सुदर्शनचक्रकृतं विष्णुस्तोत्रम्
नमस्ते देवदेवेश वासुदेवाय विष्णवे ।
नारायणाय नालीकनयनाय नमो नमः ॥ ४०॥
नाथ नारायण विभो नलिनायतलोचन ।
प्रसीद करुणामूर्ते प्रसीद जगतां गुरो ॥ ४१॥
यमेकमीशमाद्यन्तमनन्तमकुतोभयम् ।
अक्षरमनिर्देश्यं शरणं यामि शाश्वतम् ॥ ४२॥
पुराणमाद्यं पुरुषं वृषसेनं वृषाकपिम् ।
वेदान्तवेद्यं विश्वस्य जनितारमुपास्महे ॥ ४३॥
तारकः परमो योगी योगिध्येयाङ्घ्रिपङ्कजः ।
स मे गतिरनन्तात्मा सर्वसाक्षी जगद्गुरुः ॥ ४४॥
गुणातीतः परः शुद्धो हंसाख्यः प्रपितामहः ।
श्रुतिकर्मः पुमान् साक्षादाविरस्तु पुरो हरिः ॥ ४५॥
अणोरणीयानात्मा च महतोऽपि महान् महान् ।
ममैव दृशि सम्भूयान्मोहान्धध्वान्तभास्करः ॥ ४६॥
श्यामो हिरण्यपरिधिः वनमालाविभूषितम् ।
श्रीपतिं शरणं यामि विश्वस्यास्यैवहेतुकम् ॥ ४७॥
आलोलतुलसीदाममारूढविनतासुतम् ।
ज्योतिरिन्दीवरश्याममाविरस्तु ममाग्रतः ॥ ४८॥
नमो नमः पुराणाय पुरुषायादिवेधसे ।
सतां सन्मार्गबन्धूनां परित्राणाय साधवे ॥ ४९॥
सत्त्वमेकाक्षरं ज्योतिराकारः खगरूपकः ।
यत्तमन्तस्स्मराम्येतत् पञ्चमस्वरमक्षरः ॥ ५०॥
खगो भोक्ता च कर्मात्मा पुरुषो व्यञ्जनात्मकः ।
ऊर्ध्वतिर्यग्गतः स्वान्तः केशवो दयितो मम ॥ ५१॥
शेषाङ्कशायिनमशेषगुरुं पुराणं
नारायणं त्रिजगतां प्रणतापवर्गम् ।
नाथं व्रजामि शरणं करुणामृताब्धिं
नास्त्यत्र मे विशति चित्तमिदं मुकुन्दात् ॥ ५२॥
इत्थं स्तुवति वै तस्मिन् चक्रराजे सुदर्शने ।
प्रादुर्बभूव भगवान् प्रसन्नात्मा जनार्दनः ॥ ५३॥
इति ताम्रपर्णीमाहात्म्ये ५९-अध्यायान्तर्गतं
सुदर्शनचक्रकृतं विष्णुस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ५९/४०-५३॥
tAmraparNImAhAtmya . adhyAya 59/40-53..
Proofread by PSA Easwaran