वधूगीतायां ध्येयस्य श्रीहरेः सर्वार्पणस्तोत्रादिप्रदर्शनम्

वधूगीतायां ध्येयस्य श्रीहरेः सर्वार्पणस्तोत्रादिप्रदर्शनम्

(पुरुषोत्तमप्रोक्तम्)- संसारबन्धनान्मुक्तिमिच्छन् यः कोऽपि देहवान् । स्तुत्वा ध्यात्वा पूजयित्वा मां हरिं सम्प्रमुच्यते ॥ ६०॥ लक्ष्मि! नित्यं बलं प्राप्यं मम सर्वावतारिणः । अक्षरेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६१॥ शङ्खचक्रगदापद्मधारिणं परमेश्वरम् । अन्तःस्थितं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६२॥ मीनशूलध्वजधनुःस्वस्तिचक्रशरान्वितम् । श्रीवत्साङ्कं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६३॥ कम्भराश्रीसुतं कृष्णनारायणं प्रियं पतिम् । गोपालजं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६४॥ ब्रह्मप्रियापतिं हरिप्रियापतिं सतीपतिम् । श्रीपतिं सम्प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६५॥ राधारमापतिं लक्ष्मीरमापद्मावतीपतिम् । माणिकीशं प्रप्रन्नोऽस्मि किं मां मृत्युः करिष्यति ॥ ६६॥ कमलादुःखहालक्ष्मीपतिं नारायणीपतिम् । शिवजेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६७॥ दिव्यादेवीपतिं कीरापतिं कामोदकापतिम् । सुशीलेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६८॥ लीलावतीखशीनाथं हुण्डिकागणिकापतिम् । हंसिकेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६९॥ अशोकसुन्दरीनाथं विकलेन्दुमतीपतिम् । भिल्लीशं सम्प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७०॥ रक्षाप्रज्ञाशमीश्रद्धानाथं मुक्तपतिं हरिम् । मम कान्तं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७१॥ कृष्णं रामं रामकृष्णं नारसिंहं जनार्दनम् । राजराजं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७२॥ वाराहं वामनं विष्णुं माधवं केशवं पतिम् । कान्तकान्तं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७३॥ कपिलं च हरिं वासुदेवं जनार्दनं शिवम् । अक्षरेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७४॥ अनन्तशिरसं कृष्णं सनातनं परं पतिम् । ब्रह्मयोनिं प्रपन्नास्मि किं मे मृत्युः करिष्यति ॥ ७५॥ प्रेमरसं हरेर्नित्यं पिबामि पार्श्ववर्तिनी । हरेः पादं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७६॥ हरेस्ताम्बूलजं मिष्टं रसं सुगन्धसम्भृतम् । पिबामि तं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७७॥ अमृताख्यं प्रसादं च नित्यमास्वादयामि च । ओष्ठरसं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७८॥ श्रीहरेः शयनं प्राप्ता महानन्दं वहामि च । आन्तरस्थं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७९॥ आक्षरं बलमाप्ताऽस्मि नित्यं सुखं गताऽस्मि च । एकात्मानं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ८०॥ तादात्म्यसुखमापन्ना रहस्यानन्दभोगिनी । तद्भावं च प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ८१॥ मृत्योः पिता महाकालो येन सृष्टोऽस्मि यद्वशः । तं प्रभुं सम्प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ८२॥ इत्येवं श्रीहरेर्मे वै मदमाप्ता प्रिया मम । निर्भया सेवते मां चाश्नुते सर्वं सुखं मम ॥ ८३॥ सा धन्या सा सफलार्था सा च सर्वसुखस्थिता । सफलं जीवितं तस्याः स्तौति या पुरुषोत्तमम् ॥ ८४॥ ॐ नमोऽक्षरवासाय मुक्तसेव्याय ते नमः । ॐ नमश्चेश्वरेशायाऽवतारेशाय ते नमः ॥ ८५॥ ॐ नमो मुक्तपतये सतां च पतये नमः । ॐ नमोऽक्षरपतये मुक्तानीपतये नमः ॥ ८६॥ नमस्ते परमानन्द नमस्ते परमाऽक्षर । नमस्ते नित्यसर्वज्ञ नमस्ते ज्ञानमुक्तिद ॥ ८७॥ नमस्ते चात्मवासाय नमस्ते पुरुषोत्तम । सर्वान्तरात्मरूपाय नारायणाय ते नमः ॥ ८८॥ नमस्ते कम्भरापुत्र गोपालजाय ते नमः । नमस्ते श्रीपते कृष्णनारायण च ते नमः ॥ ८९॥ नमस्ते कुङ्कुमवापीनिवासायाऽब्धिशायिने । ब्रह्मप्रियाधिपतये हरिप्रियाप्रियाय च ॥ ९०॥ जय सत्यजगत्साक्षिन् जय सर्वपुमर्थद । जय वेदान्तवेद्यस्त्वं जय कान्त मनोहर ॥ ९१॥ जय सूक्ष्मचिदानन्द जय चित्तनिरञ्जन । जय नाथ जय सर्व जय शान्तसनातन ॥ ९२॥ त्वं गुरुस्त्वं हरे कान्तत्वं स्वामी त्वं ममाधिपः । धर्मज्ञानादयस्त्वं मे त्वं मे विष्णुः प्रमोक्षदः ॥ ९३॥ त्वं प्रभुस्त्वं समुद्धर्ता त्वं पाता त्वं प्रलुम्पकः । त्वं श्रीः पुष्टिस्त्वं च लक्ष्मीस्त्वं प्रभा त्वं च माणिकी ॥ ९४॥ त्वं क्षेत्रज्ञः परेशश्च त्वं यज्ञस्त्वं हुताशनः । तव रूपमिदं सर्वं परब्रह्म त्वमीश्वरः ॥ ९५॥ अवतारात्मकमूर्तिं ते भजन्ति दिवौकसः । भजने पूजने पाने भोजने पुरुषोत्तम ॥ ९६॥ क्षन्तुमर्हसि देवेश यत्कृतं न कृतं मया । न शक्नोमि सदा कर्तुं पूजां सम्यक् क्षमस्व माम् ॥ ९७॥ यत् कृतं जपहोमादि ह्यसाध्यं पुरुषोत्तम । न्यूनं पूर्णं मम मत्वा निजां मां स्वीकुरु प्रभो ॥ ९८॥ दिवारात्रौ च सन्ध्यायां सर्वावस्थासु मे प्रभो । अचला वै त्वयि भक्तिस्तवाङ्घ्रियुगले स्थितिः ॥ ९९॥ इति स्तोत्रेण मां नाथं भक्त्येडिष्व नरायणि । यदिच्छसि ममानन्दं भज भक्त्या जगद्गुरुम् ॥ १००॥ प्रातर्जपेदिदं स्तोत्रं स्मरन्तं पुरुषोत्तमम् । स्वर्गं मोक्षं सम्पदं च सर्वान् कामानवाप्नुयात् ॥ १०१॥ पुत्रार्थी लभते पुत्रान् बद्धो मुच्येत बन्धनात् । कन्यार्थिनी लभेत् कन्यां कन्या शुभं पतिं लभेत् ॥ १०२॥ रोगाद्विमुच्यते रोगी निर्धनो लभते धनम् । जातिस्मरत्वं मेधावी विद्यार्थी ज्ञानमर्जयेत् ॥ १०३॥ जघन्यश्चापि मूर्धन्यस्त्वसाधुः साधुसत्तमः । शठोऽपि सत्यवाक् स्याच्च यः स्तौति पुरुषोत्तमम् ॥ १०४॥ सर्वधर्मबहिष्कृता अपि ते साधवो मताः । येषां प्रवर्तनं सर्वं हरिमुद्दिश्य जायते ॥ १०५॥ नाऽऽशौचं विद्यते तस्या यस्या भक्तिः परेश्वरे । मनो वाग्वर्ष्म सर्वस्वं मया क्षिप्तौ हरौ त्विह ॥ १०६॥ आराध्य सर्वदा कृष्णनारायणं सुखप्रदम् । नरो नारी च वा षण्ढः प्राप्नोतीह सुवाञ्छितम् ॥ १०७॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे ५७-अध्यायान्तर्गतं वधूगीतायां ध्येयस्य श्रीहरेः सर्वार्पणस्तोत्रादिप्रदर्शनं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय ५७/६०-१०७॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 57/60-107.. Proofread by PSA Easwaran
% Text title            : Vadhugitayam Dhyeyasya Shri Hareh Sarvarpanastotradipradarshanam
% File name             : vadhUgItAyAMdhyeyasyashrIhareHsarvArpaNastotrAdipradarshanam.itx
% itxtitle              : vadhUgItAyAMdhyeyasyashrIhareHsarvArpaNastotrAdipradarshanam (lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : vadhUgItAyAMdhyeyasyashrIhareHsarvArpaNastotrAdipradarshanam
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 57/60-107||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 28, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org