सुन्दरबाहुस्तवः

सुन्दरबाहुस्तवः

पञ्चस्तव्यां ३ सुन्दरबाहुस्तवः श्रीरस्तु । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमौक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ श्रीमन्तौ हरिचरणौ समाश्रितोऽहं श्रीरामावरजमुनीन्द्रलब्धबोधः । निर्भीकस्तत इह सुन्दरोरुबाहुं स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ १॥ सुन्दरायतभुजं भजामहे वृक्षषण्डमयमद्रिमास्थितम् । यत्र सुप्रथितनूपुरापगातीर्थमर्थितफलप्रदं विदुः ॥ २॥ क्वचित्त्वरितगामिनी क्वचन मन्दमन्दलसा क्वचित्स्खलितविह्वला क्वचन फेनिला सारवा । पतन्त्यपि किल क्वचिद्व्रजति नूपुराह्वा नदी सुसुन्दरभुजाह्वयं मधु निपीय मत्ता यथा ॥ ३॥ उदधिगमन्दराद्रिमथिमन्थनलब्धप- योमधुररसेन्दिराह्वसुधसुन्दरदोःपरिघम् । अशरणमादृशात्मशरणं शरणार्थिजन- प्रवणधियं भजेम तरुषण्डमयाद्रिपतिम् ॥ ४॥ शशधररिङ्खणाढ्यशिखमुच्छिखरप्रकरं- तिमिरनिभप्रभूततरुषण्डमयं भ्रमदम् । वनगिरिमावसन्तमुपयामि हरिं शरणं- भिदुरितसप्तलोकसुविश‍ृङ्खलशङ्खरवम् ॥ ५॥ यत्तुङ्गश‍ृङ्गविनिषङ्गिसुराङ्गनानां- न्यस्तोर्ध्वपुण्ड्रमुखमण्डनमण्डितानाम् । दर्पण्यभूद्धृतमपाङ्कशशाङ्कपृष्ठं- तद्धाम सुन्दरभुजस्य महान् वनाद्रिः ॥ ६॥ यदीयशिखरागतां शशिकलां तु शाखामृगा- निरीक्ष्य हरशेखरीभवनमामृशन्तस्ततः । स्पृशन्ति न हि देवतान्तरसमाश्रितेति स्फुटं- स एष सुमहातरुव्रजगिरिर्गृहं श्रीपतेः ॥ ७॥ सुन्दरदोर्दिव्याज्ञालम्भनकातरवशानुयायिनि करिणि । प्रणयजकलहसमाधिर्यत्र वनाद्रिस्स एष सुन्दरदोष्णः ॥ ८॥ स एष सौन्दर्यनिधेर्धृतश्रियो वनाचलो नाम सुधाम यत्र हि । भुजङ्गराजस्य कुलस्य गौरवान्न खण्डिताः कुण्डलिनश्शिखण्डिभिः ॥ ९॥ वृषगिरिरयमच्युतस्य यस्मिन् स्वमतमलङ्घयितुं परस्परेभ्यः । खगतिचरणौ खगाश्शपन्ते भुजगपतेर्भुजगाश्च सर्व एव ॥ १०॥ हरिकुलमखिलं हनूमदङ्घ्रिं स्वकुलपजाम्बवतस्तथैव भल्लाः । निजकुलपजटायुषश्च गृध्राः स्वकुलपतेश्च गजा गजेन्द्रनाम्नः ॥ ११॥ वकुलधरसरस्वतीविषक्तस्वररसभावयुतासु किन्नरीषु । द्रवति दृषदपि प्रसक्तगानास्विह वनशैलतटीषु सुन्दरस्य ॥ १२॥ भृङ्गी गायति हंसतालनिभृतं तत्पुष्णती कोकिला- ऽप्युद्गायत्यथ वल्लितल्लजमुखादास्रं मधु स्यन्दते । निष्पन्दस्तिमिताः कुरङ्गततयश्शीतं शिलासैकतं सायाह्ने किल यत्र सुन्दरभुजस्तस्मिन्वनक्ष्माधरे ॥ १३॥ पीताम्बरं वरदशीतलदृष्टिपात- माजानुलम्बिभुजमायतकर्णपाशम् । श्रीमन्महावनगिरीन्द्रनिवासदीक्षं लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥ १४॥ जनिजीवनाप्ययविमुक्तयो यतो जगतामिति श्रुतिशिरस्सु गीयते । तदिदं समस्तदुरितैकभेषजं वनशैलसम्भवमहं भजे महः ॥ १५॥ सद्ब्रह्मात्मपदैस्त्रयीशिरसि यो नारायणोक्त्या तथा व्याख्यातो गतिसाम्यलब्धविषयानन्यत्वबोधोज्ज्वलैः । निस्तुल्याधिकमद्वितीयममृतं तं पुण्डरीकेक्षणं प्रारूढश्रियमाश्रये वनगिरेः कुञ्जोदितं सुन्दरम् ॥ १६॥ पतिं विश्वस्यात्मेश्वरमिति परं ब्रह्म पुरुषः परं ज्योतिस्तत्वं परमिति च नारायण इति । श्रुतिर्ब्रह्मेशादींस्तदुदितविभूतींस्तु गृणती यमाहारूढश्रीस्स वनगिरिधामा विजयते ॥ १७॥ पृथिव्याद्यात्मान्तं नियमयति यस्तत्त्वनिकरं तदन्तर्यामी तद्वपुरविदितस्तेन भगवान् । स एष स्वैश्वर्यं नविजहदशेषं वनगिरिं समध्यासीनो नो विशतु हृदयं सुन्दरभुजः ॥ १८॥ प्रत्यगात्मनि कदाऽप्यसम्भवद्भूमभूमिमभिवक्ति यं श्रतिः । तं वनाद्रिनिलयं सुसुन्दरं सुन्दरायतभुजं भजामहे ॥ १९॥ वन्देय सुन्दरभुजं भुजगेन्द्रभोग- सक्तं महावनगिरिप्रणयप्रवीणम् । यं तं विदुर्दहरमष्टगुणोपजुष्टं आकाशमौपनिषदीषु सरस्वतीषु ॥ २०॥ यत्स्वायत्तस्वरूपस्थितिकृतिकनिजेच्छानियाम्यस्वशेषा- नन्ताशेषप्रपञ्चस्तत इह चिदिवाचिद्वपुर्वाचिशब्दैः । विश्वैश्शब्दैः प्रवाच्यो हतवृजिनतया नित्यमेवानवद्य- स्तं वन्दे सुन्दराह्वं वनगिरिनिलयं पुण्डरीकायताक्षम् ॥ २१॥ गुणजं गुणिनो हि मङ्गलत्वं प्रमितं प्रत्युत यत्स्वरूपमेत्य । तमनन्तसुखावबोधरूपं विमलं सुन्दरबाहुमाश्रयामः ॥ २२॥ अतिपतितावधिस्वमहिमानुभवप्रभवत्सुख- कृतनिस्तरङ्गजलधीयितनित्यदशम् । प्रतिभटमेव हेयनिकरस्य सदाऽप्रतिमं हरिमिह सुन्दराह्वमुपयामि वनाद्रितटे ॥ २३॥ सदा षाड्गुण्याख्यैः पृथुलबलविज्ञानशकन- प्रभावीर्यैश्वर्यैरवधिविधुरैरेधितदशम् । द्रुमस्तोमक्ष्माभृत्परिसरमहोद्यानमुदितं प्रपद्येऽध्यारूढश्रियमिममहं सुन्दरभुजम् ॥ २४॥ सौशील्याश्रितवत्सलत्वमृदुतासौहार्दसाम्यार्जवैः- धैर्यस्थैर्यसुवीर्यशौर्यकृतितागाम्भीर्यचातुर्यकैः । सौन्दर्यान्वितसौकुमार्यसमतालावण्यमुख्यैर्गुणै- र्देवः श्रीतरुषण्डशैलनिलयो नित्यं स्थितस्सुन्दरः ॥ २५॥ येष्वेकस्य गुणस्य विप्रुडपि वै लोकोत्तरं स्वाश्रयं कुर्यात्तादृशवैभवैरगणितैर्निस्सीमभूमान्वितैः । नित्यैर्दिव्यगुणैस्ततोऽधिकशुभत्वैकास्पदात्माश्रयै- रिद्धं सुन्दरबाहुमस्मि शरणं यातो वनाद्रीश्वरम् ॥ २६॥ सदा समस्तं जगदीक्षते हि यः प्रत्यक्षदृष्ट्या युगपद्भुवा स्वतः । स ईदृज्ञाननिधिर्निधिस्तुर्नास्सहाद्रिकुञ्जेषु चकास्ति सुन्दरः ॥ २७॥ ऐश्वर्यतेजोबलवीर्यशक्तयः कीदृग्विधास्सुन्दरबाहुसंश्रयाः । योऽसौ जगज्जन्मलयस्थितिक्रियास्सङ्कल्पतोऽल्पादुपकल्पयत्यजः ॥ २८॥ यत्कल्पायुतभोगतोऽपि कृशतां यायान्न तावत्फलं येष्वेकस्य तथाविधैस्सततजैरंहोभिरुत्सीमभिः । अस्तादाविह संसृतावुपचितैश्छन्नं सुसन्नं जनं सन्नत्या क्षमते क्षणाद्वनगिरिप्रस्थप्रियस्सुन्दरः ॥ २९॥ यज्जातीयो यादृशो यत्स्वभावः पादच्छायां संश्रितो योऽपि कोऽपि । तज्जातीयस्तादृशस्तत्स्वभावः श्लिष्यत्येनं सुन्दरो वत्सलत्वात् ॥ ३०॥ निहीनो जात्या वा भृशमकृशलैर्वा स्वचरितैः पुमान्वै यः कश्चिद्बहुतृणमपि स्यादगुणतः । भजन्तं तं पश्येद्भुजगपतिना तुल्यमपि यो वनाद्रिप्रस्थस्थस्स मम शरणं सुन्दरभुजः ॥ ३१॥ एकैकमङ्लगुणानुभवाभिनन्द- मीदृक्त्वियानिति च सुन्दरदोष्णि कृष्णे । ते ये शतं त्विति नियन्तुमनाश्श्रुतिर्है नैवैष वाङ्मनसगोचर इत्युदाह ॥ ३२॥ अब्जपादमरविन्दलोचनं पद्मपाणितलमञ्जनप्रभम् । सुन्दरोरुभुजमिन्दिरापतिं वन्दिषीय वरदं वनाद्रिगम् ॥ ३३॥ कनकमरतकाञ्जनद्रवाणां मथनसमुत्थितसारमेलनोत्थम् । जयति किमपि रूपमस्य तेजो वनगिरिनन्दनसुन्दरोरुबाहोः ॥ ३४॥ किन्नु स्वयं स्वात्मविभूषणं भवन्नसावलङ्कार इतीरितो जनैः । वर्धिष्णुबालद्रुमषण्डमण्डितं वनाचलं वा परितः प्रसाधयन् ॥ ३५॥ सुखस्पर्शैर्नित्यैः कुसुमसुकुमाराङ्गसुखदैः सुसौगन्ध्यैर्दिव्याभरणगणदिव्यायुधगणैः । अलङ्कार्यैस्सर्वैर्निगदितमलङ्गार इति य- स्समाख्यानं धत्ते स वनगिरिनाथोऽस्तु शरणम् ॥ मकुटमकुटमालोत्तंसचूडाललाम- स्वलकतिलकमालाकुण्डलैस्सोर्ध्वपुण्ड्रैः । मणिवरवनमालाहारकेयूरकण्ठ्यै- स्तुलसिकटककाञ्चीनूपराद्यैश्च भूषैः ॥ ३७॥ असिजलजरथाङ्गैश्शार्ङ्गकौमोदकीभ्या- मगणितगुणजालैरायुधैरप्यथान्यैः । सततविततशोभं पद्मनाभं वनाद्रे- रुपवनसुखलीलं सुन्दरं वन्दिषीय ॥ ३८॥ आजानजस्वगतबन्धुरगन्धलुब्ध- भ्राम्यद्विदग्धमधुपालिसदेशकेशम् । विश्वाधिराज्यपरिबर्हकिरीटराजं है सुन्दरस्य बत ! सुन्दरमुत्तमाङ्गम् ॥ ३९॥ अन्धं तमस्तिमिरनिर्मितमेव यत्स्या- त्तत्सारसाधितसुतनत्वतिवृत्तवार्तम् । ईशस्य (केसरिगिरे) केशवहरेरलकालिजालं तत्तुल्यकुल्यमधुपाढ्यमहावनस्य ॥ ४०॥ जुष्टाष्टमीकज्वलदिन्दुसन्निभं धृतोर्ध्वपुण्ड्रं विलसद्विशेषकम् । भूम्ना ललाटं विमलं विराजते वनाद्रिनाथस्य समुच्छ्रितश्रियः ॥ ४१॥ सुचारुचापद्वयविभ्रमं भ्रूवोयुगं सुनेत्राह्वसहस्रपत्रयोः । उपान्तगं वा मधुपावलीयुगं विराजते सुन्दरबाहुसंश्रयम् ॥ ४२॥ अदीर्घमप्रेमदुघं क्षणोज्ज्वलं नचोरमन्तःकरणस्य पश्यताम् । अनुब्जमब्जं नु कथं निदर्शनं वनाद्रिनाथस्य विशालयोर्दृशोः ॥ ४३॥ प्रश्च्योतत्प्रेमसारामृतरसचुलकप्रक्रमप्रक्रियाभ्यां विक्षिप्तालोकितोर्मिप्रसरणमुषितस्वान्तकान्ताजनाभ्याम् । विश्वोत्पत्तिप्रवृत्तिस्थितिलयकरणैकान्तशान्तक्रियाभ्यां देवोऽलङ्कारनामा वनगिरिनिलयो वीक्षतामीक्षणाभ्याम् ॥ ४४॥ प्रेमामृतौघपरिवाहिमहाक्षिसिन्धु- मध्ये प्रबद्धसमुदञ्चितसेतुकल्पा । ऋज्वी सुसुन्दरभुजस्य विभाति नासा कल्पद्रुमाङ्कुरनिभा वनशैलभर्तुः ॥ ४५॥ व्याभाषिताभ्यधिकनन्दनभन्दनर्द्धिमन्दस्मितामृतपरिस्रवसंस्तवाढ्यम् । आभाति विद्रुमसमाधरमास्यमस्य देवस्य सुन्दरभुजस्य वनाद्रिभर्तुः ॥ ४६॥ यशोदाङ्गुल्यग्रोन्नमितचुबुकाघ्राणमुदितौ कपोलावद्यापि ह्यनुपरततद्धर्षगमकौ । विराजेते विश्वग्विततसहकारासवरस- प्रमाद्यद्भृङ्गाढ्यद्रुमवनगिरेस्सुन्दरहरेः ॥ ४७॥ व्यालम्बिकुण्डलमुदग्रसुवर्णपुष्प- निष्पन्नकल्पलतिकायमलानुकारम् । यत्कर्णपाशयुगलं निगलं धियां न- स्सोऽयं सुसुन्दरभुजो वनशैलभूषा ॥ ४८॥ सदंससंसञ्जितकुन्तलान्तिकावतीर्णकर्णाभरणाढ्यकन्धरः । सुबन्धुरस्कन्धनिबन्धनो युवा सुसुन्दरस्सुन्दरदोर्विजृम्भते ॥ ४९॥ व्यूढगूढभुजजत्रुमुल्लसत्कम्बुकन्धरधरं धराधरम् । वृक्षषण्डमयभूभृतस्तटे सुन्दरायतभुजं भजामहे ॥ ५०॥ मन्दरभ्रमणविभ्रमोद्भटास्सुन्दरस्य विलसन्ति बाहवः । इन्दिरासमभिनन्दभन्दनाश्चन्दनागरुविलेपभूषिताः ॥ ५१॥ ज्याकिणाङ्कपरिकर्मधर्मिणो भान्ति सुन्दरभुजस्य बाहवः । पारिजातविटपायितर्द्धयः प्रार्थितार्थपरिदानदीक्षिताः ॥ ५२॥ सागराम्बरतमालकाननश्यामलर्द्धय उदारपीवराः । शेषभोगपरिभोगभागिनस्तन्निभा वनगिरीशितुर्भुजाः ॥ ५३॥ अहमहमिकाभाजो गोवर्धनोद्धृतिनर्मणि प्रमथनविधावब्धेर्लब्धप्रबन्धसमक्रियाः । अभिमतबहूभावाः कान्ताभिरम्भणसम्भ्रमे वनगिरिपतेर्बाहाश्शुम्भन्ति सुन्दरदोर्हरेः ॥ ५४॥ श्रीमद्वनाद्रिपतिपाणितलाब्जयुग्ममारूढयोर्विमलशङ्खरथाङ्गयोस्तु । एकोऽब्जमाश्रित इवोत्तमराजहंसः पद्मप्रियोऽर्क इव तत्समितो द्वितीयः ॥ ५५॥ लक्ष्म्याः पदं कौस्तुभसंस्कृतं च श्रीवत्सभूमिर्विमलं विशालम् । विभाति वक्षो वनमालयाऽऽढ्यं वनाद्रिनाथस्य सुसुन्दरस्य ॥ ५६॥ सौन्दर्यामृतसारपूरपरिवाहावर्तगर्तायितं यातः किञ्च विरिञ्चसम्भवनभूम्यम्भोजसम्भूतिभूः । नाभिश्शुम्भति कुम्भिकुम्भनिभनिर्भातस्तनस्वर्वधू- सम्भुक्तद्रुमषण्डशैलवसतेरारूढलक्ष्म्या हरेः ॥ सुन्दरस्य किल सुन्दरबाहोः श्रीमहातरुवनाचलभर्तुः । हन्त ! यत्र निवसन्ति जगन्ति प्रापितक्रंशिम तत्तनु मध्यम् ॥ ५८॥ पिष्टदुष्टमधुकैटभकीटौ हस्तिहस्तयुगलाभसुवृत्तौ । राजतः क्रमकृशौ च सदूरू सुन्दरस्य वनभूधरभर्तुः ॥ ५९॥ यौवनवृषककुदोद्भेदनिभं नितरां भाति विभोरुभयं जानु शुभाकृतिकम् । सुन्दरभुजनाम्नो मन्दरमथिताब्धेश्चन्दनवनविलसत्कन्दरवृषभपतेः ॥ ६०॥ अधोमुखं न्यस्तपदारविन्दयोरुदञ्चितोदात्तसुनालसन्निभे । विलङ्घ्य जङ्घे क्व नु रंहतो दृशौ वनाद्रिनाथस्य सुसुन्दरस्य मे ॥ ६१॥ सुसुन्दरस्यास्य पदारविन्दे पदारविन्दाधिकसौकुमार्ये । अतोऽन्यथा ते बिभृयात्कथं नु तदासनं नाम सहस्रपत्रम् ॥ ६२॥ सौन्दर्यमार्दवसुगन्धरसप्रवाहै- रेते हि सुन्दरभुजस्य पदारविन्दे । अम्भोजडम्भपरिरम्भणमभ्यजैष्टां तद्वै पराजितमिमे शिरसा बिभर्ति ॥ ६३॥ एते ते बत ! सुन्दराह्वयजुषः पादारविन्दे शुभ यन्निर्णेजसमुत्थितत्रिपथगास्रोतस्सु किञ्चित्किल । धत्तेऽसौ शिरसा ध्रुवस्तदपरं स्रोतो भवानीपति- र्यस्यास्यालकनन्दिकेति निजगुर्नामैवमन्वर्थकम् ॥ ६४॥ आम्नायकल्पलतिकोत्थसुगन्धिपुष्पं योगीन्द्रहार्दसरसीरुहराजहंसम् । उत्पक्वधर्मसहकारफलप्रकाण्डं वन्देय सुन्दरभुजस्य पदारविन्दम् ॥ ६५॥ सुसुन्दरस्यास्य तु वामनाकृतेः क्रमत्रयप्रार्थिनि मानसे किल । इमे पदे तावदिहासहिष्णुनी विचक्रमाते त्रिजगत्पदद्वये ॥ ६६॥ सौन्द्रर्यसारामृतसिन्धुवीचिश्रेणीषु पादाङ्गुलिनामिकासु । न्यक्कृत्य चन्द्रश्रियमात्मकान्त्या नखावली शुम्भति सुन्दरस्य ॥ ६७॥ यो जातक्रशिमा मली च शिरसा सम्भावितश्शम्भुना सोऽयं यच्चरणाश्रयी शशधरो नूनं नखव्याजतः । पूर्णत्वं विमलत्वमुज्ज्वलतया सार्धं बहुत्वं तथा यातस्तं तरुषण्डशैलनिलयं वन्दामहे सुन्दरम् ॥ ६८॥ यस्याः कटाक्षणमनुक्षणमीश्वराणामैश्वर्यहेतुरिति सर्वजनीनमेतत् । श्रीस्सेति सुन्दरनिषेवणतो निराहुस्त्वां हि श्रियश्श्रियमुदाहुरुदारवाचः ॥ ६९॥ दिव्याचिन्त्यमहाद्भुतोत्तमगुणैस्तारुण्यलावण्यक- प्रायैरद्भुतभावगर्भसततापूर्वप्रियैर्विभ्रमैः । रूपाकारविभूतिभिश्च सदृशीं नित्यानपेतां श्रियं नीला भूमिमपीदृशीं रमयिता नित्यं वनाद्रीश्वरः ॥ अन्योन्यचेष्टितनिरीक्षणहार्दभावप्रेमानुभावमधुरप्रणयप्रभावः । आजस्रनव्यतरदिव्यरसानुभूतिस्त्वां प्रेयसीं रमयिता वनशैलनाथः ॥ ७१॥ सुन्दरस्य वनशैलवासिनो भोगमेव निजभोगमाभजन् । शेष एष इति शेषताकृतेः प्रीतिमानहिपतिस्स्वनामनि ॥ ७२॥ वाहनासनवितानचामराद्याकृतिः खगपतिस्त्रयीमयः । नित्यदास्यरतिरेव यस्य वै ह्येष सुन्दरभुजो वनाद्रिगः ॥ ७३॥ वनाद्रिनाथस्य सुसुन्दरस्य वै प्रभुक्तशिष्टाश्यथ सैन्यसत्पतिः । समस्तलोकैकधुरन्धरस्सदा कटाक्षवीक्ष्योऽस्य च सर्वकर्मसु ॥ ७४॥ छत्रचामरमुखाः परिच्छदास्सूरयः परिजनाश्च नैत्यगाः । सुन्दरोरुभुजमिन्घते सदा ज्ञानशक्तिमुखनित्यसद्गुणाः ॥ ७५॥ द्वारनाथगणनाथतल्लजाः पारिषद्यपदभागिनस्तथा । मामकाश्च गुरवः पुरातनास्सुन्दरं वनमहीध्रगं श्रिताः ॥ ७६॥ ईदृशैः परिजनैः परिच्छदैर्नित्यसिद्धनिजभोगभूमिगः । सुन्दरो वनगिरेस्तटीषु वै रज्यते सकलदृष्टिगोचरः ॥ ७७॥ अक्रीडभूमिषु सुगन्धिषु पौष्पिकीषु वैकुण्ठधामनि समृद्धसुवापिकासु । श्रीमल्लतागृहवतीषु यथा तथैव लक्ष्मीधरस्सजति सिंहगिरेस्तटीषु ॥ ७८॥ आनन्दमन्दिरमहामणिमण्डपान्तर्लक्ष्म्या भुवाऽप्यहिपतौ सह नीलया च । निस्सङ्ख्यनित्यनिजदिव्यजनैकसेव्यो नित्यं वसन् सजति सुन्दरदोर्वनाद्रौ ॥ ७९॥ प्रत्यर्थिनि त्रिगुणकप्रकृतेरसीम्नि वैकुण्ठधामनि पराम्बरनाम्नि नित्ये । नित्यं वसन्परमसत्वमयेऽप्यतीत- योगीन्द्रवाङ्मनस एष हरिर्वनाद्रौ ॥ ८०॥ लोकांश्चतुर्दश दधत् किल सुन्दरस्य पङक्तीगुणोत्तरितसप्तवृतीदमण्डम् । अन्यानि चास्य सुसन्दृशि परश्शतानि क्रीडाविधेरिह परिच्छदतामगच्छन् ॥ ८१॥ सुरनरतिर्यगादिबहुभेदकभिन्नमिदं जगदथ चाण्डमण्डवरणानि च सप्त तथा । गुणपुरुषौ च मुक्तपुरुषाश्च वनाद्रिपते- रुपकरणानि नर्मविधयेऽपि भवन्ति विभोः ॥ ८२॥ ज्ञानिनस्सततयोगिनस्तु ये सुन्दराङ्घ्रिपरभक्तिभागिनः । मुक्तिमाप्य परमां परे पदे नित्यकिङ्करपदं भजन्ति ते ॥ ८३॥ देवस्य सुन्दरभुजस्य वनाद्रिभर्तु- र्है शीलवत्त्वमथवाऽऽश्रितवत्सलत्वम् । ऐशस्वभावमजहद्भिरिहावतारै- र्योऽलञ्चकार जगदाश्रिततुल्यधर्मा ॥ ८४॥ सिंहाद्रिनाथ! तव वाङ्मनसातिवृत्तं रूपं त्वतीन्द्रियमुदाह रहस्यवाणी । एवं च न त्वमिह चेत्समवातरिष्य- स्त्वज्ज्ञानभक्तिविधयोऽद्य मुधाऽभविष्यन् ॥ ८५॥ ये भक्ता भवदेकभोगमनसोऽनन्यात्मसञ्जीवना तत्संश्लोषणतद्विरोधिनिधनाद्यर्थं वनाद्रीश्वर! । मध्येऽण्डं यदवातरस्सुरनराद्याकारदिव्याकृति- स्तेनैव त्रिदशैर्नरैश्च सुकरं स्वप्रार्थितप्रार्थनम् ॥ श्रीमन्महावनगिरीशविधीशयोस्ते मध्ये तु विष्णुरिति यः प्रथमावतारः । तेनैव चेत्तव महिम्नि जनाः किलान्धा- स्त्वन्मत्स्यभावमवगम्य कथं भवेयुः ॥ ८७॥ हे देव! सुन्दरभुज! त्वमिहाण्डमध्ये सौलभ्यतो विसदृशं चरितं महिम्नः । अङ्गीकरोषि यदि तत्र सुरैरमीभि- स्साम्यान्निकर्षपरिपालनमेव साधु ॥ ८८॥ इहावतीर्णस्य वनाद्रिनाथ! ते निगूहतः स्वं महिमानमैश्वरम् । उमापतेः किं विजयः प्रियङ्करः प्रियङ्करा वेन्द्रजिदस्त्रबन्धना ॥ ८९॥ पुच्छोत्पुच्छनमूर्च्छनोद्धतिधुतव्यावर्तितावर्तवत्- संवर्तार्णवनीरपूरविलुठत्पाठीनदिव्याकृतेः । सिंहाद्रीश न वैभवं तव कथं स्वालक्ष्यमालक्ष्यते पद्माक्षस्य जुघुक्षतोऽपि विभवं लक्ष्मी-धराधोक्षज! ॥ ९०॥ साचलावटतटाकदीर्घिकाजाह्नवीजलविवर्धितः क्षये । श‍ृङ्गसङ्गमितनौर्मनोरभूरग्रतोऽण्डजवपुर्हि सुन्दर! ॥ ९१॥ प्रलयजनीरपूरपरिपूरितस्वनिलयावसन्नवदनभ्रमद- शरण्यभूतशरणार्थिनाकिशरणं भवन् स्वकृपया । चलदुदधीरिताम्बुकलुषीक्रियाढ्यगमनस्वपृष्ठविधृता- चलकुल एष मीनतनुरत्र सुन्दरभुजो वनाद्रिनिलयः ॥ ९२॥ स्वपृष्ठे प्रष्ठाद्रिभ्रमणकरणैः किञ्च फणिनः विकृष्टिव्याकृष्टिव्यतिविधुतदुग्धाब्धिचलितैः । अविस्पन्दो नन्दन् विकसदरविन्देक्षणरुचिः पुराऽभूस्सिंहाद्रेः प्रियतम ! हरे ! कच्छवपुः ॥ ९३॥ जगत्प्रलीनं पुनरुद्दिधीर्षतस्सिंहक्षितिक्षिन्निलयस्थ ! सुन्दर ! । पुरा वराहस्य तवेयमुर्वरा दंष्ट्राह्वयेन्दोः किल लक्ष्य लक्षिता ॥ ९४॥ न वायुः पस्पन्दे ययतुरथवाऽस्तं शशिरवी दिशोऽनश्यन् विश्वाऽप्यचलदचला साचलकुला । नभश्च प्रश्च्योति क्वथितमपि पाथो नरहरौ त्वयि स्तम्भे शुम्भद्वपुषि सति हे सुन्दरभुज ! ॥ अरालं पातालं त्रिदशनिलयः प्रापितलयो धरित्री निर्धूता ययुरपि दिशः कामपि दिशम् । अजृम्भिष्टाम्भोधिर्घुमुघुमिति घूर्णन् सुररिपोः विभिन्दाने वक्षस्त्वयि नरहरौ सुन्दरभुज ! ॥ नखक्रकचकप्रथिक्रथितदैत्यवक्षःस्थली- समुत्थरुधिरच्छटाच्छुरितबिम्बितं स्वं वपुः । विलोक्य रुषितः पुनः प्रतिमृगेन्द्रशङ्काव- शाद्य एष नरकेसरी स इह दृश्यते सुन्दरः ॥ ९७॥ क्षितिरियं जनिसंहृतिपालनैः निगिरणोद्गिरणोद्धरणैरपि । वनगिरीश ! तवैव सती कथं वरद ! वामन ! भिक्षणमर्हति ॥ ९८॥ भार्गवः किल भवन् भवान्पुरा कुन्दसुन्दरवनाचलेश्वर ! । अर्जुनस्य बलदर्पितस्य तु च्छेत्स्यति स्मरति बाहुकाननम् ॥ ९९॥ आज्ञा तवात्रभवती विदिता त्रयी सा धर्मं तदुक्तमखिलेन वनाद्रिनाथ! । अन्यूनमाचरितुमास्तिकशिक्षणार्थ- मत्रावतीर्य किल सुन्दर ! राघवोऽभूः ॥ १००॥ वनगिरिपतिरीशितेति देवैः त्रिपुरहरत्रिपुरघ्नचापभङ्गात् । व्यगणि परशुरामदर्शितस्य स्वकधनुषः परिमर्शदर्शनाञ्च ॥ १०१॥ अनवाप्तमत्र किल लिप्स्यते जनैर्न च लब्धमेतदिह भोक्तुमिष्यते । अनवाप्तमत्र किल नास्ति राम ! तज्जगती त्वया तृणमवैक्षि सुन्दर! ॥ १०२॥ शिखरिषु विपिनेष्वप्यापगास्वच्छतोया- स्वनुभवसि रसज्ञो दण्डकारण्यवासान् । तदिह तदनुभूतौ साभिलाषोऽद्य राम ! श्रयसि वनगिरीन्द्रं सुन्दरीभूय भूयः ॥ १०३॥ उपवनतरुषण्डैर्मण्डिते गण्डशैल- प्रणयिभवदुदन्तोद्गायिगन्धर्वसिद्धे । वनगिरितटभूमिप्रस्तरे सुन्दर ! त्वं भजसि नु मृगयानानुद्रवश्रान्तिशान्तिम् ॥ १०४॥ कूलेऽब्धेः किल दक्षिणस्य निवसन्दूरोत्तराम्भोधिगान् दैत्यानेकपतत्रिणाऽच्छिन इतीयं किं वदन्ती श्रुता । तत्रैवेश्वरमम्भसां व्यजयथास्तस्माद्वनाद्रीश्वर ! श्रीमन् ! सुन्दर ! सेतुबन्धनमुखाः क्रीडास्तवाडम्बरम् ॥ १०५॥ रघुकुलतिलक ! त्वं जातुचिद्यातुधान- च्छलमृगमृगयायां संप्रसक्तः पुराऽभूः । तदुपजनितखेदच्छेदनायाद्य गायन्- मधुकरतरुषण्डं रज्यसे किं वनाद्रिम् ॥ १०६॥ हे सुन्दरैकतरजन्मनि कृष्णभावे द्वे मातरौ च पितरौ च कुले अपि द्वे । एकक्षणादनुगृहीतवतः फलं ते नीला कुलेन सदृशी किल रुक्मिणी च ॥ १०७॥ त्वं हि सुन्दर ! यदा स्तनन्धयः पूतनास्तनमधास्तदा नु किम् । जीर्णमेव जठरे पयोविषं दुर्जरं वद तदात्मना सह ॥ १०८॥ आश्रितेषु सुलभो भवन् भवान् मर्त्यतां यदि जगाम सुन्दर! । अस्तु नाम तदुलूखले कियद्दामबद्ध इति किं तदाऽरुदः ॥ १०९॥ सुन्दरोरुभुज ! नन्दनन्दनस्त्वं भवन् भ्रमरविभ्रमालकः । मन्दिरेषु नवनीततल्लजं वल्लवीधियमुत व्यचूचुरः ॥ ११०॥ कालियस्य फणतां शिरस्तु मे सत्कदम्बशिखरत्वमेव वा । वष्टि जुष्टवनशैल ! सुन्दर ! त्वत्पदाब्जयुगमर्पितं ययोः ॥ १११॥ गूहितस्वमहिमाऽपि सुन्दर ! त्वं व्रजे किमिति शक्रमाक्रमीः । सप्तरात्रमदधाश्च किं गिरिं पृच्छतश्च सुहृदः किमक्रुधः ॥ ११२॥ हे नन्दनन्दन ! सुसुन्दर ! सुन्दराह्व वृन्दावने विहरतस्तव वल्लवीभिः । वेणुध्वनिश्रवणतस्तरुभिस्तदा व सग्रावभिर्जतुविलायमहो ! विलिल्ये ॥ ११३॥ गायङ्गायं वनगिरिपते ! त्वं हि वृन्दावनान्त- र्गोपीसङ्घैर्विहरसि यदा सुन्दर ! व्यूढबाहो ! । रासारम्भोत्सवबहुविधप्रेमसीमन्तिनीना चेतश्चेतस्तव च तु तदा कां दशामन्वभूताम् ॥ इङ्गितं निमिषितं च तावकं रम्यमद्भुतमतिप्रियङ्करम् । तेन कंसमुखकीटशासनं सुन्दराल्पकमपि प्रशस्यते ॥ ११५॥ वाराणसीदहनपौण्ड्रकभौमभङ्ग- कल्पद्रुमाहरणशङ्करजृम्भणाद्याः । अन्याश्च भारतबलक्रथनादयस्ते क्रीडास्सुसुन्दरभुज ! श्रवणामृतानि ॥ ११६॥ त्वं हि सुन्दर ! वनाद्रिनाथ ! हे वेङ्कटाह्वयनगेन्द्रमूर्धनि । देवसेवितपदाम्बुजद्वयः संश्रितेभ्य इह तिष्ठसे सदा ॥ ११७॥ हस्तिशैलनिलयो भवन् भवान् साम्प्रतं वरदराजसाह्वयः । इष्टमर्थमनुकम्पया ददद्विश्वमेव दयते हि सुन्दर ! ॥ ११८॥ मध्येक्षीरपयोधि शेषशयने शेषे सदा सुन्दर ! त्वं तद्वैभवमात्मनो भुवि भवद्भक्तेषु वात्सल्यतः । विश्राण्याखिलनेत्रपात्रमिह सन् सह्योद्भवायास्तटे श्रीरङ्गे निजधाम्नि शेषशयने शेषे वनाद्रीश्वर! ॥ ११९ । कल्कीभविष्यन् कलिकल्कदूषितान्- दुष्टानशेषान् भगवन् ! हनिष्यसि । स एष तस्यावसरस्सुसुन्दर ! प्रशाधि लक्ष्मीश ! समक्षमेव नः ॥ १२०॥ ईदृशास्त्वदवतारसत्तमास्सर्व एव भवदाश्रितान् जनान् । त्रातुमेव न कदाचिदन्यथा तेन सुन्दर ! भवन्तमाश्रये ॥ १२१॥ त्वामामनन्ति कवयः करुणामृताब्धि त्वामेव संश्रितजनिघ्नमुपघ्नमेषाम् । येषां व्रजन्निह हि लोचनगोचरत्वं है सुन्दराह्व ! परिचस्करिषे वनाद्रिम् ॥ १२२॥ अशक्यं नो किञ्चित्तव न च न जानासि निखिलं दयालुः क्षन्ता चास्यहमपि न चागांसि तरितुम् । क्षमोऽतस्त्वच्छेषो ह्यगतिरिति च क्षुद्र इति च क्षमस्वैतावन्नोऽबलमिह हरे ! सुन्दरभुज ! ॥ १२३॥ लङ्कायुद्धहतान् हरीन् द्विजसुतं शम्बूकदोषान्मृतं सान्दीपन्यभिजं मृतं द्विजसुतान् बालांश्च वैकुण्ठगान् । गर्भं चार्जुनिसम्भवं व्युदधरस्स्वैनैव रूपेण यः स्वाभीष्टं मम मद्गुरोश्च ददसे नो किं वनाद्रीश्वर! ॥ १२४॥ आयोध्यकान् सपशुकीटतृणांश्च जन्तून् किङ्कर्मणो नु बत ! कीदृशवेदनाढ्यान् । सायुज्यलभ्यविभवान्निजनित्यलोकान् सान्तानिकानगमयो वनशैलनाथ! ॥ १२५॥ हरितवारणभृत्यसमाह्वयं करिगिरौ वरदस्त्वमपूर्विकाम् । दृशमलम्भय एव हि सुन्दर ! स्फुटमदाश्च वरान् शतमीदृशान् ॥ १२६॥ इह च देव ! ददासि वरान् परान् वरद ! सुन्दर ! सुन्दरदोर्धर ! । वनगिरेरभितस्तटमावसन्नखिललोचनगोचरवैभवः ॥ १२७॥ इदमिमे श‍ृणुमो मलयध्वजं नृपमिह स्वयमेव हि सुन्दर ॥ चरणसात्कृतवानिति तद्वयं वनगिरीश्वर ! जातमनोरथाः ॥ १२८॥ विज्ञापनां वनगिरीश्वर! सत्यरूपामङ्गीकुरुष्व करुणार्णव ! मामकीनाम् । श्रीरङ्गधामनि यथापुरमेकतोऽहं रामानुजार्यवशगः परिवर्तिषीय ॥ १२९॥ किञ्चेदञ्च विरिञ्चभावन ! वनाद्रीश ! प्रभो ! सुन्दर ! प्रत्याख्यानपराङ्मुखो वरदतां पश्यन्नवश्यं श‍ृणु । श्रीरङ्गश्रियमन्वहं प्रगुणयंस्त्वद्भक्तभोग्यां कुरु प्रत्यक्षं सुनिरस्तमेव विदध- त्प्रत्यर्थिनां प्रार्थनम् ॥ १३०॥ कारुण्यामृतवारिधे ! वृषपते ! हे सत्यसङ्कल्पन ! श्रीमन् ! सुन्दर ! योग्यताविरहिता- नुत्सार्य सद्वत्सल ! । क्षाम्यन् साधुजनैः कृतांस्तु निखिलानेवापचारान् क्षणात् तद्भोग्यामनिशं कुरुष्व भगवन् ! श्रीरङ्गधामश्रियम् ॥ १३१॥ इदं भूयोभूयः पुनरपि च भूयः पुनरपि स्फुटं विज्ञीप्सामीत्यगतिरबुधोऽनन्यशरणः । कृतागा दुष्टात्मा कलुषमतिरस्मीत्यनवधेः दयायाम्ते पात्रं वनगिरिपते ! सुन्दरभुज ! ॥ १३२॥ इति पञ्चस्तव्यां तृतीयः सुन्दरबाहुस्तवः सम्माप्तः । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Sundarabahustavah
% File name             : sundarabAhustavaH.itx
% itxtitle              : sundarabAhustavaH (panchastavyAm 3)
% engtitle              : sundarabAhustavaH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Ramanuja Stotramala
% Indexextra            : (Scan)
% Latest update         : November 23, 2019, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org