उत्तङ्गकृतं ३ विष्णुस्तोत्रम्
उत्तङ्क उवाच ।
नतोऽस्मि नारायणमादिदेवं जगन्निवासं जगदेकबन्धुम् ।
चक्राब्जशार्ङ्गासिधरं महान्तं स्मृतार्तिनिघ्नं शरणं प्रपद्ये ॥ ३॥
यन्नाभिजाब्जप्रभवो विधाता सृजत्यमुं लोकसमुच्चयं च ।
यत्क्रोधतो हन्ति जगच्च रुद्रस्तमादिदेवं प्रणतोऽस्मि विष्णुम् ॥ ४॥
पद्मापतिं पद्मदलायताक्षं विचित्रवीर्यं निखिलैकहेतुम् ।
वेदान्तवेद्यं पुरुषं पुराणं तेजोनिधिं विष्णुमहं प्रपन्नः ॥ ५॥
आत्माक्षरः सर्वगतोऽच्युताख्यो ज्ञानात्मको ज्ञानविदां शरण्यः ।
ज्ञानैकवेद्यो भगवाननादिः प्रसीदतां व्यष्टिसमष्टिरूपः ॥ ६॥
अनन्तवीर्यो गुणजातिहीनो गुणात्मको ज्ञानविदां वरिष्ठः ।
नित्यः प्रपन्नार्तिहरः परात्मा दयाम्बुधिर्मे वरदस्तु भूयात् ॥ ७॥
यः स्थूलसूक्ष्मादिविशेषभेदैर्जगद्यथावत्स्वकृतं प्रविष्टः ।
त्वमेव तत्सर्वमनन्तसारं त्वत्तः परं नास्ति यतः परात्मन् ॥ ८॥
अगोचरं यत्तव शुद्धरूपं मायाविहीनं गुणजातिहीनम् ।
निरञ्जनं निर्मलमप्रमेयं पश्यन्ति सन्तः परमार्थसंज्ञम् ॥ ९॥
एकेन हेम्नैव विभूषणानि यातानि भेदत्वमुपाधिभेदात् ।
तथैव सर्वेश्वर एक एव प्रदृश्यते भिन्न इवाखिलात्मा ॥ १०॥
यन्मायया मोहितचेतसस्तं पश्यन्ति नात्मानमपि प्रसिद्धम् ।
त एव मायारहितास्तदेव पश्यन्ति सर्वात्मकमात्मरूपम् ॥ ११॥
विभुं ज्योतिरनौपम्यं विष्णुसंज्ञं नमाम्यहम् ।
समस्तमेतदुद्भूतं यतो यत्र प्रतिष्ठितम् ॥ १२॥
यतश्चैतन्यमायातं यद्रूपं तस्य वै नमः ।
अप्रमेयमनाधारमाधाराधेयरूपकम् ॥ १३॥
परमानन्दचिन्मात्रं वासुदेवं नतोऽस्म्यहम् ।
हृद्गुहानिलयं देवं योगिभिः परिसेवितम् ॥ १४॥
योगानामादिभूतं तं नमामि प्रणवस्थितम् ।
नादात्मकं नादबीजं प्रणवात्मकमव्ययम् ॥ १५॥
सद्भावं सच्चिदानन्दं तं वन्दे तिग्मचक्रिणम् ।
अजरं साक्षिणं त्वस्य ह्यवाङ्मनसगोचरम् ॥ १६॥
निरञ्जनमनन्ताख्यं विष्णुरूपं नतोऽस्म्यहम् ।
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ॥ १७॥
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञमेव च ।
विद्याविद्यात्मकं प्राहुः परात्परतरं तथा ॥ १८॥
अनादिनिधनं शान्तं सर्वधातारमच्युतम् ।
ये प्रपन्ना महात्मानस्तेषां मक्तिर्हि शाश्वती ॥ १९॥
वरं वरेण्यं वरदं पुराणं सनातनं सर्वगतं समस्तम् ।
नतोऽस्मि भूयोऽपि नतोऽस्मि भूयो नतोऽस्मि भूयोऽपि नतोऽस्मि भूयः ॥ २०॥
यत्पादतोयं भवरोगवैद्यो यत्पादपांसुर्विमलत्वसिद्ध्यै ।
यन्नाम दुष्कर्मनिवारणाय तमप्रमेयं पुरुषं भजामि ॥ २१॥
सद्रूपं तमसद्रूपं सदसद्रूपमव्ययम् ।
तत्तद्विलक्षणं श्रेष्ठं श्रेष्ठाच्छ्रेष्ठतरं भजे ॥ २२॥
निरञ्जनं निराकारं पूर्णमाकाशमध्यगम् ।
परं च विद्याविद्याभ्यां हृदम्बुजनिवासिनम् ॥ २३॥
स्वप्रकाशमनिर्देश्यं महतां च महत्तरम् ।
अणोरणीयांसमजं सर्वोपाधिविवर्जितम् ॥ २४॥
यन्नित्यं परमानन्दं परं ब्रह्म सनातनम् ।
विष्णुसंज्ञं जगद्धाम तमस्मि शरणं गतः ॥ २५॥
यं भजन्ति क्रियानिष्ठा यं पश्यन्ति च योगिनः ।
पूज्यात्पूज्यतरं शान्तं गतोऽस्मि शरणं प्रभुम् ॥ २६॥
यं न पश्यन्ति विद्वांसो य एतद्व्याप्य तिष्ठति ।
सर्वस्मादधिकं नित्यं नतोऽस्मि विभुमव्ययम् ॥ २७॥
अन्तःकरणसंयोगाज्जीव इत्युच्यते च यः ।
अविद्याकार्यरहितः परमात्मेति गीयते ॥ २८॥
सर्वात्मकं सर्वहेतुं सर्वकर्मफलप्रदम् ।
वरं वरेण्यमजनं प्रणतोऽस्मि परात्परम् ॥ २९॥
सर्वज्ञं सर्वगं शान्तं सर्वान्तर्यामिणं हरिम् ।
ज्ञानात्मकं ज्ञाननिधिं ज्ञानसंस्थं विभुं भजे ॥ ३०॥
नमाम्यहं वेदनिधिं मुरारिं वेदान्तविज्ञानसुनिश्चितार्थम् ।
सूर्येन्दुवत् प्रोज्ज्वलनेत्रमिन्द्रं खगस्वरूपं वपतिस्वरूपम् ॥ ३१॥
सर्वेश्वरं सर्वगतं महान्तं वेदात्मकं वेदविदां वरिष्ठम् ।
तं वाङ्मनोऽचिन्त्यमनन्तशक्तिं ज्ञानैकवेद्यं पुरुषं भजामि ॥ ३२॥
इन्द्राग्निकालासुरपाशिवायुसोमेशमार्त्तण्डपुरन्दराद्यैः ।
यः पाति लोकान् परिपूर्णभावस्तमप्रमेयं शरणं प्रपद्ये ॥ ३३॥
सहस्रशीर्षं च सहस्रपादं सहस्राबाहुं च सहस्रनेत्रम् ।
समस्तयज्ञैः परिजुष्टमाद्यं नतोऽस्मि तुष्टिप्रदमुग्रवीर्यम् ॥ ३४॥
कालात्मकं कालविभागहेतुं गुणत्रयातीतमहं गुणज्ञम् ।
गुणप्रियं कामदमस्तसङ्गमतीन्द्रियं विश्वभुजं वितृष्णम् ॥ ३५॥
निरीहमग्र्यं मनसाप्यगम्यं मनोमयं चान्नमयं निरूढम् ।
विज्ञानभेदप्रतिपन्नकल्पं न वाङ्मयं प्राणमयं भजामि ॥ ३६॥
न यस्य रूपं न बलप्रभावे न यस्य कर्माणि न यत्प्रमाणम् ।
जानन्ति देवाः कमलोद्भवाद्याः स्तोष्याम्यहं तं कथमात्मरूपम् ॥ ३७॥
संसारसिन्धौ पतितं कदर्यं मोहाकुलं कामशतेन बद्धम् ।
अकीर्तिभाजं पिशुनं कृतघ्नं
सदाशुचिं पापरतं प्रमन्युम् ।
दयाम्बुधे पाहि भयाकुलं मां
पुनः पुनस्त्वां शरणं प्रपद्ये ॥ ३८॥
इति नारदपुराणे पूर्वभागे अष्टत्रिंशाध्यायान्तर्गतं
उत्तङ्गकृतं विष्णुस्तोत्रं समाप्तम् ।
बृहन्नारदीयपुराण । पूर्वभाग । अध्याय ३८/३-३८॥
bRRihannAradIyapurANa . pUrvabhAga . adhyAya 38/3-38..
Proofread by PSA Easwaran