वृत्तकुसुमार्पणम्
Vritta Kusumarpanam, a hymn to Vishnu and
a guide to Sanskrit Metres by G S S Murthy
पूर्वार्धम्
योगमुद्रामुपारूढं नरसिंहं हृदि स्मरन् । (अनुष्टुभ्)
वृत्तलक्षणजिज्ञासुः नामसङ्कीर्तनं हरेः ॥ १॥
कुर्वन्नाप्नोत्ववगमं वृत्तानां लक्षणे जवात् ।
इति सञ्चिन्त्य यतते कर्तुमेषां कृतिं ह्रिया ॥ २॥
गोरूरुग्रामसञ्जातः शेल्वपिल्लैसुतोऽल्पधीः ।
मूर्त्युपाह्वः श्रीनिवासः सावधानं निबोधत ॥ ३॥
प्रारम्भकांशाः शास्त्रस्य पूर्वार्धेऽत्र दर्शिताः ।
ह्रस्वाक्षरोच्चारणाय यः कालः समपेक्षितः ॥ ४॥
स एकमात्रामित इत्युच्यते पूर्वसूरिभिः ।
दीर्घाक्षरमनुस्वारविसर्गान्ताक्षराणि च ॥ ५॥
मात्राद्वयमितानीति च्छन्दःशास्त्रे निगद्यते ।
संयुक्ताक्षरपृष्ठस्थं द्विमात्रमिति गण्यते ॥ ६॥
ह्रस्वाक्षरं चेत्त्पादान्ते द्विमात्रं तदपि स्मृतम् ।
एकमात्रामितः कालः लघुरित्यादृतैर्बुधैः ॥ ७॥
द्विमात्राप्रमितस्तावद्गुरुरित्यभिधीयते ।
छन्दसां लक्षणं वक्तुं सुकरं भवतादिति ॥ ८॥
अक्षराणि त्रिशः पद्ये गुम्फितान्यादितः क्रमात् ।
तमक्षरगणं प्राहुः वृन्दं त्र्यक्षरसम्मितम् ॥ ९॥
लघ्वादिर्यगणः प्रोक्तः रगणः लघुमध्यमः ।
लघ्वन्तस्तगणश्चाथ गुर्वादिर्भगणः स्मृतः ॥ १०॥
गुरुमध्यस्तु जगणः गुर्वन्तः सगणो भवेत् ।
नगणः स्यात्सर्वलघुर्मगणो लघुवर्जितः ॥ ११॥
यत्रावश्यो विरामः स्यात् पद्यवाचनकर्मणि ।
तत्स्थानं यतिमाहुः सा पादान्ते नियता भवेत् ॥ १२॥
यतिस्थाने पदान्तस्स्यादितिच्छन्दोविदां मतम् ।
प्रदर्श्यन्तेऽत्रोत्तरार्धे हृद्यवृत्तानि कानिचित् ॥ १३॥
समवृत्तस्याद्यपादे दृश्यते वृत्तलक्षणम् ।
यत्राक्षरगणस्याद्यमक्षरं गणसूचकम् ॥ १४॥
``यशस्विन्'' यगणं ब्रूते ``रक्ष मां'' रगणं तथा ।
``तृप्तोऽस्मि'' तगणं वक्ति ``सततं'' सगणं तथा ॥ १५॥
भगणं ``भार्गव''पदं सूचयत्यत्र पश्यत ।
``जयन्त''पदमेवं हि जगणं सूचयेदिह ॥ १६॥
तथा ``निमिष''शब्दस्तु निर्दिशेन्नगणं स्तुतौ ।
``माजाने'' मगणं ब्रूते ``हरे'' लघुगुरू तथा ॥ १७॥
स्तोत्रे ``विष्णो''ऽथवा ``शौरे'' गुरुद्वन्द्वे प्रयुज्यते ।
पुनरुक्तिनिरोधार्थं युज्यन्तेऽन्यपदानि च ॥ १८॥
क्वचिल्लघुगुरुद्वन्द्वं गुरुद्वन्द्वं गुरु क्वचित् ।
पृथङ्निर्दिश्यते तत्र हेतुर्यतिनिबन्धनम् ॥ १९॥
पद्योत्तरार्धे दत्तौ स्तः यतिर्वृत्तस्य नाम च ।
गुणाश्च वसवश्चैव मुनयोऽन्यपदानि च । २०॥
सङ्ख्यावाचीनि युज्यन्ते यतिनिर्देशने क्वचित् ।
न सर्वेषां तु वृत्तानां लक्षणं दिश्यतेऽधुना ॥ २१॥
निर्दिशेदन्यवृत्तानि यथानिर्दिष्टमञ्जसा ।
बाल एव यथाशक्ति च्छन्दोव्युत्पत्तिहेतुना ॥ २२॥
उत्तरार्धम्
तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे (इन्द्रवज्रा)
गोविन्द नारायण कृष्ण विष्णो ।
नाम्नेन्द्रवज्रेति वदन्ति लोके
छन्दोविदो वृत्तमिदं प्रतीच्छ ॥ २३॥
जयन्त तुष्टोऽस्मि जयेश शौरे (उपेन्द्रवज्रा)
रमेश लक्ष्मीश मुकुन्द विष्णो ।
उपेन्द्रवज्रेति बुधैः प्रतीतं
समर्प्यते पादयुगे तवात्र ॥ २४॥
शौरे विष्णो राम हे रक्ष शार्ङ्गिन् (शालिनी)
त्रातासि त्वं मत्प्रमादान् क्षमस्व ।
भिद्येतादौ देव वर्णैश्चतुर्भिः
शालिन्याख्यं वृत्तमेतत्प्रतीच्छ ॥ २५॥
रक्ष मां निमिष राम हे हरे (रथोद्धता)
कृष्ण शार्ङ्गधर राघव प्रभो ।
आमनन्ति कवयो रथोद्धतां-
वृत्तमेतदधुना समर्प्यते ॥ २६॥
रक्ष मां निमिष भार्गव शौरे (स्वागत)
राम हे वरद केशव कृष्ण ।
स्वागतेति विदितं कविवृन्दे
सन्निधौ तव समर्पितमद्य ॥ २७॥
भार्गव भावन भूषण शौरे (दोधकम्)
श्रीधर केशव मोहनमूर्ते ।
दोधकमेतदितिप्रथितं भोः
स्वीकुरु मामव राघव विष्णो ॥ २८॥
तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे (उपेन्द्रवज्रा)
जनेश तोत्रास्त्र जयेश विष्णो ।
उपेन्द्रवज्रा क्वचिदिन्द्रवज्रा
नाम्नोपजातिः कृपया प्रतीच्छ ॥ २९॥
भार्गव विष्णो निमिष यशस्विन् (मौक्तिकमाला)
भूषण शौरे दमय ममत्वम् ।
भूतयतिस्स्यादिह नरकारे
मौक्तिकमालां वरद गृहाण ॥ ३०॥
रक्ष मां निमिष जयन्त विष्णो (चन्द्रिका)
प्रत्यहं वितर मनः प्रशान्तिम् ।
अक्षरैर्भवति यतिस्तु षड्भिः
चन्द्रिकाख्यनववृत्तमवेहि ॥ ३१॥
रक्ष मां निमिष भार्गव शौरे (नन्दन)
पुष्कराक्ष मधुसूदन कृष्ण ।
नूत्नवृत्तमिह नन्दननाम
प्रार्थये भवतु तेऽमितभोग्यम् ॥ ३२॥
जयन्त तृप्तोऽस्मि जयेश राम हे (वंशस्थम्)
मुकुन्द गोविन्द रमेश मध्वरे ।
वदन्ति वंशस्थमिदं पुरातनाः
समर्पयाम्यत्र तवाङ्घ्रिपङ्कजे ॥ ३३॥
सततं सुमते सदयं सहसे (तोटकम्)
मम मन्दमतिं मम धार्ष्ट्यमहो ।
कथयन्ति हि तोटकमेतदिति
प्रथिताः कृपयानुगृहाण हरे ॥ ३४॥
निमिष भार्गव भावन राम हे (द्रुतविलम्बितम्)
वरद केशव माधव रक्ष माम् ।
द्रुतविलम्बितमद्य मयार्पितं
सदयमद्य गृहाण बलानुज ॥ ३५॥
तृप्तोऽस्मि तुष्टोऽस्मि जयन्त राम हे (इन्द्रवंशा)
गोविन्द लक्ष्मीश नमामि मध्वरे ।
भक्त्येन्द्रवंशाख्यमिदं कृतं मया
स्वीकृत्य मां पाहि कृपापयोनिधे ॥ ३६॥
यशस्विन् यथेष्टं यदीत्थं यतेऽहं (भुजङ्गप्रयात)
कवित्वे क्षमस्व प्रभो वेङ्कटेश ।
भुजङ्गप्रयाते मदीयं प्रयासं
प्रतीच्छात्र दोषानशेषान्क्षमस्व ॥ ३७॥
निमिष यशस्विन् नियम यतेऽहं (कुसुमविचित्रा)
मम कविताया कुसुममकिञ्चित् ।
तव पदयुग्मे सपदि निधातुं
वितरतु तोषं कुसुमविचित्रा ॥ ३८॥
राम हे रक्ष मां रंहसा राविणं (स्रग्विणी)
कृच्छ्रगर्ते गतं श्रीनिधे मध्वरे ।
पण्डिता मण्डिताः स्रग्विणीं मन्वते
वृत्तमेतत्प्रभो स्वीकुरु प्रार्थये ॥ ३९॥
सततं भार्गव रक्ष मां यशस्विन् (मधुरा)
सदयं सान्त्वय दुःखितं कृपालो ।
मधुराख्यं नवमर्पयामि वृत्तं
यदि हृद्यं न भवेत्तदा क्षमस्व ॥ ४०॥
माजाने निमिष जयन्त रक्ष मां भोः (प्रहर्षिणी)
कंसारे वरद रमेश राम शौरे ।
प्रोक्तं यद्भुवनयतिः प्रहर्षिणीति
प्रेम्णा ते पदयुगले समर्पयामि ॥ ४१॥
निमिष भार्गव जयन्त जनेश भोः (मदनिका)
वरद केशव रमेश हरे प्रभो ।
अभिनवं तव पदेऽद्य निवेशितं
मदनिकाख्यमिह वृत्तमधोक्षज ॥ ४२॥
तृप्तोऽस्मि भार्गव जयन्त जयेश शौरे (वसन्ततिलका)
गोविन्द केशव रमेश रथाङ्गपाणे ।
ख्यातं वसन्ततिलकेति कविप्रधानैः
वृत्तं भवत्पदयुगेऽद्य समर्पयामि ॥ ४३॥
निमिष राम विष्णो रक्ष मां रम्यमूर्ते (बदरिकाख्य)
शमय कामबाधां दुर्भरां सत्वरं मे ।
बदरिकाख्यवृत्ते सप्तवर्णैर्यतिः स्यात्
इदमपूर्वमीश प्रार्थये स्वीकुरु त्वम् ॥ ४४॥
निमिष नियम विष्णो रक्ष मां राम शौरे (मालिनी)
वरद सुखद भक्तं पश्य मां सत्यवाक्य ।
यतिरिह वसुसंज्ञा मालिनीति प्रसिद्धं
तवपदयुगलेऽहं वृत्तमार्तोऽर्पयामि ॥ ४५॥
यतेऽहं माजाने निमिष सततं भार्गव हरे (शिखरिणी)
कवित्वे वैदुष्यं न मयि सुतरां यादवपते ।
यतिः षड्भिर्वर्णैरिह शिखरिणीवृत्तमधुना
प्रतीच्छेदं विष्णो परिहर मदीयानघगणान् ॥ ४६॥
जगत्सु सततं हरे नियम राम हे रक्षकाः (पृथ्वी)
भवन्ति न भवद्विधाः प्रणतपालने जागराः ।
रमेश भुवि कथ्यते बुधजनेषु पृथ्वीति यन्-
मयात्र हि समर्प्यते यतिरिहाष्टवर्णैः प्रभो ॥ ४७॥
शौरे विष्णो शार्ङ्गिन् निमिश सुमते भूषण हरे (संरम्भम्)
दृप्तं मत्तं दुष्टं शमद सुरुचे मामव विधो ।
वृत्तं संरम्भाख्यं ऋतुयतियुतं स्वीकुरु नवं
प्रीत्यै भूयात्तेऽदो वरद करुणाब्धे नरहरे ॥ ४८॥
विष्णो शौरे निमिष सततं रक्ष मां राम दासं (मन्दाक्रान्ता)
प्रह्वं भक्तं रघुवर हरे देव कारुण्यमूर्ते ।
मन्दाक्रान्तेत्यभिहितमिदं वृत्तमास्वाद्यलास्यं
त्वत्पादाब्जे मुनियतियुतं न्यस्य शान्तिं व्रजामि ॥ ४९॥
शौरे विष्णो यशस्विन् निमिष सुमते भार्गव हरे (मन्दार)
पश्चात्तापात्प्रदग्धं वरद कृपया पारय भवात् ।
प्रोक्तं मन्दारनाम्ना मुनियतियुतं स्वीकुरु नवं
भूयात्तुभ्यं मुदार्थं सहृदयहितं माधव विभो ॥ ५०॥
माजाने सततं जडोऽस्मि सुमतेऽतृप्तोऽस्मि तप्तोऽस्मिभोः (शार्दूलविक्रीडित)
शान्तिं देहि भवत्कटाक्षसलिलैर्मद्विग्रहं स्नापयन् ।
वर्णैर्द्वादशभिर्यतिर्नियमिता शार्दूलविक्रीडिते
वृत्तेऽस्मिन् भवते समर्पितमिदं लक्ष्मीप्रिय स्वीकुरु ॥ ५१॥
विष्णो शौरे यशस्विन् नियत नियम ते देव तृप्तोऽस्मि दासः (स्रग्धरा)
कंसाराते विधातः मधुमथन हरे चक्रपाणे दयालो ।
यस्मिन् द्विः स्यान्मुनियतिनियमः स्रग्धरेतीरिते भोः
तत्त्वत्प्रीत्यै कृपालो तवपदयुगले सादरं निक्षिपामि ॥ ५२॥
सुमते सततं जयन्त भोः सदयं भावन रक्ष मां हरे । (ललिता)
ललितेति बुधैरुदाहृते तव नेत्रद्युतिपातमादिशेः ॥ ५३॥
वरद निमिष रक्ष मां यशस्विन् (पुष्पिताग्रा)
नियम जयन्त जनेश रामभद्र ।
तव पदयुगले निवेश्य भक्त्या
दृढचरणां प्रणमामि पुष्पिताग्राम् ॥ ५४॥
वृत्तकुसुमानि तवपदयुगले भक्त्या समर्पितानि हरे । (आर्या)
स्वीकुर्वकिञ्चननृणा सुरभिःप्रसरतु तव करुणया ॥ ५५॥
इति वृत्तकुसुमार्पणं समाप्तम् ।
Composed, encoded, proofread by
G S S Murthy murthygss at gmail.com