॥ विलासकलहोद्धतिस्खलदमन्दसिन्दूरभा- गखर्वमदनाङ्कुशप्रकरविब्र्हमैरङ्कितम् । मदोद्धुरमिवोभयोर्मिथुनमुल्लसद्वल्लरी गृहोत्सवरतं भजे व्रजनवीनयूनोर्युगम् ॥ ३॥ घनप्रणयनिर्झरप्रसरलब्धपूर्तेर्मनो ह्रदस्य परिवाहितामनुसरद्भिरस्रैः प्लुतम् । स्फुरत्तनुरुहाङ्कुरैर्नवकदम्बजृम्भश्रियं व्रजत्तदनिशं भजे व्रजनवीनयूनोर्युगम् ॥ ४॥ अनङ्गरणविभ्रमे किमपि विभ्रदाचार्यकं मिथश्चलदृगञ्चलद्युतिशलाकया कीलितम् । जगत्यतुलधर्मभिर्मधुरनर्मभिस्तन्वतो- र्मिथो विजयितां भजे व्रजनवीनयूनोर्युगम् ॥ ५॥ अदृष्टचरचातुरीचलचरित्रचित्रायितैः सह प्रणयिभिर्जनैर्विहरमानयोः कानने । परस्परमनोमृगं श्रवणचारुणा चर्चरी चयेन रजयद् भजे व्रजनवीनयूनोर्युगम् ॥ ६॥ मरन्दभरमन्दिरप्रतिनवारविन्दावलि सुगन्धिनि विहारयोर्जलविहारविस्फूर्जितैः । तपे सरसि वल्लभे सलिलवाद्यविद्याविधौ विदग्धभुजयोर्भजे व्रजनवीनयूनोर्युगम् ॥ ७॥ मृषाविजयकाशिभिः प्रथितच्तुरीराशीभि- र्ग्लहस्य हरणं हठात् प्रकटयद्भिरुच्चैर्गिरा । तदक्षकलिदक्षयोः कलितपक्षयोः साक्षिभिः कुलैः स्वसुहृदां भजे व्रजनवीनयूनोर्युगम् ॥ ८॥ इदं वलिततुष्टयः परिपठन्ति पद्याष्टकं द्वयोर्गुणविकाशि ये व्रजनवीनयूनोर्जनाः । मुहुर्नवनवोदयां प्रणयमाधुरीमेतयो- रवाप्य निवसन्ति ते पदसरोजयुग्मान्तिके ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीव्रजनवीनयुवद्वन्द्वाष्टकं सम्पूर्णम् ।

Karpanyapanjikastotram ॥ कार्पण्यपञ्जिकास्तोत्रम् ॥

ध्यानः । कोणेनाक्ष्णोः पृथुरुचिः मिथो हारिणा लिह्यमाना- वेकैकेन प्रचुरपुलकेनोपगुढौ भुजेन । गौरीश्यामौ वसनयुगलं श्यामगौरं वसानौ राधाकृष्णौ स्मरविलसितोद्दामतृष्णौ स्मरामि ॥ १॥ अथ श्रीकार्पण्यपञ्जिकास्तोत्रं श्रीवृन्दावनेशौ जयतः तिष्ठन् वृन्दाटवीकुञ्जे विज्ञप्तिं विदधत्यसौ । वृन्दाटवीशयोः पादपद्मेषु कृपनो जनः ॥ १॥ नवेन्दीवरसन्दोहसौन्दर्यास्कन्दनप्रभम् । चारुगोरोचनागर्वगौरवग्रासिगौरभाम् ॥ २॥ शातकुम्भकदम्बश्रीविडम्बिस्फुरदम्बरम् । हरता किंशुकस्यांशून् अंशुकेन विराजिताम् ॥ ३॥ सर्वकैशोरवद्वृन्दचूडारूढहरिण्मणिम् । गोष्ठाशेषकिशोरीणां धम्मिल्लोत्तंसमल्लिकाम् ॥ ४॥ श्रीशमुख्यात्मरूपणां रूपातिशयिविग्रहम् । रमोज्ज्वलव्रजवधूव्रजविस्मापिसौष्ठवाम् ॥ ५॥ सौरभ्यहृतगान्धर्वं गन्धोन्मादितमाधवाम् । राधारोधनवंशीकं महतीमोहिताच्युताम् ॥ ६॥ राधाधृतिधनस्तेनलोचनाञ्चलचापलम् । दृगञ्चलकलाभृङ्गीदष्टकृष्णहृदम्बुजाम् ॥ ७॥ राधागूढपरीहासप्रौढिनिर्वचनीकृतम् । व्रजेन्द्रसुतनर्मोक्तिरोमाञ्चिततनूलताम् ॥ ८॥ दिव्यसद्गुणमाणिक्यश्रेणीरोहणपर्वतम् । उमादिरमणीव्यूहस्पृहणीयगुणोत्कराम् ॥ ९॥ त्वां च वृन्दावनाधीश त्वां च वृन्दावनेश्वरि । काकुभिर्वन्दमानोऽयं मन्दं प्राऋथयते जनः ॥ १०॥ ॥ दशभिः कुलकम् ॥ योग्यता मे न काचिद् वां कृपालाभाय यद्यपि । महाकृपालुमौलित्वात् तथापि कुरुतं कृपाम् ॥ ११॥ अयोग्ये सापराधेऽपि दृश्यन्ते कृपयाकुलाः । महाकृपालवो हन्त लोके लोकेशवन्दितौ ॥ १२॥ भक्तेर्वां करुणाहेतोर्लेशाभासोऽपि नास्ति मे । महालीलेशरतया तदप्यत्र प्रसीदतम् ॥ १३॥ जने दुष्टेऽप्यभक्तेऽपि प्रसीदन्तो विलोकिताः । महालीलामहेशाश्च हा नाथौ बहवो भुवि ॥ १४॥ अधमोऽप्युत्तमं मत्वा स्वमज्ञेऽपि मनीषिणम् । शिष्टं दुष्टोऽप्ययं जन्तुर्मन्तुं व्यधित यद्यपि ॥ १५॥ तथाप्यस्मिन् कदाचिद् वामधीशौ नामजल्पिनि । अवद्यवृन्दनिस्तारिनामाभासौ प्रसीदतम् ॥ १६॥ यदक्षम्यं नु युवयोः सकृद्भक्तिलवादपि । तदागः क्वापि नास्त्येव कृताशां प्रार्थये ततः ॥ १७॥ हन्त क्लीबोऽपि जीवोऽयं नीतः कष्टेन धृष्टताम् । मुहुः प्रार्थयते नाथौ प्रसादः कोऽप्युदञ्चतु ॥ १८॥ एष पापी रुदन्न् उच्चैरादाय रदनैस्तृणम् । हा नाथौ नाथेति प्राणी सीदत्यत्र प्रसीदतम् ॥ १९॥ हाहारावमसौ कुर्वन् दुर्भगो भिक्षते जनः । एतां मे श‍ृणुतं काकुं काकुं श‍ृणुतमीश्वरौ ॥ २०॥ याचे फुत्कृत्य फुत्कृत्य हा हा काकुभिराकुलः । प्रसीदतमयोग्येऽपि जनेऽस्मिन् करुणार्णवौ ॥ २१॥ क्रोशत्यार्तस्वरैरास्ये न्यस्याङ्गुष्ठमसौ जनः । कुरुतं कुरुतं नाथौ करुणाकणिकामपि ॥ २२॥ वाचेह दीनया याचे साक्रन्दमतिमन्दधीः । किरतं करुणस्वान्तौ करुणोर्मिच्छटामपि ॥ २३॥ मधुराः सन्ति यावन्तो भावाः सर्वत्र चेतसः । तेभ्योऽपि प्रेममधुरं प्रसादीकुरुतं निजम् ॥ २४॥ सेवामेवाद्य वां देवावीहे किञ्चन नापरम् । प्रसादाभिमुखौ हन्त भवन्तौ भवतां मयि ॥ २५॥ नाथितं परमेवेदमनाथजनवत्सलौ । स्वं साक्षाद्दास्यमेवास्मिन् प्रसादीकुरुतं जने ॥ २६॥ अञ्जलिं मूर्ध्नि विन्यस्य दीनोऽयं भिक्षते जनः । अस्य सिद्धिरभीष्टस्य सकृदप्युपपाद्यताम् ॥ २७॥ अमलो वां पारिमलः कदा परिमलन् वने । अनर्घेण प्रमोदेन घ्राणं मे घूर्णयिष्यति ॥ २८॥ रञ्जयिस्यति कर्णौ मे हंसगुञ्जितगञ्जनम् । मञ्जुलं किं नु युवयोर्मञ्जीरकलसिञ्जितम् ॥ २९॥ सौभाग्याङ्करथाङ्गादिलक्षितानि पदानि वाम् । कदा वृन्दावने पश्यन्न् उन्मदिष्यत्ययं जनः ॥ ३०॥ सर्वसौन्दर्यमर्यादानीराज्यपदनीरजौ । किमपूर्वाणि पर्वाणि हा ममाक्ष्णोर्विधास्यथ ॥ ३१॥ सुचिराशाफलाभोगपदाम्भोजविलोकनौ । युवां साक्षाज्जनस्यास्य भवेतामिह किं भवे ॥ ३२॥ कदा वृन्दाटवीकुञ्जकन्दरे सुन्दरोदयौ । खेलन्तौ वां विलोकिष्ये सुरतौ नातिदूरतः ॥ ३३॥ गुर्वायत्ततया क्वापि दुर्लभान्योन्यवीक्षणौ । मिथः सन्देशसीधुभ्यां नन्दयिस्यामि वां कदा ॥ ३४॥ गवेषयन्तावन्योऽन्यं कदा वृन्दावनान्तरे । सङ्गमय्य युवां लप्स्ये हारिणं पारितोषिकम् ॥ ३५॥ पणीकृतमिथोहारलुञ्चनव्यग्रहस्तयोः । कलिं द्यूते विलोकिष्ये कदा वां जितकाशिनोः ॥ ३६॥ कुञ्जे कुसुमशय्यायां कदा वामर्पिताङ्गयोः । पादसंवाहनं हन्त जनोऽयं रचयिष्यति ॥ ३७॥ कन्दर्पकलहोद्घट्टत्रुटितानां लतागृहे । कदा गुम्फाय हाराणां भवन्तौ मां नियोक्ष्यतः ॥ ३८॥ केलिकल्लोलविस्रस्तान् हन्त वृन्दावनेश्वरौ । कर्हि बर्हिपतत्रैर्वां मण्डयिष्यामि कुन्तलान् ॥ ३९॥ कन्दर्पकेलिपाण्डित्यखण्डिताकल्पयोरहम् । कदा वामलिकद्वन्द्वं करिष्ये तिलकोज्ज्वलम् ॥ ४०॥ देवारम्भे वनस्रग्भिर्दृशौ ते देवि कज्जलैः । अयं जनः कदा कुञ्जमण्डपे मण्डयिष्यति ॥ ४१॥ जाम्बूनदाभताम्बूलीपर्णान्यवदलय्य वाम् । वदनाम्बुजयोरेष निधास्यति जनः कदा ॥ ४२॥ क्वासौ दुष्कृतकर्माहं क्व वामभ्यर्थनेदृशी । किं वा कं वा न युवयोरुन्मादयति माधुरी ॥ ४३॥ यया वृन्दावने जन्तुरनर्होऽप्येष वास्यते । तयैव कृपया नाथौ सिद्धिं कुरुतमीप्सितम् ॥ ४४॥ कार्पण्यपञ्जिकामेतां सदा वृन्दाटवीनटौ । गिरैव जल्पतोऽप्यस्य जन्तोः सिध्यतु वाञ्छितम् ॥ ४५॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकार्पण्यपञ्जिकास्तोत्रं समाप्तम् ।

Utkalikavallarih ॥ उत्कलिकावल्लरीः ॥

श्रीवृन्दारण्यविहारिणे नमः । प्रपद्य वृन्दावनमध्यमेकः क्रोशन्नसावुत्कलिकाकुलात्मा । उद्घाटयामि ज्वलतः कठोरां बाष्पस्य मुद्रां हृदि मुद्रितस्य ॥ १॥ अये वृन्दारण्य त्वरितमिह ते सेवनपराः परामापुः के वा न किल परमानन्दपदवीम् । अतो नीचैर्याचे स्वयमधिपयोरीक्षणविधे- र्वरेण्यां मे चेतस्युपदिश दिशं हा कुरु कृपाम् ॥ २॥ तवारण्ये देवि ध्रुवमिह मुरारिपोर्विहरते सदा प्रेयस्येति श्रुतिरपि विरौति स्मृतिरपि । इति ज्ञात्वा वृन्दे चरणमभिवन्दे तव कृपां कुरुष्व क्षिप्रं मे फलतु नितरां तर्षविटपी ॥ ३॥ हृदि चिरवसदाशामण्डलालम्बपादौ गुणवति तव नाथौ नाथितुं जन्तुरेषः । सपदि भवदनुज्ञां याचते देवि वृन्दे मयि किर करुणार्द्रां दृष्टिमत्र प्रसीद ॥ ४॥ दधतं वपुरंशुकन्दलीं दलदिन्दीवरवृन्दबन्धुराम् । कृतकाञ्चनकान्तिवञ्चनैः स्फुरितां चारुमरीचिसञ्चयैः ॥ ५॥ निचितं घनचञ्चलातते- रनुकूलेन दुकूलरोचिषा । मृगनाभिरुचः सनाभिना महितां मोहनपट्टवाससा ॥ ६॥ माधुरीं प्रकटयन्तमुज्ज्वलां श्रीपतेरपि वरिष्ठसौष्ठवाम् । इन्दिरामधुरगोष्ठसुन्दरी वृन्दविस्मयकरप्रभोन्नताम् ॥ ७॥ इतरजनदुर्घटोदयस्य स्थिरगुणरत्नचयस्य रोहणाद्रिम् । अखिलगुणवतीकदम्बचेतः प्रचुरचमत्कृतिकारिसद्गुणाढ्यम् ॥ ८॥ निस्तुलव्रजकिशोरमण्डली मौलिमण्डनहरिन्मणीश्वरम् । विश्वविस्फूरितगोकुलोल्लसन् नव्ययौवतवतंसमालिकाम् ॥ ९॥ स्वान्तसिन्धुमकरीकृतराधं हृन्निशाकरकुरङ्गितकृष्णाम् । प्रेयसीपरिमलोन्मदचित्तं प्रेष्ठसौरभहृतेन्द्रियवर्गाम् ॥ १०॥ प्रेममूर्तिवरकार्त्तिकदेवी कीर्तिगानमुखरीकृतवंशम् । विश्वनन्दनमुकुन्दसमज्ञा वृन्दकीर्तनरसज्ञरसज्ञाम् ॥ ११॥ नयनकमलमाधुरीनिरुद्ध व्रजनवयौवतमौलिहृन्मरालम् । व्रजपतिसुतचित्तमीनराज ग्रहणपटिष्ठविलोचनान्तजालाम् ॥ १२॥ गोपेन्द्रमित्रतनयाध्रुवधैर्यसिन्धु पानक्रियाकलससम्भववेणुनादम् । विद्यामहिष्ठमहतीमहनीयगान सम्मोहिताखिलविमोहनहृत्कुरङ्गाम् ॥ १३॥ क्वाप्यानुसङ्गिकतयोदितराधिकाख्या विस्मारिताखिलविलासकलाकलापम् । कृष्णेतिवर्णयुगलश्रवणानुबन्ध प्रादुर्भवज्जडिमडम्बरसंविताङ्गीम् ॥ १४॥ त्वां च वल्लवपुरन्दरात्मज त्वां च गोकुलवरेण्यनन्दिनि । एष मूर्ध्नि रचिताञ्जलिर्नयन् भिक्षते किमपि दुर्भगो जनः ॥ १५॥ हन्त सान्द्रकरुणासुधाझरी पूर्णमानसह्रदौ प्रसीदतम् । दुर्जनेऽत्र दिशतं रते निज प्रेक्षणप्रतिभुवश्छटामपि ॥ १६॥ श्यामयोर्नववयःसुषमाभ्यां गौरयोरमलकान्तियशोभ्याम् । क्वापि वामखिलवल्गुवतंसौ माधुरी हृदि सदा स्फुरतान् मे ॥ १७॥ सर्ववल्लववरेण्यकुमारौ प्रार्थये बत युवां प्रणिपत्य । लीलया वितरतं निजदास्यं लीलया वितरतं निजदास्यम् ॥ १८॥ प्रणिपत्य भवन्तमर्थये पशुपालेन्द्रकुमार काकुभिः । व्रजयौवतमौलिमालिका करुणापात्रमिमं जनं कुरु ॥ १९॥ भवतीमभिवाद्य चाटुभि- र्वरमूर्जेश्वरि वर्यमर्थये । भवदीयतया कृपां यथा मयि कुर्यादधिकां बकान्तकः ॥ २०॥ दिशि विदिशि विहारमाचरन्तः सह पशुपालवरेण्यनन्दनाभ्याम् । प्रणयिजनगणास्तयोः कुरुध्वं मयि करुणां बत काकुमाकलय्य ॥ २१॥ गिरिकुञ्जकुटीरनागरौ ललिते देवि सदा तवाश्रवौ । इति ते किल नास्ति दुष्करं कृपयाङ्गीकुरु मामतः स्वयम् ॥ २२॥ भाजनं वरमिहासि विशाखे गौरनीलवपुषोः प्रणयानाम् । त्वं निजप्रणयिनोर्मयि तेन प्रापयस्व करुणार्द्रकटाक्षम् ॥ २३॥ सुबल वल्लववर्यकुमारयो- र्दयितसखस्त्वमसि व्रजे । इति तयोः पुरतो विधुरं जनं क्षणममुं कृपयाद्य निवेदय ॥ २४॥ श‍ृणुत कृपया हन्त प्राणेशयोः प्रणयोद्धुराः किमपि यदयं दीनः प्राणी निवेदयति क्षणम् । प्रवणितमनाः किं युष्माभिः समं तिलमप्यसौ युगपदनयोः सेवां प्रेम्णा कदापि विधास्यति ॥ २५॥ क्व जनोऽयमतीव पामरः क्व दुरापं रतिभाग्भिरप्यदः । इयमुल्लयत्यजर्जरा गुरु- रुत्तर्षधुरा तथापि माम् ॥ २६॥ ध्वन्तब्रह्ममरालकूजितभरैरूर्जेश्वरीनूपुर क्वानैरूर्जितवैभवस्तव विभो वंशीप्रसूतः कलः । लब्धः शस्तसमस्तनादनगरीसाम्राज्यलक्ष्मीं परां आराध्यः प्रणयात् कदा श्रवणयोर्द्वन्द्वेन मन्देन मे ॥ २७॥ स्तम्भं प्रपञ्चयति यः शिखिपिञ्छमौलि वेणोरपि प्रवलयन् स्वरभङ्गमुच्चैः । नादः कदा क्षणमवाप्स्यति ते महत्या वृन्दावनेश्वरि स मे श्रवणातिथित्वम् ॥ २८॥ कस्य सम्भवति हा तदहर्वा यत्र वां प्रभुवरौ कलगीतिः । उन्नमन् मधुरिमोर्मिसमृद्धा दुष्कृतं श्रवणयोर्विधुनोति ॥ २९॥ परिमलसरणिर्वां गौरनीलाङ्गराजन् मृगमदघुसृणानुग्राहिणी नागरेशौ । स्वमहिमपरमाणुप्रावृताशेषगन्धा किमिह मम भवित्री घ्राणभृङ्गोत्सवाय ॥ ३०॥ प्रदेशिनीं मुखकुहरे विनिक्षिपन् जनो मुहुर्वनभुवि फुत्करोत्यसौ । प्रसीदतं क्षणमधिपौ प्रसीदतं दृशोः पुरः स्फुरतु तडिद्घनच्छविः ॥ ३१॥ व्रजमधुरजनव्रजावतंसौ किमपि युवामभियाचते जनोऽयम् । मम नयनचमत्कृतिं करोतु क्षणमपि पादनखेन्दुकौमुदी वाम् ॥ ३२॥ अतर्कितसमीक्षणोल्लसितया मुदा श्लिष्यतो- र्निकुञ्जभवनाङ्गने स्फुरितगौरनीलाङ्गयोः । रुचः प्रचुरयन्तु वां पुरटयूथिकामञ्जरी विराजदलिरम्ययोर्मम चमत्कृतिं चक्षुषोः ॥ ३३॥ साक्षात्कृतिं बत ययोर्न महत्तमोऽपि कर्तुं मनस्यपि मनाक् प्रभुतामुपैति । इच्छन्नयं नयनयोः पथि तौ भवन्तौ जन्तुर्विजित्य निजगार भियं ह्रियं च ॥ ३४॥ अथवा मम किं नु दूषणं बत वृन्दावनचक्रवर्तिनौ । युवयोर्गुणमाधुरी नवा जनमुन्मादयतीव कं न वा ॥ ३५॥ अहह समयः सोऽपि क्षेमो घटेत नरस्य किं व्रजनटवरौ यत्रोद्दीप्ता कृपासुधयोज्ज्वला । कृतपरिजनश्रेणिचेतश्चकोरचमत्कृति- र्व्रजति युवयोः सा वक्त्रेन्दुद्वयी नयनाध्वनि ॥ ३६॥ प्रियजनकृतपार्ष्णिग्राहचर्योन्नताभिः सुगहनघटनाभिर्वक्रिमाडम्बरेण । प्रणयकलहकेलिक्ष्वेलिभिर्वामधीशौ किमिह रचयितव्यः कर्णयोर्विस्मयो मे ॥ ३७॥ निभृतमपहृतायामेतया वंशिकायां दिशि दिशि दृशमुत्कां प्रेर्य सम्पृच्छमानः । स्मितशवलमुखीभिर्विप्रलब्धः सखीभि- स्त्वमघहर कदा मे तुष्टिमक्ष्णोर्विधत्से ॥ ३८॥ क्षतमधरदलस्य स्वस्य कृत्वा त्वदाली कृतमिति ललितयां देवि कृष्णे ब्रुवाणे । स्मितशवलदृगन्ता किञ्चिदुत्तम्भितभ्रू- र्मम मुदमुपधास्यत्यास्यलक्ष्मीः कदा ते ॥ ३९॥ कथमिदमपि वाञ्छितुं निकृष्टः स्फुटमयमर्हति जन्तुरुत्तमार्हम् । गुरुलघुगणनोज्झितार्तनाथौ जयतितरामथवा कृपाद्युतिर्वाम् ॥ ४०॥ वृत्ते दैवाद् व्रजपतिसुहृन्नन्दिनीविप्रलम्भे संरम्भेणोल्ललित ललिताशङ्कयोद्भ्रान्तनेत्रः । त्वं शारीभिः समयपटुभिर्द्राग् उपालभ्यमानः कामं दामोदर मम कदा मोदमक्ष्णोर्विधाता ॥ ४१॥ रासारम्भे विलसति परित्यज्य गोष्ठाम्बुजाक्षी वृन्दं वृन्दावनभुवि रहः केशवेनोपनीय । त्वां स्वाधीनप्रियतमपदप्रापणेनार्चिताङ्गीं दूरे दृष्ट्वा हृदि किमचिरादर्पयिष्यामि दर्पम् ॥ ४२॥ रम्या शोणद्युतिभिरलकैर्यावकेनोर्जदेव्याः सद्यस्तन्द्रीमुकुलदलसक्लान्तनेत्रा व्रजेश । प्रातश्चन्द्रावलीपरिजनैः साचि दृष्टा विवर्णै- रास्यश्रीस्ते प्रणयति कदा सम्मदं मे मुदं च ॥ ४३॥ व्यात्युक्षीरभसोत्सवेऽधरसुधापानग्लहे प्रस्तुते जित्वा पातुमथोत्सुकेन हरिणा कण्ठे धृतायाः पुरः । ईषच्छोणिममीलिताक्षमनृजुभ्रूवल्लिहेलोन्नतं प्रेक्षिष्ये तव सस्मितं सरुदितं तद् देवि वक्त्रं कदा ॥ ४४॥ आलीभिः सममभुपेत्य शनकैर्गान्धर्विकायां मुदा गोष्ठाधीशकुमार हन्त कुसुमश्रेणीं हरन्त्यां तव । प्रेक्षिष्ये पुरतः प्रविश्य सहसा गूढस्मितास्यं बलाद् आच्छिन्दानमिहोत्तरीयमुरसस्त्वां भानुमत्याः कदा ॥ ४५॥ उदञ्चति मधूत्सवे सहचरीकुलेनाकुले कदा त्वमवलोक्यसे व्रजपुरन्दरस्यात्मज । स्मितोज्ज्वलमदीश्वरीचलदृगञ्चलप्रेरणान् निलीनगुणमञ्जरीवदनमत्र चुम्बन् मया ॥ ४६॥ कलिन्दतनयातटिवनविहारतः श्रान्तयोः स्फुरन्मधुरमाधवीसदनसीम्नि विश्राम्यतोः । विमुच्य रचयिष्यते स्वकचवृन्दमत्रामुना जनेन युवयोः कदा पदसरोजसन्मार्जनम् ॥ ४७॥ परिमिलदुपबर्हं पल्लवश्रेणिभिर्वां मदनसमरचर्याभारपर्याप्तमत्र । मृदुभिरमलपुष्पैः कल्पयिष्यामि तल्पं भ्रमरयुजि निकुञ्जे हा कदा कुञ्जराजौ ॥ ४८॥ अलिद्युतिभिराहृतैर्मिहिरनन्दिनीनिर्झरात् पुरः पुरटझर्झरीपरिभृतैः पयोभिर्मया । निजप्रणयिभिर्जनैः सह विधास्यते वां कदा विलासशयनस्थयोरिह पदाम्बुजक्षालन ॥ ४९॥ लीलातल्पे कलितवपुषोर्व्यावहासीमनल्पां स्मित्वा स्मित्वा जयकलनया कुर्वतोः कौतुकाय । मध्ये कुञ्जं किमिह युवयोः कल्पयिष्याम्यधीशौ सन्धारम्भे लघु लघु पदाम्भोजसंवाहनानि ॥ ५०॥ प्रमदमदनयुद्धारम्भसम्भावुकाभ्यां प्रमुदितहृदयाभ्यां हन्त वृन्दावनेशौ । किमहमिह युवाभ्यां पानलीलोन्मुखाभ्यां चषकमुपहरिष्ये साधु माध्वीकपूर्णम् ॥ ५१॥ कदाहं सेविष्ये व्रततिचमरीचामरमरुद् विनोदेन क्रीडाकुसुमशयने न्यस्तवपुषौ । दरोन्मीलन्नेत्रौ श्रमजलकणक्लिद्यदलकौ ब्रुवाणावन्योन्यं व्रजनवयुवानाविह युवाम् ॥ ५२॥ च्युतशिखरशिखण्डं किञ्चिदुत्स्रंसमानां विलुठदमलपुष्पश्रेणिमुन्मुच्य चूडाम् । दनुजदमन देव्याः शिक्षया ते कदाहं कमलकलितकोटिं कल्पयिष्यामि वेणीम् ॥ ५३॥ कमलमुखि विलासैरंसयोः स्रंसितानां तुलितशिखिकलापं कुन्तलानां कलापम् । तव कवरतयाविर्भाव्य मोदात् कदाहं विकचविचकिलानां मालयालङ्करिष्ये ॥ ५४॥ मिथःस्पर्धाबद्धे बलवति वलत्यक्षकलहे व्रजेश त्वां जित्वा व्रजयुवतिधम्मिल्लमणिना । दृगन्तेन क्षिप्ताः पणमिह कुरङ्गं तव कदा ग्रहीष्यामो बद्धा कलयति वयं तत्प्रियगणे ॥ ५५॥ किं भविष्यति शुभः स वासरो यत्र देवि नयनाञ्चलेन माम् । गर्वितं विहसितुं नियोक्ष्यसे द्यूतसंसदि विजित्य माधवम् ॥ ५६॥ किं जनस्य भवितास्य तद् दिनं यत्र नाथ मुहुरेनमादृतः । त्वं व्रजेश्वरवयस्यनन्दिनी मानभङ्गविधिमर्थयिष्यसे ॥ ५७॥ त्वदादेशं शारीकथितमहमाकर्ण्य मुदितो वसामि त्वत्कुण्डोपरि सखि विलम्बस्तव कथम् । इतीदं श्रीदामस्वसरि मम सन्देशकुसुमं हरेति त्वं दामोदर जनममुं नोत्स्यसि कदा ॥ ५८॥ शठोऽयं नावेक्ष्य पुनरिह मया मानधनया विशन्तं स्त्रीवेशं सुबलसुहृदं वारय गिरा । इदं ते साकूतं वचनमवधार्योच्छलितधीश्- छलाटोपैर्गोपप्रवरमवरोत्स्यामि किमहम् ॥ ५९॥ अघहर बलीवर्दः प्रेयान्नवस्तव यो व्रजे वृषभवपुषा दैत्येनासौ बलादभियुज्यते । इति किल मृषागीर्भिश्चन्द्रावलीनिलयस्थितं वनभुवि कदा नेष्यामि त्वां मुकुन्द मदीश्वरीम् ॥ ६०॥ निगिरति जगदुच्चैः सूचिभेद्ये तमिस्रे भ्रमररुचिनिचोलेनाङ्गमावृत्य दीप्तम् । परिहृतमणिकाञ्चीनूपुरायाः कदाहं तव नवमभिसाऋअं काऋअयिष्यामि देवि ॥ ६१॥ आस्ये देव्याः कथमपि मुदा न्यस्तमास्यात् त्वयेश क्षिप्तं पर्णे प्रणयजनिताद् देवि वाम्यात् त्वयाग्रे । आकूतज्ञस्तदतिनिभृतं चर्वितं खर्विताङ्ग- स्ताम्बूलीयं रसयति जनः फुल्लरोमा कदायम् ॥ ६२॥ परस्परमपश्यतोः प्रणयमानिनोर्वां कदा धृतोत्केलिकयोरपि स्वमभिरक्षतोराग्रहम् । द्वयोः स्मितमुदञ्चये नुदसि किं मुकुन्दामुना दृगन्तनटनेन मामुपरमेत्यलीकोक्तिभिः ॥ ६३॥ कदाप्यवसरः स मे किमु भविष्यति स्वामिनौ जनोऽयमनुरागतः पृथुनि यत्र कुञ्जोदरे । त्वया सह तवालिके विविधवर्णगन्धद्रव्यैश्- चिरं विरचयिष्यति प्रकटपत्रवल्लीश्रियम् ॥ ६४॥ इदं सेवाभाग्यं भवति सुलभं येन युवयोश्- छटाप्यस्य प्रेम्णः स्फुरति नहि सुप्तावपि मम । पदार्थेऽस्मिन् युष्मद्व्रजमनु निवासेन जनित- स्तथाप्याशाबन्धः परिवृढवरौ मां द्रढयति ॥ ६५॥ प्रपद्य भवदीयतां कलितनिर्मलप्रेमभि- र्महद्भिरपि काम्यते किमपि यत्र तार्णं जनुः । कृतात्र कुजनेरपि व्रजवने स्थितिर्मे यया कृपां कृपणगामिनीं सदसि नौमि तामेव वाम् ॥ ६६॥ माधव्या मधुराङ्ग काननपदप्राप्ताधिराज्यश्रिया वृन्दारण्यविकासिसौरभतते तापिञ्छकल्पद्रुम । नोत्तापं जगदेव यस्य भजते कीर्तिच्छटाच्छायया चित्रा तस्य तवाङ्घ्रिसन्निधिजुषां किं वा फलाप्तिर्नेणाम् ॥ ६७॥ त्वल्लीलामधुकुल्ययोल्लसितया कृष्णाम्बुदस्यामृतैः श्रीवृन्दावनकल्पवल्लिपरितः सौरभ्यविस्फारया । माधुर्येण समस्तमेव पृथुना ब्रह्माण्डमप्यायितं नाश्चर्यं भुवि लब्धपादरजसां पर्वोन्नतिर्वीरुधाम् ॥ ६८॥ पशुपालवरेण्यनन्दनौ वरमेतं मुहुरर्थये युवाम् । भवतु प्रणयो भवे भवे भवतोरेव पदाम्बुजेषु मे ॥ ६९॥ उद्गीर्णाभूदुत्कलिकावल्लरिरग्रे वृन्दाटाव्यां नित्यविलासव्रतयोर्वाम् । वाङ्मात्रेण व्याहरतोऽप्युल्ललमेतां आकर्ण्येशौ कामितसिद्धिं कुरुतं मे ॥ ७०॥ चन्द्राश्वभुवने शाके पौषे गोकुलवासिना । इयमुत्कलिकापूर्वा वल्लरी निर्मिता मया ॥ ७१॥ (१४७१ शकाब्दे, १५५० खृष्टाब्दे) इति श्रीरूपगोस्वामिविरचितस्तवमालायां उत्कलिकावल्लरी समाप्ता ।

Govindabirudavalih ॥ गोविन्दबिरुदावलिः ॥

श्रीश्रीराधाकृष्णयोः कुञ्जाद् वेश्मागमनं स्रस्तं स्रस्तमुदञ्चयन्त्यधिशिरः श्यामं निचोलाञ्चलं हस्तेन श्लथदुर्बलेन लुलिताकल्प्यं वहन्ती तनुम् । मुक्तार्धामवरुध्य वेणिमलसस्पन्दे क्षिपन्ती दृशौ कुञ्जात् पश्य गृहं प्रविश्य निभृतं शेते सखी राधिका ॥ १॥ म्लानामुत्क्षिप्य मालां त्रुटितमणिसरः कज्जलं विभ्रदोष्ठे सङ्कीर्णाङ्गो नखाङ्कैर्दिशि दिशि विकिरन् घूर्णिते नेत्रपद्मे । पश्य म्लानाङ्गयष्टिः स्फुटमपरिचितो गोपगोष्ठीभिरग्रे गोष्ठं गोष्ठेन्द्रसूनुः प्रविशति रजनौ ध्वंअसमासादयन्त्याम् ॥ २॥ इति श्रीश्रीराधाकृष्णयोः कुञ्जाद्वेश्मागमनं समाप्तम् । इति श्रीरूपगोस्वामिविरचितस्तवमालायां गोविन्दबिरुदावलिः समाप्ता ।

Chando ashtadashakam ॥ छन्दोऽष्टादशकम् ॥

वर्णनीयप्रतिज्ञा । नमः श्रीकृष्णाय । जीयान्नाम मुरारेः प्रेममरन्दस्य नव्यमरविन्दम् । भवति मदाभासोऽपि स्वातिजलं मुक्तिमुक्तायाः ॥ १॥ नन्दोत्सवादयस्ताः कंसवधान्ता हरेर्महालीलाः । छन्दोभिर्ललिताङ्गैरष्टादशभिर्निरूप्यन्ते ॥ २॥ दनुजतृणकदम्बोद्दामदावाग्निराशे कुसुमितरविकन्यातीरवन्याकरीन्द्र । मदकलपशुपालीलोचनेन्दीवरेन्दो भवतु तव चरित्रं मद्गिरां मण्डनाय ॥ ३॥ मूलोत्खातविधायिनी भवतरोः कृष्णान्यतृष्णाक्षयात् खेलद्भिर्मुनिचक्रवाकनिचयैराचम्यमाना मुहुः । कर्णानन्दिकलस्वना वहतु मे जिह्वातटीप्राङ्गणे घूर्णत्तुङ्गरसावलिस्तव कथापीयूषकल्लोलिनी ॥ ४॥

अथ श्रीनन्दोत्सवादिचरितं निजमहिममण्डलीव्रजवसतिरोचनं वदनविधुमाधुरीरमितपितृलोचनम् । श्रुतिनिपुणभूसुरव्रजविहितजातकं तनुजलदतर्पितस्वजनगणचातकम् ॥ सुबहुविधदानकृज्जनककृतकौतुकं निखिलपशुपावलीसमुपहृतयौतुकम् । जनिसमयमण्डितीकृतपुरुषयोषितं रजनिरसगोरसक्षपणजनतोषितम् ॥ बहुलदधिपङ्किलीकृतविलसदङ्गनं प्रमदभरलोलितप्रकटनटदङ्गनम् । जनकपरितोषितस्फुरदखिलवल्लवं व्रजजनितपद्मजाविभवभरपल्लवम् ॥ कपटपटुपूतनाकटुनयनवीक्षितं व्रजभयदनुर्जनव्रजनिधनदीक्षितम् । विषमबकपूर्वजाकुचसविधशायिनं तदसुपरिमिश्रितस्तनजरसपायिनम् ॥ तदरुतरविग्रहद्रुमनिवहपातनं पृथुकरिपुराक्षसीविविधभवशातनम् । निपुणपशुपाङ्गनाकुलकलितरक्षणं प्रणयकृतगोरजःशकृदमललक्षणम् ॥ स्पुटनिखिलवल्लवीहृदयनवचन्दनं भज चपलमानस व्रजनृपतिनन्दनम् ॥ गुच्छकाख्यमिदं छन्दः । तव जयति नन्दनन्दन पदारविन्दोरुभक्तिमकरन्दः । यन् माधुरीलवाग्रे मुक्तिसुखं शुक्तितामेति ॥ ५॥

अथ शकटतृणावर्तभङ्गादि मम मतिरुच्चलचरणे भगवति पर्यङ्किकाशयिते । कपटक्रन्दितकुशले शकटविघट्टिनि परिस्फुरतु ॥ ६॥ अथ शकटारिष्टदैत्यवधः औत्थानिकमहसङ्कुलिताम्बक शकटाधस्तनशयनालम्बक कुचरसतृष्णाविरचितरोदन चञ्चलपदकृतशकटविनोदन विस्मितपशुपसुदुर्गमचेष्टित कथितनिजेहितशावकवेष्टित कातरजननीजनकगतान्तिक मान्त्रिकधरणीसुरकृतशान्तिक ॥ अथ तृणावर्तवधः जननीदुर्वहगौरवविग्रह सपदि विधित्सितदनुजविनिग्रह दनुतनयेन क्षणमपवाहित कण्ठतटीग्रहनिर्मथिताहित । विक्लवजननीनिर्भरशोचित विरुदद्गोपीकुलपरिलोचित निर्मितजननीबन्धुमहोदय मामपि गोकुलमङ्गल मोदय ॥ अथ नामकरणसंस्कारः नवशिशुलीलालङ्घितहायन गर्गाविष्कृतनामरसायन । रिङ्गनमण्डितनन्दनिकेतन मुधुरिमतर्पितगोकुलचेतन । चलतरतर्णकपुच्छविकर्षण विस्मृतगृहकृतिरमणीहर्षण । कुतुकिन्नसमयवत्सविमोचन चौर्यविशङ्कितचञ्चललोचन । आक्रोशनकृतहसिताडम्बर मुखपाटवकृतलुञ्चनसंवर । रचितोलूखलपृष्ठविराजन रन्ध्रितशिक्यस्थितवरभाजन । गव्यनिर्मितकपिकुलरञ्जन कल्पितनवदधिहण्डीभञ्जन । जननीवीक्षितसभयविलोचन जय जय गोकुलपद्मविरोचन ॥ अथ मृद्भक्षणलीला रामप्रकटीकृतमृद्भक्षण जननीसम्मुखधृतभयलक्षण । मुखपुटदर्शितनिखिलचराचर गोपेश्वरसुत मयि मुदमाचर ॥ कोरकाख्यमिदं छन्दः । अथ दधिहरणं गृहं सखि करालिके प्रविशति स्म नीलः शिशु- र्दृढीकुरु कवाटिकां दधिहरं दधाम्युद्धुरम् । इति प्रकटमीरिते मुखरया महाशङ्कटं विलोक्य तनुकङ्कटीकृततमा हरिः पातु वः ॥ ७॥

अथ यमलार्जुनभञ्जनं इन्द्रनीलमधुरप्रभं जनं हासयन्तमनसः प्रभञ्जनम् । बिभ्रतं पुरटपिङ्गलं पटं धेहि चित्त नवनीतलम्पटम् ॥ ८॥ धृतदधिमन्थनदण्ड जननीचुम्बितगण्ड पीतसवित्रदुग्ध कलभाषितकुलमुग्ध । जननीपयसातृप्त भाजनभञ्जनदृप्त कृतहैयङ्गवमोष मातृविनिर्मितरोष । जनयित्रीकृतधाव मुनिगणदुर्लभभाव विदितसावित्रीपील परिहृतधावनलील । धृतहैयङ्गवगन्ध कलितोलूखलबन्ध दृष्टार्जुनतरुमूल सुरमुनिवागनुकूल । कृतयमलार्जुनभङ्ग गुह्यकनुतिधृतरङ्ग निजभक्तीकृतयक्ष माधव मामपि रक्ष । विस्मितवल्लवदृष्ट सुस्मितमुखपुट हृष्ट नन्दविमोचितबन्ध जय जय मङ्गलकन्द ॥ ३॥ अनुकूलाख्यमिदं छन्दः । बृहद्विपिनमण्डने कलुषमण्डलीखण्डने व्रजप्रणयशंसने दनुजवृद्धिविध्वंसने । मुहुर्धरणिरोचने महितवल्लवीलोचने परिस्फुरतु कैशवे रतिरतीव नः शैशवे ॥ ९॥

अथ श्रीवृन्दावनगोवत्सचारणादिलीला कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमहिते मुहुर्भ्रामं भ्रामं चरितलहरी गोकुलपतेः । लपन्न् उच्चैरुच्चैर्नयनपयसां वेणिभिरहं करिष्ये सोत्कण्ठो निविडमवसेकं विटपिनाम् ॥ १०॥ व्रजेन्दुरुपनन्दान्तरीणमतिनोदी मनोज्ञतरवृन्दावनान्तरनुमोदी । अन्तःस्थजनयित्र्या निजाङ्गमुपनीतः कुरङ्गनयनाभिः सहर्षमनुगीतः । प्रफुल्लपृथुवृन्दावनोपहृतरङ्गः कलिन्दगिरिपुत्रीतटान्तधृतसङ्गः । गिरीन्द्रकटकाङ्गीकृतोरुपरितोषः समस्तसखिराजीविलासमणिकोषः । समीपभुवि वत्सप्रचारधृततर्षः सुहृत्सु गुरुखेलाभरेण कृतहर्षः । तरङ्गदुरुगेण्डुप्रविष्टचलदृष्टिः प्रणीतवरवंशीनिनाद नवसृष्टिः । तरक्षुनखलक्ष्मीपरीतमृदुकण्ठः कटीरतटकूजद्विचित्रलघुघण्टः । समूढशिखिचूडाप्रणीतवरचूडः सुमञ्जुतरगुञ्जावलीभिरुपगूढः । सुहृद्भिरपि सार्धं प्रपन्नवृषवेषः कठोरतरवत्सासुरेभहरिरेषः । स्थविष्ठबकतुण्डप्रवेशकृतलील- तदङ्गगिरिकूटप्रभेदपरिशीलः । सुहृद्भिरतिहृष्टैर्भुजाभिरभिमृष्टः सुरैश्च सुमनोभिर्वराभिरभिवृष्टः । तनोतु मयि तुष्टिं स्ववत्सकुलपाली प्रफुल्लकुसुमालीधरोऽद्य वनमाली ॥ ४॥ प्रफुल्लकुसुमालीनामेदं छन्दः । अपि स्फारामोदे प्रतिपदसुधाकोटिमधुरे पुराणग्रामान्तर्वहति तव लीलारसझरे । मनोवत्सः पातुं विषयविषगर्ते विशति मे कृपायष्ट्या तूर्णं दमय तममुं तर्णकपते ॥ ११॥

अथ वत्सचारणादिचरितं आभासोऽपि श्रुतिपरिसरं तावकीनस्य नाम्नः सर्पन्नल्पं लघुतरमघस्तोममोक्षं करोति । नैतच्चित्रं सखिभिरखिलैरन्तरालं प्रविष्टो यद् गोविन्द स्वयमयमगहं मोक्षयस्येकमेव ॥ १२॥ काननान्तभुक्तिकममुच्चनादपूरधाम श‍ृङ्गबुद्धवत्सपालवल्गुबालचक्रवाल सङ्गलब्धतोषजालमग्रनुन्नवत्सपालं अद्भुतातिभूरिखेलमित्रसङ्गनीतवेलं अङ्गरुद्धकाननस्य शार्वराञ्चिताननस्य दावतुल्यलोचनस्य पूतिगन्धिमोचनस्य मेघभागतानवस्य सर्परूपदानवस्य वीक्षयातिविस्मितेन तस्य कुक्षिमाश्रितेन वत्सपालमण्डलेन नीतखेदमुच्चलेन तत्र मङ्क्षु संप्रविष्टमुद्धूतस्वभक्तरिष्ट मेधिताङ्गरुद्धवातमर्दिताहिजन्मजातं ईक्षयाभीजीवितेन डिम्भसञ्चयेन तेन सार्धमेत्य सत्तडागतीरमाप्तभुक्तिरागं एषु भोत्कुमुद्यतेषु भूरिराजिसन्ततेषु मध्यसीम्नि राजमानमर्पितेभडिम्भमानं अत्र सर्वसम्मुखास्यमुज्जिहानमन्दहास्यं अध्वरोपपन्नभक्षमर्भकोपभोगदक्षं इन्द्रमुख्यदेववर्गवीक्षमाणकेलिसर्गं एषु वत्सपालकेषु भक्षयत्सु बालकेषु दूरगामिवत्सपुञ्जसङ्गमाय लब्धकुञ्जं अम्बुजन्मयोनिना तदुत्सकेन वत्सजातं अर्भमण्डलं च नीतमभ्रमाभिसम्परीत धीतयाधिगत्य हासमुद्वमन्तमिन्दुभासं आशु तत्तदात्मरूपसन्निवेशितस्वरूपं एतदीयमातृतोषहेतुशीलरत्नकोषं उल्लसन्तमत्र वर्षमेधितानुरागतर्षं अब्जयोनिदृष्टतत्त्वमद्भुतातिशुद्धसत्त्व रूपवीक्षणातिमत्तगोकुलानुवृत्त्यत्त पद्मजस्तुतानुभावमाहृतात्मगोष्ठशावं अम्बुजाक्ष भो भवन्तमाश्रयामि कुन्ददन्त नन्दगोष्ठभूरिभाग चारुकुन्तलाग्रभाग शोकपुष्पमञ्जरीक गन्धलुब्धचञ्चरीक पीतकेलिपुण्डरीक वश्यवत्समण्डलीक बाहुराजदङ्गदाय मित्रसङ्घरङ्गदाय पादशोभिहंसकाय सुन्दरावतंसकाय गुप्तचारुतर्णकाय कॢप्तधातुवर्णकाय गोपगोत्रवल्लभाय योगिवर्गदुर्लभाय कर्णसङ्गिचम्पकाय दुर्गतानुकम्पकाय तुभ्यमिद्धकीर्तिगाथ सर्वदा नमोऽस्तु नाथ देहि देहि भक्तिलेशमप्यशेषपूरुशेष ॥ अशोकपुष्पमञ्जरीछन्दः यां निर्वक्तुमभूत् प्रभुर्नहि चतुर्वक्त्रोऽपि ते माधुरीं तामुद्घाटयताद्य यद्यपि सतां हासो मया स्वीकृतः । वैफल्याय तथापि देव भविता नायं ममोपाक्रमः सर्वानर्थहरस्त्वदीयभजनाभासोऽपि यद् विश्रुतः ॥ १३॥

अथ तालवनचरितम् । स पातु मां यस्तृणराजराजी फलैर्विराजन् व्रजराजपुत्रः । सुखानि चक्राङ्ककरः सखीनां चक्रीवतां चक्रमुदस्य चक्रे ॥ १४॥ जय धेनुलक्षशतगुप्तिदक्षवनमण्डलान्तमनुसृत्य कान्तं उपलब्धहर्ष कृतकेलिवर्ष बलदेवगीतघनशाखिशीत वनराजिरूप पशुपालभूप कृतपक्षिवारचरिक्तानुकार धृतमित्ररङ्ग रसवल्गदङ्ग पुरुमल्लयुद्ध पटुबाहुरुद्ध बलदुर्दुरूढनिजमित्रकूट यमुनोपकूलतरुराजिमूल पदभद्रसेनकृतदुग्धफेनपटलानुकल्पनवपुष्पतल्प वरमध्यसुप्त सुहृदालिगुप्त वृषभानुबद्धमृदुरागनद्ध कलगीतहृष्ट सुबलाभिमृष्ट कृतपद्मानन्दचरणारविन्द विटपावतानपरिवीज्यमान परिपक्वतालफललुब्धबाल कलवाक्यरूढहसितोपगूढमुखतारकेश धृतवीरवेश घनतुङ्गतालविपिनान्तरालमुपलब्धरामसहितात्मधाम धुतघूर्णदग्रतृणराट्समग्रफलवृन्दपातकृतहर्षजात फलशब्दरुष्टखररूपदुष्टहरकामपालकृतहर्षमाल तुरगारिकाल खरचक्रवालतृणवीतिहोत्र रमितात्मगोत्र हतधेनुकाद्य विबुधाभिवाद्य तृणराजभङ्गभरजातरङ्ग रिपुवर्गभीद मयि संप्रसीद ॥ ६॥ कलगीतनामेदं छन्दः । पीनापीनभरोद्गतैरनुदिनं याः क्षीरपूरैर्बलाद् अम्भोजाक्ष विडम्बयन्ति निविडं क्षीराम्बुधैर्वैभवम् । तासां राजतगण्डशैलपटलीपाण्डुत्विषां मण्डलं धेनूनां परिपालयन्तमटवीकुञ्जे भवन्तं भजे ॥ १५॥

अथ कालियदमनं कालियस्य फणरत्नकुट्टिमं कुट्टयन् पदसरोजघट्टनैः । मङ्गलानि वितनोतु ताण्डवे पण्डितस्तव शिखण्डशेखरः ॥ १६॥ जगद्विनाशि सङ्गमं गरुत्मता गजङ्गमं भुजङ्गमण्डलीपदं पतङ्गनन्दिनीह्रदं विषाग्निदग्धनीरजं निरीक्ष्य तस्य तीरजं मुदाधिरुह्य दर्पतः कदम्बमुग्रसर्पतः पयो विकीर्णवान् अलं परिज्वलद्विषानलं धनुःशते सतां गतिर्भुजोद्धताम्बुसंहतिः करालदृष्टिदारुणैः फणैर्मणिप्रभारुणै- युतेन लोकदाहिना विनद्य कालियाहिना रुषोद्भटेन वेष्टितः प्रपन्नबालचेस्टित- ततोऽद्भुतावलोकतः समेत्य तीवर्शोकत- तनुस्खलत्पटालिभिर्महार्तनादशालिभि- बलोपदेशसारतस्तदा ह्रदावतारतः शनिअर्निवृत्तलालसैर्मुहुर्व्यथाकुलालसैः सदारवृद्धबालकैः समस्तधेनुपालकै- विलोकितः स्मिताननः कृतोरगावमाननः प्रणुन्नभोगरोधनः सुहृद्गणाधिशोधनः श्रिताण्डजेन्द्रविभ्रमः स्फुरत्करालविक्रमः स्वमूर्धरत्नपिञ्जरं निरस्य नागकुञ्जरं प्लुतेन तस्य रङ्गतः फणाङ्गण्षु सङ्गतः प्रणीतदिव्यनर्तनः कृतोत्सवानुवर्तनः प्रसूनवृन्दवर्षिभिः खलार्दनेन हर्षिभिः सपद्मभूपिनाकिभिर्नभस्यनल्पनाकिभिः स्तुतो विचित्रबालकः सुलास्यतश्च लालकः सखि स्वबाल्यचञ्चलं परिभ्रमद्दृगञ्चलं सुशोभनाङ्गहारकं भुजङ्गदर्पदारकं प्रणीतनृत्यहस्तकं विलासकम्पिमस्तकं विकासिहास्यकोरकं वोलोलकण्ण्ठडोरकं रसादमुं समग्रतः स्फुटं नटन्तमग्रतः सुतं विलोकयाधुना त्वमीक्षणेन साधुना व्रजेश्वरीति योषितां गिरं प्रमोदघोषितां निशम्य लब्धमोदया विलोकितो यशोदया खलप्रमार्दने खरः श्रिया ह्यनङ्गशेखरः फणव्रजे मुहुः प्लुतः फणावतीगणैः स्तुत- तदातिदक्षिणाशयः फणीश्वरे कृताभयः क्षणादमूभिरर्चितः परार्धगन्धचर्चितः श्रुतिप्रसक्तकैरवः फणिव्रजेष्वभैरवः स्वबन्धुवृन्दनन्दनः कृतार्यपादवन्दनः प्रहर्षतोऽविलम्बया विचुम्बितस्त्वमम्बया जय प्रभो कृपानिधे विलासरत्नवारिधे नतार्तिपूरशातन प्रसीद मे सनातन ॥ ७॥ अनङ्गशेखरच्छन्दः । कामं दामोदर मम मनःपन्नगः पीनभोगो दुष्टाशीभिः कुटिलवलनैः क्षोभयत्येष लोकम् । तद्विक्रान्तस्त्वमुदितपदद्वन्द्वपङ्केरुहाङ्कं कुर्वन् दर्वीकरदमन हे ताण्डवैर्दण्डयामुम् ॥ १७॥

अथ भाण्डीरक्रीडनादि भाण्डीरस्य तटान्ते तरुषण्डाखण्डलस्य रणशौण्ड । सखिमण्डलानि बाढं विक्रीडय पुण्डरीकाक्ष ॥ १८॥ सुहृदावलिपरिवीतः श्रुतिहरमुरलीगीतः सुरभीवीथ्यनुसारी वरपीताम्बरधार पीनोज्ज्वलभुजदण्डः शिरसि स्फुरितशिखण्डः शशिखण्डाभललाटः पीवरहृदयकवाटः खरमिहिरातपवासे प्रसरत्यपि शुचिमासे धृतमधुलक्ष्मीभारं परिहृतदावविकारं धेनुमनोहरशादं पिककृतपञ्चमनादं षड्जोद्गारिमयूरं विसृमरसौरभपूरं विकसितचारुशिरीषं स्फुटमल्लीनिविरीषं वृन्दावनमतिहृष्टः सबलः स्वयमभिविष्टः कल्पितभुजसङ्ग्रामः क्वचिदीहितविश्रामः कुत्रचिदभिनवतुम्बैः क्वचिदतिकोमलकुम्भैः क्व च परिपाकिमगुञ्जैः क्व च बिल्वामलपुञ्जैः क्रीडन्नद्भुतचर्यः केलिषु पण्डितवर्यः पीवरकुतुकाधारे द्वन्द्वीभावविहारे कल्पितनिर्भररागः कृतसखिवर्गविभागः शीतलमरुदनुकूले भाण्डीरद्रुममूले कृत्वा वल्लववेशं प्रविशन्तं दनुजेशं जानन्न् एव विलासी स्वीकृतवान् खलशासी जैत्रीकृतबलपक्षः सुदुरूहक्रमदक्षः श्रीदामप्रियकामः सुररिपुवाहितरामः क्षपयन् प्रलम्बकायः हलिना निर्मितमायं दैवतपरिणुतलीलः सुहृदानन्दशीलः तत्र विदूरं याताः सुरभीर्लघुपदपाताः सममन्विष्यन् गोपैः शङ्कितनिजधनलोपै- मुञ्जावलिविकराले विपिने क्वचन विशाले लब्धाखिलधवलाकस्तुङ्गितसुखपरिपाकः पीतभयङ्करदावः प्रकटोल्लसदनुभावः प्रणतजनोत्सवकारी त्वं भाण्डीरविहारी गोकुलजनरससिन्धो जय जय दुर्विधबन्धो ॥ ८॥ द्विपदिका च्छन्दः । कलितश्रीदामानं श्रीदामानन्दिकेलितुन्दिलितम् । वन्दे रामावरजं रामावरजङ्गमद्युतरुम् ॥ १९॥

अथ वर्षाशरद्विहारचरितं प्रेमोल्लासनशीला वल्लवमल्लस्य विजयते लीला । यन् माधुरीं विपञ्ची विरिञ्चिसूनोः प्रपञ्चयति ॥ २०॥ मेघसमयपूर्तिरमितवृष्टिषु तरुकन्दरचित नीपककुभपुष्पवलित सान्द्रविपिनलब्धललित भक्तपरिषदिष्टवरद हारिविभवधारिशरद् अलङ्कृतबहुपक्षिभरितकाननकृतदिव्यरचित वेशतुलितनर्तकवर चन्द्रकचितचारुकवर गोपयुवतिधैर्यमथनरूप तदभिनीतकथन लोचनफल वेनुवलनवल्गदधरवक्त्रकलन सर्वसुकृतवैभवधरवेणुरसितरज्यदधर वेणुमधुनादनटितकेकिनिवह मेघघटित सेव जनितमुक्तयवसधेनुनिचयचित्तरभस रूपविलसदङ्गवलनमोहितसुरवृन्दललन भिल्लयुवतितोषिमसृणशम्पमिलितपादघुसृण हारिहरिणयोषिदमलनेत्रसुखदवक्त्रकमल दास्यनिरतशैलरचितसेवन पशुपाशखचित पाहि वरुण मद्विधजनमीश्वर दुरवापभजन ॥ ९॥ हारिहरिणच्छन्दः घनप्रणयघट्टनोद्घुरितघोषसीमन्तिनी प्रपञ्चितजगत्त्रयीश्रुतिविटङ्कविक्रीडिते । शरद्विहसिताटवीकुहरभूविहारप्रिये रतिस्त्वयि तरस्विनी मम सलीलमुन्मीलतु ॥ २१॥

१०

अथ वस्त्रहरणं स्मेराभिः सलिले कलिन्ददुहितुर्मग्नाभिराकन्धरं स्कन्धन्यस्तसमस्तपट्टवसनो नर्मोक्तिभङ्गीपटुः । निर्व्याजं व्रजकन्यकाभिरसकृद् भव्याभिरभ्यर्थितः पायात् तुङ्गकदम्बशाखिशिखरारूढस्त्रिलोकीं हरिः ॥ २२॥ निजगुणोदयोल्लासलोभिता गिरिसुताव्रतारम्भशोभिताः पशुपकन्यकाः सूरजावने रचितमज्जनाः प्रेक्ष्य पावने त्वरितमागतो लुञ्चिताम्बरः प्रियकमाश्रितो रङ्गिणां वरः सपदि लोकयन् गोष्ठबालिका भ्रूकुटिवल्लरीभङ्गुरालकाः स्मितपरिस्फुरद्वक्त्रमण्डलः स्फुटितमालतीकॢप्तकुण्डलः सरभसं ततः शीतवेपितैः प्रणयकोपिभिः सुष्ठुह्रेपितै- वदनविस्फुरत्काकुजल्पनैर्विहितसामभिर्भेदकल्पनैः सिचयसञ्चयं सम्भ्रमाकुलैर्झटितियाचितः कन्यकाकुलैः पृथुतरांसयोरर्पितांशुकः सितरदोल्लसन्मञ्जुलांशुकः प्रकटिताग्रहैर्भूपहेलिभिः सखिकुलादृतैर्जल्पकेलिभि- तरुपुरस्तटे तास्तदा बलादचिरमानयन् गोकुलाबलाः मुदितमुग्धधीः केलिनर्मदः सकलवल्लवीवृन्दशर्मदः प्रकटमम्बरीभूतहस्तकाः सविधमागता नम्रमस्तकाः स पटुरात्मनो वाक्यकारिकाधृतमहोत्सवः प्रेक्ष्य दारिकाः सलिलमज्जने व्यज्य नग्नतां व्रतविधेर्वदन् सुष्ठु भग्नतां शिरसि कारयन्नस्य पूर्तये प्रसभमात्मने क्षेममूर्तये मधुरमञ्जलिं मञ्जुलोचनः प्रणयिनीमनस्तापमोचनः किमपि कन्यकालीभिरानतः प्रणयसङ्कुलादाशु मानतः सुखभरादमूरत्र तर्पयन् वसनसञ्चयं तूर्णमर्पयन् कृतकुमारिकाचित्तदोहदः सकलसुन्दरीप्रेममोहदः प्रणतमण्डलाभीष्टकामधुक् कमनवल्लवीमल्लिकामधुः त्वमखिलेश मामिन्दिरालय व्रजमहेन्द्र हे देव पालय ॥ १०॥ इन्दिरा च्छन्दः । विदधानयापि धवलं तव जगदेवाद्य कीर्तिचन्द्रिकया । केशव पशुपालीनां चित्रं द्विगुणीकृतो रागः ॥ २३॥

११

अथ यज्ञपत्नीप्रसादः परितोषयितुं न यायजूकै- स्त्वमनूचानजनैश्च नासि शक्यः । रतिहार्य रतिं ददस्व वन्दे तव गोविन्द सदा पदारविन्दम् ॥ २४॥ रङ्गतस्तोषितज्ञातिना सङ्गतो धेनुकारातिना कर्णपालीमिलत्पल्लवैर्वेष्टितः सर्वतो वल्लवै- गोपसीमन्तिनीकामुकः काननोत्सङ्गसङ्गामुकः कॢप्तवृन्दाटवीमाननः प्रेक्षितस्मेरगोपाननः संस्तुवन् भूरुहां सम्पदः श्लाघयन् व्याजतः शम्प्रदः स्वान् सखीन् कुषुद्भरोत्तापितान् प्रेमभिः प्रार्थनामापितान् प्रेषयन्नध्वरेऽदूरतः ख्यापितब्राह्मणक्रूरतः कल्पितब्राह्मणावज्ञया प्रेष्ठसङ्क्रामितप्रज्ञया लङ्घितक्षेम्बभाक्सत्रया पूरिकापूरितामत्रया स्थाकिकान्यस्यसद्भक्तया स्नेहसम्पत्तितोऽभ्यक्तया रत्नपात्रीधृतक्षीरया काननोपक्रमाधीरया भाजनन्यस्तसंयावया कौतुकोत्तुङ्गसंरावया गौरवान्निर्भरोत्तालया प्रेक्षितो ब्राह्मणीमालया स्पर्धमानं रुचा हाटकं धारयन्न् उज्ज्वलं शाटकं सखुरंसे करं दक्षिणं न्यस्य लोकोत्रयीरक्षिणं विस्फुरन्नर्तकालङ्कृतिः सञ्चरत्किङ्किणीझङ्कृतिः कान्तिभिर्निन्दितेन्दीवरः सुन्दरोरस्तटे पीवरः सञ्चरन्मञ्जरीकुण्डलः श्लाघितब्राह्मणीमण्डलः कृष्ण हे सुन्दरकुण्ठया प्रेइर्तास्तूर्णमुत्कण्ठया रक्ष नः सङ्गता दूरतः स्वान्तिके त्वं यतः सूरतः क्ष्मासुरीकाकुमित्यग्रतः शीलयन् व्यञ्जितव्यग्रतः सर्वथा दत्ततद्वाञ्छितः कीर्तिविञ्छोलिकालाञ्छितः प्रोषितब्राह्मणीकोऽमलः पल्लवादप्यलं कोमलः सद्गुणैरिन्दिर्यामोदनं भुक्तवान् भोजयन्नोदनं मत्तमातङ्गलीलाकरः किङ्करानन्दिशीलाकरः सर्वदा विभ्रमारम्भवान् खेलताद् गोकुलेऽलं भवान् सन्ततं दारुणापद्धतं पाहि गोविन्द मामुद्धतम् ॥ ११॥ मत्तमातङ्गलीलाकरच्छन्दः । दुःखोच्छित्तिः परममधुरानन्दपूरानुभूतिः सेयं दामोदर तदुचिता साधनानुष्ठितिर्वा । सत्तां धत्ते न कमलभुवोऽप्यन्तरेणार्तबन्धो कारुण्यं ते मुहुरहमतः प्रार्थये तस्य बिन्दुम् ॥ २५॥

१२

अथ गोवर्धनोद्धरणं अमन्दमदमण्डलिरलमखण्डमाखण्डलं न्यरुद्ध रभसेन यः पृथुमुदस्य गोवर्धनम् । अचण्डकरमाधुरीपटलदण्डितुण्डश्रियं तमात्तवरमण्डनं मकरकुण्डल त्वां भजे ॥ २६॥ हेतुवादजजल्पितव्रजवासवाध्वरमर्दने भूसुरोत्करगोमहीधरपूजनोत्सववर्धने कल्पितातुलयूपसङ्कुलशङ्कुलादधिमोदके पर्वतार्चनसम्पदर्जनहेतुतापरिबोधके पुष्पवन्दनधातुचनदन्मण्डिताखिलगोधने गोपमण्डलकल्पिताचलसानुकन्दरशोधने उद्भटारवभूधरोत्सवसञ्जिताखिलबन्धुते तत्परिक्रमपूजनक्रमभूरिसम्भ्रमसन्धुते क्ष्माधरोपमविग्रहोत्तमभुक्तसिस्फुरदोदने मङ्गलाकरविस्फुरद्वरवृन्दवल्लवमोदने रुष्टवासववृष्टिसम्प्लवखिन्नगोकुलवेष्टिते त्राससङ्कुलबन्धुमण्डलशर्मदाद्भुतचेस्टिते दक्षिणेतरपाणिपुष्करशीलतातुलपर्वते विभ्रमाङ्कुरनिर्धूतोद्धुरजम्भमर्दनगर्विते गोत्रगह्वरवासिताब्भरविह्वलात्मसुहृज्जने कारितोद्भवदद्भूतार्णवबान्धवव्रजमज्जने नन्दिताशयमित्रसञ्चयवीक्षितस्फुरदानने मेदुरस्मितकौमुदीकृतरक्तयौवतमानने भीतनन्दितविस्मयाञ्चित मातृपाण्युपलालिते चारुचञ्चललोचनाञ्चलराधयापि निभालिते मारुतोन्मदचण्डनीरदमण्डलाशनिवारणे सम्पदन्धितशक्रसञ्चितगर्वचर्वणकारणे सप्तवासरहस्तसंस्तरशायितातुलपर्वते निर्मदीकृतशक्रसंवृतनीरदेक्षणनिर्वृते मञ्जुभाषितमुद्रया कृतबान्धवावलिनिष्क्रमे कौतुकोच्चलमित्रमण्डलगीतमङ्गल्विक्रमे पादपोज्ज्वलतन्निजस्थलयोजितप्रवराचले सर्वदा व्रजबान्धवव्रजरक्षणव्रतनिश्चले फुल्लवल्लवनाथयोर्नवहर्षवीक्षणसक्षणे कुङ्कुमाक्षतपल्लवाक्षतवल्लवीकृतरक्षणे छन्नभानुनि शैलसानुनि पीठितप्रवरांशुके भीतलज्जितशक्रवन्दितपादपङ्कजपांशुके स्मेरसम्मुखविस्फुरन्मुखलुप्तवासवभीभ्रमे तन्मनोहरवर्णनिर्भरभारतीभरविभ्रमे गोशिवप्रदमिन्द्रतापदमेत्य निर्भरनन्दिते गायदम्बरलम्बितुम्बुरुरागडम्बरवन्दिते मुग्धसौरभदिग्धसौरभदुग्धपूरकृतोक्षणे कल्पिताखिलपिष्टपातुलतापमण्डलमोक्षणे मत्तकोकिलविभ्रमे किल माधव त्वयि सम्मुखी वर्ततां मम पुरुषोत्तम लोलबुद्धिशिलीमुखी ॥ १२॥ मुग्धसौरभच्छन्दः श्यामोत्तुङ्गभुजार्गले विनिहितः कृष्णेन वृष्टिच्छटा धैतैर्धातुभिरेष तालकुनटीमुख्यैर्गिरिर्गौरितः । शुद्धाष्टापदकल्पितस्य विपुलच्छत्रस्य लक्ष्मीभरं बिभ्रद्गारुडरत्ननिर्मितमहादण्डस्य विभ्राजते ॥ २७॥

१३

अथ नन्दापहरणं नन्दापहारचकितस्य किरीटश‍ृङ्ग भृङ्गावलीपरिचितं सलिलेश्वरस्य । हृद्यं सनन्दनदुरापपरागगन्धं वन्दे मुकुन्द तव देव पदारविन्दम् ॥ २८॥ नीराधिपभृत्याहृतगोपेश्वरमार्गाश्रित लब्धाम्बुधिनाथालय पाशीडितलीलाचय शुद्धोज्ज्वलवाणीसुध दासायितपाशायुध मन्तुक्लमसम्मार्जन तन्निर्मितहर्षार्जन भक्त्यर्पितनन्देक्षण लब्धातुलचित्तक्षण पित्रा सह गेहं गतमातृक्लमहारिव्रत सर्वाद्भुतसन्दर्शनचित्तान्वितनन्दानन सङ्कर्णितलोकोत्तरतत्तन्निजचर्याभर सम्भावितसर्वेश्वरभावोत्सुकगोपोत्कर हृद्येङ्गितसंवेदनसङ्कल्पिततत्साधन दिव्यह्रदमध्यार्पितगोधुग्गणसन्दर्शित सच्चिन्मयलोकोत्तम निष्कासितगोपभ्रम सन्धुक्षितबन्धुव्रज सञ्चारितकीर्तिध्वज गोपीगणशर्माकर मां पालय दामोदर ॥ १३॥ सम्फुल्लच्छन्दः । लोको रम्यः कोऽपि वृन्दाटवीतो नास्ति क्वापीत्यञ्जसा बन्धुवर्गम् । वैकुण्ठं यः सुष्ठु सन्दर्श्य भूयो गोष्ठं निन्ये पातु स त्वां मुकुन्दः ॥ २९॥

१४

अथ रासक्रीडा परिस्फुरतु सुन्दरं चरितमत्र लक्ष्मीपते- स्तथा भुवननन्दिनस्तदवतारवृन्दस्य च । हरेरपि चमत्कृतिप्रकरवर्धनः किन्तु मे बिभर्ति हृदि विस्मयं कमपि रासलीलारसः ॥ ३०॥ शारदविधुवीक्षणमधुवर्धितमदपूर इष्टभजनवल्लभजनचित्तकमलसूर गोपयुवतिमण्डलमतिमोहनकलगीत मुक्तसकलकृत्यविकलयौवतपरिवीत योषिदमलनेत्रकमललोभिदशनमाल कौतुकभरनिर्मितखरनर्मवचनजाल तन्निशमनसाश्रुनयनभीरुभिरनुनीत वल्लभजनखेदशमनविभ्रमभरवीत श्यामविमलकान्तिपटलधूतमदनलक्ष रक्तिमधरयोषिदधरचुम्बरचनदक्ष विग्रहपदयौवतमदवीक्षणपरिलीन चण्डिमधरभक्तनिकरमानभुजगवीन लोलगतिभिरार्तमतिभिराभिरनभिदृष्ट पुष्पगुरुषु वल्लितरुषु भूरिषु परिपृष्ट लब्धनलिनगन्धपुलिनगोप्यनुकृतलील शश्वदमितरङ्गरमितराधिक वरशील फुल्लसुषमवन्यकुसुममण्डितदयिताङ्ग केलितलिनवक्त्रनलिनभृङ्गिततदपाङ्ग निर्भररतिवर्धनमतिनिह्नतनिजदेह प्रेमशरणवल्लभगणमानसकुशलेह दृष्टविकलराधनिखिलयौवतपरिहूत भूरिरुदिततत्तदुदितवीथिभिरभिभूत विक्लवतनुगोपसुतनुलोचनपदवीत चारुहसन पीतवसन कुङ्कुमभरपीत नन्दितमतियोषयुवतिवाससि विनिविष्ट तुष्टिरचनचारुवचनधूतहृदयरिष्ट सम्मदचयफुल्लहृदययौवतततरास कुन्दरदनचारुवदनशोभितमृदुहास द्विद्वियुवतिमध्यवसतिवर्धितरुचिकाम्य लब्धललितभृङ्गवलितचम्पकततिसाम्य स्वस्वसविधबोधिविविधवेशयुवतिहृद्य शङ्करमुखदैवतसुखवर्धिनटनविद्य मोहितशशिमण्डल वशिखेचरमुनियोष किङ्किणियुतनूपुररुतलम्भितपरितोष सौरभपुरमिष्टखपुररञ्जितमधुरास्य सुष्ठुमहितगीतसहितयौवतततलास्य विश्वकरणधैर्यहरणकारणकलगान रक्तिभिरुपरुद्धपशुपभीरुकलितम कूजिवलयताण्डवलयघूर्णितसुरराजि कोमलरणषट्पदगणगुञ्जितभरभाजि तत्र रहसि रासमहसि सम्भृतवरशोभ मौक्तिकशुचिसुस्मितरुचिसृष्टयुवतिलोभ मार्जितरतिखिन्नयुवतिमण्डलमृदुगण्ड प्रेमललहकामकलहपण्डितभुजदण्ड विभ्रमपरवल्गुनखरचिह्नितनववाम सौष्ठवयुतकान्तिभिरुत काममनसिकाम शीतसलिलकेलिकलिलचित्तयुवतिसिक्त दीव्यदचिरजातरुचिरदीप्तिभिरतिरिक्त देवविचितपुष् पुषरचितवृष्टिभिरभिवृष्ट प्रेमसरलकेलितरलगोपसुतनुदृष्ट विस्फुरदिभनायकनिभ मञ्जुलजलखेल चञ्चलकरपुष्करवरकृष्टयुवतिचेल रत्नभवनसन्निभवनकुञ्जविहितरङ्ग रागनिरतयौवतरतिचिह्नविलसदङ्ग सन्धृतनय नन्दतनय सुन्दर जय वीर यामुनतटमण्डलनट रासरचनधीर पापानि मयि दुर्गतिजयिपादभजनलेश धेहि करुण दृष्टिमरुणलोचन निखिलेश ॥ १४॥ ललितभृङ्गच्छन्दः । रम्भोरूनिकुरम्बनिर्भरपरीरम्भेण लब्धद्युते- र्बिभ्राणस्य तडित्कदम्बविलसत्कादम्बिनीविभ्रमम् । क्रीडाडम्बरधूतजृम्भमथनस्तम्बेरमोरुश्रियो रासारम्भरसार्थिनस्तव विभो वन्दे पदाम्भोरुहम् ॥ ३१॥ उल्ललवल्लवललना धरपल्लवचुम्बनोल्लसितम् । नौमि समल्लीमाल्यं हरिमिह हल्लीसकोत्फुल्लम् ॥ ३२॥

१५

अथ सुदर्शनादिमोचनं शङ्खचूडनिधनं च बिभ्रतं श्रवणसीम्नि शारदं पद्ममुज्ज्वलकलाविशारदम् । वल्लवीहृदयहारनायकं हन्त चित्त भज गोष्ठनायकम् ॥ ३३॥ भूरुहोल्लसदम्बिकावनमण्डलान्तरभूमिपावनं अब्जसम्भवकन्यकोदकनिर्मिताप्लवमक्षिमोदक वारिदोज्ज्वलकान्तिडम्बरमाप्तकाञ्चनभास्वरदम्बरं आत्तवल्लवराड्भुजङ्गममूर्तिकल्पितपादसङ्गमं उग्रसङ्कटभाक्सुदर्शनशापमोचनमिष्टदर्शनं आत्मवल्लभनन्दमोचनमुद्धृताखिलगोपशोचनं आश्रयामि भवन्तमुज्ज्वलकान्तिकन्दलधुतकज्ज्वलं आनितोज्ज्वलशर्वरीमुखमाप्तपूर्वजसङ्गसङ्गमुन्मुख वल्लवाखिलवल्लभातुलनेत्रखञ्जनविभ्रमाकुलं अद्भुतामलगीतिमोहितवल्लवीकुलमात्तलोहित चन्दनं खलयक्षनायकभीतियौवतशान्तिदायकं उग्रविग्रहयक्षमर्दनमङ्गनागणरङ्गवर्धनं आप्तगुह्यकरत्ननन्दितपूर्वजं भुवनेन्द्रवन्दित पादपद्म भवन्तमाहितगोकुलोत्सवमङ्गनाहित नौमि माधव मां कृपालय दुर्गतं जगदीश पालय ॥ १५॥ कान्तिडम्बरच्छन्दः । जयति महोत्सवविद्या विद्याधरशापमर्दिनी मूर्तिः । परिभूतशङ्खचूडचूडामन्णिरखिललोकस्य ॥ ३४॥

१६

अथ गोपिकागीतं निर्यासः श्यामलिम्नां परिणतिरमलप्रेमलक्ष्मीभराणां साक्षात्कारः कृपाणामखिलमधुरतासम्पदां संप्रदायः । गाम्भीर्यं बिभ्रमाणामुपचितिरमितश्चातुरीणां चिरं वो भूयादाभीरनारीकुचकलसतटालङ्कृतिर्मङ्गलाय ॥ ३५॥ दिवसविरहार्तयुवतिकृतवार्त पृथुलतरवामभुजशिखरधाम विलसदवतंस वदनधृतवंश सुरनगरयोषिदखिलमतिमोषि मधुरतरगीत पशुनिवहवीत सरिदुदकपूरविरतिविधिशूर कमलभवभर्गमुखविबुधवर्ग मतिदुरनुमानरसदकलगान मदयदवलोक मुषितनतशोक हृतहरणजात कलितसुखवात गिरिशमुखदेव कृतचरणसेव मदजनितघूर्णनयन रसपूर्ण गतिविजितनाग धृतघुसृणराग युवतिदिनतापहरमधुरलाप चटुल नटवेश कृपय मथुरेश ॥ १६॥ मुखदेवच्छन्दः ॥ जगदुद्धुरमाधुरीधूरीणां अधुना मन्दिरमिन्दिरादुरापा । मम तर्षभरान् मुरान्तक त्वन् मुरलीनादसुधाधुनी धुनीताम् ॥ ३६॥

१७

अथारिष्टवधादिकं तुरगदनुसुताङ्गग्रावभेदे दधानः कुलिशघटिततटङ्कोद्दण्डविस्फूर्जितानि । तदुरुविकटदंष्ट्रोन्मृष्टकेयूरमुद्रः प्रथयतु कुशलं वः कैशवो वामबाहुः ॥ ३७॥ वृषदनुजजनितरुजपशुपकुलतोषणं स्वकरतलनिनदखलवृषभपरिरोषणं दयितवरभुजशिखरनिहितभुजदण्डकं जगदसुखविकटमुखदनुजमदखण्डकं निविडबलचटुलमिलदनडुदपनोदनं गगनतलमिलदखिलसुरनिकरमोदनं भुजविभवमहिमलवदलितवृषश‍ृङ्गकं तदभिहतिदलितदितितनुजतनुभृङ्गकं निजनिकटगतिविकटहयदनुजलोचितं प्रणयभरमृदुलतरयुवतिगणशोचितं अवगणितगुरुरणिततुरगखुरघट्टनं निजललितगतिकलिततदुरुमदकुट्टनं धनुरयुतपरिगमितहयदनुजविग्रहं पृथुवदनभुजघटनकृततदतिनिग्रहं भुजभुजगयुतितुरगरदहरणकारणं तदुपचयविहितहयदनुजतनुदारणं निजललितलवदलितजगदवशकेशिनं प्रमदकुलरसचटुलपशपसभवेशिनं दरहसितरुचिरमितनुतिचतुरनारदं गिरिशवरनिखिलसुरनिकरसुखभारदं उरणदतिचपलमतिसुहृदवनखेलनं तदपहृतिमिलदमतिदनुजकृतमेलनं स्वशचरनिकरहरदनुजकृतिवेदिनं जगदभयवलदनयमयतनयभेदिनं सकृदमलपदकमलविनतभयमोचनं भज सदयमयि हृदय सरसिरुहलोचनम् ॥ १७॥ गुच्छकमिदं छन्दः । येनारिष्टः प्रापितोऽभूदरिष्टं चक्रे केशी लीलयैवावकेशी । व्योमोऽलम्भि व्योमसाम्यं स कष्टाद् गोष्ठाधीशः सुष्ठु गोपायतान्नः ॥ ३८॥ अपवर्गसुखस्पृहोरुवल्ली स्थलकुलङ्कषवीचिरम्बुजाक्ष । तव केलिसुधानदी मदीयं शिशिराङ्गीगलजाङ्गलं गतास्तु ॥ ३९॥ पुरुषोत्तमस्य परितो गोकुलचरितामृतेन कृतसेकः । प्रेममरन्दस्यन्दं तनोतु मम चित्तमाकन्दः ॥ ४०॥

१८

अथ रङ्गस्थलक्रीडा क्रियाद् वः कल्याणं भुजसमरशौटीर्यकणिका विकासेनोद्भूय प्रकटबलमल्लप्रतिभटान् । भजन् स्वरी रङ्गे मदकलमृगेन्द्रस्य ललितं कचाकृष्टिक्रीडामथितमथुरारिर्मधुरिपुः ॥ ४१॥ यः पौरलोकारविन्दावलीहेलिरङ्गीकृतोत्तुङ्गरङ्गस्थलीकेलि- आपीतकौशेयशोभोल्लसन्मूर्तिरावर्तिताशेषलोकोत्सवस्फूर्ति- अक्षीणकण्ठीरवाकुण्ठविक्रान्तिरुग्रं ममर्दोरुदन्तीन्द्रमश्रान्ति यं निर्मितोत्तुङ्गमातङ्गनिर्वाणमुर्वीमहानन्दवृन्दानि कुर्वाणं उद्भासिदानास्रबिन्दूर्मिवर्माणमानम्रसन्तोषनिर्माणकर्माणं उन्मीलितास्तोकविस्तारतारुण्यमन्तस्तमस्तोमविध्वंसिकारुण्यं आलोकयामास भिन्नारिमर्माणमग्रे जनश्रेणिरुद्दामशर्माणं उद्दण्डदोर्दण्डदर्पानुविद्धेन विस्मापितामन्दगन्धर्वसिद्धेन पीनांसपिण्डोल्लसद्दन्तदण्डेन विद्येतिघर्माम्बुसंवीतगण्डेन दीप्तेन्द्रनीलावलीराजदङ्गेन लब्धप्रलम्बारिगोपालसङ्गेन मल्लावली येन रङ्गप्रवेशेन विक्षोभिता मङ्क्षु वीरेन्द्रवेशेन मन्दस्मितारब्धकुन्दालिनिन्दाय वृन्दारकानन्दिपादारविन्दाय चञ्चन्नखश्रेणिभाचक्रबालाय वक्षस्तटीलक्ष्यनक्षत्रमालाय फुल्लीभवच्चिल्लिचापप्रसर्पाय निर्वाहितापूर्वकन्दर्पदर्पाय नार्यो मुहुर्दृष्टमाधुर्यचर्याय यस्मै स्पृहां चक्रुराभीरवर्याय यस्माद् विलासेन रङ्गस्थले रन्तुरानम्रलोकातिशोकापदाहन्तु- इन्द्रादिवृन्दारकानन्दनिर्मातुरक्ष्णोर्विनोदेन वृष्ण्यन्धकान् पातु- आर्याङ्गनातीव्रसाध्वीव्रतच्छेत्तुरव्यग्रमल्लाङ्गनातुष्टिर्निर्बेत्तु- आवल्गतः क्षौणिभर्तापि स त्रासमासाद्य विभ्रान्ताग्रबालस्य पद्मावतीपुत्रहृन्मर्मकीलस्य सर्वात्मनाभीष्टदोर्युद्धलीलस्य युद्धं परिस्फारशौटीर्यघोरस्य चानूरमल्लेन वृत्तं किशोरस्य यस्मिन् मुनिश्रेणिवक्रस्फुरन्नाम्नि विस्तीर्णवक्षःस्थलीविभ्रमद्दाम्नि नव्योल्लसद्वारिवाहावलीधाम्नि निःशेसवीरोत्करोल्लङ्घनस्थाम्नि प्रोद्यत्पदद्योतनिर्धूतपञ्चेषु सौन्दर्यदर्पोद्गमे रम्यमञ्चेषु तुङ्गेष्ववस्थाय चक्रुर्विलक्षाणि भक्तिं प्रभौ भोजदशार्हलक्षाणि चाणूरमूर्धन्यमल्लेभपारीन्द्र स श्रीभवान् पातु मां गोपनारीन्द्र सव्यभ्रमन्मुष्टिकोत्ताडितालाङ्क नेपथ्यभारस्फुरद्धेनुपालाङ्क विद्रावितोद्दामदुर्मल्लपालीक निःशङ्कलास्योल्लसत्पादनालीक रम्याङ्गहारश्रियाकृष्टसाध्वीक ताभिर्निपीताङ्गसौरभ्यमाध्वीक गोपाङ्गनानेत्रपानैकभृङ्गार पुष्पावलीलब्धसर्वाङ्गश‍ृङ्गार भो देवकीशौरिबन्धार्तिलुण्ठाक दिक्चक्रवालक्वणत्कीर्तिघण्टाक भक्तोग्रसेनार्पितस्फीतसप्ताङ्ग मां रक्ष कुब्जाङ्गरागेण लिप्ताङ्ग ॥ १८॥ भृङ्गारच्छन्दः मल्लानामुल्लङ्घ्य रङ्गे करविचलदसिर्येन मञ्चप्रपञ्चे केशेष्वाकृष्य कंसो विघटितमुकुटं विघ्नहेतुर्निजघ्ने । स त्वं सत्त्वाधिराज स्फुरदुरुकरुणाडम्बरालम्बिचेताः पाताद् दुःखाब्धिपाताद् यदुकुलकमलोद्दण्डचण्डद्युतिर्माम् ॥ ४२॥ मनसिजफणिजुष्टे लब्धपातोऽस्मि दुष्टे तिमिरगहनरूपे हन्त संसारकूपे । अजित निखिलरक्षाहेतुमुद्धारदक्षां उपनय मम हस्ते भक्तिरज्जुं नमस्ते ॥ ४३॥ समस्तपुरुषार्थतः पृथुतयाद्य भक्तिं विदन् वदन्नपि न यद् भजेत् त्वदकृपात्र हेतुर्विभो । प्रसीद यमुनातटे लुठितमूर्तिरभ्यर्थये कृपां कृपणनाथ हे कुरु मुकुन्द मन्दे मयि ॥ ४४॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां छन्दोऽष्टादशकं समाप्तम् ।

Govardhanoddharanam ॥ गोवर्धनोद्धरणम् ॥

श्रीगोवर्धनोद्धरणाय नमः । झमज्झमिति वर्षति स्तनितचक्रविक्रीडया विमुष्टरविमण्डले घनघटाभिराखण्डले । ररक्ष धरणीधरोद्धृतिपटुः कुटुम्बानि यः स दारयतु दारुणं व्रजपुरन्दरस्ते दरम् ॥ १॥ महाहेतुवादैर्विदीर्णेन्द्रयागं गिरिब्राह्मणोपास्तिविस्तीर्णरागम् । सपद्येकयुक्तीकृताभीरवर्गं पुरोदत्तगोवर्धनक्ष्माभृदर्घम् ॥ २॥ प्रियाशंसिनीभिर्दलोत्तंसिनीभि- र्विराजत्पटाभिः कुमारीघटाभिः । स्तुवद्भिः कुमारैरपि स्फारतारैः सह व्याकिरन्तं प्रसूनैर्धरं तम् ॥ ३॥ गिरिस्थूलदेहेन भुत्केपहारं वरश्रेणिसन्तोषिताभीरदारम् । समुत्तुङ्गश‍ृङ्गावलीबद्धचैलं क्रमात् प्रीयमाणं परिक्रम्य शैलम् ॥ ४॥ मखध्वंससंरम्भतः स्वर्गनाथे समन्तात् किलारब्धगोष्ठप्रमाथे । मुहुर्वर्षति च्छन्नदिक्चक्रवाले सदम्भोलिनिर्घोषमम्भोदजाले ॥ ५॥ मुहुर्वृष्टिखिन्नां परित्रासाभिन्नां व्रजेशप्रधानां ततिं वल्लवानाम् । विलोक्याप्तशीतां गवालीं च भीतां कृपाभिः समुन्नं सुहृत्प्रेमनुन्नम् ॥ ६॥ ततः सव्यहस्तेन हस्तीन्द्रखेलं समुद्धृत्य गोवर्धनं सावहेलम् । अदभ्रं तमभ्रंलिहं शैलराजं मुदा बिभ्रतं विभ्रमज्जन्तुभाजम् ॥ ७॥ प्रविष्टासि मातः कथं शोकभारे परिभ्राजमाने सुते मय्युदारे । अभुवन् भवन्तो विनष्टोपसर्गा न चित्ते विधत्त भ्रमं बन्धुवर्गा ॥ ८॥ हता तावदीइर्विधेया न भीतिः कृतेयं विशाला मया शैलशाला । तदस्यां प्रहर्षादवज्ञातवर्षा विहस्यामरेशं कुरुध्वं प्रवेशम् ॥ ९॥ इति स्वैरमाश्वासितैर्गोपवृन्दैः परानन्दसन्दीप्पितास्यारविन्दैः । गिरेर्गर्तमासाद्य हर्म्योपमानं चिरेणातिहृष्टैः परिष्टूयमानम् ॥ १०॥ गिरीन्द्रं गुरुं कोमले पञ्चशाखे कथं हन्त धत्ते सखा ते विशाखे । पुरस्तादमुं प्रेक्ष्य हा चिन्तयेदं मुहुर्मामकीनं मनो याति भेदम् ॥ ११॥ स्तनद्भिः कठोरे घनैर्ध्वान्तघोरे भ्रमद्वातमाले हताशेऽत्र काले । घनस्पर्शिकूटं वहन्नन्नकूटं कथं स्यान्न कान्तः सरोजाक्षि तान्तः ॥ १२॥ न तिष्ठन्ति गोष्ठे कठोराङ्गदण्डाः कियन्तोऽत्र गोपाः समन्तात् प्रचण्डाः । शिरीषप्रसूनावलीसौकुमार्ये धृत्वा धूरियं भूरिरस्मिन् किमार्ये ॥ १३॥ गिरे तात गोवर्धन प्रार्थनेयं वपुः स्थूलनालीलघिष्ठं विधेयम् । भवन्तं यथा धारयन्न् एष हस्ते न धत्ते श्रमं मङ्गलात्मन्नमस्ते ॥ १४॥ भ्रमत्कुन्तलान्तं स्मितद्योतकान्तं लसद्गण्डशोभं कृताशेषलोभम् । स्फुरन्नेत्रलास्यं मुरारेस्त्वमास्यं वराकूटशालि स्फुटं लोकयालि ॥ १५॥ निपीयेति राधालतावाङ्मरन्दं वरप्रेमसौरभ्यपूरादमन्दम् । दधानं मदं भृङ्गवत्तुङ्गकूजं वराङ्गीचलापाङ्गभङ्गाप्तपूजम् ॥ १६॥ कथं नाम दध्यात् क्षुधाक्षामतुन्दः शिशुर्मे गरिष्ठं गिरीन्द्रं मुकुन्दः । तदेतस्य तुण्डे हठादर्पयारं व्रजाधीश दध्नाचितं खण्डसारम् ॥ १७॥ महाभारनिष्ठे सृते ते कनिष्ठे लभे वत्स नीलाम्बरोद्दामपीडाम् । अवष्टभ्य सत्त्वं तदसमि बल त्वं ददस्वाविलम्बं स्वहस्तावलम्बम् ॥ १८॥ इति स्निग्धवर्णां समाकर्णयन्तं गिरं मातुरेनां च निर्वर्णयन्तम् । कनिष्ठाङ्गुलीश‍ृङ्गविन्यस्तगोत्रं परिप्रीणितव्यग्रगोपालगोत्रम् ॥ १९॥ अमीभिः प्रभावैः कुतोऽभूदकुण्ठः शिशुधूलिकेलीपटुः क्षीरकण्ठः । बिभर्त्यद्य साप्ताब्दिको भूरिभारं गिरिं यच्चिरादेष कैलाससारम् ॥ २०॥ न शङ्का धरभ्रंशनेऽस्माकमस्मान् नखाग्रे सहेलं वहत्येष यस्मात् । गिरिदिक्करीन्द्राग्रहस्ते धरावद् भुजे पश्यत्यास्य स्फुरत्यद्य तावत् ॥ २१॥ इति स्फारतारेक्षणैर्मुक्तभोगै- र्व्रजेन्द्रेण सार्धं धृतप्रीतियोगैः । मुहुर्वल्लवैर्वीक्ष्यमानास्यचन्द्रं पुरः सप्तरात्रान्तरत्यक्ततन्द्रम् ॥ २२॥ तडिद्दामकीर्णान् समीरैरुदीर्णान् विसृष्टाम्बुधारान् धनुर्यष्टिहारान् । तृणीकृत्य घोरान् सहस्रांशुचौरान् दुरन्तोरुशब्दान् कृतावज्ञमब्दान् ॥ २३॥ अहङ्कारपङ्कावलीलुप्तदृष्टे- र्व्रजे यावदिष्टं प्रणीतोरुवृष्टेः । बलारेश्च दुर्मानितां विस्फुरन्तं निराकृत्य दुष्टालिदण्डे दुरन्तम् ॥ २४॥ विसृष्टोरुनीराः सझञ्झासमीरा- स्तडिद्भिः कराला ययुर्मेघमालाः । रविश्चाम्बरान्तविभात्येष शान्तः कृतानन्दपूरा बहिर्यात शूराः ॥ २५॥ इति प्रोच्य निःसारितज्ञातिवारं यथापूर्वविन्यस्तशैलेन्द्रभारम् । दधिक्षीरलाजाङ्कुरैर्भाविनीभि- र्मुदा कीर्यमाणं यशःस्ताव्नीभिः ॥ २६॥ वयं हन्त गोविन्द सौन्दर्यवन्तं नमस्कुर्महे शर्महेतोर्भवन्तम् । त्वयि स्पष्टनिष्ठ्यूत भूयश्चिदिन्दुं मुदा नः प्रसादीकुरु प्रेमबिन्दुम् ॥ २७॥ क्षुभ्यद्दम्भोलिजृम्भोत्तरलघनघटारम्भगम्भीरकर्मा निस्तम्भो जम्भवैरी गिरिधृतिचटुलाद् विक्रमाद् येन चक्रे । तन्वा निन्दन्तमिन्दीवरदलवलभीनन्ददिन्दिन्दिराभां तं गोविन्दाद्य नन्दालयशशिवदनानन्द वन्देमहि त्वाम् ॥ २८॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीगोवर्धनोद्धरणं सम्पूर्णम् ।

Vastraharanam ॥ वस्त्रहरणम् ॥

श्रीवल्लवेन्द्रनन्दनाय नमः । वन्याश्रिता मुरारिः कन्याः सन्यायमुन्मदयन् । अन्याभिलाषितां ते धन्यार्पितसौहृदो हन्यात् ॥ १॥ सहसि व्रतिनीरभितः कृतिनीर्गिरिजास्तवने सलिलाप्लवने कलितोल्लसनाः किल दिग्वसनास्तटभाक्पटिका रसलम्पटिकाः स्फुटबाल्ययुताः पशुपालसुताः कुतुकी कलयन् मतिमुल्ललयन्न् उपगत्य मनोभववत्कमनो हृतवान् सिचयान् सुहृदां निचयान्तरगं तरसा प्रियकं स्वरसादधिरुह्य नगं तटकाननगं कृपया स्नपयन्नथ तास्त्रपयन् पृथुलां सरटीधृतधौतपटी पटलो हसितप्रभोयोल्लसितः श‍ृणुत प्रमदा गिरमश्रमदां उपगत्य हितामभितः सहिता यदि वा क्रमतः स्फुटविभ्रमतः सिचयान्नयत च्छलनं न यतः कथितं न मया जनुषः समयाद् अनृतं ललिता यशसोज्ज्वलिता विदुरिन्दुहृदस्तदमी सुहृद- तनवै न हसादुदितं सहसा बत यूयमिता व्रततः श्रमिता इति सङ्कथयन् पटुतां प्रतह्यन्नतिचञ्चल हे विश मा कलहे वितराद्य पटं कुरु मा कपटं करवाम सदा वचनं रसदा- तव दास्यपरा न वयं त्वपरा न हि चेत् त्वरितं निखिलं चरितं खलु राज्ञि तव प्रबले कितव प्रगदाम मदोद्धतघोरमदो वचनं च रुषा प्रसरत्पुरुषाक्षरमित्युदितं सरुषा रुदितं जडताकलिले यमुनासलिले विलसद्वपुषां गुरुकम्पजुषां चलचारुदृशां बहुधा सुदृशां निशमय्य ततः प्रणयी सतत स्मितचन्द्रिकया स्फुरितोऽधिकया यदि यूयं ऋते मम वागमृते भवथ ग्रहिला नियतं महिला उपसृत्य ततः प्रियकात् पततः स्वपटीपदकान् स्वपरिच्छदकान् उररीकुरुत प्रमदाद् गुरुत- त्यजतानुचितं हृदि सङ्कुचितं न हि चेन्नितरां न पटान् वितराम्युरुवीर्यचये मयि किं रचयेन्नृपतिः परितः स रुषा भरितः स्फुटमित्यमलं निगदन् कमलं भ्रमयन्न् उदितः शशिवन् मुदितः स्वकराम्बरिणीरथ ता हरिणीनयनाः कलयन् स्वशिरश्चलयन् बत नग्नतया स्पृहयोन्नतया जलमज्जनतः कृतवर्जनतः कपतेर्जनिता लघुता वनितास्तदलं दुरितक्षतये स्फुरित द्युतिसुन्दरयोर्युगलं करयोः शिरसि प्रयता द्रुतमर्पयता रुणमित्यधुना निजवाङ्मधुना परिलभ्य मदं हृदि विभ्रमदं किरतीभिरलं नयनं विरलं रचिताञ्जलीभिः प्रमदावलीभिः प्रणतो मधुरः कृतकामधुरः सुभगङ्करणं वसनभरणं विहितानतये लालनाततये दददङ्कुरितप्रणयच्छुरितः परितो हृषिते मदनोत्तृषिते त्रपया नमिते प्रियसङ्गमिते नवरागधरे द्युतिभागधरे हसिताङ्कुरतः स्फुरिते पुरतः स्थगिते रसनाविलसद्वसनाकुलिते पृथुना स्फुटवेपथुना चलदग्रकरे प्रमदाप्रकरे विहितेष्टवरः प्रणयिप्रवरः सुतरां सुखिभिर्वलितः सखिभिर्बहुधाखुरलीविलसन्मुरली नवकाकलिकालिभिरुत्कलिकाकुलमुन्नमयन् सुदृशां रमयन् धियमुन्मदनः कृपया सदनप्रहितप्रमदः कलितप्रमदः कुसुमस्तवकं श्रवणे नवकं दधदाभरणं जगतां शरणं जय केशिहर प्रमणा विहर त्वमतिप्रणयं स्वजने प्रणयन् मयि दुर्हृदये भगवन् विदये कलयेररुणाधर हे करुणाम् ॥ १॥ कुसुमस्तवकच्छन्दः यस्य स्फूर्तिलवाङ्कुरेण लघुनाप्यन्तर्मुनीनां मनः स्पृष्टं मोक्षसुखाद् विरज्यति झटित्यास्वाद्यमानादपि । प्रेम्णस्तस्य मुकुन्द साहसितया शक्नोतु कः प्रार्थने भूयाज् जन्मनि जन्मनि प्रचयिनी किन्तु स्पृहाप्यत्र मे ॥ २॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां वस्त्रहरणं सम्पूर्णम् ।

Rasakrida ॥ रासक्रीडा ॥

नमः श्रीरासरसिकाय । शारदशशधरवीक्षणहृष्टः परमविलासालिभिरभिमृष्टः । वल्लवरमणीमण्डलभावः प्रोल्लासककलमुरलीरावः ॥ १॥ अथ सकलाभिर्मदविकलाभि- र्निशि परिभूय स्वजनान् भूयः । अविरुवतीभिर्नवयुवतीभि- र्विहितोद्देशः सुन्दरवेशः ॥ २॥ मिलितमृगाक्षीवाञ्छितसाक्षी कृतपरिहासः स्फीतविलासः । तदमलवाणीनिशितकृपाणी दलितनिकारः कलितविकारः ॥ ३॥ प्रमदोत्तरलितवल्लवनारी मुखचुम्बनपरिरम्भणकारी । उन्नतमनसां सुदृशां मान प्रेक्षणतः कलितान्तर्धानः ॥ ४॥ अनुकृतचरितः पुलिने परित- स्तरुषु च पृष्टः क्वापि न दृष्टः । यवतिचमूभिस्त्वरितममूभि- र्मुहुरनुगीतः कुतुकपरीतः ॥ ५॥ काकिभिराभिः प्रार्थितसङ्गः प्रकटितमूर्तिर्धृतरतिरङ्गः । किमपि निगूढरुषा परिपृष्टः कलितोत्तरविधिरलमुपविष्टः ॥ ६॥ करुणाशीलः खण्डितपीलः स्तवकितलीलः कुवलयनीलः । धृतमृदुहासः प्रेमविलास- स्तततनुवासः कल्पितरासः ॥ ७॥ अथ परिकल्पितमण्डलबन्धः कुसुमशरासनविभ्रमकन्दः । युवतीयुगयुगसुभगस्कन्ध न्यस्तलसद्भुजदण्डद्वन्द्वः ॥ ८॥ अलिपरिवीते मारुतशीते वरसङ्गीते भुवनातीते । भूषणतारध्वनिपरिसार क्रान्तवनान्ते शशिरुचिकान्ते ॥ ९॥ मध्यगमध्यगमधुपविराजि स्फुटचम्पकततिविभ्रमभाजि । रासे कृतरुचिरन्तस्थायी वेणुमुखाधरपल्लवदायी ॥ १०॥ स्तम्भितराकापतिरविकारान् अपि सुरदारान् मदयन्न् आरात् । कुतुकाकृष्टश्चिरमभिवृष्टः सपदि विलूनैः सुरतरुसूनैः ॥ ११॥ अथ कल्पीकृतरजनिविहारी खस्थसुरासुरविस्मयकारी । निजनिजनिकटस्थितिविज्ञान प्रमुदितरमणीकृतसम्मानः ॥ १२॥ निजदृग्भङ्गीक्षुभितकुरङ्गी नयनामण्डलगुरुकुचसङ्गी । केलिविलोलः प्रचलनिचोलः स्वेदजलाङ्कुरचारुकपोलः ॥ १३॥ कुमुदयुतायां तरणिसुतायां सलिलविनोदप्रवलितमोदः । युवतिनिकायप्रोक्षितकायः शिथिलितमालः पुलककरालः ॥ १४॥ अथ वनमाली वरविपिनाली कुञ्जनिकेतनवीक्षणशाली । जयति विहारि निशि मणिहारी व्रजतरुणीगणमानसहारी ॥ १५॥ नतजनबन्धो जय रससिन्धो वदनोल्लसितश्रमजलबिन्दो । त्वमखिलदेवावलिकृतसेवा सन्ततिरधमा वयमिह के वा ॥ १६॥ जय जय कुण्डलयुगरुचिमण्डल वृतगण्डस्थल दमिताखण्डल । धृतगोवर्धन गोकुलवर्धन देहि रतिं मे त्वयि मुरमर्दन ॥ १७॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां रासक्रीडा समाप्ता ।

Svayamutprekshitalila ॥ स्वयमुत्प्रेक्षितलीला ॥

श्रीराधावल्लभाय नमः । श्यामलसौहृदबद्धा कामिततत्पदसङ्गतिरद्धा । धैर्यमसौ स्मरवर्धितराधा प्राप न मन्दिरकर्मणि राधा ॥ १॥ तं कमलेक्षणमीक्षितुकामा सा च्छलतः सव्यमुज्झितधामा । यामुनरोधसि चारु चरन्ती दूरमविन्दत सुन्दरदन्ती ॥ २॥ (दोधकम्) प्राप्योदारां परिमलधारां कंसारातेरुदयति वाते । सेयं दत्ता दिशि दिशि यत्ता दृष्टिं कम्रामकिरदनम्रा ॥ ३॥ भृङ्गीवेयं तमपरिमेयं मुग्धा गन्धं हृदि कृतबन्धम् । व्यग्रप्राया पुलकितकाया प्रेमोद्भ्रान्ता द्रुतमभियाता ॥ ४॥ कृष्णमवेक्ष्य ततः परितुष्टा पुष्पगणाहृतिकैतवजुष्टा । मन्थरपादसरोरुहपाता कुञ्जकुटीरतटीमुपयाता ॥ ५॥ सा पृथुवेपथुदोलितहस्ता प्रेमसमुत्थितभावविहस्ता । फुल्लमहीरुहमण्डलकान्ते तत्र पुरः प्रससार वनान्ते ॥ ६॥ (दोधकमेव) माधवस्तां तदालोकयन् राधिकां वल्लवीवर्गतः सद्गुणेनाधिकाम् । केयमुद्बाधते मद्वनं रागत- स्तूर्णामित्युल्लपन् फुल्लधीरागतः ॥ ७॥ भालविद्योतितस्फीतगोरोचनं पार्श्वतः प्रेक्ष्य तं विभ्रमल्लोचनम् । सा पटेनावृता कैतवाद् भामिनी वक्रितभ्रूरभूद् दूरभूगामिनी ॥ ८॥ (स्रग्विणी) लीलोद्भ्रान्तं मुहुरथ नुदती नेत्रद्वन्द्वं दिशि दिशि सुदती । वीक्षाञ्चक्रे दलभरावकटां मल्लीवल्लीं तटभुवि निकटाम् ॥ ९॥ तामुन्मीलद्भ्रमरविलसितां लब्धा पुष्पैरुपरि किल सिताम् । लीनेवाभूद् विकसितमदना तस्याः प्रान्ते सरसिजवदना ॥ १०॥ (भ्रमरविलसिता) अञ्जसा व्याहरत् कञ्जसारेक्षण- स्तामसौ स्रग्विणीं दामसौरभ्यभाक् । माधुरीमुद्ग्रिअन् साधुरीत्युज्ज्वलां नूतनानन्ददां पूतनामर्दनः ॥ ११॥ भङ्गुरान् अङ्कुरान्निर्दयं छिन्दती वीरुधः कोमओल्द्भेदिनीभिर्भिन्दती । आः कथं लुण्ठसि त्वं मृगाङ्कानने पुष्पराजीमसौ हन्त मत्कानने ॥ १२॥ सदात्र चिनुमः प्रसूनमजने वयं हि निरताः सुराभिभजने । न कोऽपि कुरुते निषेधरचनं किमद्य तनुषे प्रगल्भवचनम् ॥ १३॥ प्रसीद कुसुमं विचित्र्य सरसा प्रयामि सरसीरुहाक्ष तरसा । क्रियाद्य महती ममास्ति भवने विलम्बमधिकं तनुष्व न वने ॥ १४॥ (जलोद्धतगतिः) नियुक्तः क्षितीन्द्रेण तेनास्मि कामं वनं पालयामि क्रमेणाभिरामम् । जनः शीर्णमप्युद्धरेद् यो दलार्धं हराम्यम्बरं तस्य वित्तेन सार्धम् ॥ १५॥ परिज्ञातमद्य प्रसूनालिमेतां लुनीषे त्वमेवं प्रवालैः समेताम् । धृतासौ मया काञ्चनश्रेणिगौरि प्रविष्टासि गेहं कथं पुष्पचौरि ॥ १६॥ (भुजङ्गप्रयातम्) स पतिः पिशुनः कुपितोऽपिशुनः सदने मुखरा जरती मुखरा । चतुरा गुरवो भविता कुरवो व्यसनं पुरुषेश्वर किं कुरुषे ॥ १७॥ जलजेक्षण हे कुलजामबलां न हि दुर्यशसा रचयाधवलाम् । तरसा विरमत्किरणं तरणिं दिवि पश्य ततस्त्यज मे सरणिम् ॥ १८॥ (तोटकम्) जाने तव कचपक्षं सम्भृतवरमल्लिकालक्षम् । उरसि च कञ्चुकराजं ध्रुवमर्बुधमाधवीभाजम् ॥ १९॥ एहि तव क्षणमात्रं विचारयामि क्रमाद् गात्रम् । तत्त्वे किल निर्णीते प्रयाहि भवनं तडितपीते ॥ २०॥ (आर्या) न मुषा माधव रचय विवादं विदधे तव मुहुरहमभिवादम् । गोकुलवसतौ स्वरमिव मूर्तं न किमु भवन्तं जाने धूर्तम् ॥ २१॥ वेत्ति न गोपी वृन्दारामं वृन्दावनमपि भुवि कः कामम् । अहमिह तदिदं कितव रसालं कथमवचेष्ये न कुसुमजालम् ॥ २२॥ (पज्झटिका) नेदमत्र कलसस्तनि शंस क्रोधनो नृपतिरेष नृशंसः । तेन हन्त विदिते वनभङ्गे यौवतं पतति भीतितरङ्गे ॥ २३॥ तन्वि गेहगमनव्यवसायं चेत् करोषि श‍ृणु रम्यमुपायम् । अत्र मत्तबहुषट्पदवीरे लीलया प्रविश कुञ्जकुटीरे ॥ २४॥ (स्वागता) गोकुले कुलवधूभिरर्चिता शीलचन्दनरसेन चर्चिता । राधाहमधिकारितामतः किं करोषि मय्धूर्त कामतः ॥ २५॥ नाक्षिणी क्षिप कुरङ्गि सर्वतः साक्षिणी भव सखीभिरन्विता । माधवः किल दुनोति मामसौ साधवः श‍ृणुत भोः शिखिस्त्रियः ॥ २६॥ (रथोद्धता) भ्रूलेखां किमरालां त्वं निर्मासि करालां किं वा पश्यसि वामं संरम्भादभिरामम् । दिष्ट्या काननलोला हेलोत्फुल्लकपोला वृत्ता त्वं हरिहस्ते त्रातान्यो भुवि कस्ते ॥ २७॥ आरुह्य द्रुमवाटीं मुञ्चेमां परिपाटीं गेहान्तस्तव सर्वं जाने भामिनि गर्वम् । नेदिष्ठः किल भूपः सोऽयं भैरवरूप- स्तस्याग्रे चल वामे चोलीमर्पय वामे ॥ २८॥ (लोला) इति वचनकदम्बैस्तत्र नर्मावलम्बैः स्कलदमलदुकूलां प्रोल्लसद्बाहुमूलाम् । अविशदपदबद्धं गद्गदोद्गारनद्धं किमपि किमपि जल्पं कल्प्यन्तीमनल्पम् ॥ २९॥ स्मितमुदितकपोलां निर्मितापाङ्गदोलां वरयुवतिषु राधां प्रेमपूरादगाधाम् । सदनितलतिकान्तर्यो निनायातिकान्तः स हरिरलमभीष्टप्रापणं मे कृषीष्ट ॥ ३०॥ (मालिनी) इति श्रीरूपगोस्वामिविरचितस्तवमालायां स्वयमुत्प्रेक्षितलीला समाप्ता ।

Khandita ॥ खण्डिता ॥

नमः श्रीव्रजनागराय । (भुजङ्गप्रयात छन्दः) अवज्ञाय भर्तुर्महाघोरदण्डं गुरोर्भाषितं च व्यतिक्रम्य चण्डम् । निषेधोद्धुरां किङ्करीमाक्षिपन्ती हरे कृष्ण नाथेति बाला जपन्ती ॥ १॥ रसन्मेघजाले तडिद्भिः कराले गलद्वारिधारे दुरन्तान्धकारे । मिलद्भूरिदोषे सखि मे प्रदोषे प्रयाणाय लज्जामनादृत्य सज्जा ॥ २॥ (युग्मकम्) अदूरोल्लसद्भल्लूकारब्धयुद्धां वलद्दन्दशूकावलीभोगरुद्धाम् । समन्दाद् ध्वनद्वायसारातिभीमां रसोत्फुल्लमुल्लङ्घ्य कान्तारसीमाम् ॥ ३॥ प्रविश्यानवद्यं लतागेहमध्यं धृतौत्सुक्यचक्रा निसर्गादवक्रा । नखाग्रप्रसूनैः सुगन्धिप्रसूनैः पयःफेनकल्पं व्यधत्तेह तल्पम् ॥ ४॥ (युग्मकम्) प्रणीतेक्षणेयं मुहुस्ते पदव्यां दधाना मुकुन्द स्पृहां नव्यनव्याम् । अलब्धं ततस्त्वामवेत्यातिखिन्ना बभूव प्रसूनेषुबाणैर्विभिन्ना ॥ ५॥ सुकण्ठी शठेयं भजन्ती प्रजल्पं मुहुर्भावयन्ती निमेषं च कल्पम् । चकाराद्य कुञ्जे बतालब्धकामे सखी जागरं सम्भ्रमादेकिका मे ॥ ६॥ अहो भाग्यमद्य प्रपन्नोऽसि सद्य- स्त्वमस्मिन्नगारे यदारान् मुरारे । सखीवृन्ददृष्टिर्धृतानन्दवृष्टि- र्बभूवात्तरङ्गं विलोक्य त्वदङ्गम् ॥ ७॥ दुकूलस्य लक्ष्मीं समन्ताद् विशालां असौ वीक्ष्य पीतस्य ते मल्लिमाला । लुठन्ती कुचोद्भासिकाश्मीरपङ्के निजं पीतमङ्गं चकाराद्य शङ्के ॥ ८॥ विकीर्णालकान्तः परिश्रान्तिकान्त- स्तव व्यक्ततन्द्रः स्फुरत्यास्यचन्द्रः । कृतानङ्गयागं विभक्ताङ्गरागं नखाङ्कालिपात्रं तथेदं च गात्रम् ॥ ९॥ स्फुरद्बन्धुजीवप्रसूनाप्तसङ्गं परिस्पर्धमानो विलासेन भृङ्गम् । मुदं कस्य बिम्बाधरस्तेन रक्तः करोत्युज्ज्वलां कज्जलेनाद्य सक्तः ॥ १०॥ अलं देवदिव्येना जाने भवन्तं सदा राधिकायामतिप्रेमवन्तम् । अलिन्दात् कुरु त्वं ममाधिप्रभातं द्रुतं गोपकन्याभुजङ्ग प्रयातम् ॥ ११॥ इति प्रेमगर्भां समाकर्ण्य सर्वां तदा राधिकालीगिरं रत्नमाली । हरिस्तोषभारं स विन्दन्नपारं सदा मे महिष्ठं विधत्तामभीष्टम् ॥ १२॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां खण्डिता समाप्ता ।

Shri Lalitoktatotakashtakam ॥ श्रीललितोक्ततोटकाष्टकम् ॥

नयनेरितमानसभूविशिखः शिरसि प्रचलप्रचलाकशिखः । मुरलीध्वनिभिः सुरभीस्त्वरयन् पशुपीविरहव्यसनं तिरयन् ॥ १॥ परितो जननीपरितोषकरः सखि लम्पटयन्नखिलं भुवनम् । तरुणीहृदयं करुणी विदधत् तरलं सरले करलम्बिगुणः ॥ २॥ दिवसोपरमे परमोल्लसितः कलशस्तनि हे विलसद्धसितः । अतसीकुसुमं विहसन्महसा हरिणीकुलमाकुलयन् सहसा ॥ ३॥ प्रणयिप्रवणः सुभगश्रवण प्रचलन्मकरः ससखिप्रकरः । मदयन्नमरीर्भ्रमयन् भ्रमरी मिलितः कतिभिः शिखिनां तातभिः ॥ ४॥ अयमुज्ज्वलयन् व्रजभूसरणीं रमयन् क्रमणैर्मृदुभिर्धरणीम् । अजिरे मिलितः कलितप्रमदे हरिरुद्विजसे तदपि प्रमदे ॥ ५॥ वद मा परुषं हृदये न रुषं रचय त्वमतश्चल विभ्रमतः । उदिते मिहिकाकिरणे न हि का रभसादयि तं भजते दयितम् ॥ ६॥ कलय त्वरया विलसत्सिचयः प्रसरत्यभितो युवतीनिचयः । निदधाति हरिर्नयनं सरणौ तव विक्षिप सप्रणयं चरणौ ॥ ७॥ इति तामुपदिश्य तदा स्वसखीं ललिता किल मानितया विमुखीम् । अनयत् प्रसभादिव यं जवतः कुरुतात् स हरिर्भविकं भवतः ॥ ८॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीललितोक्ततोटकाष्टकं सम्पूर्णम् ।

Chitrakavitvani ॥ चित्रकवित्वानि ॥

तत्र द्व्यक्षराणि - रसासारसुसारोरुरसुरारिः ससार सः । संसारासिरसौ रासे सुरिरंसुः ससारसः ॥ १॥ चर्चोरुरोचिरुच्चोरा रुचिरोऽरं चराचरे । चौराचारोऽचिराच्चीरं रुचा चारुरचूचुरत् ॥ २॥ धरे धराधरधरं धाराधरधुरारुधम् । धीरधीरारराधाधिरोधं राधा धुरन्धरम् ॥ ३॥ एकाक्षरम् - निनुन्नानेनोननं नूनं नानूनोन्नानननोऽनुनीः । नानेनानां निनुन्नेनं नानौन्नानाननो ननु ॥ ४॥ चक्रबन्धः - गन्धाकृष्टगुरून्मदालिनि वने हारप्रभातिप्लुतं सम्पुष्णन्तमुपस्कृताध्वनि यमीवीचिश्रियो रञ्जकम् । सद्यस्तुङ्गितविभ्रमं सुनिभृते शीतानिलैः सौख्यदे देवं नागभुजं सदा रसमयं तं नौमि कञ्चिन् मुदे ॥ ५॥ सर्पबन्धः - रासे सारङ्गसङ्घाचितनवनलिनप्रायवक्षःस्थदामा बर्हालङ्कारहारस्फुरदमलमहारागचित्रे जयाय । गोपालो दासवीथीललितहितरवस्फारहासः स्थिरात्मा नव्योऽजस्रं क्षणोपाश्रितविततबलो वीक्ष्य रङ्गं बभाषे ॥ ६॥ पद्मबन्धः - कलवाक्य सदालोक कलोदार मिलावक । कवलाद्याद्भुतानूक कनूताभीरबालक ॥ ७॥ प्रतिलोम्यानुलोम्यसमम् - तायिसारधराधारातिभाषातमदारिहा । हारिदामतया भाति राधाराधरसायिता ॥ ८॥ गोमूत्रिकाबन्धः - सा मल्लरङ्गे रमया फुल्लसारा मुदेर्धिता । श्रमनीरधरा तुष्टा वल्लवीरासदेवता ॥ ९॥ मुरजबन्धः - शुभासारससारश्रीः प्रभासान्द्रमसारभा । भारसा महसावित्त तरसा रससारिताम् ॥ १०॥ सर्वतोभद्रः - रासावहा हावसारा सा ललास सलालसा । बलारमा मारलावहासमाददमासहा ॥ ११॥ बृहत्पद्मबन्धः - तारप्रस्फारतालं सरभसरसलं भासुरास्यं सुभालं पापघ्नं गोपपालं करणहरकलं नीरभृद्वारनीलम् । चारुग्रीवं रुचालं रतमदतरलं चेतसा पीतचेलं शीतप्रस्फीतशीलं वरय वरबलं वासुदेवं सुबालम् ॥ १२॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां चित्रकवित्वानि समाप्ता ।

Gitavali ॥ गीतावली ॥

प्रथमं नन्दोत्सवादि श्रीराधाकृष्णौ जयतः

भैरवरागेण गीयते । पुत्रमुदारमसूत यशोदा । समजनि वल्लवततिरतिमोदा ॥ ध्रुवम् ॥ कोऽप्यपनयति विविधमुपहारम् । नृत्यति कोऽपि जनो बहुबारम् ॥ कोऽपि मधुरमुपगायति गीतम् । विकिरति कोऽपि सदधि नवनीतम् ॥ कोऽपि तनोति मनोरथपूर्तिम् । पश्यति कोऽपि सनातनमूर्तिम् ॥ १॥

आसावरी । विप्रवृन्दमभूदलङ्कृतिगोधनैरपि पूर्णम् । गायनान् अपि मद्विधान् व्रजनाथ तोषय तूर्णम् ॥ सूनुरद्भुतसुन्दरोऽजनि नन्दराज तवायम् । देहि गोष्ठजनाय वाञ्छितमुत्सवोचितदायम् ॥ ध्रुवम् ॥ तावकात्मजवीक्षणक्षणनन्दि मद्विधचित्तम् । यन्न कैरपि लब्धमर्थिभिरेतदिच्छति वित्तम् ॥ श्रीसनातनचित्तमानसकेलिनीलमराले । मादृशां रतिरत्र तिष्ठतु सर्वदा तव बाले ॥ २॥

वसन्तपञ्चमी वसन्तरागः अभिनवकुट्मलगुच्छसमुज्ज्वलकुञ्चितकुन्तलभार । प्रणयिजनेरितवन्दनसहकृतचूर्णितवनघनसार ॥ जय जय सुन्दर नन्दकुमार । सौरभसङ्कटवृन्दावनविहितवसन्तविहार ॥ ध्रुव ॥ अधरविराजितमन्दतरस्मितलोभितनिजपरिवार । चटुलदृगञ्चलरचितरसोच्चलराधामदनविकार ॥ भुवनविमोहनमञ्जुलनर्तनगतिवल्गितमणिहार । निजवल्लभजनसुहृत्सनातनचित्तविहरदवतार ॥ ३॥

दोलोत्सवः वसन्तरागः केलिरसमाधुरी ततिभिरतिमेदुरी कृतनिखिलबन्धुपशुपालम् । हृदि विधृतचन्दनं स्फुरदरुणवन्दनं देहरुचिनिर्जिततमालम् ॥ सुन्दरि माधवमवकलयालम् । मित्रकरलोलया रत्नमयदोलया चलितवपुरतिचपलमालम् ॥ ध्रुव ॥ व्रजहरिणलोचना रचितगोरोचना तिलकरुचिरुचिरतरभालम् । स्मितजनितलोभया वदनशशिशोभया विभ्रमितनवयुवतिजालम् ॥ नर्ममयपण्डितं पुष्पकुलमण्डितं रमणमिह वक्षसि विशालम् । प्रणतभयशातनं प्रियमधि सनातनं गोष्ठजनमानसमरालम् ॥ ४॥

आसावरी निपतति परितो वन्दनपाली । तं दोलयति मुदा सुहृदाली ॥ विलसति दोलोपरि वनमाली । तरलसरोरुहशिरसि यथाली ॥ ध्रुव ॥ जनयति गोपीजनकरताली । कापि पुरो नृत्यति पशुपाली ॥ अयमारण्यकमण्डनशाली । जयति सनातनरसपरिपाली ॥ ५॥

धनाश्रीः न कुरु कदर्थनमत्र सरण्याम् । मामवलोक्य सतीमशरण्याम् ॥ चञ्चल मुञ्च पटाञ्चलभागम् । करवाण्यधुना भास्करयागम् ॥ ध्रुव ॥ न रचय गोकुलवीर विलम्बम् । विदधे विधुमुख विनतिकदम्बम् ॥ रहसि बिभेमि विलोलदृगन्तम् । वीक्ष्य सनातन देव भवन्तम् ॥ ६॥

सौरष्ट्री राधे निगद निजं गदमूलम् । उदयति तनुमनु किमिति तापकुलमनुकृतविकटकुकूलम् ॥ ध्रुव ॥ प्रचुरपुरन्दरगोपविनिन्दककान्तिपटलमनुकूलम् । क्षिपसि विदूरे मृदुलं मुहुरपि सम्भृतमुरसि दुकूलम् ॥ अभिनन्दसि न हि चन्द्ररजोभरवासितमपि ताम्बूलम् । इदमपि विकिरसि वरचम्पककृतमनुपमदाम सचूलम् ॥ भजदनवस्थितिमखिलपदे सखि सपदि विडम्बिततूलम् । कलितसनातनकौतुकमपि तव हृदयं स्फुरति सशूलम् ॥ ७॥

सौरष्ट्री कुटिलं मामवलोक्य नवाम्बुजमुपरि चुचुम्ब स रङ्गी । तेन हठादहमभवं वेपथुमण्डलसञ्चलदङ्गी ॥ भामिनि पृच्छ न वारं वारम् । हन्त विमुह्यति वीक्ष्य मनो मम वल्लवराजकुमारम् ॥ ध्रुव ॥ दाडिमलतिकामनु निस्तलफलनमितां स दधे हस्तम् । तदनुभवान् मम धर्मोज्ज्वलमपि धैर्यधनं गतमस्तम् ॥ अदशदशोकलतापल्लवमयमतनुसनातननर्मा । तदहमवेक्ष्य बभूव चिरं बत विस्मृतकायिककर्मा ॥ ८॥

धनाश्रीः अनधिगताकस्मिकगदकारणमर्पितमन्त्रौषधिनिकुरम्बम् । अविरतरुदितविलोहितलोचनमनुशोचति तामखिलकुटुम्बम् ॥ देव हरे भव कारुण्यशाली । सा तव निशितकटाक्षशराहतहृदया जीवति कृशतनूराली ॥ ध्रुव ॥ हृदि वलदविरलसञ्ज्वरपटलीस्फुटदुज्ज्वलमौक्तिकसमुदाया । शीतलभूतलनिश्चलतनुरियमवसीदति संप्रति निरुपाया ॥ गोष्ठजनाभयसत्रमहाव्रतदीक्षित भवतो माधव बाला । कथमर्हति तां हन्त सनातन विषमदशां गुणवृन्दविशाला ॥ ९॥

१०

आसावरी हन्त न किमु मन्थरयसि सन्ततमभिजल्पम् । दन्तरोचिरन्तरयति सन्तमसमनल्पम् ॥ राधे पथि मुञ्च भुरि सम्भ्रममभिसारे । चारय चरणाम्बुरुहे धीरं सुकुमारे ॥ ध्रुव ॥ सन्तनु घनवर्णमतुलकुन्तलनिचयान्तम् । ध्वान्तं तव जीवतु नखकान्तिभिरभिशान्तम् ॥ ससनातनमानसाद्य यान्ती गतशङ्कम् । अङ्गीकुरु मञ्जुकुञ्जवसतेरलमङ्कम् ॥ १०॥

११

गौडी सिचयमुदञ्चय हृदयादल्पम् । विलिखाम्यद्भुतमकराकल्पम् ॥ इह न हि सङ्कुच पङ्कजनयने । वेशं तव करवै रतिशयने ॥ ध्रुव ॥ राधे दोलय न किल कपोलम् । चित्रं रचयाम्यहमविलोलम् ॥ तव वपुरद्य सनातनशोभम् । जनयति हृदि मम कञ्चन लोभम् ॥ ११॥

१२

आसावरी तव चञ्चलमतिरयमघहन्ता । अहमुत्तमधृतिदिग्धदिगन्ता ॥ दूति विदूरय कोमलकथनम् । पुनरभिधास्ये न हि मधुमथनम् ॥ ध्रुव ॥ शठचरितोऽयं तव वनमाली । मृदुहृदयाहं निजकुलपाली ॥ तव हरिरेष निरङ्कुशनर्मा । अहमनुबद्धसनातनधर्मा ॥ १२॥

१३

भैरवः मण्डितहल्लीसकमण्डलां नटयन् राधां चलकुण्डलाम् ॥ निखिलकलासम्पदि परिचयी । प्रियसखि पश्य नटति मुरजयी ॥ ध्रुव ॥ मुहुरान्दोलित रत्नवलयम् । सलयं चलयन् करकिशलयम् ॥ गतिभङ्गिभिरवशीकृतशशी । स्थगितसनातनशङ्करवशी ॥ १३॥

१४

भैरवः दामोदररतिवर्धनवेशे हरिनिष्कुटवृन्दाविपिनेशे । राधे जय जय माधवदयिते गोकुलतरुणीमण्डलमहिते ॥ ध्रुव ॥ वृषभानुदधिनवशशिलेखे ललितासखि गुणरमितविशाखे । करुणां कुरु मयि करुणाभरिते । सनकसनातनवर्णितचरिते ॥ १४॥

१५

धनाश्रीः । राजपुराद् गोकुलमुपयातम् । प्रमदोन्मादितजननीतातम् ॥ स्वप्ने सखि पुनरद्य मुकुन्दम् । आलोकयमवतंसितकुन्दम् ॥ ध्रुव ॥ परममहोत्सवघुर्णितघोषम् । नयनेङ्गितकृतमत्परितोषम् ॥ नवगुञ्जावलिकृतपरभागम् । प्रबलसनातनसुहृदनुरागम् ॥ १५॥

१६

सौराष्ट्री पुलकमुपैति भयान् मम गात्रम् । हससि तथापि मदादतिमात्रम् ॥ वारय तूर्णमिमं सखि कृष्णम् । अनुचितकर्मणि निर्मिततृष्णम् ॥ ध्रुव ॥ जाने भवतीमेव विपक्षाम् । मामुपनीता यद् वनकक्षाम् ॥ अद्य सनातनमतिसुखहेतुम् । न परिहरिष्ये विधिकृतसेतुम् ॥ १६॥ अथ रासः

१७

धनाश्रीः कोमलशशिकररम्यवनान्तरनिर्मितगीतविलास । तूर्णसमागतवल्लवयौवतवीक्षणकृतपरिहास ॥ जय जय भानुसुतातटरङ्गमहानट सुन्दर नन्दकुमार । शरदङ्गीकृतदिव्यरसावृत मङ्गलरासविहार ॥ ध्रुव ॥ गोपीचुम्बित रागकरम्बित मानविलोकनलीन । गुणवर्गोन्नतराधासङ्गतसौहृदसम्पदधीन ॥ तद्वचनामृतपानमदाहृत वलयीकृतपरिवार । सुरतरुणीगणमतिविक्षोभण खेलनवल्गितहार ॥ अम्बुविगाहननन्दितनिजजन मण्डितयमुनातीर । सुखसंविद्घन पूर्णसनातन निर्मलनीलशरीर ॥ १७॥

१८

धनाश्रीः शुद्धसतीव्रतवित्ता अहमतिनिर्मलचित्ता । प्रथयसि सुजनविमुक्तं नर्मेदं किमयुक्तम् ॥ माधव परिहर मे पटमेतम् । यामि जवेन निकेतम् ॥ ध्रुव ॥ यदि जानाम्यधितीरं त्वामतिगूढशरीरम् । दूरे सूरसुतायां सायं कथमुपयायाम् ॥ विदधे भवदवनामं चरितं परिहर वामम् । वर्त्म सनातनमुचितं पालय धार्मिकरुचितम् ॥ १८॥

१९

कर्णाटः किं वितनोषि मुधाङ्गविभूषणकपटेनात्र विघातम् । सोढुमहं समयस्य न संप्रति शक्ता लवमपि पातम् ॥ गोकुलमङ्गलवंशी ध्वनिरुद्गर्जति वनगतये स्मरभूपतिशासनशंसी ॥ ध्रुव ॥ माधवचरणाङ्गुष्ठनखद्युतिरयमुदयति हिमधामा । मा गुरुजनभयमुद्गिर मुहुरियमभवं धावितकामा ॥ तं सेवितुमिह पश्य सनातनपरमारण्यजवेशम् । गोपवधूततिरियमुपसर्पति भानुसुतातटदेशम् ॥ १९॥

२०

कर्णाटः स्फुरदिन्दीवरनिन्दिकलेवर राधाकुचकुङ्कुमभर पिञ्जर । सुन्दरचन्द्रकचूड मनोहर चन्द्रावलिमानसशुकपञ्जर ॥ जय जय जय गुञ्जावलिमण्डित । प्रणयविश‍ृङ्खलगोपीमण्डलवर बिम्बाधरखण्डनपण्डित ॥ ध्रुव ॥ मृगवनिताननतृणविस्रंसन कर्मधुरन्धरमुरलीकूजित । स्वारसिकस्मितसुषमोन्मादित सिद्धसतीनयनाञ्चलपूजित ॥ ताम्बूलोल्लसदाननसारस जाम्बूनदरुचिविस्फुरदम्बर । हरकमलासनसनकसनातन धृतिविध्वंसनलीलाडम्बर ॥ २०॥

२१

केदारः सौरभसेवितपुष्पविनिर्मित निर्मलवनमालापरिमण्डित । मद्नतरस्मितकान्तिकरम्बित वदनाम्बुजनवविभ्रमपण्डित ॥ जय जय मरकतकन्दलसुन्दर । वरचामीकरपीताम्बरधर वृन्दावनजनवृन्दपुरन्दर ॥ ध्रुव ॥ नवगुञ्जाफलराजिभिरुज्ज्वल केकिशिखण्डकशेखरमञ्जुल । गुणवर्गातुलगोपवधूकुल चित्तशिलीमुखपुष्पितवञ्जुल ॥ कलमुरलीक्वणपूरविचक्षण पशुपालाधिपहृदयानन्दन । गिरिशसनातनसनकसनन्दन नारदकमलासनकृतवन्दन ॥ २१॥

२२

गौडी यामुनजलकणिकाभिरुपेते । सङ्गतमुज्ज्वलकुञ्जनिकेते ॥ त्वयि विनिहितवरसौहृदभारम् । विहितापरतरुणीपरिहारम् ॥ भज सखि वल्लवराजकुमारम् । कामिततावकसङ्गविहारम् ॥ ध्रुव ॥ नवगुञ्जाफलमञ्जुलहारम् । माल्यविहारिमधुपपरिवारम् ॥ निर्मलनर्मविभावनशीलम् । वल्लवमत्र सनातनलीलम् ॥

२३

मल्लारः तरुणीलोचनतापविमोचन हाससुधाङ्कुरधारी । मन्दमरुच्चलपिञ्छकृतोज्ज्वल मौलिरुदारविहारी ॥ सुन्दरि पश्य मिलति वनमाली । दिवसे परिणतिमुपगच्छति सति नवनवविभ्रमशाली ॥ ध्रुव ॥ धेनुखुरोद्धुतरेणुपरिप्लुत फुल्लसरोरुहदामा । अचिरविकस्वरलसदिन्दीवर मण्डलसुन्दरधामा ॥ कलमुरलीरुतिकृततावकरति- रत्र दृगन्ततरङ्गी । चारुसनातनतनुरनुरञ्जन कारिसुहृद्गणसङ्गी ॥ २३॥

२४

धनाश्रीः यद्यपि समाधिषु विधिरपि पश्यति न तव नखाग्रमरीचिम् । इदमिच्छामि निशम्य तवाच्युत तदपि कृपाद्भुतवीचिम् ॥ देव भवन्तं वन्दे । मन्मानसमधुकरमर्पय निज पदपङ्कजमकरन्दे ॥ ध्रुव ॥ भक्तिरुदञ्चति यद्यपि माधव न त्वयि मम तिलमात्री । परमेश्वरता तदपि तवाधिक दुर्घटघटनविधात्री ॥ अयमविलोलतयाद्य सनातन कलिताद्भुतरसभारम् । निवसतु नित्यमिहामृतनिन्दिनि विन्दन्मधुरिमसारम् ॥ २४॥ अथ नायिकाभेदाः अथाभिसारिका वाससज्जाप्युत्कण्ठिता तथा । विप्रलब्धा खण्डिता च कलहान्तरिता परा ॥ प्रोषितप्रेयसी प्रोक्ता तथा स्वाधीनभर्तृका । इत्यष्टौ नायिकाभेदा रसतन्त्रे प्रकीर्तिताः ॥ तत्राभिसारिका या पर्युत्सुकचित्तातिमदेन मदनेन च । आत्मनाभिसरेत् कान्तं सा भवेदभिसारिका ॥

२५

धनाश्रीः त्वं कुचवल्गितमौक्तिकमाला । स्मितसान्द्रीकृतशशिकरजाला ॥ हरिमभिसर सुन्दरि सितवेशा । राकारजनिरजनि गुरुरेषा ॥ ध्रुव ॥ परिहितमाहिषदधिरुचिसिचया । वपुरर्पितघनचन्दननिचया ॥ कर्णकरम्बितकैरवहासा । कलितसनातनसङ्गविलासा ॥ २५॥ अथ वासकसज्जा भवेद् वासकसज्जासौ सज्जिताङ्गरतालया । निश्चित्यागमनं भर्तुर्द्वारेक्षणपरायणा ॥

२६

कल्याणः कुसुमावलिभिरुपस्कुरु तल्पम् । माल्यं चामलमणिसरकल्पम् ॥ प्रियसखि केलिपरिच्छदपुञ्जम् । उपकल्पय सत्वरमधिकुञ्जम् ॥ ध्रुव ॥ मणिसम्पुटमुपनय ताम्बूलम् । शयनाञ्चलमपि पीतदुकूलम् ॥ विद्धि समागतमप्रतिबन्धम् । माधवमाशु सनातनसन्धम् ॥ २५॥ अथोत्कण्ठिता सा स्यादुत्कण्ठिता यस्या वासं नैति द्रुतं प्रियः । तस्यानगमने हेतुं चिन्तयन्त्या शुचा भृशम् ॥

२७

आसावरी किमु चन्द्रावलिरनयगभीरा । न्यरुणदमुं रतिवीरमधीरा ॥ अतिचिरमजनि रजनिरतिकाली । सङ्गमविन्दत न हि वनमाली ॥ ध्रुव ॥ किमिह जने धृतपङ्कविपाके । विस्मृतिरस्य बभूव वराके ॥ किमुत सनातनतनुरलघिष्ठम् । रणमारभत सुरारिभिरिष्टम् ॥ २७॥ अथ विप्रलब्धा यस्या दूतीं स्वयं प्रेष्य समये नागतः प्रियः । शोचन्ती तं विना दुःस्था विप्रलब्धा तु सा स्मृता ॥

२८

गौडी कोमलकुसुमावलीकृतचयनम् । अपसारय रतिलीलाशयनम् ॥ श्रीहरिणाद्य न लेभे शमये । हन्त जनं सखि शरणं कमये ॥ ध्रुव ॥ निधृतमनोहरगन्धविलासम् । क्षिप यामुनतटभुवि पटवासम् ॥ लब्धमवेहि निशान्तिमयामम् । मुञ्च सनातनसङ्गतिकामम् ॥ २८॥ अथ खण्डिता अन्यया सह कान्तस्य दृष्टे सम्भोगलक्षणे । ईर्ष्याकषायितात्मासौ खण्डिता खलु कथ्यते ॥

२९

रामकेलिः हृदयान्तरमधिशायितम् । रमय जनं निजदयितम् ॥ किं फलमपराधिकया । संप्रति तव राधिकया ॥ माधव परिहर पटिमतरङ्गम् । वेत्ति न का तव रङ्गम् ॥ ध्रुव ॥ आघूर्णति तव नयनम् । याहि घटीं भज शयनम् ॥ अनुलेपं रचयालम् । नश्यतु नखपदजालम् ॥ त्वामिह विलसति बाला । मुखरसखीनां माला ॥ देव सनातन वन्दे । न कुरु विलम्बमालिन्दे ॥ २९॥

३०

यां सेवितवान् असि जागरी । त्वामजयत् सा निशि नागरी ॥ कपटमिदं तव विन्दति हरे । नावसरं पुनरालिनिकरे ॥ ध्रुव ॥ मा कुरु शपथं गोकुलपते । वेत्ति चिरं का चरितं न ते ॥ मुक्तसनातनसौहृदभरे । न पुनरहं त्वयि रसमाहरे ॥ ३०॥ अथ कलहान्तरिता निरस्तो मन्युना कान्तो नमन्नपि यया पुरः । सानुतापयुता दीना कलहान्तरिता भवेत् ॥

३१

ललितः नाकर्णयमतिसुहृदुपदेशम् । माधवचाटुपटलमपि लेशम् ॥ सीदति सखि मम हृदयमधीरम् । यदभजमिह न हि गोकुलवीरम् ॥ ध्रुव ॥ नालोकयमर्पितमुरुहारम् । प्रणमन्तं च दयितमनुवारम् ॥ हन्त सनातनगुणमभियान्तम् । किमधारयमहमुरसि न कान्तम् ॥ ३१॥ अथ विरहिणी प्रोषितप्रेयसी कुतश्चित् कारणाद् यस्या विदूरस्थो भवेत् पतिः । तदनागमदुःखार्ता सा स्यात् प्रोषितभर्तृका ॥

३२

गौडी कुर्वति किल कोकिलकुले उज्ज्वलकलनादम् । जैमिनिरिति जैमिन्रिति जल्पति सविषादम् ॥ माधव घोरे वियोगतमसि निपपात राधा । विधुरमलिनमूर्तिरधिकमधिरूढबाधा ॥ ध्रुव ॥ नीलनलिनमाल्यमहह वीक्ष्य पुलकवीता । गरुड गरुड गरुडेत्यभिरौति परमभीता ॥ लम्भितमृगनाभिमगुरुकर्दममनु दीना । ध्यायति शितिकण्ठमपि सनातनमनुलीना ॥ ३२॥ अथ स्वाधीनभर्तृका यस्याः प्रेमगुणाकृष्टः प्रियः पार्श्वं न मुञ्चति । विचित्रसम्भ्रमासक्ता सा स्यात् स्वाधीनभर्तृका ॥

३३

मल्लारः पत्रावलिमिह मम हृदि गौरे । मृगमदबिन्दुभिरर्पय शौरे ॥ श्यामल सुन्दर विविधविशेषम् । विरचय वपुषि ममोज्ज्वलवेशम् ॥ ध्रुव ॥ पिञ्छमुकुट मम पिञ्छनिकाशम् । वरमवतंसय कुन्तलपाशम् ॥ अत्र सनातन शिल्पलवङ्गम् । श्रुतियुगले मम लम्भय सङ्गम् ॥ ३३॥

३४

वसन्तरागः किमयं रचयति नयनतरङ्गम् । कैरविनी न हि भजति पतङ्गम् ॥ वारय माधवमुद्यदनङ्गम् । स्पृशति यथायं न सखि मदङ्गम् ॥ ध्रुव ॥ कम्पिकरान् मम पतति लवङ्गम् । त्वमपि तथापि न मुञ्चसि रङ्गम् ॥ कमपि सनातनधर्ममभङ्गम् । न परिहरिष्ये हृदि कृतसङ्गम् ॥ ३४॥

३५

भैरवरागः अपघनघटितघुसृणघनसार । पिञ्छखचितकुञ्चितकचभार ॥ जय जय वल्लवराजकुमार । राधावक्षसि हरिमणिहार ॥ ध्रुव ॥ राधाधृतिहरमुरलीतार । नयनाञ्चलकृतमदनविकार ॥ रसरञ्जितराधापरिवार । कलितसनातनचित्तविहार ॥ ३५॥

३६

कर्णाटरागः, एकताली तालः सुन्दरि साध्वी त्वमिह किशोरी । तत् कथमसि वद गोष्ठपुरन्दरनन्दन हृन्मणिचौरी ॥ न हि सङ्गोपय परधनमधुना त्वं विदिता कुलपाली । ललितासखि कुरु करुणां सीदति कन्दरभुवि वनमाली ॥ अयि रमणीमणि रमणीयं मणिमर्पय पुनरावलम्बम् । बह्वतु निराकुलमतिकृपया तव हरिपरिजननिकुरम्बम् ॥ दूतीयुगमिदमवनमति स्वयमवनिलुठितकचजुटम् । तन्वि सनातनसौहृदमनुसर विस्तारय न हि कूटम् ॥ ३६॥

३७

मल्लाररागः, एकताली तालः राधे कलय हृदयमनुकूलम् । दलति दृगञ्चलशरहतहृत् तव गोकुलजीवितमूलम् ॥ ध्रुव ॥ शीलितपञ्चमगीतिरदक्षिणपाणिसरोरुहहंसी । तनुते साम्प्रतमस्य मुनिव्रतमरतिभरादिव वंशी ॥ भ्रमदिन्दिन्दिरवृन्दविकर्षणपरिमलपटलविशाला । पतिता कण्ठतटादभिशुष्यति तस्य वने वनमाला ॥ अदये दधती तनुरपि तनुतां तस्य समुज्झितलीला । शीर्यति कन्दरधाम्नि सनातनहृदयानन्दनशीला ॥ ३७॥

३८

वसन्तरागः मधुरिपुरद्य वसन्ते । खेलति गोकुलयुवतिभिरुज्ज्वलपुष्पसुगन्धदिगन्ते ॥ ध्रुव ॥ प्रेमकरम्बितराधाचुम्बितमुखविधुरुत्सवशाली । धृतचन्द्रावलिचारुकराङ्गुलिरिह नवचम्पकमाली ॥ नवशशिरेखालिखितावशाखातनुरथ ललितासङ्गी । श्यामलयाश्रितबाहुरुदञ्चितपद्माविभ्रमरङ्गी ॥ भद्रालम्बितशैव्योदीरितरक्तरजोभरधारी । पश्य सनातनमूर्तिरयं घनवृन्दावनरुचिकारी ॥ ३८॥ (३९] @१ वसन्तरागः ऋतुराजार्पिततोषरङ्गम् । राधे भज वृन्दावनंरङ्गम् ॥ ध्रुव ॥ मलयानिलगुरुशिक्षितलास्या । नटति लताततिरुज्ज्वलहास्या ॥ पिकततिरिह वादयति मृदङ्गम् । पश्यति तरुकुलमङ्कुरदङ्गम् ॥ गायति भृङ्गघटाद्भुतशीला । मम वंशीव सनातनलीला ॥ ३९॥

४०

वसन्तरागः विहरति सह राधिकया रङ्गी । मधुमधुरे वृन्दावनरोधसि हरिरिह हर्षतरङ्गी ॥ ध्रुव ॥ विकिरति यन्त्रेरितमघवैरिणि राधा कुङ्कुमपङ्कम् । दयितामयमपि सिञ्चति मृगमदरसराशिभिरविशङ्कम् ॥ क्षिपति मिथो युवमिथुनमिदं नवमरुणतरं पटवासम् । जितमिति जितमिति मुहुरपि जल्पति कल्पयदतनुविलासम् ॥ सुबलो रणयति घनकरताली जितवान् इति वनमाली । ललिता वदति सनातनवल्लभमजयत् पश्य ममाली ॥ ४०॥

४१

धनाश्रीः राधा सखि जलकेलिषु निपुणा । खेलति निजकुण्डे मधुरिपुणा ॥ ध्रुव ॥ कुचपटलुण्ठननिर्मितकलिना । आयुधपदवीयोजितनलिना ॥ दृढपरिरम्भणचुम्बनहठिना । हिमजलसेचनकर्मणि कठिना ॥ सुखभरशिथिलसनातनमहसा । दयितपराजयलक्षणसहसा ॥

४२

धनाश्रीः राधे निजकुण्डपयसि तुङ्गीकुरु रङ्गम् । किं च सिञ्च पिञ्छमुकुटमङ्गीकृतभङ्गम् ॥ ध्रुव ॥ अस्य पश्य फुल्लकुसुमरचितोज्ज्वलचूडा । भीतिभिरतिनीलनिविडकुन्तलमनु गूढा ॥ धातुरचितचित्रवीथिरम्भसि परिलीना । मालाप्यतिशिथिलवृत्तिरजनि भृङ्गहीना ॥ श्रीसनातनसुमणिरत्नमंशुभिरपि चण्डम् । भेजे प्रतिबिम्बभावदम्भी तव गण्डम् ॥ ४२॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां गीतावली समाप्ता ।

Shri Lalitashtakam ॥ श्रीललिताष्टकम् ॥

श्रीललिताप्रणामस्तोत्रम् श्रीललिताय नमः । राधामुकुन्द पदसम्भवघर्मबिन्दु निर्मञ्छनोपकरणीकृत देहलक्षाम् । उत्तुङ्गसौहृदविशेषवशात् प्रगल्भां देवीं गुणैः सुललितां ललितां नमामि ॥ १॥ राकासुधाकिरणमण्डलकान्तिदण्डि वक्त्रश्रियं चकितचारू चमूरुनेत्राम् । राधाप्रसाधनविधानकलाप्रसिद्धां देवीं गुणैः सुललितां ललितां नमामि ॥ २॥ लास्योल्लसद्भुजगशत्रुपतत्रचित्र पट्टांशुकाभरणकञ्चुलिकाञ्चिताङ्गीम् । गोरोचनारुचिविगर्हण गौरिमाणं देवीं गुणैः सुललितां ललितां नमामि ॥ ३॥ धूर्ते व्रजेन्द्रतनये तनु सुष्ठुवाम्यं मा दक्षिणा भाव कलङ्किनि लाघवाय । राधे गिरं श‍ृणु हितामिति शिक्षयन्तीं देवीं गुणैः सुललितां ललितां नमामि ॥ ४॥ राधामभिव्रजपतेः कृतमात्मजेन कूटं मनाग् अपि विलोक्य विलोहिताक्षीम् । वाग्भङ्गिभिस्तमचिरेण विलज्जयन्तीं देवीं गुणैः सुललितां ललितां नमामि ॥ ५॥ वात्सल्यवृन्दवसतिं पशुपालराज्ञ्याः सख्यानुशिक्षणकलासु गुरुं सखीनाम् । राधाबलावरज जीवितनिर्विशेषां देवीं गुणैः सुललितां ललितां नमामि ॥ ६॥ यां कामपि व्रजकुले वृषभानुजायाः प्रेक्ष्य स्वपक्षपदवीमनुरुद्ध्यमानाम् । सद्यस्तदिष्टघटनेन कृतार्थयन्तीं देवीं गुणैः सुललितां ललितां नमामि ॥ ७॥ राधाव्रजेन्द्रसुतसङ्गमरङ्गचर्यां वर्यां विनिश्चितवतीमखिलोत्सवेभ्यः । तां गोकुलप्रियसखीनिकुरम्बमुख्यां देवीं गुणैः सुललितां ललितां नमामि ॥ ८॥ नन्दन् अमूनि ललितागुणलालितानि पद्यानि यः पठति निर्मलदृष्टिरष्टौ । प्रीत्या विकर्षति जनं निजवृन्दमध्ये तं कीर्तिदापतिकुलोज्ज्वलकल्पवल्ली ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीललिताष्टकं श्रीललिताप्रणामस्तोत्रं सम्पूर्णम् ।

Shri Yamunashtakam ॥ श्रीयमुनाष्टकम् ॥

भ्रातुरन्तकस्य पत्तनेऽभिपत्तिहारिणी प्रेक्षयातिपापिनोऽपि पापसिन्धुतारिणी । नीरमाधुरीभिरप्यशेषचित्तबन्धिनी मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ १॥ हारिवारिधारयाभिमण्डितोरुखाण्डवा पुण्डरीकमण्डलोद्यदण्डजालिताण्डवा । स्नानकामपामरोग्रपापसम्पदन्धिनी मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ २॥ शीकराभिमृष्टजन्तुदुर्विपाकमर्दिनी नन्दनन्दनान्तरङ्गभक्तिपूरवर्धिनी । तीरसङ्गमाभिलाषिमङ्गलानुबन्धिनी मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ३॥ द्वीपचक्रवालजुष्टसप्तसिन्धुभेदिनी श्रीमुकुन्दनिर्मितोरुदिव्यकेलिवेदिनी । कान्तिकन्दलीभिरिन्द्रनीलवृन्दनिन्दिनी मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ४॥ माथुरेण मण्डलेन चारुणाभिमण्डिता प्रेमनद्धवैष्णवाध्ववर्धनाय पण्डिता । ऊर्मिदोर्विलासपद्मनाभपादवन्दिनी मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ५॥ रम्यतीररम्भमाणगोकदम्बभूषिता दिव्यगन्धभाक्कदम्बपुष्पराजिरूषिता । नन्दसूनुभक्तसङ्घसङ्गमाभिनन्दिनी मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ६॥ फुल्लपक्षमल्लिकाक्षहंसलक्षकूजिता भक्तिविद्धदेवसिद्धकिन्नरालिपूजिता । तीरगन्धवाहगन्धजन्मबन्धरन्धिनी मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ७॥ चिद्विलासवारिपूरभूर्भुवःस्वरापिनी कीर्तितापि दुर्मदोरुपापमर्मतापिनी । बल्लवेन्द्रनन्दनाङ्गरागभङ्गगन्धिनी मां पुनातु सर्वदारविन्दबन्धुनन्दिनी ॥ ८॥ तुष्टबुद्धिरष्टकेन निर्मलोर्मिचेष्टितां त्वामनेन भानुपुत्रि! सर्वदेववेष्टिताम् । यःस्तवीति वर्धयस्व सर्वपापमोचने भक्तिपूरमस्य देवि! पुण्डरीकलोचने ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीयमुनाष्टकं सम्पूर्णम् ।

Shri Mathurastavah ॥ श्रीमथुरास्तवः ॥

मुक्तेर्गोविन्दभक्तेर्वितरणचतुरं सच्चिदानन्दरूपं यस्यां विद्योति विद्यायुगलमुदयते तारकं पारकं च । कृष्णस्योत्पत्तिलीलाखनिरखिलजगन्मौलिरत्नस्य सा ते वैकुण्ठाद् या प्रतिष्ठा प्रथयतु मथुरा मङ्गलानां कलापम् ॥ १॥ कोटीन्दुस्पष्टकान्ती रभसयुतभवक्लेशयौधेरयोध्या मायावित्रासिवासा मुनिहृदयमुषो दिव्यलीला स्रवन्ती । साशीः काशीशमुख्यामरपतिभिरलं प्रार्थितद्वारकार्या वैकुण्ठोद्गीतकीर्तिर्दिशतु मधुपुरी प्रेमभक्तिश्रियं वः ॥ २॥ बीजं मुक्तितरोरनर्थपटलीनिस्तारकं तारकं धाम प्रेमरसस्य वाञ्छितधुरासम्पारकं पारकम् । एतद् यत्र निवासिनामुदयते चिच्छक्तिवृत्तिद्वयं मथ्नातु व्यसनानि माथुरपुरी सा वः श्रियं च क्रियात् ॥ ३॥ अद्यावन्ति पतद्ग्रहं कुरु माये शनैर्वीजय च्छत्रं काञ्चि गृहाण काशि पुरतः पादूयुगं धारय । नायोध्ये भज सम्भ्रमं स्तुतिकथां नोद्गारय द्वारके देवीयं भवतीषु हन्त मथुरा दृष्टिप्रसादं दधे ॥ ४॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां मथुरास्तवः समाप्तः ।

Shri Govardhanashtakam 1 ॥ श्रीगोवर्धनाष्टकम् १ ॥

प्रथमं श्रीगोवर्धनाष्टकं नमः श्रीगोवर्धनाय । गोविन्दास्योत्तंसित वंशीक्वणितोद्य- ल्लास्योत्कण्ठामत्तमयूरव्रजवीत । राधाकुण्डोत्तुङ्गतरङ्गाङ्कुरिताङ्ग प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ १॥ यस्योत्कर्षाद् विस्मितधीभिर्व्रजदेवी वृन्दैर्वर्षं वणितमास्ते हरिदास्यम् । चित्रैर्युञ्जन स द्युतिपुञ्जैरखिलाशां प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ २॥ विन्दद्भिर्यो मन्दिरतां कन्दरवृन्दैः कन्दैश्चेन्दोर्बन्धुभिरानन्दयतीशम् । वैदूर्याभैर्निर्झरतोयैरपि सोऽयं प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ३॥ शश्वद्विश्वालङ्करणालङ्कृतिमेध्यैः प्रेम्णा धौतैर्धातुभिरुद्दीपितसानो । नित्याक्रन्दत्कन्दर वेणुध्वनिहर्षात् प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ४॥ प्राज्या राजिर्यस्य विराजत्युपलानां कृष्णेनासौ सन्ततमध्यासितमध्या । सोऽयं बन्धुर्बन्धुरधर्मा सुरभाणां प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ५॥ निर्धुन्वानः संहृतिहेतुं घनवृन्दं जित्वा जभारातिमसम्भावितबाधम् । स्वानां वैरं यः किल निर्यापितवान् सः प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ६॥ बिभ्राणो यः श्रीभुजदण्डोपरिभर्तुश्- छत्रीभावं नाम यथार्थं स्वमकार्षीत् । कृष्णोपज्ञं यस्य मखस्तिष्ठति सोऽयं प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ७॥ गान्धर्वायाः केलिकलाबान्धव कुञ्जे क्षुण्णैस्तस्याः कङ्कणहारैः प्रयताङ्ग । रासक्रीडामण्डितयोपत्यकयाढ्य प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ८॥ अद्रोश्रेणीशेखर पद्याष्टकमेतत् कृष्णाम्भोदप्रेष्ठ पठेद् यस्तव देही । प्रेमानन्दं तुन्दिलयन् क्षिप्रममन्दं तं हर्षेण स्वीकुरुतां ते हृदयेशः ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां मत्तमयूराख्यं प्रथमं श्रीगोवर्धनाष्टकं सम्पूर्णम् ।

Shri Govardhanashtakam 2 ॥ श्रीगोवर्धनाष्टकम् २ ॥

द्वितीयं गोवर्धनाष्टकं श्रीगोवर्धनाय नमः । नीलस्तम्भोज्ज्वलरुचिभरैर्मण्डिते बाहुदण्डे छत्रच्छायां दधदघरिपोर्लब्धसप्ताहवासः । धारापातग्लपितमनसां रक्षिता गोकुलानां कृष्णप्रेयान् प्रथयतु सदा शर्म गोवर्धनो नः ॥ १॥ भीतो यस्मादपरिगणयन् बान्धवस्नेहबन्धान् सिन्धावद्रिस्त्वरितमविशत् पार्वतीपूर्वजोऽपि । यस्तं जम्भुद्विषमकुरुत स्तम्भसम्भेदशून्यं स प्रौढात्मा प्रथयतु सदा शर्म गोवर्धनो नः ॥ २॥ आविष्कृत्य प्रकटमुकुटाटोपमङ्गं स्थवीयः शैलोऽस्मीति स्फुटमभिदधत् तुष्टिविस्फारदृष्टिः । यस्मै कृष्णः स्वयमरसयद् वल्लवैर्दत्तमन्नं धन्यः सोऽयं प्रथयतु सदा शर्म गोवर्धनो नः ॥ ३॥ अद्याप्यूर्जप्रतिपदि महान् भ्राजते यस्य यज्ञः कृष्णोपज्ञं जगति सुरभीसैरिभीक्रीडयाढ्यः । शष्पालम्बोत्तमतटया यः कुटुम्बं पशूनां सोऽयं भूयः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ४॥ श्रीगान्धर्वादयितसरसीपद्मसौरभ्यरत्नं हृत्वा शङ्कोत्करपरवशैरस्वनं सञ्चरद्भिः । अम्भःक्षोदप्रहरिककुलेनाकुलेनानुयातै- र्वातैर्जुष्टैः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ५॥ कंसारातेस्तरिविलसितैरातरानङ्गरङ्गै- राभीरीणां प्रणयमभितः पात्रमुन्मीलयन्त्याः । धौतग्रावावलिरमलिनैर्मानसामर्त्यसिन्धो- र्वीचिव्रातैः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ६॥ यस्याध्यक्षः सकलहठिनामाददे चक्रवर्ती शुल्कं नान्यद् व्रजमृगदृशामर्पणाद् विग्रहस्य । घट्टस्योच्चैर्मधुकररुचस्तस्य धामप्रपञ्चैः श्यामप्रस्थः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ७॥ गान्धर्वायाः सुरतकलहोद्दामतावावदूकैः क्लान्तश्रोत्रोत्पलवलयिभिः क्षिप्तपिञ्छावतंसैः । कुञ्जैस्तल्पोपरि परिलुठद्वैजयन्तीपरीतैः पुण्याङ्गश्रीः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ८॥ यस्तुष्टात्मा स्फुटमनुपठेच्छ्रद्धया शुद्धयान्त- र्मेध्यः पद्याष्टकमचटुलः सुष्ठु गोवर्धनस्य । सान्द्रं गोवर्धनधरपदद्वन्द्वशोणारविन्दे विन्दन् प्रेमोत्करमिह करोत्यद्रिराजे स वासम् ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीगिरीन्द्रवासानन्ददं नाम द्वितीयं श्रीगोवर्धनाष्टकं सम्पूर्णम् ।

Shri Vrindavanashtakam ॥ श्रीवृन्दावनाष्टकम् ॥

मुकुन्दमुरलीरवश्रवणफुल्लहृद्वल्लरी कदम्बककरम्बितप्रतिकदम्बकुञ्जान्तरा । कलिन्दगिरिनन्दिनीकमलकन्दलान्दोलिना सुगन्धिरनिलेन मे शरणमस्तु वृन्दाटवी ॥ १॥ विकुण्ठपुरसंश्रयाद् विपिनतोऽपि निःश्रेयसात् सहस्रगुणितां श्रियं प्रदुहती रसश्रेयसीम् । चतुर्मुखमुखैरपि स्पृहिततार्णदेहोद्भवा जगद्गुरुभिरग्रिमैः शरणमस्तु वृन्दाटवी ॥ २॥ अनारतविकस्वरव्रततिपुञ्जपुष्पावली विसारिवरसौरभोद्गमरमाचमत्कारिणी । अमन्दमकरन्दभृद्विटपिवृन्दवृन्दीकृत द्विरेफकुलवन्दिता शरणमस्तु वृन्दाटवी ॥ ३॥ क्षणद्युतिघनश्रियोव्रजनवीनयूनोः पदैः सुवग्लुभिरलङ्कृता ललितलक्ष्मलक्ष्मीभरैः । तयोर्नखरमण्डलीशिखरकेलिचर्योचितै- र्वृता किशलयाङ्कुरैः शरणमस्तु वृन्दाटवी ॥ ४॥ व्रजेन्द्रसखनन्दिनीशुभतराधिकारक्रिया प्रभावजसुखोत्सवस्फुरितजङ्गमस्थावरा । प्रलम्बदमनानुजध्वनितवंशिकाकाकली रसज्ञमृगमण्डला शरणमस्तु वृन्दाटवी ॥ ५॥ अमन्दमुदिरार्बुदाभ्यधिकमाधुरीमेदुर व्रजेन्द्रसुतवीक्षणोन्नट्ण्तनीलकण्ठोत्करा । दिनेशसुहृदात्मजाकृतनिजाभिमानोल्लसल्- लताखगमृगाङ्गना शरणमस्तु वृन्दाटवी ॥ ६॥ अगण्यगुणनागरीगणगरिष्ठगान्धर्विका मनोजरणचातुरीपिशुनकुञ्जपुञ्जोज्ज्वला । जगत्त्रयकलागुरोर्ललितलास्यवल्गत्पद प्रयोगविधिसाक्षिणी शरणमस्तु वृन्दाटवी ॥ ७॥ वरिष्ठहरिदासतापदसमृद्धगोवर्धना मधूद्वहवधूचमत्कृतिनिवासरासस्थला । अगूढगहनश्रियो मधुरिमव्रजेनोज्ज्वला व्रजस्य सहजेन मे शरणमस्तु वृन्दाटवी ॥ ८॥ इदं निखिलनिष्कुटावलिवरिष्ठवृन्दाटवी गुणस्मरणकारि यः पठति सुष्ठु पद्याष्टकम् । वसन् व्यसनमुक्तधीरनिशमत्र सद्वासनः स पीतवसने वशी रतिमवाप्य विक्रीडति ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीवृन्दावनाष्टकं सम्पूर्णम् ।

Shri Krishnanamashtakam ॥ श्रीकृष्णनामाष्टकम् ॥

निखिलश्रुतिमौलिरत्नमाला द्युतिनीराजितपादपङ्कजान्त । अयि मुक्तकुलैरुपास्यमानं परितस्त्वां हरिनाम संश्रयामि ॥ १॥ जय नामधेय मुनिवृन्दगेय हे जनरञ्जनाय परमाक्षराकृते । त्वमनादरादपि मनाग् उदीरितं निखिलोग्रतापपटलीं विलुम्पसि ॥ २॥ यदाभासोऽप्युद्यन् कवलितभवध्वान्तविभवो दृशं तत्त्वान्धानामपि दिशति भक्तिप्रणयिनीम् । जनस्तस्योदात्तं जगति भगवन्नामतरणे कृती ते निर्वक्तुं क इह महिमानं प्रभवति ॥ ३॥ यद् ब्रह्मसाक्षात्कृतिनिष्ठयापि विनाशमायाति विना न भोगैः । अपैति नाम स्फुरणेन तत् ते प्रारब्धकर्मेति विरौति वेदः ॥ ४॥ अघदमनयशोदानन्दनौ नन्दसूनो कमलनयनगोपीचन्द्रवृन्दावनेन्द्राः । प्रणतकरुणकृष्णावित्यनेकस्वरूपे त्वयि मम रतिरुच्चैर्वर्धतां नामधेय ॥ ५॥ वाच्यो वाचकमित्युदेति भवतो नाम स्वरूपद्वयं पूर्वस्मात् परमेव हन्त करुणा तत्रापि जानीमहे । यस्तस्मिन् विहितापराधनिवहः प्राणी समन्ताद् भवेद् आस्येनेदमुपास्य सोऽपि हि सदानन्दाम्बुधौ मज्जति ॥ ६॥ सूदिताश्रितजनार्तिराशये रम्यचिद्घनसुखस्वरूपिणे । नाम गोकुलमहोत्सवाय ते कृष्णपूर्णवपुषे नमो नमः ॥ ७॥ नारदवीणोज्जीवनसुधोर्मिनिर्यासमाधुरीपूर । त्वं कृष्णनाम कामं स्फुर मे रसने रसेन सदा ॥ ८॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीनामाष्टकं सम्पूर्णम् ।

Shri Govindavirudavali ॥ श्रीगोविन्दविरुदावली ॥

ॐ नमः कृष्णाय । इयं मङ्गलरूपास्याद् गोविन्दविरुदावली । यस्याः पठनमात्रेण श्रीगोविन्दः प्रसीदति ॥ १॥ ब्रह्मा ब्रह्माण्डभाण्डे सरसिजनयनस्रष्टुमाक्रीडनानि स्थानुर्भङ्कुं च ख्लेआखुरलितमतिना तानि येन न्ययोजि । तादृक्क्रीडाण्डकोटीवृतज्लकुडवा यस्य वैकुण्ठकुल्या कर्तव्या तस्य का ते स्तुतिरिह कृतिभिः प्रोज्झ्य लीलायितानि ॥ २॥

निविडतरतुराषाडन्तरीणोष्मसम्पद् विघटनपटुखेलाडम्बरोर्मिच्छटस्य । सगरिमगिरिराजच्छत्रदण्डायितश्री- र्जगदिदमघशत्रोः सव्यबाहुर्धिनोतु ॥ ३॥ ॥ चण्डवृत्तायाः कलिकाख्याया नखे वर्धितम् ॥ अभ्रमुपतिममदमर्दिपदक्रम विभ्रमपरिमललिप्तसुहृच्छ्रम दुष्टदनुजबलदर्पविमर्दन तुष्टहृदयसुरपक्षविवर्धन दर्पकविलसितसर्गनिरर्गल सर्पतुलितभुज कर्णगकुण्डल निर्मलमलयजचर्चितविग्रह नर्मललितकृतसर्पविनिग्रह दुष्करकृतिभरलक्षणविस्मित पुष्करभवभयमर्दनसुस्मित वत्सलहलधरतर्कितलक्षण वत्सरविरहितवत्ससुहृद्गण गर्जितविजयिविशुद्धतरस्वर तर्जितखलगणदुर्जनमत्सर ॥ वीर ॥ तव मुरलीध्वनिरमरी कामाम्बुधिवृद्धिशुभ्रांशुः । अचटुलगोकुलकुलजा धरियाम्बुधिपानकुम्भजो जयति ॥ ४॥ धृतगोवर्धन सुरभीवर्धन पशुपालप्रिय रचितोपक्रिय ॥ धीर ॥

भुजङ्गरिपुचन्द्रकस्फुरदखण्डचूडाङ्कुरे निरङ्कुशदृगञ्चल भ्रमिनिबद्धभृङ्गभ्रमे । पतङ्गदुहितुस्तटीवनकुटीरकेलिप्रिये परिस्फुरतु मे मुहुस्त्वयि मुकुन्द शुद्धा रतिः ॥ ५॥ ॥ वीरभद्र ॥ उद्यद्विद्युद्द्युतिपरिचितपट सर्पत्सर्पस्फुरदुरुभुजतट स्वस्थस्वस्थत्रिदशयुवतिनुत रक्षद्दक्षप्रियसुहृदनुसृत मुग्धस्निग्धव्रजजनकृतसुख नव्यश्रव्यस्वरविलसितमुख हस्तन्यस्तस्फुटसरसिजवर सर्जद्गर्जत्खलवृषमदहर युद्धक्रुद्धप्रतिभटलयकर वर्णस्वर्णप्रतिमतिलकधर । रुष्यत्तुष्यद्युवतिषु कृतरस भक्तव्यक्तप्रणयमनसि वस ॥ वीर ॥ प्रचुरपरमहंसैः काममाचम्यमाने प्रणतमकरचक्रैः शश्वदाक्रान्ताकुक्षौ । अघहर जगदण्डाहिण्डिहिल्लोलहासे स्फुरतु तव गभीरे केलिसिन्धौ रतिर्नः ॥ ६॥ उद्गीर्णतारुण्य विस्तीर्णकारुण्य गुञ्जालतापिञ्छपुञ्जाढ्यतापिञ्छ ॥ वीर ॥

उचितः पशुपत्यलङ्क्रियायै नितरां नन्दितरोहिणीयशोदः । तव गोकुलकेलिसिन्धुजन्मा जगदुद्दीपयति स्म कीर्तिचन्द्रः ॥ ॥ समग्रः ॥ अरिष्टखण्डन स्वभक्तमण्डन प्रयुक्तचन्दन प्रपन्ननन्दन प्रसन्नचञ्चल स्फुरद्दृगञ्चल श्रुतिप्रलम्बक भ्रमत्कदम्बक प्रकृष्टकन्दरप्रविष्ट सुन्दर स्थविष्ठसिन्धुरप्रसर्पबन्धुर ॥ देव ॥ वृन्दारकतरुवीते वृन्दावनमण्डले वीर । नन्दितबान्धववृन्द सुन्दर वृन्दारिका रमय ॥ ८॥ खलिनीडुम्बक मुरलीचुम्बक जननीवन्दकपशुपीनन्दक ॥ वीर ॥

अनुदिनमनुरक्तः पद्मिनीचक्रवाले नवपरिमलमाद्यच्चञ्चरीकानुकर्षी । कलितमधुरपद्मः कोऽपि गम्भीरवेदी जयति मिहिरकन्याकूलवन्याकरीन्द्रः ॥ ९॥ ॥ अच्युतः ॥ जय जय वीर स्मररसधीर द्विजजितहीर प्रतिभटवीर स्फुरौरुहार पिर्यपरिवार च्छुरितविहार स्थिरमणिहार प्रकटितरास स्तवकितहास स्फुटपटवास स्फुरितविलास ध्वनदलिजालस्तुतवनमाल व्रजकुलपाल प्रणयविशाल प्रविलसदंस भ्रमदवतंस क्वणदुरुवंशस्वनहृतहंस प्रशमितदाव प्रणयिषु तावद् विलसितभाव स्तनितविराव स्तनघनरागश्रितपरभाग क्षतहरियाग त्वरितधृताग ॥ वीर ॥ स्थितिनियतिमतीते धीरताहारिगीते प्रियजनपरिवीते कुङ्कुमालेपप्रीते । कलितनवकुटीरे काञ्च्युदञ्चत्कटीरे स्फुरतु रसगभीरे गोष्ठवीरे रतिर्नः ॥ १०॥ अम्बाविनिहित चुम्बामलतर बिम्बाधरमुखलम्बालक जय ॥ देव ॥

दृष्ट्वा ते पदनककोटिकान्तिपूरं पूर्णानामपि शशिनां शतैर्दुरापम् । निर्विण्णो मुरहर मुक्तरूपदर्पः कन्दर्पः स्फुटमशरीरतामयासीत् ॥ ११॥ ॥ उत्पलम् ॥ नर्तितशर्करकृतकर्कर वृद्धमरुद्भरतर्दन निर्भर दुष्टविमर्दन शिष्टविवर्धन सर्वविलक्षण मित्रकृतक्षण सद्भुजलक्षितपर्वतरक्षित निष्ठुरगर्जन खिन्नसुहृज्जन रुष्टदिवस्पतिगर्वसमुन्नति तर्जनविभ्रम निर्गलितभ्रम शक्रकृतस्तव विस्फुरदुत्सव ॥ वीर ॥ बुद्धीनां परिमोहनः किल ह्रियामुच्चाटनः स्तम्भनो धर्मोदग्रभियां मनःकरटिनां वश्यत्वनिष्पादनः । कालिनीद्कलहंस हन्त वपुषामाकर्षणः सुभ्रुवां जीयाद् वैणवपञ्चमध्वनिमयो मन्त्राधिराजः स्तवः ॥ १२॥ काननारब्धकाकलीशब्द पाटवाकृष्ट गोपिकादृष्ट चातुरीजुष्टराधिकातुष्ट कामिनीलक्षमोहने दक्ष भाविनीपक्ष माममुं रक्ष ॥ देव ॥

अजर्जरपतिवर्ताहृदयवज्रभेदोद्धुराः कठोरवरवर्णिनीनिकरमानवर्मच्छिदः । अनङ्गधनुरुद्धतप्रचलचिल्लिचापच्युताः क्रियासुरघविद् विषस्तव मुदं कटाक्षेषवः ॥ १३॥ ॥ तुरङ्ग ॥ सञ्चलविचकिल कुण्डल मण्डितवरतनुमण्डल कुण्डलिपतिकृतसङ्गर खण्डितभुवनभयङ्कर शङ्करकमलजवन्दित किङ्करनुतिलवनन्दित गञ्जितसमदपुरन्दर चञ्चलदमनधुरन्धर बन्धुरगतिजितसिन्धुर चन्दनसुरभितकन्धर सुन्दरभुजलसदङ्गद सङ्गदसखिगणरङ्गद झङ्कृतिकरमणिकङ्कण कुन्तललुठदुरुरङ्गण कुङ्कुमारुचिलसदम्बर लङ्गिमपरिमलडम्बर नन्दभवनवरमङ्गल मञ्जुलघुसृणसुपिङ्गल हिङ्गुलरुचिपद पङ्कज सञ्चितयुवतिसदङ्गज सन्ततमृगमदपङ्किल सन्तनुमयि कुशलं किल ॥ वीर ॥ गिरितटीकुनटी कुलपिङ्गले खलतृणावलिसञ्ज्वलदिङ्गले । प्रखरसङ्गरसिन्धुतिमिङ्गिले मम रति वलतां व्रजमङ्गले ॥ १४॥ जय चारुदामललनाभिराम जगतीललाम रुचिहृतवाम ॥ वीर ॥

उदितहृदयेन्दुमणिः पूर्णकलः कुवलयोल्लासी । परितः शार्वरमथ नो विलसति वृन्दाटवीचन्द्रः ॥ १५॥ ॥ गुणरतिः ॥ प्रकटीकृतगुण शकटीविघटन निकटीकृतनवलकुटीवर वन पटलीतटचर नटलीलमधुर सुरभीकृतवन सुरभीहितकर मुरलीविलसित खुरलीहृतजगद् अरुणाधर नवतरुणायतभुज वरुणालयसमकरुणापरिमल कलभायितबलशलभायितखल धवलाधृतिहरगवलाश्रितकर सरसीरुहधर सरसीकृतनर कलशीदधिहर कलशीलितमुख ललितारतिकर ललितावलिपर ॥ धीर ॥ हरिणीनयनावृत प्रभो करिणीवल्लभकेलिविभ्रम । तुलसीप्रियदानवाङ्गनाकुलसीमन्तहर प्रसीद मे ॥ १६॥ चन्दनचर्चित गन्धसमर्चित गण्डविवर्तनकुण्डलनर्तन सन्दलदुज्ज्वलकुन्दलसद्गल सुन्दरविग्रह नन्दलसद्ग्रह ॥ वीर ॥

रतिमनुवध्य गृहेभ्यः कर्षति राधां वनाय या निपुणा सा जयति निसृष्टार्था तव वरवंशजकाकली दूती ॥ १७॥ ॥ मातङ्गखेलितम् ॥ नाथ हे नन्दगेहिनीशन्द पूतनापण्डपातने चण्ड दानवे दण्डकारकाखण्ड सारपौगण्डलीलयोद्दण्ड गोकुलालिन्दगूढ गोविन्द पूर्तिआमन्दराधिकानन्द वेतसीकुञ्ज माधवीपुञ्ज लोकनारम्भ जातसंरम्भ दीपितानङ्गकेलिभागङ्ग गोपसारङ्गलोचनारङ्ग कारिमातङ्ग खेलितासङ्ग सौहृदाशङ्कयोषितामङ्क पालिकालम्बचारुरोलम्ब मालिकाकण्ठ कौतुकाकुण्ठ पाटलीकुन्दमाधवीवृन्द सेवितोत्तुङ्गशेखरोत्सङ्ग मां सदा हन्त पालयानन्त ॥ वीर ॥ स्फुरदिन्दीवरसुन्दर सान्द्रतरानन्दकन्दलीकन्द । मां तव पदारविन्दे नन्दय गन्धेन गोविन्द ॥ १८॥ कुन्ददशन बद्धरशन रुक्मवसन रम्यहसन ॥ देव ॥

प्रपन्नजनतातमःक्षपणशारदेन्दुप्रभा व्रजाम्बुज विलोचनस्मरसमृद्धिसिद्धौषधिः । विडम्बितसुधाम्बुधिप्रबलमाधुरीडम्बरा बिभर्तु तव माधव स्मितकडम्बकान्तिमुर्दम् ॥ १९॥ ॥ तिलकम् ॥ अमलकमलरुचिखञ्जनपटुपद नटनपटिमहृतकुण्डलिपतिमद नवकुवलयकुलसुन्दररुचिभर घनतडिदुपमितबन्धुरपटधर तरणिदुहितृतटमञ्जुलनटवर नयननटनजितखञ्जनपरिकर भुजतटगतहरिचन्दनपरिमल पशुपयुवतीगणनन्दनवरकल नवमदमधुरदृगञ्चलविलसित मुखपरिमलभरसञ्चलदलिवृत शरदुपचितशशिमण्डलवरमुख कनकमकरमयकुण्डलकृतसुख युवतिहृदयशुकपञ्जरनिजभुज परिहितविचकिलमञ्जुलशिरसिज सुतनुवदनविधुचुम्बनपटुतर दनुजनिविडमदडुम्बनरणखर ॥ वीर ॥ रणति हरे तव वेणौ नार्यो दनुजाश्च कम्पिताः खिन्नाः । वनमनपेक्षितदयिताः करबालान्प्रोज्झ्य धावन्ति ॥ २०॥ कुङ्कुमपुण्ड्रक गुम्फितपुण्ड्रक सङ्कुलकङ्कण कण्ठगरङ्गण ॥ देव ॥

१०

सारङ्गाक्षीलोचनभृङ्गावलिपानचारुभृङ्गार । त्वां मङ्गलश‍ृङ्गारं श‍ृङ्गाराधीश्वर स्तौमि ॥ २१॥ ॥ चण्डवृत्तस्य विशिखे पङ्केरुहम् ॥ जय गतशङ्क पणयविटङ्क प्रियजनबङ्कस्मितजितशङ्ख स्फुटतरश‍ृङ्गध्वनिधृतरङ्ग क्षणनटदङ्ग प्रणयिकुरङ्ग व्रजकृतसङ्गश्रुतितटरिङ्गन् मधुरसपिङ्गग्रथितलवङ्ग स्वनटनभङ्गव्रणितभुजङ्ग स्तवकिततुङ्गक्षितिरुहश‍ृङ्ग स्थितबहुभृङ्गक्वणिततरङ्ग प्रवलदनङ्ग भ्रमदुरूहभृङ्गी मुदितकुरङ्गीदृगुदितभङ्गी मृदिमभिरङ्गीकृतनवसङ्गी तकदरबङ्केक्षण नवसङ्के तगसुहृदङ्केशय सकलङ्के तरपृषदङ्केडितमुख पङ्के रुहपद रङ्के कृपय सपङ्के किल मयि ॥ वीर ॥ उत्तुङ्गोदयश‍ृङ्ग सङ्गमजुषां बिभ्रत्पतङ्गत्विषां वासस्तुल्यमनङ्गसङ्गरकलाशौटीर्यपारङ्गतः । स्वान्तं रिङ्गदपाङ्गभङ्गिभिरलं गोपाङ्गनानां गिलन् भूयास्त्वं पशुपालपुङ्गवदृशोरव्यङ्गरङ्गाय मे ॥ २२॥ विलसदलिकगतकुङ्कुमपरिमल कुटितधृतमणिकिङ्किणिवरकल नवजलधरकुललङ्गिमरुचिभर मसृणमुरलिकलभङ्गमधुरतर ॥ वीर ॥

११

अवतंसितमञ्जुमञ्जरे तरुणीनेत्रचकोरपञ्जरे । नवकुङ्कुमपुञ्जपिञ्जरे रतिरास्तां मम गोपकुञ्जरे ॥ २३॥ ॥ सितकञ्जम् ॥ जय कचचञ्चद्द्युतिसमुदञ्चन् मधुरिमपञ्चस्तवकितपिञ्छ स्फुरित विरिञ्चस्तुत गिरिकुञ्ज व्रजपरिगुञ्जन्मधुकरपुञ्ज द्रुतमृदुशिञ्ज द्विषदहिगञ्ज व्रततिषु खञ्जन्नवरसमञ्जन् मरुदतिपिञ्ज प्रवलितमुञ्जा नलहर गुञ्जाप्रिय गिरिकुञ्जा श्रित रतिसञ्जागर नवकञ्जा मलकरझञ्झानिलहर मञ्जी रजरवपञ्जी परिमलसञ्जीवित नवपञ्चाशुगशरसञ्चा रणजितपञ्चाननमद ॥ धीर ॥ कणिकारकृतकर्णिकाद्युति- र्वर्णिकापदनियुक्तगैरिका । मेचका मनसि मे चकास्तु मे मेचकाभरण भारिणी तनुः ॥ २४॥ मदनरसङ्गत सङ्गतपरिमल भुजतटरङ्गतरङ्गितजितबल युवतिविलम्बित लम्बितकचभर कुसुमविटङ्कित टाङ्कतगिरिवर ॥ वीर ॥

१२

भ्रूमण्डलताण्डवितप्रसूनकोदण्डचित्रकोदण्ड । हृत्पुण्डरीकगर्भं मण्डय मम पुण्डरीकाक्ष ॥ २५॥ ॥ पाण्डूत्पलम् ॥ जय जय दण्डप्रिय कचखण्ड ग्रथितशिखण्ड व्रज शशिखण्ड स्फुरणसपिण्डस्मितवृतगण्ड प्रणयकरण्ड दिव्जपततुण्ड स्मररसकुण्ड क्षतफणिमुण्ड प्रकटपिचण्डस्थितजगदण्ड क्वणदनुघण्ट स्फुटरणघण्ट स्फुरदुरुशुण्डाकृतिभुजदण्डा हतखलचण्डासुरगण पण्डाजनित वितण्डाजितबल भाण्डीर दयित खण्डीकृतनवहिण्डीर भदधिहण्डीगण कलकण्ठी कृतकलकण्ठीगण मणिकण्ठी स्फुरितसुकण्ठीप्रिय वरकण्ठिरवरण ॥ धीर ॥ दण्डी कुण्डलिभोगकाण्डनिभयोरुद्दण्डदोर्दण्डयोः श्लिष्टश्चण्डिमडम्बरेण निविडश्रीखण्डपुण्ड्रोज्ज्वलः । निर्धूतोद्यदचण्डरश्मिघटया तुण्डश्रिया मामकं कामं मण्डय पुन्ण्डरीकनयन त्वं हन्त हृन्मण्डलम् ॥ २६॥ कन्दर्पकोदण्डदर्पक्रियोद्दण्ड दृग्भङ्गिकाण्डीर सञ्जुष्टभाण्डीर ॥ धीर ॥

१३

त्वमुपेन्द्र कलिन्दनन्दिनी तटवृन्दावनगन्धसिन्धुर । जय सुन्दर कान्तिकन्दलैः स्फुरदिन्दीवरवृन्दबन्धुभिः ॥ २७॥ ॥ इन्दीवरम् ॥ जय जय हन्त द्विषदभिहन्तर्मधुरिमसन्तर्पितजगदन्त- मृदुल वसन्तप्रिय सितदन्त स्फुरितदृगन्त प्रसरदुदन्त प्रभवदनन्तप्रियसख सन्तस्त्वयि रतिमन्तः स्वमुदहरन्त प्रभुवर नन्दात्मजगुणकन्दासितनवकन्दाकृतिधर कुन्दा मलरद तुन्दात्तभुवन वृन्दावनभवगन्धास्पदमकरन्दा निव्तनवमन्दारकुसुमवृन्दार्चितकच वन्दारुनिखिलवृन्दा रकवरवन्दीडित विधुसन्दीपितलसदिन्दीवरपरिनिन्दी क्षणयुग नन्दीश्वरपतिनन्दीहित जय ॥ धीर ॥ स्मितरुचिमकरन्दस्यन्दि वक्त्रारविन्दं तव पुरुपरहंसान्विष्टगन्धं मुकुन्द । विरचितपशुपालीनेत्रसारङ्गरङ्गं मम हृदयतडागे सङ्गमङ्गीकरोतु ॥ २८॥ अम्बरगतसुरविनतिविलम्बित तुम्बुरुपरिभवमुरलिकरम्बित शम्बरमुखमृगनिकरकुटुम्बित सम्भम्ववल्यितयुवति विचुम्बित ॥ वीर ॥

१४

अम्बुजकुटुम्बदुहितुः कदम्बसम्बाधबन्धुरे पुलिने । पीताम्बर कुरु केलिं त्वं वीरनितम्बिनीघटया ॥ २९॥ ॥ अरुणाम्भोरुहम् ॥ जय रससम्पद्विरचितझम्प स्मरकृतकम्प प्रियजनशम्प प्रवणितकम्पस्फुरदनुकम्प द्युतिजितशम्पस्फुटनवचम्प श्रितकचगुम्प श्रुतिपरिलम्बस्फुरितकदम्बस्तुतमुख डिम्भ प्रिय रविबिम्बोदयपरिजृम्भोन्मुखलसदम्भोरुहमुख लम्बो ध्बटभुज लम्बोदरवरकुम्भोपमकुचबिम्बोष्ठयुवतिचुम्बो द्भटपरिरम्भोत्सुक कुरु शं भोस्तडिदवलम्बोर्जितमिलदम्भो धरसुविडम्बोद्भुर नतशम्भो परिजितदम्भोलिगरिमसम्भा वितभुजजम्भाहितमद लम्पाकमनसि सम्पादय मयि तं पा किममनुकम्पालवमिह ॥ धीर ॥ दिव्ये दण्डधरस्वसुस्तटभवे फुल्लाटवीमण्डले वल्लीमण्डपभाजि लब्धमदिरस्तम्बेरमाडम्बरः । कुर्वन्नञ्जनपुञ्जगञ्जनमतिश्यामाङ्गकान्तिश्रिया लीलापाङ्गतरङ्गितेन तरसा मां हन्त सन्तर्पय ॥ ३०॥ अम्बुजकिरणविडम्बक खञ्जनपरिचलदम्बक चुम्बितयुवतिकदम्बक कुन्तललुठितकदम्बक ॥ वीर ॥

१५

प्रेमोद्वेल्लितवल्गुभिर्वलयितस्त्वं वल्लवीभिर्विभो रागोल्लापितवल्लकीविततिभिः कल्याणवल्लीभुवि । सोल्लुण्ठं मुरलीकलाभिरमलं मल्लारमुल्लासयन् बाल्येनोल्लसिते दृशौ मम तडिल्लीलाभिरुत्फुल्लय ॥ ३१॥ ॥ फुल्लाम्बुजम् ॥ व्रजपृथुपल्लीपरिसरवल्लीवनभुवि तल्लीगणभृति मल्ली मनसिजभल्लीजितशिवमल्लीकुमुदमतल्लीजुषि गतझिल्ली परिषदि हल्लीसकसुखझल्लीरत परिफुल्लीकृतचलचिल्ली जितरतिमल्लीमदभर सल्लीलतिलक कल्यातनुशततुल्या हवरसकुल्याचटुलितखल्याप्रमथन कल्याणचरित ॥ धीर ॥ गोपीः सम्भृतचापलचापलताचित्रया भ्रुवा भ्रमयन् । विलस यशोदावत्सल वत्सलसद्धेनुसंवीत ॥ ३२॥ वल्लवलीलासमुदयसमुचित पल्लवरागाधरपुटविलसित वल्लभगोपीप्रवणित मुनिगणदुर्लभकेलीभरमधुरिमकण मल्लविहाराद्भुततरुणिमधर फुल्लमृगाक्षीपरिवृतपरिसर चिल्लिविलासार्पितमनसिजमद मल्लिकलापामलपरिमलपद रल्लकराजीहरसुमधुरकल हल्लकमालापरिवृतकचकुल ॥ वीर ॥

१६

वल्लवललनावल्लीकरपल्लवशीलितस्कन्धम् । उल्लसितः परिफुल्लं भजाम्यहं कृष्णकङ्केल्लिम् ॥ ३३॥ ॥ चम्पकम् ॥ सञ्चलदरुणचञ्चलकरुणसुन्दरनयन कन्दरशयन वल्लवशरण पल्लवचरण मङ्गलघुसृणपिङ्गलमसृण चन्दनरचन नन्दनवचन खण्डितशकट दण्डितविकट गर्वितदनुज पर्वितमनुज रक्षितधवल लक्षितगवल पन्नगदलन सन्नगकलन बन्धुरवलन सिन्धुरचलन कल्पितमदनजल्पितसदन मञ्जुलमुकुट वञ्जुललकुट रञ्जितकरभ गञ्जितशरभमण्डलवलित कुण्डलचलित सन्दितलपन नन्दिततपनकन्यकसुषुम वन्यककुसुम गर्भक विरणदर्भकशरण तर्णकवलित वर्णकललित शं वरवलय डम्बर कलय ॥ देव ॥ दानवघटालवित्रे धातुविचित्रे जगच्चित्रे । हृदयानन्दिचरित्रे रतिरास्तां बल्लवीमित्रे ॥ ३४॥ रिङ्गदुरुभृङ्गतुङ्गगिरिश‍ृङ्ग रुतभङ्गसङ्गधृतरङ्ग ॥ वीर ॥

१६

त्वमत्र चण्डासुरमण्डलीनां रण्डावशिष्टानि गृहाणि कृत्वा । पूर्णान्यकार्षीर्व्रजसुन्दरीभि- र्वृन्दाटवीपुण्ड्रकमण्डपानि ॥ ३६॥ ॥ वञ्जुलम् ॥ जय जय सुन्दरविहसित मन्दरविजितपुरन्दर निजगिरिकन्दर रतिरसशन्धर मणियुतकन्धर गुणमणिमन्दिर हृदि वलदिन्दिर गतिजितसिन्धुर परिजनबन्धुर पशुपतिनन्दन तिलकितचन्दन विधिकृतवन्दन पृथुहरिचन्दनपरिवृतनन्दनमधुरिमनिन्दन मधुवन वन्दितकुसुमसुगन्धितवनवररञ्जित रतिभरसञ्जित शिखिदलकुण्डलसहकृतभण्डिल नवसिततन्दुलजयिरदमण्डल रतिरणपण्डित वरतनुभण्डित नखपदमण्डित दशनविखण्डित ॥ धीर ॥ निनिन्द निजमिन्दिरा वपुरवेक्ष्य यासां श्रियं विचार्य गुणचातुरीमचलजा च लज्जां गता । लसत्पशुपनन्दिनीततिभिराभिरानन्दितं भवन्तमतिसुन्दरं व्रजकुलेन्द्र वन्देमहि ॥ ३६॥ रसपरिपाटीस्फुटतरुवाटी मनसिजधाटीप्रिय नवशातीहर जय ॥ वीर ॥

१७

सम्भ्रान्तैः सषडङ्गपातमभितो वेदैर्मुदा वन्दिता सीमन्तोपरि गौरवादुपनिषद्देवीभिरप्यर्पिता । आनम्रं प्रणवेन च प्रणयतो हृष्टात्मनाभिष्टुता मृद्वी ते मुरलीरुतिर्मुररिपो शर्माणि निर्मातु नः ॥ ३७॥ ॥ कुन्दम् ॥ नन्दकुलचन्द्र लुप्तभवतन्द्र कुन्दजयिदन्त दुष्टकुलहन्त रिष्टसुवसन्त मिष्टसमुदन्त सन्दलितमल्लिकन्दलितवल्लि गुञ्जदलिपुञ्जमञ्जुतरकुञ्जलब्धरतिरङ्ग हृद्यजनसङ्ग शर्मलसदङ्ग हर्षकृदनङ्ग मत्तपरपुष्टरम्यकलघुष्ट गन्धभरजुष्ट पुष्पवनतुष्ट कृत्तखलयक्ष युद्धनयदक्ष वल्गुकचपक्षबद्धशिखिपक्ष पिष्टनततृष्ण तिष्ठ हृदि कृष्ण ॥ वीर ॥ तव कृष्ण केलिमुरली हितमहितं च स्फुटं विमोहयति । एकं सुधोर्मिसुहृदा विषविषमेणापरं ध्वनिना ॥ ३८॥ सन्नीतदैतेयनिस्तार कल्याणकारुण्यविस्तार पुष्पेषु कोदण्डटङ्कारविस्फारमञ्जीरझङ्कार ॥ वीर ॥

१८

रङ्गस्थले ताण्डवमण्डलेन निरस्य मल्लोत्तमपुण्डरीकान् । कंसद्विषं चण्डमखण्डयद् यो हृत्पुण्डरीके स हरिस्तवास्तु ॥ ३९॥ ॥ बकुलभासुरम् ॥ जय जय वंशीवाद्यविशारद शारदसरसीरुहपरिभावक भावकलितलोचनसञ्चारण चारणसिद्धवधूधृतिहारक हारकलापरुचाञ्चितकुण्डल कुण्डलसद्गोवर्धनभूषित भूषितभूषणचिद्घनविग्रह विग्रहखण्डितखलवृषभासुर भासुरकुटिलकचार्पितचन्द्रक चन्द्रकलापरुचाभ्यधिकानन काननकुञ्जगृहस्मरसङ्गर सङ्गरसोद्धुरबाहुभुजङ्गम जङ्गमनवतापिच्छनगोपम गोपमनीषितसिद्धिषु दक्षिण दक्षिणपाणिगदण्डसभाजित भाजितकोटिशशाङ्कविरोचन रोचनया कृतचारुविशेषक शेसकमलभवसनकसनन्दन नन्दनगुण मा नन्दय सुन्दर ॥ वीर ॥ भवतः प्रतापतरणावुदेतुमिह लोहितायति स्फीते । दनुजान्धकारनिकराः शरणं भेजुर्गुहाकुहरम् ॥ ४०॥ पुलिनधृतरङ्गयुवतिकृतसङ्ग मदनरसभङ्गगरिमलसदङ्ग ॥ वीर ॥

१९

पशुषु कृपां तव दृष्ट्वा नूनमिहारिष्टवत्सकेशिमुखाः । दर्पं विमुच्य भीताः पशुभावं भेजिरे दनुजाः ॥ ४१॥ ॥ बकुलमङ्गलम् ॥ त्वं जय केशव केशबलस्तुत वीर्यविलक्षण लक्षणबोधित केलिषु नागर नागरणोद्धत गोकुलनन्दन नन्दनतिव्रत सान्द्रमुदर्पक दर्पकमोहन हे सुषमानवमानवतीगण माननिरासक रासकलाश्रित सस्तनगौरवगौरवधूवृत कुञ्जशतोषित तोषितयौवत रूपभराधिकराधिकयार्चित भीरुविलम्बित लम्बितशेखर केलिकुलालसलालसलोचन रोषमदारुणदारुणदानवमुक्तिदलोकन लोकनमस्कृत गोपसभावक भावकशर्मद हन्त कृपालय पालय मामपि ॥ वीर ॥ पराभवं फेनिलवक्त्रतां च बन्धं च भीतिं च मृतिं च कृत्वा । पवर्गदातापि शिखण्डमौले त्वं शात्रवाणामपवर्गदोऽसि ॥ ४२॥ प्रणयभरितमधुरचरित भजनसहितपशुपमहित ॥ देव ॥

२०

नवशिखिशिखण्डशिखरा प्रसूनकोदण्डचित्रशस्त्रीव । क्षोभयति कृष्ण वेणी श्रेणीरेणीदृशां भवतः ॥ ४३॥ अनुभूय विक्रमं ते युधि लब्धाः कान्दिशीकत्वम् । भित्त्वा किल जगदण्डं प्रपलायाञ्चक्रिरे दनुजाः ॥ ४४॥ ॥ मञ्जर्यां कोरकः ॥ मानवतीमदहारिविलोचन दानवसञ्चयधूकविरोचन डिण्डिमवादिसुरालिसभाजित चण्डिमशालिभुजार्गलराजित दीक्षितयौवतचित्तविलोभनवीक्षित सुस्मितमार्दवशोभन पर्वतसन्धृतिनिर्धुतपीवरगर्वतमःपरिमुग्धशचीवर रञ्जितमञ्जुपरिस्फुरदम्बर गञ्जितकेशिपराक्रमडम्बर कोमलताङ्कितवागवतारक सोमललाममहोत्सवकारक हंसरथस्तुतिशंसैतवंशक कंसवधूश्रुतिनुन्नवतंसक रङ्गतरङ्गितचारुदृगञ्चल सङ्गतपञ्चशरोदयचञ्चल लुञ्चितगोपसुतागणशाटक सञ्चितरङ्गमहोत्सवनाटक तारय मामुरुसंसृतिशातन धारय लोचनमत्र सनातन ॥ धीर ॥ तुरगदनुसुताङ्गग्रावभेदे दधानः कुलिशघटितटङ्कोद्दण्डविस्फूर्जितानि । तदुरुविकटदंष्ट्रोन्मृष्टकेयूरमुद्रः प्रथयतु पटुतां वः कैशवो वामबाहुः ॥ ४५॥२ माधव विस्फुर दानवनिष्ठुर यौवतरञ्जित सौरभसञ्जित ॥ वीर ॥

२१

पलितङ्करणी दशा प्रभो मुहुरन्धङ्करणी च मां गता । सुभङ्करणी कृपा शुभैर्न तवाढङ्करणी च मय्यभूत् ॥ ४६॥ ॥ गुच्छः ॥ जय जलदमण्डलीध्युतिनिवहसुन्दर स्फुरदमलकौमुदीमृदुहसितबन्धुर व्रजहरिणलोचनावदनशशिचुम्बक प्रचुरतरखञ्जनद्युतिविलसदम्बक स्मरसमरचातुरीनिचयवरपण्डित प्रणययुतराधिकापटिमभरभण्डित क्वणदतुलवंशिकाहृतपशुपयौवत स्थिरसमरमाधुरीकुलरमितदैवत ग्रथितशिखिचन्द्रकस्फुटकुटिलकुन्तल श्रवणतटसञ्चरन्मणिमकरकुण्डल ग्रथितनवताण्डवप्रकटगतिमण्डल द्विजकिरणधोरणीविजितसिततण्डुल स्फुरितवरदाडिमीकुसुमयुतकर्णक छदनवरकाकलीहृतचटुलतर्णक ॥ धीर ॥ पुन्नागस्तवकनिबद्धकेशजुटः कोटीरीकृतवरकेकिपक्षकूटः । पायान् मां मरकतमेदुरः स तन्वा कालिन्दीतटविपिनप्रसूनधन्वा ॥ ४७॥ गर्गप्रिय जय भर्गस्तुत रस सर्गस्थिरनिजवर्गप्रवणित ॥ वीर ॥

२२

दनुजवधूवैधव्यव्रतदीक्षाशिक्षणाचार्यः । स जयति विदूरपाती मुकुन्द तव श‍ृङ्गनिर्घोषः ॥ ४८॥ ॥ कुसुमम् ॥ कुसुमनिकरनिचितचिकुर नखरविजितमणिजमुकुर सुभटपटिमरमितमथुर विकटसमरनटनचतुर समदभुजगदमनचरण निखिलपशुपपनिचयशरण मुदितमदिरमधुरनयन शिखरिकुहररचितशयन रमितपशुपयुवतिपटल मदनकलहघटनचटुल विषमदनुजनिवहमथन भुवनरसदविशदकथन कुमुदमृदुलविलसदमलहसितमधुरवदनकमल मधुपसदृशविचलदलक मसृणघुसृणकलिततिलक निभृतमुषितमथितकलस सततमजित मनसि विलस ॥ वीर ॥ सखिचातकजीवातुर्माधव सुरकेकिमण्डलोल्लासि । तव दैत्यहंसभयदं श‍ृङ्गाम्बुदगर्जितं जयति ॥ ४९॥ पुरुषोत्तम वीरव्रत यमुनाद्भुततीरस्थित मुरलिध्वनिपूरक्रिय सुरभीव्रजनादप्रिय ॥ धीर ॥

२३

जगतीसभावलम्बः स तव जयत्यम्बुजाक्ष दोःस्तम्भः । रभसाद् विभेद दनुजान् प्रतापनृहरिर्यतोऽभ्युदितः ॥ ५०॥ चित्रं मुरारे सुरवैरिपक्ष- स्त्वया समन्तादनुबद्धयुद्धः । अमित्रमुच्चैरविभिद्य भेदं मित्रस्य कुर्वन्नमृतं प्रयाति ॥ ५१॥ ॥ त्रिभङ्ग्यां दण्डकत्रिभङ्गी ॥ श्रितमघजलधेर्वहित्रं चरित्रं सुचित्रं विचित्रं फणित्रं समित्रं पवित्रं लवित्रं रुजां जगदपरिमितप्रतिष्ठं पटिष्ठं बलिष्ठं गरिष्ठं वरिष्ठं म्रदिष्ठं सुनिष्ठं दविष्ठं धियां निखिलविलसितेऽभिरामं सरामं मुदा मञ्जुदाम- न्नभामं ललामं धृतामन्दधामत्रये मधुमथन हरे मुरारे पुरारे पारे ससारे विहारे सुरारेरुदारे च दारे प्रभुं स्फुर्तमिनसुतातरङ्गे विहङ्गेशरङ्गेण गङ्गे ष्टभङ्गे भुजङ्गेन्द्रसङ्गे सदङ्गेन भोः शिखरिवरदरीनिशान्तं प्रयान्तं सकान्तं विभान्तं नितान्तं च कान्तं प्रशान्तं कृतान्तं द्विषां दनुजहर भजाम्यनन्तं सुदन्तं नुदन्तं दृगन्तं हसन्तं वसन्तं भजन्तं भवन्तं सदा ॥ वीर ॥ पीत्वा बिन्दुकणं मुकुन्द भवतः सौन्दर्यसिन्धोः सकृत् कन्दर्पस्य वशं गता विमुमुहुः के वा न साध्वीगणाः । दूरे राज्यमयन्त्रितस्मितकलाभ्रूवल्लरीताण्डव क्रीडापाङ्गतरङ्गितप्रभृतयः कुर्वन्तु ते विभ्रमाः ॥ ५२॥ चारुतटरासनट गोपभट पीतपट पद्मकर दैत्यहर कुञ्जचर वीरवर नर्ममय कृष्ण जय ॥ नाथ ॥

२४

संसाराम्भसि दुस्तरोर्मिगहने गम्भीरतापत्रयी कुम्भीरेण गृहीतमुग्रमतिना क्रोशन्तमन्तर्भयात् । दीप्रेणाद्य सुदर्शनेन विबुधक्लान्तिच्छिदाकारिणा चिन्तासन्ततिरुद्धमुद्धर हरे मच्चित्तदन्तीश्वरम् ॥ ५३॥ ॥ विदग्धत्रिभङ्गी ॥ चण्डीप्रियनत चण्डीकृतबलरण्डीकृतखलवल्लभ वल्लव पट्टाम्बरधर भट्टारक बककुट्टाक ललितपण्डितमण्डित नन्दीश्वरपतिनन्दीहितभर सन्दीपितरससागर नागर अङ्गीकृतनवसङ्गीतक वरभङ्गीलवहृतजङ्गमलङ्गिम ऊर्वीप्रियकर खर्वीकृतखलदर्वीकरपतिगर्वितपर्वत गोत्राहितकर गोत्राहितदय गोत्राधिपधृतिशोभनलोभन वन्यास्थितबहुकन्यापटहर धन्याशयमणिचोर मनोरम शम्पारुचिपट सम्पालितभवकम्पाकुलजन फुल्ल समुल्लस ॥ धीर ॥ पिष्ट्वा सङ्ग्रामपट्टे पटलमकुटिले दैत्यगोकण्टकानां क्रीडालोटीविघट्टैः स्फुटमरतिकरं नैचिकीचारुकाणाम् । वृन्दारण्यं चकाराखिलजगदगदङ्कारकारुण्यधारो यः सञ्चारोचितं वः सुखयतु स पटुः कुञ्जपट्टाधिराजः ॥ ४५॥ पिच्छलसद्घननीलकेश चन्दनचर्चितचारुवेश खण्डितदुर्जनभूर्माय मण्डितनिर्मलहारिकाय ॥ वीर ॥

२५

गीर्वाणं स्फुटमखिलं विवर्धयन्तं निर्वाणं दनुजघटासु सङ्घटय्य । कुर्वाणं व्रजनिलयं निरन्तरोद्यत् पर्वाणं मुरमथन स्तुवे भवन्तम् ॥ ५५॥ उदञ्चदतिमञ्जुलस्मितसुधोर्मिलीलास्पदं तरङ्गितवराङ्गनास्फुरदनङ्गरङ्गाम्बुधिः । दृगिन्दुमणिमण्डलीसलिलनिर्झरस्यन्दनो मुकुन्द मुखचन्द्रमास्तव तनोति शर्माणि नः ॥ ५६॥ ॥ मिश्रकलिका ॥ दुष्टदुर्दमारिष्टकण्ठीरवकुण्ठविखण्डनखेलदष्टापद नवीनाष्टापद विस्पर्धिपट्टाम्बरपरीत गरिष्ठगण्डशैलसपिण्डवक्षःपट्ट पाटव दण्डितचटुलभुजङ्गम कन्दुकविलसितलङ्घिम भण्डिलविचकिलमण्डित सङ्गरविहरणपण्डित दन्तुरदनुजविडम्बक कुण्ठितकुटिलकदम्बक खचिताखण्डलोपलविराजदण्डजराजकुण्डलमण्डितमञ्जुलगण्डस्थल विशङ्कटभाण्डीरतटीताण्डवकलारञ्जितसुहृन्मण्डल नन्दविचुम्बित कुन्दनिभस्मित गन्धकरम्बित शन्दविचेष्टित तुन्दपरिस्फुरदण्डकडम्बर दुर्जनभोजेन्द्रकण्टककन्दोद्धारणोद्दामकुद्दाल विनम्रविपद्दारुणध्वान्त विद्रावणमार्तण्डोपमकृपाकटाक्ष शारदाचण्डमरीचिमाधुर्यविडम्बि तुण्डमण्डल लोष्ठीकृतमण्डिकोष्ठीकुलमुनिगोष्ठीश्वर मधुरोष्ठीप्रिय परमेष्ठीडित परमेष्ठीकृतनर ॥ धीर ॥

२६

उपहितपशुपालीनेत्रसारङ्गतुष्टिः प्रसरदमृतधाराधोरणीधौतविश्वा । पिहितरविसुधांशुः प्रांशुतापिञ्छरम्या रमयतु बकहन्तुः कान्तिकादम्बिनी वः ॥ ५७॥ ॥ अथवा साप्तविभक्तिकी कलिका ॥ यः स्थिरकरुणस्तर्जितवरुणस्तर्पितजनकः सम्मदजनकः प्रणतविमायं जगुरनपायं घनरुचिकायं सुकृतजना यं सुजनकलितकथनेन प्रबलदनुजमथनेन प्रणयिषु रतमभयेन प्रकटरतिषु किल येन यस्मै परिध्वस्तदुष्टाय चक्रुः स्पृहां माल्यजुष्टाय घृतोत्साहपूराद्द्युतिक्षिप्तसूराद् यतोऽरिर्विदूराद् भयं प्राप शूरात् । यस्योज्ज्वलाङ्गस्य सञ्चार्यपाङ्गस्य वेणुर्ललामस्य हस्तेऽभिरामस्य स्मितविस्फुरितेऽजनि यत्र हिते रतिरुल्लसिते सुदृशां ललिते । स त्वं जय जय दुष्टप्रतिभय भक्तिस्थिरदय लुप्तव्रजभय ॥ वीर ॥ हंसोत्तमाभिलषिता सेवकचक्रेषु दर्शितोत्सेका । मुरजयिनः कल्याणी करुणाकल्लोलिनी जयति ॥ ५८॥ मित्रकुलोदितनर्मसुमोदित रञ्जितराधिक शर्मभराधिक ॥ धीर ॥

२७

मधुरेश माधुरीमय माधव मुरलीमतल्लिकामुग्ध । मम मदनमोहन मुदा मर्दय मनसो महामोहम् ॥ ५९॥ ॥ अक्षरमयी ॥ अच्युत जय जय आर्तकृपामय इन्द्रमखार्दन ईतिविशातन उज्ज्वलविभ्रम ऊर्जितविक्रम ऋद्धिधुरोद्धर एभुदयापर ऌदिवकृपेक्षित ऌऌवदलक्षित एधितवल्लव ऐन्दवकुलभव ओजःस्फूर्जित औग्र्यविवर्जित अंसविशङ्कट अष्टापदपट कङ्कणयुतकर खण्डितखलवर गतिजितकुञ्जर घनघुसृणाम्बर ङुतमुरलीरत चलचिल्लीलत छलितसतीशत जलजोद्भवनुत झषवरकुण्डल ञोङुयितदल टङ्कितभूधर ठनिभाननवर डमरघटाहर ढक्कितकरतल णखरधृताचल तरलविलोचन थूत्कृतखञ्जन दनुजविमर्दन धवलावर्धन नन्दसुखास्पद पङ्कजसमपद फञेनुतिमोदित बन्धुविनोदित भङ्गुरितालक मञ्जुलमालक यष्टिलसद्भुज रम्यमुखाम्बुज ललितविशारद वल्लवरङ्गद शर्मदचेष्टित षट्पदवेष्टित सरसीरुहधर हलधरसोदर क्षणदगुणोत्कर ॥ वीर ॥ कर्णे कल्पितकर्णिकः कलिकया कामायितः कान्तिभिः कान्तानां किलकिञ्चितं किसलयकीलालधीः कीर्तिभिः । कुर्वन्कूर्दनकानि केशरितया कैशोरवान्कोटिशः कोपी कौकुरकंसकष्टकृतिकः कृष्णः क्रियात् काङ्क्षितम् ॥ ६०॥ सौरीतटचर गौरीव्रतपर गौरीपटहर चौरीकृतकर ॥ वीर ॥

२८

प्रेमोरुहट्टहिण्डक कक्खटसुभटेन्द्रकण्ठकुट्टाक । कुरु कौङ्कुमपट्टाम्बर भट्टारक ताण्डवं हृदि मे ॥ ६१॥ ॥ सर्वलघुः ॥ चरणचलनहतजरठशकटक रजकदलन वशगतपरकटक नटनघटनलसदगवरकटक सकनकमरकतमयनवकटक कपटरुदित नटदकठिनपदतट विघटितदधिघटनिविडितसुशकट रुचितुलितपुरटपटलरुचिरपट घटितविपुलकट कुटिलचिकुरघट रविदुहितृनिकटलुठदजरठजट विटपनिचितवटतटपटुतरनट निजविलसितहठविचटितसुविकट चटुलदनुजघट जय युवतिषु शठ ॥ वीर ॥ स्फुटनाट्यकडम्बदण्डित द्रढिमोड्डामरदुष्टकुण्डली । जय गोष्ठकुटुम्बसंवृत्त- स्त्वमिडाडिम्बकदम्बडुम्बक ॥ ६२॥ रसनमुखर सुखरनखर दशनशिखरविजितशिखर ॥ धीर ॥ विवृतविविधबाधे भ्रान्तिवेगादगाधे बलवति भवपूरे मज्जतो मेऽविदूरे । अशरणगणबन्धो हे कृपाकौमुदीन्दो सकृदकृतविलम्बं देहि हस्तावलम्बम् ॥ ६३॥ नामानि प्रणयेन ते सुकृतिनां तन्वन्ति तुण्डोत्सवं धामानि प्रथयन्ति हन्त जलदश्यामानि नेत्राञ्जनम् । सामानि श्रुतिशष्कुलीं मुरलिकाजातान्यलङ्कुर्वते कामानि निर्वृतचेतसामिह विभो नाशापि नः शोभते ॥ ६४॥ व्युत्पन्नः सुस्थिरमतिर्गतग्लानिर्गलस्वनः । भक्तः कृष्णे भवेद् यः स विरुदावलिपाठकः ॥ ६५॥ रम्यया विरुदावल्या प्रोक्तलक्षणयुक्तया । स्तूयमानः प्रमुदितो वासुदेवः प्रसीदति ॥ ६६॥ यः स्तौति विरुदावल्या मथुरामण्डले हरिम् । अनया रम्यया तस्मै तूर्णमेष प्रसीदति ॥ ६७॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां गोविन्दविरुदावली समाप्ता । Source documents used for this electronic edition were : (ed.) Arpana Devi, Calcutta: Bag Bazaar Gaudiya Math, 1980 and ShrIstavakalpadrumaH. (ed.) Srimad Bhakti Saranga Goswami and PurushottaM Das. Vrindavan, Mahaprabhu Mandir, 1959. (Jagat) Prepared by Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net at granthamandira.net Gaudiya Grantha Mandira
% Text title            : Garland of Devotional Prayers stavamAlA
% File name             : stavamAlAsangraha.itx
% itxtitle              : stavamAlA saNgrahaH (rUpagosvAmivirachitA)
% engtitle              : Garland of Devotional Prayers stavamAlA
% Category              : vishhnu, rUpagosvAmin, krishna, stavamAlA, sangraha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : rUpagosvAmin
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Hindi, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org