श्रीवृन्दावनस्तोत्रम् २
वाञ्छिताय भवतां विजृम्भतां
मत्तहस्तिवदनं महन्महः ।
लाञ्छितं ललितभृङ्गसुन्दरी-
लेखया च शशिलेखया च यत् ॥ १॥
देवी सरस्वती स्वैरं सेवावसरकाङ्क्षिणी ।
देवदेवमियं धन्या सेवतां देवकीसुतम् ॥ २॥
अस्ति वृन्दावनं नाम वनं भुवनपावनम् ।
वृन्दया नश्चन सूनोश्च कृपया परिरक्षितम् ॥ ३॥ (नश्चन्द)
यत्र गावश्च गोपाश्च गोप्यश्च तरवश्व तम् ।
अवतीर्णाः सह स्वर्गात् सेवन्ते स्म जगत्प्रभुम् ॥ ४॥
यत्र रामश्च कृष्णश्च रेमाते बाललीलया ।
निरन्तरपरीरम्भनिर्भरोऽद्भुतहर्षया ॥ ५॥
यत्र दृष्टवा विषास्पृष्टं कदम्बममृतोक्षितम् ।
स्पृष्ट्वा कृष्णेन निर्भीभ्यां पद्भयां पेदे फणिव्रदे ॥ ६॥ (फणिह्रदे)
यत्र कालियनागस्य मध्यमं भुवनोत्तमम् ।
फणं चकार भगवान् पादाम्बुरुहलीलया ॥ ७॥
यत्र द्वादश मार्ताण्डा शीतार्तं कालियं हृदे ।
कृष्णं क्षणमुपस्पृश्य करैर्जग्मुः कृतार्थताम् ॥ ८॥
यत्र द्वादश मार्ताण्डाः प्रतापं वीक्ष्य शाङ्गिणः ।
तत्क्षणानिव कान्तः सेवन्तेऽद्यापि तैः करैः ॥ ९॥
यत्र गोपीसहस्रेण खेलमानं सहस्रशः ।
प्रेक्ष्य देवं सहस्राक्षः सहस्राक्षफलं ययौ ॥ १०॥
यत्र त्रिभुवनाभोगसुभगां तनुमुद्वहन् ।
धन्यैरन्यापि गोविन्दा लोचनैः परिचुम्ब्यते ॥ ११॥
यत्र केशिनमाक्रम्य वामपादेन केशवः ।
वामहस्तेन चाकृष्टैः प्राणैरन्यापि खलति ॥ १२॥
इति यत्र विचित्राणां विष्णोर्बाल्यमुपेयुषः ।
पवित्राणि चरित्राणि गीयन्ते मुनिपुङ्गवैः ॥ १३॥
यत्रोद्गीतं गोपिकानां हिमाद्रेः ।
श्रुत्वा शम्भुर्ध्यानभङ्गानुपेत्य ।
गुप्तस्तृप्तं कृष्णमीशिष्टदीर्घं
शृण्वन् गीतं भाति गोपीश्वराख्यः ॥ १४॥
किमत्र बहुनोक्तेन निःश्रेयसविधिः स्वयम् ।
निःश्रेयसवनं गत्वा यत्र रेभे रभासखः ॥ १५॥
तदेतदमृतस्यन्दि बुन्दावनमहो दृशोः ।
चिरोत्क्रन्दितमागम्य जन्मनः फलमाप्नुमः ॥ १६॥
वन्दे वनमिदं मूर्ध्ना यत्र चित्रं जगत्प्रभोः ।
प्राप्य प्रतिपदं रेजे स्थलपद्मपदं पदम् ॥ १७॥
अपि वा भुवनोल्लङ्गिसौभाग्यं वीक्ष्य चक्रिणा ।
पादमुद्रापदेशेन यच्चक्रेणात्मसात्कृतम् ॥ १८॥
जगज्जन्मस्थितिलया लीला यस्य जगत्प्रभोः ।
तस्यास्य कृष्णदेवस्य लीलोद्यानमिदं कियत् ॥ १९॥
वृन्दादेव्या बद्धरक्षं तदेतत्
वृन्दारण्यं पुण्यभाजो भजन्ते ।
गोपीरूपैर्यत्र लक्ष्मीसहस्रैः
देवः स्वैरं सेवितो दैवतैश्च ॥ २०॥
वन्दे भगवतीं वृन्दां वनस्यैतस्य रक्षिणीम् ।
यत्र दत्तकहरः स्वैरं चिक्रीडति जगत्प्रभुः ॥ २१॥
वन्दे वृन्दावनेन्द्रस्य विश्वनाथस्य शैशवम् ।
वैभवोद्गन्धिमङ्गल्यकटाक्षोक्षितदिङ्मुखम् ॥ २२॥
वन्दे कन्दर्पसाम्रज्यवृन्दावनवनेचरम् ।
वृन्दैरिन्दीवराक्षीणां वन्दितं तमितस्ततः ॥ २३॥
तावकं भगवन् भातु तत्त्वमस्तमितोपमम् ।
निस्तरङ्गनिरातङ्कनीरन्ध्रसुखसङ्कुलम् ॥ २४॥
भगवान् पुण्डरीकाक्षो भासतां मम मानसे ।
मृगलाञ्छनवंशस्य मणिलाञ्छनतां गतः ॥ २५॥
मधुराभिजनं धाम मधुराधरपल्लवम् ।
हृदयङ्गसमभ्येतु हृदयं गलितोपमम् ॥ २६॥
देवकीवसुदेवाभ्यां दत्त्वा नेत्रोत्सवं सकृत् ।
ददौ नन्दयशोदाभ्यां यत्तत्पुत्रोत्सवोत्सवान् ॥ २७॥
तदेतदवलिभ्यादौ बाललीलाः सहस्रशः । (तदेतदवलम्ब्यादौ)
अनुचुम्बितकैशोरकेलिः खेलतु मे हृदि ॥ २८॥
देवः क्रीडन् गोपगोपीसहस्रैः दत्तास्थाने गोसहस्रः परीतः ।
क्लृप्तच्छायः कल्पकश्रीसहस्रैर्गायन वेणुं गाहतां मानसं मे ॥ २९॥
वृन्दारण्ये पण्यगोपाङ्गनाभिः कलेकूले क्लृप्तहर्म्ये लताभिः ।
क्रीडन् कृष्णः कृष्णया बद्धदूरं वीचीहस्तैर्भातु बद्धाञ्जलिर्मे ॥ ३०॥
अविशङ्कमनङ्गसङ्कुलाभिर्वनिताभिर्विनताभिरात्तरासः ।
कमलारमणः किशोरवेषं परिपुष्यन् मम चित्तमभ्युदेतु ॥ ३१॥
मध्ये मध्ये कुष्णमाणिः मिश्रा भाला काचिद्वल्लवीनां सहस्रैः । (कुष्णमाणिक्य)
चित्ताभोगैर्भागिनां धन्यधन्यैर्जीयादेषा दीर्घमाध्रायमणा ॥ ३२॥
व्योमाभोगे विस्मयाविष्टनेत्रैः साथैर्दिव्यैर्निर्निमेषं निषेव्यम् ।
गोपीलक्षैः क्लप्तरासं समन्ताद् गोपं कश्चित्पञ्चबाणोऽप्युपास्ते ॥ ३३॥
चपलं भवतु चरित्रमेतत् कमलाकेलिभुजार्तरे निलीना । (भुजान्तरे)
मुनयश्च मुहुर्मुहुर्मुरारे विहरन्ते तव चापलं गृणन्तः ॥ ३४॥
मदान्धगोपीजनवल्लभाय नमोऽस्तु नारायणचापलाय ।
यद्वीक्ष्य लक्ष्मीर्भुजमध्यलीना हा हन्त लीलावसरप्रतीक्षा ॥ ३५॥
त्वयि देव दयाम्बुधे मुरारे निखिलं न्यस्य भरं ? ? गतान्ध्य ।
विहराणि विजृम्भमाणतत्वच्चरणाम्भोरुहचुम्बनोत्सवेन ॥ ३६॥
नन्दप्रजाभरण नीलमणिप्रवाळ नाथ त्वदीयचरणाम्बुजचुम्बनान्धः ।
पुण्यैः पुरा परिणतैः परिरस्यमानैर्भूयो भवेय भगवन् भुवनान्तरेऽपि ॥ ३७॥
जीयाजगत्त्रयीकान्त कृपार्णव जयार्णव ।
जिग्ये फणिफणा येन पादेन च करेण च ॥ ३८॥
न केवलं भवान् देव पोतो नन्दयशोदयोः ।
किन्तु सिन्धुममुं घोरमुत्तरीतुं च मादृशाम् ॥ ३९॥
भुवनेश्वरमालम्बे तन्त्वां वृन्दावनेश्वरम् ।
स्मरताममृतोद्गारिकैशोरकदयाद्भुदुतम् ॥ ४०॥
वृन्दारण्ये वीरगोपालबालं वारं वारं वारितोदान्तदैत्यम् ।
नागांल्लोकान्निष्पतत्तुष्पवीचीधारावर्षस्मेरमौलिं स्मरामः ॥ ४१॥
भजतां हृदयाम्भोजभागधेयमुपास्महे ।
यजतामधिदैर्व यद्यच्च ब्रजभृगीदृशाम् ॥ ४२॥
पङ्केरुहप्रतिभटं पदपल्लवेन पारङ्गतं त्रिभुवनाद्भुतविभ्रमाणाम् ।
पिञ्छावतंसपरिलाञ्छितकेशहस्तं पीताम्बरं किमपि धाम वयं भजामः ॥ ४३॥
यशोदाया यशःपुञ्जमञ्जनाभमुपास्महे ।
विस्मयं यत्र विन्दन्ति वृन्दावनमृगा अपि ॥ ४४॥
वृन्दावनचरं देवं वृन्दादृतपदाम्बुजम् ।
नन्दात्मजमुपासीना नन्दाम शरदःशतम् ॥ ४५॥
न हन्त तपसा सिद्धा न च मुग्धाः प्रजाङ्गनाः । (व्रजाङ्गनाः)
तदिह त्वद्दृशोः पात्रं भवितुं देव के वयम् ॥ ४६॥
पश्येम तव विश्वेश वृन्दावनविहारिणः ।
वैभवं शैशवोद्गन्धिसिन्धुकन्यारतनादृतम् ॥ ४७॥
कस्तूरिकाकर्बुरकण्ठकाण्डं कञ्चित्किशोरं कमलायताक्षम् ।
विस्तारिणीभिः स्मितचन्द्रिकाभिर्विलोचनं लोचनयोर्वहामः ॥ ४८॥
गोगोपीगोपलक्षैः परिवृतमभितः कल्पकच्छायशीतं
गीतं वंश्या दुहानं त्रिदशपुरमहापुष्पवृष्टिप्रहृष्टम् ।
ऊर्ध्वाधस्तिर्यगाशामखशतभरितैर्भाग्यभाजां परार्धेः
दैवं लेलिह्यमानं त्रिभुवनविजयं दीप्यतां नेत्रयोमे ॥ ४९॥
चपला सफला ममास्तु दृष्टि श्चतुरं वीक्ष्य चतुर्भुजस्य बाल्यम् ।
अधरामृतवाहिवेणुनादै रधिवृन्दावनमिन्दिरावलेह्यम् ॥ ५०॥
इन्दीवरदलश्याममिन्दिरानयनोत्सवम् ।
वृन्दावनचरं बालं वन्देमहि कथं दृशाम् ॥ ५१॥
मन्दस्मितामृतार्द्रेण वदनेन मनोहरम् ।
कन्दर्पतातकैशोरं कदा मम दृशोः पदम् ॥ ५२॥
नन बजाङ्गनालक्षनयनोत्सवनिःसितम् । (नत)
कन्दर्पतातसौभाग्यं कदा मम दृशा स्पृशे ॥ ५३॥
साधारणपदातीतराधारणरसादृतः ।
नारायणभवन्बाल्यपारयणपरे दशौ ॥ ५४॥
कदा नु कमलाबन्धो वृन्दावनदिलासिनः ।
विलासि बदनाम्भोजं विलह्य सफले दृशौ ॥ ५५॥ (विलोक्य सफले)
सफले चपले कृष्ण कदा तव मदालसम् ।
वदनाम्बुरुहं बुन्दावनेऽप्याचुम्ब्य गद्दृशौः ॥ ५६॥
वृन्दावने विहरतस्तव दिव्यवेषं
दृग्भ्यां निपातुमतिलम्पटयोर्दृशोर्मे ।
यावत्प्रशस्यसि जगत्त्रयकान्त कृष्ण
तावत्तवानुचरणं चरणे करोमि ॥ ५७॥
त्वत्पादपङ्कजरजःपरिचारकस्य किन्नाम
किङ्करजनस्य जगत्यसाध्यम् ।
दिव्यां दृशं दिश यया किल दिव्यवेषं त
अन्तर्बहिस्तव विलय भवन्ति धन्याः ॥ ५८॥
यद्वा चित्तपथे विचिन्त्य भवतो भक्तैकचिन्तामणे
भावं भावनया कयापि भगवन् प्राप्स्याम्यभीप्सास्पदम् ।
किं वा केवलया तवैव कृपया हे कृष्ण कृष्णासख
स्वामिन् कामदुधैः कटाक्षविभवैः सार्धं लभे लिप्सितम् ॥ ५९॥
वृन्दावनव्यसनिनस्तव देव कृष्ण
लीलाशुकेन रचित निचितं रसौघैः ।
प्रत्यक्षरं परिदुहन्मधुकर्णयोस्ते
स्तोत्रं तदेतदनिशं विलिहन्तु धन्या ॥ ६०॥
इति श्रीकृष्णलीलाशुकमहाकविमुनिविरचिन्तं षष्टिसङ्खयं
स्तोत्ररत्नसोदरन्नाम वृन्दावनस्तोत्रं सम्पूर्णम् ।
Proofread by Gopalakrishnan