अदितिकृता वासुदेवस्तुतिः
अदितिरुवाच -
नमः सर्वार्तिनाशाय नमः पुष्करमालिने ।
नमः परमकल्याणकल्याणायादिवेधसे ॥ १॥
नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।
श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ॥ २॥
नमः पङ्कजसम्भूतिसम्भवायात्मयोनये ।
नमः शङ्खासिहस्ताय नमः कनकरेतसे ॥ ३॥
तथात्मज्ञानविज्ञान योगिचिन्त्यात्मयोगिने ।
निर्गुणायाविशेषाय हरये ब्रह्मरूपिणे ॥ ४॥
जगत्प्रतिष्ठितं यत्र जगता यो न दृश्यते ।
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शङ्खिने ॥ ५॥
यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः ।
अपश्यद्भिर्जगत्यत्र न देवो हृदि संस्थितः ॥ ६॥
यस्मिन्नेव विनश्येत यस्यैतदखिलं जगत् ।
तस्मै समस्तजगतामाधाराय नमो नमः ॥ ७॥
आद्यः प्रजापतिपतिर्यः प्रभूणां पतिः परः ।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥ ८॥
यः प्रवृत्तौ निवृत्तौ च इज्यते कर्मभिः स्वकैः ।
स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते ॥ ९॥
यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति ।
नमस्तस्मै विशुद्धाय पराय हरिवेधसे ॥ १०॥
यं बुद्ध्वा सर्वभूतानि देवदेवेशमव्ययम् ।
न पुनर्जन्ममरणे प्राप्नुवन्ति नमामि तम् ॥ ११॥
यो यज्ञे यज्ञपरमैरिज्यते यज्ञसंज्ञितः ।
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥ १२॥
गीयते सर्वदेवेषु वेदविद्भिर्विदां पतिः ।
यस्तस्मै वेदवेद्याय विष्णवे जिष्णवे नमः ॥ १३॥
यतो विश्वं समुत्पन्नं यस्मिंश्च लयमेष्यति ।
विश्वागम प्रतिष्ठाय नमस्तस्मै महात्मने ॥ १४॥
ब्रह्मादि स्तम्बपर्यन्तं येन विश्वमिदं ततम् ।
मायाजालं समुत्तर्तुं तमुपेन्द्रं नमाम्यहम् ॥ १५॥
यस्तु तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः ।
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥ १६॥
यमाराध्य विशुद्धेन मनसा कर्मणा गिरा ।
तरन्त्यविद्यामखिलां तमुपेन्द्रं नमाम्यहम् ॥ १७॥
विषादतोषरोषाद्यैःर्योऽजस्रं सुखदुःखजैः ।
नृत्यत्यखिलभूतस्थस्तमुपेन्द्रं नमाम्यहम् ॥ १८॥
मूर्तं तमोऽसुरमयं तद्वधाद्विनिहन्ति यः ।
रात्रिजं सूर्यरूपीव तमुपेन्द्रं नमाम्यहम् ॥ १९॥
कपिलादिस्वरूपस्थो यश्चाज्ञानमयं तमः ।
हन्ति ज्ञानप्रदानेन तमुपेन्द्रं नमाम्यहम् ॥ २०॥
यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम् ।
पश्यतः कर्म सततमुपेन्द्रं तं नमाम्यहम् ॥ २१॥
यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् ।
नानृतं तमजं विष्णुं नमामि प्रभवाप्ययम् ॥ २२॥
यच्च तत्सत्यमुक्तं मे भूयांश्चातो जनार्दनः ।
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥ २३॥
एवं स्तुतः स भगवान् वासुदेव उवाच ताम् ।
अदृश्यः सर्वभूतानां तस्याः सन्दर्शने स्थितः ॥ २४॥
मनोरथां स्त्वमदिते यानिच्छस्यभिवाङ्छितान् ।
तांस्त्वं प्राप्स्यसि धर्मज्ञे मत्प्रसादान्न संशयः ॥ २५॥
शृणुष्व सुमहाभागे वरो यस्ते हृदि स्थितः ।
तमाशु व्रियतां कामं श्रेयस्ते सम्भविष्यति ।
मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ॥ २६॥
इति मत्स्यपुराणे अदितिकृता वासुदेवस्तुतिः समाप्ता ।
इति विष्णुधर्मेषु पञ्चसप्तत्याध्यायान्तर्गतं अदितिकृतं विष्णुस्तोत्रं सम्पूर्णम्
matsyapurANa adhyAya 244 shlokAH 12-37
Also in viShNudharma upapurANam adhyAya 75 shlokAH 11-31
Transliterated by Subrahmanyam Yvs
Proofread by Subrahmanyam Yvs, Malleswara Rao