श्रीवानाद्रिनाथस्तोत्रम्

श्रीवानाद्रिनाथस्तोत्रम्

वन्देऽहं वनशैलनाथमहिषीं वात्सल्यपूर्णा श्रियं भक्ताभीष्टफलप्रदां भगवती कारुण्यरूपां हरेः । भूषाभूषितविग्रहां मम पुनःसौख्यप्रदां सुन्दरी मन्दस्मेरशुभारविन्दवदनां लक्ष्मी जगन्मातरम् ॥ १॥ मातः श्रीवनशैलनाथदयिते पद्मालये सुन्दर श्रीभूषे तव पादपद्मयुगलं मूर्धा नतोऽस्म्यादरात् । देवि त्वां शरणं गते मयि कृपा शीघ्रं त्वया केवलं कर्तव्येति सरोजकान्तवदने त्वत्सन्निधौ प्रार्थये ॥ २॥ वन्दे मुन्दर तमिन्दिराभूमिनायकम् । प्रणतार्तिहरं सम्यक् परमस्वामिन विभुम् ॥ ३॥ कल्याणं वृषभाद्रीन्दुः पुण्डरीकदलेक्षणः । सर्वेषां मोहकः श्रीमान् सुन्दरो दिशतान्मम ॥ ४॥ विष्ण्वनिमणिमजीप्रभवा या सरिद्वरा । वक्ष्यामि वैभवं तस्या गङ्गायाश्च यथामति ॥ ५॥ प्रह्लादो भगवत्कटाक्षजनितज्ञानप्रभावप्रमः सारासारविवेकहारतरलो वैराग्यनिष्ठामणिः । श्रीमान् भूतदयालुरात्मगुणकः श्रीवैष्णवश्रीनिधिः श्रीनारायणदिव्यपादकमलध्यानोज्ज्वलः सर्वदा ॥ ६॥ तत्पुत्रस्तु विरोचनः प्रभुवरो भूमण्डले विश्रुतः पुत्रस्तस्य बलिस्तु सत्यवचनः श्रीमानभूभूपतिः । कृत्वा सोऽपि तपश्चिराय विबुधैरन्यैर्जनरायुधै स्तिम्भिश्च मृगैरवाप फणिभिः सर्वैरवध्यं वरम् ॥ ७॥ तस्मात् सोऽपि बलिः समस्तभुवनं जित्वा महावीर्यवां बैलोक्यं बुभुजे स्वयं कुलिशभृन्मुख्याः समस्ताः सुराः । नानादिक्षु पलायिताश्च गलितस्वस्वाधिकारास्ततो भीताः शैलगुहां प्रविश्य न्यवसंस्तुल्या दिवाभीतकैः (१) ॥ ८॥ मेरौ तत्र युगान् बहून् सुरगणाः स्थित्वाथ रक्षार्थिनो- ब्रह्माणं प्रणिपत्य चाहुरपरैर्दूरीकृतास्ते वयम् । ब्रह्मन् पालयिता समस्तजगतां कर्ता त्वमेव प्रभो युष्मद्दत्तवरो बलिस्तु बुभुजे त्रैलोक्यलक्ष्मी स्वयम् ॥ ९॥ तस्मात्तेन महाबलेन चकिताः सर्वे वयं नाश्रया ब्रह्मन् किञ्चिदविद्महे तव षदात् स्थानानि नः सन्ददाः । विज्ञप्तः स पितामहस्तु विबुधैः प्रोवाच तानिर्जरान् । मा भीर्वो मघवत्प्रमुख्यविबुधाः क्षेमं तं प्राप्स्यथ ॥ १०॥ इत्युक्त्वा स पितामहश्च विबुधानाश्वास्य दध्यौ हरि- सर्वाभीष्टफलप्रदं प्रणमता नारायणं वत्सलम् । भूमाभ्यां सहितं समस्तजगतां सर्गोपसर्गस्थितीः कुर्वन्तं भगवन्तमद्भुतगुणं वेदान्तवेद्यप्रभम् ॥ ११॥ श्रीमानिष्टवरप्रदः प्रणमतां नारायण श्रीपति- स्तस्य प्रादुरभूत् सरोजभवनो भक्तिप्रकर्षावधिः । तं देवं विमलं महागुणगण नत्वा ततक्लेशहम् । लोकानां पतिरब्रवीन्मतिमतां ब्रह्मा महात्मा वरः ॥ १२॥ इन्द्राद्याः सकला हरे सुरगणाः स्थानादिरिक्ता इव वर्तन्ते किल साम्प्रतं प्रणमतां तेषामभीष्टं द्रुतम् । लक्ष्मीनायक दातुमर्हसि विभो कारुण्यवारान्निधे श्रुत्वा तस्य पितामहस्य वचनं ब्रह्माणमूचे हरिः ॥ १३॥ ज्ञातं मे मनसि स्थितः पुनरिदं ब्रह्मन् पुरा तद्वध विन्द्रस्यावरजो भवामि जठरे श्रीकाश्यपस्यादितेः । भूत्वा च वटुर्मनोहरगुणस्तस्य श्रियं याच्जया हृत्वेन्द्राय तदुत्तमं पुनरिदं दास्यामि दिव्यं पदम् ॥ १४॥ इत्याश्वास्य विधिं प्रभुस्त्रिजगतामाविबभूवाविशं श्चित्तं तस्य तु काश्यपस्य तरसा गर्भ गतश्चादितेः । विख्यातोऽयमुपेन्द्र इत्यथ पुनः श्रीवामनाकारको विष्णुः सोऽपि तपश्चकार भगवान् ध्यायन् स्वकार्य हृदा ॥ १५॥ किञ्चित्कालमसौ वसन् भुवि विभुः सिद्धाश्रमे केशवो गत्वा त्रीणि पदान्ययाचत हरिः श्रीयज्ञशाला बलेः । धर्मज्ञस्तु स दत्तमित्यकथयद्धारा च देया प्रभो वाचा नालमुवाच किं तपसि मे विष्णुः सदा तिष्ठतः ॥ १६॥ वाचा तं भगवान् बलिं बलवतां व्यामोहयि ह्य दत्वा वरं सम्फुल्लाम्बुजपाणिना स तु पुनर्जग्राह दानोदकम् । तत्रासौ ववृधे महान् द्विपदतबैलोक्यमाक्रम्य वै कृत्वाह स्ववशे पुनर्बलिमपि त्वेकं पदं देहि मे ॥ १७॥ इत्युक्तस्तमुवाच सत्यवचनो नीलाविशिष्टो बलि श्चाधत्स्वैकपदं शिरस्यपि मम प्रोक्तः प्रहस्य प्रभुः । पाताले बलिनं तु दिव्यकृपया नारायणः प्राक्षिपत प्रीतस्तस्य पदं तदा तु समये संक्षालितं ब्रह्मणा ॥ १८॥ भाति व्योम्दि जयोद्धृता स्म सलिलं तर्ज पताकेव तु सद्गगा यवहत् सुरैर्दिवि पुनः सिद्धादिभिः सेविता । गङ्गाद्यापि विराजते बलिरिवऽयोमस्थले सा पुनः स्रोतोभिस्तिसृभिः किल प्रवहती भूम्यन्तरिक्षादिषु ॥ १९॥ त्रिविक्रमपदाश्लिष्टमणिनूपुरपूरितम् । जलं तलूननादत्र गिरिमूनि समापतात् ॥ २०॥ निर्झरीभूय शैलेऽस्मिन्निर्जरैरपि सेविता । रमणीयजला सा हि माधुर्यगुणशालिनी ॥ २१॥ यन्मूर्ति स्रवती कचिन्मरतकस्निग्धेन्द्रनीलोपमा वैदूर्योपलसन्निभा कचन वै मुक्ताफलामा कचित् । मुक्तानां प्रभवा नदी सुविमला वज्रोपलाभा कचित् लोकेऽस्मिन विरजेव तं वनगिरि शेषावतारं भजे ॥ २२॥ गन्धर्वैरपि सिद्धचारणसुरैविद्याधरैः सेविता दिव्योद्यानलतातरून वनगिरौ संवर्धयन्ती सदा । स्निग्धेऽमित्रिदशापगेव जननी दिव्यैः पयोभिः स्वकै यस्मिन्नूपुरसम्भवा किल सती श्रीमद्वनादि भजे ॥ २३॥ कान्तेवाब्धिसुता वनाद्रिवसतः श्रीसुन्दरस्य प्रभो भव्या भतेपदाश्रयेव चरणौ क्रान्तत्रिलोको हरेः । संवाहिस्वकराम्बुजा मणिसरैर्मुक्तासरैर्भूषिता गङ्गा नूपुरसम्भवा वनगिरौ सन्दृश्यते योगिभिः ॥ २४॥ सायुज्यं तु मरीचिमुख्यमुनयो धर्मोऽपि सालोक्यतां सामीप्य चतुराननस्तु सुतपाः सारूप्यमाप्लुत्य वै । यस्यां निर्मलकायका वनगीरौ विष्णोः प्रयन्तिक्रमात गङ्गा नूपुरसम्भवा सुविमला सा नः पुनातु क्षणात् ॥ २५॥ भारद्वाजकुलोद्भवस्तु सुतपाः कश्चिद्वृषाख्ये गिरौ सिद्धाभीष्टकसिद्धिकारिणि तपस्तेपे कदाचिन्मुनिः । मोक्षार्थी त्वघमर्षणोत्सुकमना मञ्जीरगङ्गोदके श्रीसूक्तानि जपन् शुचिश्चिरतरं गाढं वगाह्य स्थितः ॥ २६॥ दुर्वासाप्रमुखास्तदा च समये त्वायान्ति योगीश्वराः दृष्टा दीर्घमसौ निमज्जति मुनिस्त्वस्माननाहत्य वै । मोक्षार्थी भवतीति ते तु मुनयो मत्वाशपन् कोपतः मण्डूको भव दुर्मते तटगातान्नावेक्ष्य मग्नो जले ॥ २७॥ नावज्ञा न तु कृता मयेति सुतपास्तीर्थावगाहाचिरं ज्ञात्वा तीर्थकरान् महात्मन इमान् पूज्यास्तटे तिष्ठतः । इत्यूचे कृपया क्षमध्वमिति तान् योगी प्रणम्याब्रवीत् सूक्तानामवसानमीक्ष्य मुनयः किञ्चिद्विलम्ब्य स्थितः ॥ २८॥ इत्युक्त्वाथ स थातनं तु मलिनं ते चाब्रुवन् भेकतां तत्र त्वं तु जिहास्यसीति कृपया श्रीसुन्दरस्य प्रभोः । इत्युक्त्वा मुनयरतु नूपुरसरित्तीर्थे सदा निर्यले स्नात्वा द्वादश वत्सरान वनगिरौ तत्रावसनिर्मलाः ॥ २१॥ भक्त्यानर्चुरिमे वृषाचलपतिं श्रीशैशवं सुन्दरं लोकेशं विधिवद्विषट्कशरदः स्थित्वा जगन्मोहनम् । दुर्वासाप्रमुखाः प्रणम्य मुनयस्तस्य प्रसादेन ते तस्मात् सत्वरमाययुः सुमनसःक्षेत्रं वराहाख्यकम् ॥ ३०॥ तत्काले सुतपास्ततो मुनिवरान् मण्डूकवेषोज्ज्वलः सान्त्वेनाह पुनः प्रणम्य तु कदा मण्डूकतापास्यति । एवं तं तु वदन्तमार्तमनघाः सर्वे मुनीन्द्रास्ततो ह्यस्माभिः सह यास्यसीति सुतपस्तूचुः शुचं मा कृथाः ॥ ३१॥ तत्र द्वादशवत्सरानपि निवत्स्यामो वयं तत्र वै- ह्यस्माभिश्च भविष्यसि प्रवसतो नाना तव क्ष्माधरः । तीथे चापि भविष्यति स्वयमपि त्वायातु मञ्जीरजा गङ्गा सुन्दरदोः करोति भगवान् सान्निध्यमेव स्वयम् ॥ ३२॥ तत्र त्वं भव सुन्दराह्वयहरिं त्वाराध्य मुक्तो भवे रित्येवं वदतां मुनिस्तु सुतपाः श्रुत्वा तु तेषां वचः । साधं तैः सहसागमत् स तु महत्तत्रैव चक्रे तप सान्निध्यं स च सुन्दरः समकरोत्तस्यैव योगीशितुः ॥ ३३॥ तत्रैवाविरभूत्तदा च तटिनी मञ्जीरजाता ततः स्नात्वा स प्रयतस्ततस्तु सुतपा निर्मुक्तमण्डकतः । तत्रासौ परमासने तु विधिवत्तस्मिन्निविष्टो मुनिः सारूप्यं स च सुन्दरस्य तमगादाराध्य सम्यक्ततः ॥ ३४॥ अन्ये वापि तु ये वृषाचलतटेष्वाकीटमाखण्डलं तद्देशेषु वसन्ति तेऽपि सकला मुक्ता हि नो संशयः । श्रीमत्सुन्दरपादपङ्कजलसन्मञ्जीरजास्नानतः सर्वे सुन्दरदोपदाब्जयुगयोः कैङ्कर्यसाम्राज्यगाः ॥ ३५॥ शुक्लायामदुले फलेसुफलदे श्रीमत्तलामासि वा द्वादश्यां कनकाचले बनगिरौ मञ्जीरगङ्गोदके । यः स्नाति प्रयतो नरस्तु सकलैः पापैस्तदा मुच्यते दीर्धायुश्च धनं च तस्य भवति क्षेमं स याति ध्रुवम् ॥ ३६॥ श्रीमत्सोमकुलेऽतुले तु भवतां राज्ञां वरः श्रीमता । मिन्द्रद्युन्नसुतः पुरूरवविभोः पौत्रो महावैभवः । गम्भीरो मलयाचलध्वजवरचूडामणिज्ञानिनां राजा राजशिरोमणिः क्षमवतामस्ति प्रशस्तो विभुः ॥ ३७॥ मेरोदक्षिणपार्श्वगान् स तु पुनर्जित्वा समस्तान्नृपान श्रीमान् स्वस्थ तु नामाचिह्नमतुलं मेरो लिखित्वा पुनः । अगम्याथ पुरोधसा सह शरत्साहस्रक नीतिमान् भूपालो न्यवसत्त्वगस्त्यमुनिना तेनैव सन्मन्त्रिणा ॥ ३८॥ कदाचित्तमुवाचेदमगस्त्यमुनिसत्तमम् । विमान कामगं मेऽद्य दातव्यं मुनिपुङ्गव ॥ ३९॥ तद्विमानं समारुह्य गङ्गासागरसङ्गमे । स्नात्वा गयायामभ्यर्य माधवं च गदाधरम् ॥ ४०॥ दिने दिने महाभागैर्मुनिभिर्वेदपारगैः । ब्राह्मणैर्भगवद्भक्तैः पूजयित्वा तु माधवम् ॥ ४१॥ पुनः पुनः समागम्य मधुरायां महामतिः । न्यवसद्भूमिपालोऽसौ मलयाचलकेतुमान् ॥ ४२॥ भूपालो मलयध्वजो गुणनिधिः श्रीमान् कदाचित् पुनः । विष्णोरर्चनतो ययौ स तु गयामाखण्डलःश्रीमताम् । दिव्ये श्रीवृषभाचले समपतच्छाया विमानस्य वै तत्काले किल तां तदैव जगृहुर्विष्णोर्महापार्षदाः ॥ ४३॥ तत्काले वृषभाद्रिगः करुणया तेनातिखिन्नं नृपं त्वव्यक्तोज्ज्वलमूर्तिमान समधुरं वाक्यं महानब्रवीत् । भो भो राजशिरोमणे गुणनिधे मा भूद्भवान् व्याकुलो मेघानां स्तनितोज्ज्वलत्स्वनयुतः श्रीमन्महासुन्दरः ॥ ४४॥ मत्पादमणिमझीरप्रभवा सरितां वरा । पर्वतेऽस्मिन् प्रवहति गङ्गातोयाधिका शुभा ॥ ४५॥ मत्तलाकोटिसम्भूता ह्यतुला शुभवारिणी । तश्यां स्नानं कुरु प्रिं कोटिजन्मकृतं त्वयम् ॥ ४६॥ हरत्यशेष नृपते मत्पादपभवा नदी । शुद्धभक्तोपभोग्या सा ममात्यर्थ प्रियङ्करी ॥ ४७॥ त्रैविकमे मम गदै प्रगृह्य विपुलं नृप । संक्षालितं पद्मभुवा धर्मेण द्रवरूपिणा ॥ ४८॥ तदा गङ्गाभवदुयोम्नि त्रिपथेति च विश्रुता । त्रयाणां जगतां पापं विनाशयति नित्यशः ॥ ४९॥ तां गङ्गां शिरसा शूली दधार स्वात्मशुद्धये । मत्पदस्थतुलाकोटिप्रभवेयं नदी शुभा ॥ ५०॥ मुक्तिं ददाति सर्वेषां पशूनां पक्षिणामपि । भवानत्रैव संस्नातो मदाराधनमाचर ॥ ५१॥ मत्पदद्वन्द्वमाराध्य मद्भक्तैश्च पुरस्कृतः । मदाराधनकमोणि कुरुष्व प्रयतात्मवान् ॥ ५२॥ धर्मेण निर्मितं पूर्व विमानं सोमसन्निभम् । तस्मिन्निह तु वत्स्यामि ब्रह्मणो यावदायुषम् ॥ ५३॥ अर्चयिष्यन्ति राजानः काले काले महामते । भूत्वा मद्भक्तभक्तस्त्वं विभवः स्वार्जितैरिह ॥ ५४॥ स्थित्वैव सद्गतिं भूप गमिष्यसि न संशयः । इति तस्य वचः श्रुत्वा न्यवसत् स महीपतिः । विभवैस्तं समाराध्य वृषाद्रितटवासिनम् ॥ ५५॥ माणिक्यैः स्फटिकैः शुभैर्मरतकैः प्रत्युप्तदिव्योल्लस सोमच्छन्दविमानमध्यविलसदिव्योज्ज्वलद्वेदिगम् । सर्वाभीष्टदकल्पकं प्रणमतामुद्योगचक्रोज्ज्वल श्रीमदक्षिणपाणिपङ्कजशुभं दोर्दण्डषण्डोज्ज्वलम् ॥ ५६॥ ईषत्फुल्लजपाप्रसूनविकसत्संविद्रुमश्रीलस दिम्बाभाधरपल्लवं कमलया प्रारूढवक्षःस्थलम् । चन्द्राम्भोजसुधारसैविलसितैः प्रस्पर्धि दिव्याननं श्रीमत्कौस्तुभरत्नभूषणमहाहारोल्लसत्कन्धरम् ॥ ५७॥ आकर्णायतपद्मपत्राफरद्वन्द्वोल्लसलोचनं- अध्ये लोचनवारिधेः प्रविलत्सेतूज्ज्वलन्नासिकम् । बालाकोज्ज्वलदिन्यरत्नमकुन्दं पद्मोपरिरफीतक श्रीमद्दिव्यमधुव्रतायितलसत्कालस्थपुण्ड्रोज्ज्वलम् ॥ ५८॥ कौशेयोज्ज्वलविग्रह सुललितं चापादचूडं सदा श्रीमन्तं वनशैलदिव्यतिलकं भैलोक्यसम्मोहनम् । एवं सुन्दरबाहुमम्बुजपदं दृष्टानुभूय प्रभु संस्तुत्य प्रणतः सदा पुलकितः सन्तोषपूर्णाशयः ॥ ५९॥ श्रीमत्सुन्दरदो पदाम्बुजतुलाकोटिप्रभूतोदक स्नानोद्भूतमहावबोधविभवः कैङ्कर्यसाम्राज्यगः । कुर्वस्तस्य च सुन्दरस्य विविधान् ब्रह्मोत्सवाद्यान् महान् भूपालो भलयध्वजो विजयते वैराग्यनिष्ठाग्रणीः ॥ ६०॥ राजा सोऽपि ततस्तदा भगवतः कर्तुं वसन्तोत्सवं श्रीमत्सुन्दरदोष्णि दिव्यविभव विज्ञापयामास सः । तस्य श्रीभगवान् महाद्भुततमं सन्तुष्य चैत्रोत्सवः कर्तव्यो भवतेत्यसौ नियमनं चक्रे महासुन्दरः ॥ ६१॥ चैत्रे मासि ततः परं नरपतिः श्रीपौर्णमास्यां दिने तत्कालानुगुणैर्विलक्षणरसैः कर्पूरगन्धादिभिः । श्रीवैखानसशास्त्रतो द्विजवरैर्विद्वद्वरैरर्चकैः श्रीमन्तं समपूजयदृषगिरे थं महासुन्दरम् ॥ ६२॥ ततो विहारयात्रार्थमुत्सवान्ते हरि नृपः । पीताम्बरमुदारानं सर्वभूषणभूषितम् ॥ ६३॥ दिव्यं विमानमारोप्य कामगं रत्नभूषितम् । निर्जगाम बहिर्विष्णोः सन्तोषार्थ स भूपतिः ॥ ६४॥ भेरीशङ्खमृदङ्गवाद्यमधुरश्रीवेणुवीणास्वनै र्लोकानां स्वनितैः स्तवैश्च यमिनां घोषैर्मुनीनां शुभैः । श्रीमान् सुन्दरबाहुरिन्दुवदनः शब्दायमानो दिशा छत्राद्यैश्च परिच्छदैर्गजमुखैः संवारितो निर्गतः ॥ ६५॥ तस्मिन् श्रीमति निर्गते सुरमुखाः शक्रादयः सुन्दरे सेवार्थ स्वविमानकैश्च पुरतस्त्वभ्यागताः प्रेमतः । हर्षादप्सरसः स्त्रियश्च ननृतुः श्रीनारदाद्यास्तथा गन्धर्वास्तु जगुश्च कर्णमधुरं घुष्यन्ति वेदान् द्विजाः ॥ ६६॥ एवं वृषाद्रेर्नैऋत्यां गत्वा योजनमुत्तरे । नागाद्रेः कृतमालायास्तीरे मधुपुराहये ॥ ६७॥ विरज्य मण्टपं राजा दिव्यलक्षणसंयुतम् । सर्वालङ्कारसंयुक्तं तत्र सिंहासने शुभे ॥ ६८॥ लावण्यनामकं विष्णु संस्थाप्य स महीपतिः । आनर्च विविधौं गैरर्थपाधादिभिहरिम् ॥ ६९॥ दिव्यगन्धयुतैरतीर्थ मन्त्रपुतैर्मनोहरैः । अभिषिच्याप्यलकृत्य महाश्चन्दनादिभिः ॥ ७०॥ उपचारैः समम्यर्च्य दर्शयित्वा च दीपिकाः । असल्येया घृतैः सिक्ताः सन्तोषाय हरेर्नृपः ॥ ७१॥ महार्हाणि विचित्राणि हवींषि बहुलानि च । अपूपादींश्च रुचिरान् महार्हाणि फलानि च ॥ ७२॥ ताम्बूलिकाः सकर्पूरा मधुपर्कादिकास्तथा । निवेद्य विष्णुभक्तेभ्यो ददौ तानि यथेष्टतः ॥ ७३॥ एवं सुन्दरराजस्य वर्तमाने महोत्सवे । तत्रत्यास्ते नदीतीरे तपस्यन्तो मुनीश्वराः ॥ ७४॥ रोमशाद्यास्तथान्ये च हरिं द्रष्टुं समागताः । निषेव्य तु महं दिव्यं भगवद्वीक्षणाप्लुताः ॥ ७५॥ कृतार्थाः सर्व एवैते प्रार्थयन् मधुसूदनम् । अहो महोत्सवो देव नेत्रानन्दः शरीरिणाम् ॥ ७६॥ अहो भाग्यमहो भाग्यं राज्ञस्तु मधुसूदन । लक्ष्मीपते वयं धन्याः श्रीमन् पङ्कजलोचन ॥ ७७॥ एवमेवात्र भवतादुत्सवः प्रतिवत्सरम् । उज्जीवनाय जगतां कृपया भवतो हरे ॥ ७८॥ मञ्जीरतटिनीतीर्थे नित्यं स्नातुं न शक्नुमः । अतः साप्यत्र नागाहगिरावाविर्भवत्विति ॥ ७९॥ इत्थं विज्ञापितो विष्णुर्विप्रेन्द्रैः करुणानिधिः । भक्तेष्टदो वरं प्रादात् परमं कमलापतिः ॥ ८॥ तदैव नागाद्रितटे मञ्जीरतटिनी हरेः । आज्ञया प्रवहत्येषा जगतां पावनाय च ॥ ८१॥ नामाद्रावुदयात्सैव नागतीर्थमितीर्यते । तस्यां स्नात्वा तु ऋषयः परमां सिद्धिमागताः ॥ ८२॥ राजासौ मलयध्वजो वृषाङ्गरेर्नाथस्य लक्ष्मीपतेः श्रीनागाह्वगिरी महाद्भुतरसैरित्थं वसन्तोत्सवम् । चैत्रे मासि महोत्सवं भगवतः श्रीपौर्णमास्यां दिने कृत्वा तं सकुतूहलं वनगिरिं संप्रापयत् सुन्दरम् ॥ ८३॥ पद्मचन्द्रामृतरसप्रस्पर्धिमुखमण्डलम् । वृषाद्रितटगं वन्दे सदा सर्वाङ्गनुन्दरम् ॥ ८४॥ राज्ञा श्रीमलयध्वजेन महता देवैरगस्त्यादिभिः श्रीमच्चैत्रमहोत्सवो मुनिवरः प्रत्यब्दमत्यद्भुतम् । श्रीनागाइगिरावकारि तु पुरा श्रीसुन्दरस्य प्रभोः लावण्यान्बुनिर्वृषाचलपतेः क्षीराब्धिकन्यापतेः ॥ ८५॥ इदानीन्तनतद्रीति कश्चिद्राजा करोत्यसौ । इत्येषा किंवदन्ती तु केनचिद्धेतुना कचित् ॥ ८६॥ इदानीन्तनचैत्रोत्सववैभवं फणामः कल्याणं दिशतादशेषजगतां राजाधिराजः श्रिया सार्धं दिव्यवृषाचले मणिमये सिंहासने सुस्थितः । मुक्तारत्नकिरीटकौस्तुभमुखैः श्रीभूषणभूषितः सर्वाभीष्टफलप्रदः प्रणमतां मोहङ्करः सुन्दरः ॥ ८७॥ वन्दे दिव्यसुवर्णनिर्मितमहाप्राकाररत्नोज्ज्वल सोमच्छन्दविमानगोपुरमणिस्तम्भोल्लसन्मण्टपैः । अन्यैश्चापि विलक्षणैर्मरतकस्थूणावृतैर्मण्टपै र्भान्तं श्रीवृषभाचलं मणिमयं त्रैलोक्यसम्भूषणम् ॥ ८८॥ सेनान्यप्रमुखैर्विलक्षणगुणैर्नित्यैः सदा संश्रितं ब्रह्मेशानमहेन्द्रमुख्यविबुधैरन्यैर्मनुष्यैर्जनैः । स्वस्वाभीष्टमहाफलात् परिनणतं योगीश्वरैः संस्तुतं तियग्जातिभिरावृतं वनगिरि गाङ्गेयरूपं भजे ॥ ८९॥ चैत्रे पुष्पितवृक्षजातिनिवहे क्षेमङ्करे देहिनां मासे सर्वमनोज्ञषोडशकलापूर्णेन्दुसंलक्षिते । दिव्ये शुक्लचतुर्दशीशुभदिने संप्राप्तचोराकृतिः श्रीमान सुन्दरबाहुरिन्दुवदनस्तस्मात् प्रतस्थे गिरेः ॥ ९०॥ चोराकारधरं सुवर्णकवचं शा दिदिव्यायुधं श्रीभूषासमलङ्कृतं मणिलसन्मुक्ताकिरीटोज्ज्वलम् । नानावर्णविचित्ररत्नकनकश्रीवाहने सुस्थितं चैत्रे मासि चतुर्दशीशुभदिने यान्तं भजे सुन्दरम् ॥ ९१॥ मध्येमार्गमहो समस्तजगतां मोहङ्करं सुन्दरं पश्यल्लोकरजःकणैर्दिनि भूचि प्रच्छादयन्तं जनान् । भेरीमुख्यविशेषवाद्यनिवहैः शब्दायमानं दिशो पन्दे सुन्दरबाङमबुजमुखं सन्तोषपूर्णाशयम् ॥ ९२॥ श्रीमद्वेगवतीमहोत्तरतटे लक्ष्मीपुरे मण्टपे मुक्तादामविराजिते दिलसिते सौवर्णसिंहासने । तिष्ठन्तं कनकप्रभं भुवि जनानाहादयन्तं मुदा श्रीभूषासमलड़कृतं वृषगिरे थं भजे सुन्दरम् ॥ ९३॥ तत्र श्रीमणिमण्टपे विलसिते विद्वज्जनैः संवृते।- कृत्वा मजनमुत्सवं पुनरपि श्रीभूषणैर्भूषितम् । वन्दे दिव्यमहोत्सवार्थमखिलश्रीवैष्णवानां सतां सन्तोषं कृतवन्तमद्भुतमहादिव्यप्रसादैः शुभैः ॥ ९४॥ श्रीमदिव्यमहातुरङ्गकनकश्रीवाहने भूषिते तिष्ठन्तं समलङकृतं विलसितैर्दिव्यायधैर्भषणैः । गोदोच्छिष्टमहास्त्रजं शुभफ्टं धृत्वा महाकौतुकं पश्यन्मोहनविग्रहं वृषगिरे थं भजे सुन्दरम् ॥ १५॥ प्रातर्दिव्यमहारथं शुभदिने श्रीपौर्णमास्यां हरिः सन्तोषात्त समारुरोह भगवास्तस्याकृतेः सेवया । ब्रह्मेशानमहेन्द्रदेवविबुधक्ष्मापालयोगेश्वर श्रीवैकुण्ठनिवासिभूसुरमुखाः सर्वे च मोहं गताः ॥ ९६॥ यत्रास्मिन् भुवने विलक्षणमहादिव्यस्थलप्रोल्लस दिव्या मयविग्रहाश्च निखिलास्तिष्ठन्ति चित्रगताः । नानारत्नसुवर्णमौक्तिकमयैः श्रीभूषणैर्भूषिते श्रीमदिव्यमहारथे विलसितं वन्दामहे सुन्दरम् ॥ ९७॥ अत्यर्कानलदीप्तपुष्पकरथे मालामहाभूषिते तारामण्डलसङ्गते सुरभिते दिव्यामरैरचिते । ब्रह्मेन्द्रार्चितपारिजातकुसुमैः सम्पूर्णदिव्यस्थले भक्ताभीष्टफलप्रदे विलसितं वन्दामहे सुन्दरम् ॥ ९८॥ दिव्यैः श्रीसनकादिभिर्मुनिवरैर्ब्रह्मादिभिर्दैवतै भूपालैश्च महासुरैश्च विबुधैः स्त्रीबालवृद्धैर्गणैः । पुष्पैश्चापि समर्चिते सुरभितैर्दिव्यैः समस्तैजेनै- श्रीमदिव्यमहारथे दिलसितं वन्दामहे सुन्दरम् ॥ ९९॥ प्रातः सूर्यमहोदये शुभदिने श्रीपौर्णमास्यां ततः । श्रीमद्वेगवतीविलक्षणमहानद्यां गतः मुन्दरः । गन्धर्वामरकिन्नरादिगरुडश्रीनारदाद्यैर्बुध गो तैश्चापि कृतैर्दिशो मुखरयन्न घोषैर्जनानां शुभैः ॥ १००॥ श्रीमान् वेगवतीगतस्तत इमं त्यक्त्वा रथं सुन्दरो नानालङ्कृतमण्टपेषु तुरगश्रीवाहनस्थः प्रभुः । स्थित्वा वीक्ष्य कुतूहलाद्बुधजनान्मध्येमहामण्टपं विश्रन्याथ पुनः प्रयाति तमिमं वन्दामहे सुन्दरम् ॥ १०१॥ गत्वा षट्पदपट्टणं सह जलक्रीडाविशेषोत्सवं सायाह्ने महितं विलक्षणगणैः कृत्वा महाकौतुकात् । साधं चोरकुलप्रसूतविमलैर्भक्तैः समस्तैस्तत स्तस्यान्तः प्रविशन्तमम्बुजमुखं वन्दामहे सुन्दरम् ॥ १०२॥ तत्र श्रीमणिमण्टपे विलसिते सौवर्णसिंहासने स्थित्वा श्रीतुरगं परिष्कृततनुं त्यक्त्वा महामजनम् । कृत्वा दिव्यमहानुलेपनमहामालादिभिर्भूषणैः श्रीमद्भिः परिमण्डितं वनगिरे थं भजे सुन्दरम् ॥ १०३॥ गाङ्गेयामलशेषवाहनमहो सौवर्णमलादिमि मुक्तादाममणीन्द्रहारविविधश्रीभूषणैर्भूषितम् । आरोहन्तमनन्तसूरिविमल श्रीवैष्णवैः संवृतं तत्र श्रीयतिसार्वभौमसहितं वन्दे महासुन्दरम् ॥ १०४॥ मध्येरात्रमहो ततस्तु भगवान् श्रीपौर्णमास्यां यदा मध्येवेगवतीं धृतोज्ज्वलमहादीपैः सहस्रज्वलन् । नृत्यन्तः प्रणमन्ति केचन तदा गायन्ति सम्मोहिताः धुष्यन्तः स्तुतिमङ्गलं पुलकिताः केचित्तु मोहं गताः ॥ १०५॥ मध्येमार्गमहो विचित्रविविधश्रीमण्टपेषु प्रभु श्चित्रालकृतिचित्रमाल्यसफलश्रीमत्सु कौतूहलात् । स्थित्वा तेषु विहृत्य सज्जनजनान् संवीक्ष्य गच्छन् स में भूयात् सुन्दरबाहुरम्बुजमुखः कल्याणसौख्यप्रदः ॥ १०६॥ लब्ध्वा तं मकरन्दमण्टपमहो सस्थासम्भूषितं तत्सौन्दर्यसुवीक्षणात् त्रिजगतां राजाधिराट् सुन्दरः । शेषारूढमहाप्रभुः परिणतः सर्वैर्महापण्डितै रत्याश्चर्याभून्महागुणगणः सन्तोषपूर्णाशयः ॥ १०७॥ आरुहाथ महासुवर्णगडं सन्तोषकोलाहलै लोकानां प्रतिपहिने प्रणमतां शब्दायमानं दिशः । मध्येमार्गमलङ्कृते सकदलैरिक्वादिभिर्मण्टपे त्यक्त्वा तं कनकासने विलसितं वन्दामहे सुन्दरम् ॥ १०८॥ तत्रासौ दशरूपधृक् प्रणमतां हषार्थमुत्साहतः- पश्यन् मोहनमोहिनीविलसितं धृत्वा जगन्मोहकः । वीणागानरतं विशेषरसिकर्मक्तैरनन्तैः कृतं श्रुत्वा हृष्टमनाः समस्तजगतां दद्यात् सुखं सुन्दरः ॥ १०९॥ आरुह्यामललक्षणैः शुभकरं श्रीवाहनं सुन्दर स्तस्माद्वेगवतीमहोत्तरतटे संप्राप्य लक्ष्मीपुरम् । चोराकारधरः सुवर्णमकुटः पूर्वागतं वाहनं चारुह्यामललोचनः स भवतु क्षेमङ्करो मे सदा ॥ ११०॥ तस्मात् पूर्वमहापथेन सहसा गच्छन् महासुन्दर श्चोराख्यामलसर्वलक्षणमहासम्पन्नभक्तैर्वृतः । पापिष्ठानसुरानिहत्य विबुधान् सन्तोष्य कोलाहलै रस्माकं भगवान् समस्तजगतां भूयात् प्रभुः क्षेमदः ॥ १११॥ लब्ध्वा श्रीवनशैलमम्बुजमुखः श्रीमन्महासुन्दर स्तत्र श्रीकमलालयाकरधृतश्रीहस्तपद्मरतया । साधं दिव्यसुवर्णनिर्मितमहासिंहासने सुस्थितः सन्तुष्टः शुभमङ्गलं वितरतादस्माकमाद्यः प्रभुः ॥ ११२॥ दिव्यश्रीवृषभाचले मणिमये श्रीमन्महामण्टपे नानारत्नविचित्रवर्णकनकश्रीदिव्यसिंहासने । भूमाभ्यां करपङ्कजैर्मृदुतरैः संवाहिताधिद्वयः सन्तुष्टः शुभमङ्गलं वितरतादस्माकमाद्यः प्रभुः ॥ ११३॥ जपाकुसुमबिम्बाभविमाधरभासते । वनशैलनिवासाय सुन्दरेशाय मङ्गलम् ॥ ११४॥ बालार्कशतसाहस्रमकुटेन विराजते । नितान्तदीर्घललितनायनाय च मङ्गलम् ॥ ११५॥ आपादमौलिपर्यन्तमभिजाताङ्गसम्पदे । मणिमञ्जुलमञ्जूषाभूषणाय च मङ्गलम् ॥ ११६॥ उद्योगचक्रविलसद्वामेतरकराय च । अर्धेन्दुललितोदारललाटाय च मङ्गलम् ॥ ११७॥ भूषिते रत्नसङ्घातैवेषभाख्यमहागिरौ । सोमच्छन्दविमानस्थसुन्दरेशाय मङ्गलम् ॥ ११८॥ ॥ इति श्रीवानाद्रिनाथस्तोत्रं सम्पूर्णम् ॥
% Text title            : Shri Vanadrinatha Stotram 06 40
% File name             : vAnAdrinAthastotram.itx
% itxtitle              : vAnAdrinAthastotram
% engtitle              : vAnAdrinAthastotram
% Category              : vishhnu, vishnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From stotrArNavaH 06-40
% Indexextra            : (Scan)
% Latest update         : June 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org