$1
श्रीतात्पर्यबोधः
$1

श्रीतात्पर्यबोधः

(श्रीतात्पर्यबोधग्रन्धांशः) श्रीमच्छ्रीवरगोकुलायतिविलोलाक्षीकदम्बाम्बुज- श्रेणीसन्मकरन्दपानकुशल श्रीषट्पदालीश्वरः । स्वीयानां हि सतामनन्यमनसां सम्पूरयन् कामनाः । सोऽयं श्रीवरगोकुले विजयते श्रीगोकुलेशः सदा ॥ १॥ नत्वा वै चरणाम्बुजं सुसुखदं ध्येयं सतां सर्वदा पद्मागारधरेन्दिराभृङ्गभवानीनाद्यगम्यं वरम् । श्रीश्रीगोकुलनायकस्य विमलं तात्पर्यबोधं करो- तीमं वल्लभपादपद्मसुमनास्तस्याज्ञया माहवः ॥ २॥ एकस्मिन् समये स्थितौ शुभमती कौचिञ्जनौ गोकुले- शाङ्घ्र्यम्बूद्भवयुग्मसक्तमनसौ श्रीवल्लभातिप्रियौ । श्रेष्ठो वल्लभदास एव च तयोर्वै कृष्णदासोऽपरः पप्रच्छाथ विचार्य प्रश्नममल तं श्रेष्ठभक्तं सुधीः ॥ ३॥ कृष्णदास उवाच- श्रेष्ठस्त्वं भक्तवर्येषु हरेर्वल्लभदास हि । दयासिन्धो ज्ञानसिन्धो कृपां कुरु मयि प्रिय ॥ ४॥ श्रीवल्लभाङ्गचिह्नानि दृश्यमानानि सर्वतः । पृच्छाम्याशुद्धभावेन कथयस्व सुबुद्धिमन् ॥ ५॥ द्विजरूपधरः साक्षाद्वल्लभः पुरुषोत्तमः । जयत्यतिशयं भूमौ स्वीयानां मुदमावहन् ॥ ६॥ तुलसीकाष्ठसम्भूतां कण्ठे मालां धरत्यसौ । तिलकं सान्तरालं च रदानम्बुदसन्निभान् ॥ ७॥ उदरे चिह्नमानीलं वामभागे सुवर्तुलम् । बहूपवीतकं कण्ठे सव्यभागे तु सूत्रयम् ॥ ८॥ श्रोत्रप्रवरयोरङ्गीकारस्तत्र सुलक्ष्म हि । मकराकारमारक्तं तत्र किं कारणं प्रिय ॥ ९॥ वेदादिग्रहणं कस्मात् सन्ध्यायास्तु विशेषतः । चक्रादिग्रहणं कस्मात् कुण्डले चक्रसन्निभे ॥ १०॥ कृष्णः श्यामस्त्वयं गौरस्तत्र किं कारणं प्रिय । पुराणपुरुषः साक्षाद्वल्लभो द्विजरूपभाक् ॥ ११॥ विभुर्मानवरूपी न तत्र किं कारणं सखे । शयनं दिवसे भूमावाचाराचरणं महत् ॥ १२॥ अतदन्यच्च सर्वं मे पृच्छते कृपया सखे । कथनीयं त्वया स्वस्थबुद्धितः श्रोतुमिच्छते ॥ १३॥ त्वं श्रीवल्लभपादाब्जासक्तोऽसि हरिवल्लभः । त्वत्पादाब्जाश्रितं मां हि कथयस्व कृपानिधे ॥ १४॥ इति तस्योदितं श्रुत्वा वल्लभङ्घ्रिसरोरुहम् । ध्यात्वा चोवाच वचनं तं श्रीवल्लभसेवकः ॥ १५॥ इति श्रीमाधवदासविरचितः श्रीतात्पर्यार्थबोधः ग्रन्थः सम्पूर्णः । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : tAtparyabodhaH
% File name             : tAtparyabodhaH.itx
% itxtitle              : tAtparyabodhaH (mAdhavadAsavirachitaH)
% engtitle              : tAtparyabodhaH
% Category              : vishhnu, krishna, puShTimArgIya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : mAdhavadAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org