श्रीरामप्रोक्तः भगवतः वासुदेवस्य ध्यानप्रकारः
अगस्त्यः -
राम राम जगन्नाथ वासुदेव सनातन ।
कथं ध्यायेद्वासुदेवं ब्रूहि मे कृपया विभो ॥ २१॥
श्रीरामः -
वासुदेवमजं शान्तं कोट्यर्केन्द्वग्निसन्निभवम् । (कोट्यकेन्द्वाग्नि)
अनेकहस्तचरणमनेकाक्षिशिरोमुखम् ॥ २२॥
अतीन्द्रियममर्यादम् अत्यद्भुतवपुर्धरम् ।
भासयन्तं दिशः सर्वाः देहनिर्यत्प्रभाचयैः ॥ २३॥
अनेकाभरणैर्युक्तमनेकायुधमण्डितम् ।
नानावर्णमयं देवं स्वयं सुरभिविग्रहम् ॥ २४॥
ऋषिभिश्च मरीच्याद्यैर्ब्रह्माद्यैरपि दैवतैः । (ब्राह्मणैरपि)
अचिन्त्यमहिमानं तमिन्दिराद्यैरभिष्टुतम् ॥ २५॥
को वा ध्यातुं क्षमो लोके को वा स्तोतुं भुवि क्षमः ।
तथापि परमेशानं पुरुषं भक्तवत्सलम् ॥ २६॥
चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम् ।
किरीटहारकटककाञ्चीकुण्डलमण्डितम् ॥ २७॥
श्रीवत्सकौस्तुभस्वच्छयज्ञसूत्राङ्गुलीयकम् ।
दिव्यपीताम्बरधरं कलक्वणितनू पुरम् ॥ २८॥
अष्टभिश्चापि देवीभिः प्राञ्जलीभिश्च सेवितम् ।
पक्षीन्द्रविष्वक्सेनाभ्यां परिवारैश्च सेवितम् ॥ २९॥
अतिप्रसन्नवदनं बालकं तिलकोज्ज्वलम् ।
अभयप्रदमासीनं शेषभोगासने शुभे ॥ ३०॥
दिव्यगन्धविलिप्ताङ्गं नानामाल्योपशोभितम् ।
स्मितेन विजितज्योत्स्नं नीलनीरजलोचनम् ॥ ३१॥ (नीरदलोचनम्)
कम्बुकण्ठं महासत्त्वं पीनोत्तुङ्गांसशोभितम् ।
उत्तुङ्गपीनविपुलसमस्निग्धमहोरसम् ॥ ३२॥
पुष्टोदरं मग्ननाभिं पृथुश्रोणीभराञ्चितम् ।
ऊरुद्वयकृतद्वन्द्वरम्भासंरम्भलक्षितम् ॥ ३३॥
चरणद्वन्द्वविजितविकसत्सरसीरुहम् ।
अङ्गुष्ठनखनिर्यद्भिर्भानुभिर्जितभास्करम् ॥ ३४॥
आजानुदीर्घैः पृथुलैः हस्तैरायुधधारिणम् ।
ध्यात्वैवं वासुदेवं तं कुर्यादावाहनक्रियाम् ॥ ३५॥
इति भार्गवतन्त्रान्तर्गतः श्रीरामप्रोक्तः भगवतः
वासुदेवस्य ध्यानप्रकारः सम्पूर्णः ।
(भार्गवतन्त्रे नवमोऽध्यायः)
Encoded and proofread by Vinita Ram