ऐतेरेयकृता वासुदेवस्तुतिः
नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ १८७॥
नमो विज्ञानमात्राय परमानन्दमूर्तये ।
आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ १८८॥
आत्मानन्दानुरुद्धाय सम्यक्तयक्तोर्मये नमः ।
हृषीकेशाय महते नमस्तेऽनन्तशक्तये ॥ १८९॥
वचस्युपरते प्राप्यो य एको मनसा सह ।
अनामरूपचिन्मात्रः सोऽव्यान्नः सदसत्परः ॥ १९०॥
यस्मिन्निदं यतश्चेदं तिष्ठत्यपैति जायते ।
मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ १९१॥
यं न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः ।
अन्तर्बहिश्च विततं व्योमवत्प्रणतोऽस्म्यहम् ॥ १९२॥
देहेन्द्रियप्राणमनोधियोऽमी यदंशब्द्धाः प्रचरन्ति कर्मसु ।
नैवान्यदालोहमिव प्रतप्तं स्थानेषु तद्दृष्टपदेन एते ॥ १९३॥
चतुर्भिश्च त्रिभिर्द्वाभ्यामेकधा प्रणमामि तम् ।
पूर्वापरापरयुगे शास्तारं परमीश्वरम् ॥ १९४॥
हित्वा गतीर्मोक्षकामा यं भजन्ति दशात्मकम् ।
तं परं सत्यममलं त्वां वयं पर्युपास्महे ॥ १९५॥
ॐ नमो भगवते महापुरुषाय महानुभावाय विभूतिपतये
सकलसात्वतपरिवृढनिकरकरकमलोत्पलकुड्मलोपलालितचरणारविन्द-
युगल परमपरमेष्ठिन्नमस्ते ॥ १९६॥
तवाग्निरास्यं वसुधाङ्घ्रियुग्मं नभः शिरश्चन्द्ररवी च नेत्रे ।
समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ॥ १९७॥
जन्मानि तावन्ति न सन्ति देव निष्पीड्य सर्वाणि च सर्वकालम् ।
भूतानि यावन्ति मयात्र भीमे पीतानि संसारमहासमुद्रे ॥ १९८॥
सम्पच्छिलानां हिमवन्महेन्द्रकैलासमेर्वादिषु नैव तादृक् ।
देहाननेकाननुगृह्णतो मे प्राप्तास्ति सम्पन्महती तथेश ॥ १९९॥
न सन्तिते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः ।
भूत्वा मया येषु न जन्तवश्च सम्भक्षितो वा न च भूतसङ्घैः ॥ २००॥
शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं पतितं भवेषु ।
तावत्प्रमाणं न जलं पयोदा मुञ्चन्ति दिव्यैरपि वर्षलक्षैः ॥ २०१॥
मन्ये धरित्रीपरमाणुसङ्ख्यामुपैति पित्रोर्गणना न मह्यम् ।
मित्राव्यमित्राण्यनुजीव्यबन्धून्सङ्ख्यातुमीशोऽस्मिन देवदेव ॥ २०२॥
त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्द्धरारि ।
कामो वशं क्रधमुखैः सहायैः करोति किं तद्भगवन्करोमि ॥ २०३॥
सोऽहं भृशार्तः करुणाकरस्त्वं संसारगर्ते पतितस्य विष्णो ।
महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यपि दुर्गतोऽपि ॥ २०४॥
परायणं रोगवतो हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य ।
बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेव ॥ २०५॥
प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार ।
मामुद्धरास्मादुरुदुःखसङ्घात्संसारगर्तात्स्वपरिग्रहेण ॥ २०६॥
क्षृत्तृट्त्रिधातुभिरिमं मुहुरर्द्यमानं
शीतोष्ण वातसलिलैरितरेतराच्च ।
कामाग्निनाच्युत रुषा च सुदुर्भरेण
सम्पश्यतो मम उरुक्रम सीदतो हि ॥ २०७॥
भवन्तु भद्राणि समस्तदोषाः प्रयान्तु नाशं जगतोऽखिलस्य ।
मयाद्य भक्त्या परमेश्वरे प्रभौ स्तुते जगद्धातरि वासुदेवे ॥ २०८॥
ये भूतले ये दिवि चान्तरिक्षे रसातले प्राणिगणाश्च केचित् ।
भवन्तु ते सिद्धियुजो मयाद्य स्तुते जगद्धातरि वासुदेवे ॥ २०९॥
अज्ञानिनो ज्ञानविदो भवन्तु प्रशान्तिभाजः सततोग्रचित्ताः ।
मया च विश्वम्भरणे ह्यनन्ते स्तुते जगद्धातरि वासुदेवे ॥ २१०॥
श्रृण्वन्ति ये मे स्तुवतस्तथान्ये पश्यन्ति ये मामिदमीरयन्तम् ।
देवासुराद्या मनुजास्तिरश्चो भवन्तु तेऽप्यच्युतयोगभाजः ॥ २११॥
ये चापि मूका विकलेन्द्रियत्वात्पठन्ति नो नैव विलोकयन्ति ।
पश्वादयः कीटपिपीलिकाद्या भवन्तु तेऽप्यच्युतयोगभाजः ॥ २१२॥
नश्यन्तु दुःखानि जगत्यपेतु लोभादिको दोषगणः प्रजाभ्यः ।
यथात्मनि भ्रातरि चात्मजे वा तथा नरस्यास्तु जनेपि भावः ॥ २१३॥
संसारवैद्यैऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते ।
संसारबन्धाः शिथिलीभवन्तु हृदि स्थिते सर्वजनस्य विष्णौ ॥ २१४॥
पापं प्रणाशं मम च प्रयातु यन्मानसं यच्च करोमि वाचा ।
शरीरमप्याचरितं च यन्मे स्मृते जगद्धातरि वासुदेवे ॥ २१५॥
यथा हि वा वासुदेवेति प्रोक्ते सङ्कीर्त्तने विष्णुभक्तस्य वापि ।
स्मृते हरौ वापि प्रयाति पापं सत्येन मे नश्यतां तेन पापम् ॥ २१६॥
मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं
क्लिष्टं मनोऽपि विषयैर्मयि न प्रसङ्गि ।
इत्थं कृपां कुरु मयि प्रणतेऽखिलेश
त्वां स्तोतुमम्बुजभवोऽपि हि देव नेशः ॥ २१७॥
स त्वं प्रसीद भगवन्कुरु मय्यनाथे
विष्णो कृपां परमकारुणिकः किल त्वम् ।
संसारसागरनिमग्नमनन्त दीन-
मुद्धर्तुमर्हसि हरे पुरुषोत्तमोसि ॥ २१८॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां प्रथमे
माहेश्वरखण्डे कौमारिकाखण्डे श्रीवृद्धवासुदेवमाहात्म्यवर्णन
ऐतेरेयब्राह्मणचरित्रवर्णनं नाम द्विचत्वारिंशोऽध्याये
वासुदेवस्तुतिः समाप्ता ।
- ॥ स्कन्दमहापुराण । माहेश्वरखण्डे कौमारिकाखण्डे । अध्यायः ४२.१८७-२१८॥
- .. skandamahApurANa . mAheshvarakhaNDe kaumArikAkhaNDe . adhyAyaH 42.187-218..
The verses 187-193 196 occur in bhAgavatapurANa
ShaShThaskandhaH (6) adhyAya 16 verses 18-25