वधूगीतायां ध्येयस्य श्रीहरेः सर्वार्पणस्तोत्रादिप्रदर्शनम्
(पुरुषोत्तमप्रोक्तम्)-
संसारबन्धनान्मुक्तिमिच्छन् यः कोऽपि देहवान् ।
स्तुत्वा ध्यात्वा पूजयित्वा मां हरिं सम्प्रमुच्यते ॥ ६०॥
लक्ष्मि! नित्यं बलं प्राप्यं मम सर्वावतारिणः ।
अक्षरेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६१॥
शङ्खचक्रगदापद्मधारिणं परमेश्वरम् ।
अन्तःस्थितं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६२॥
मीनशूलध्वजधनुःस्वस्तिचक्रशरान्वितम् ।
श्रीवत्साङ्कं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६३॥
कम्भराश्रीसुतं कृष्णनारायणं प्रियं पतिम् ।
गोपालजं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६४॥
ब्रह्मप्रियापतिं हरिप्रियापतिं सतीपतिम् ।
श्रीपतिं सम्प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६५॥
राधारमापतिं लक्ष्मीरमापद्मावतीपतिम् ।
माणिकीशं प्रप्रन्नोऽस्मि किं मां मृत्युः करिष्यति ॥ ६६॥
कमलादुःखहालक्ष्मीपतिं नारायणीपतिम् ।
शिवजेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६७॥
दिव्यादेवीपतिं कीरापतिं कामोदकापतिम् ।
सुशीलेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६८॥
लीलावतीखशीनाथं हुण्डिकागणिकापतिम् ।
हंसिकेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ६९॥
अशोकसुन्दरीनाथं विकलेन्दुमतीपतिम् ।
भिल्लीशं सम्प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७०॥
रक्षाप्रज्ञाशमीश्रद्धानाथं मुक्तपतिं हरिम् ।
मम कान्तं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७१॥
कृष्णं रामं रामकृष्णं नारसिंहं जनार्दनम् ।
राजराजं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७२॥
वाराहं वामनं विष्णुं माधवं केशवं पतिम् ।
कान्तकान्तं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७३॥
कपिलं च हरिं वासुदेवं जनार्दनं शिवम् ।
अक्षरेशं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७४॥
अनन्तशिरसं कृष्णं सनातनं परं पतिम् ।
ब्रह्मयोनिं प्रपन्नास्मि किं मे मृत्युः करिष्यति ॥ ७५॥
प्रेमरसं हरेर्नित्यं पिबामि पार्श्ववर्तिनी ।
हरेः पादं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७६॥
हरेस्ताम्बूलजं मिष्टं रसं सुगन्धसम्भृतम् ।
पिबामि तं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७७॥
अमृताख्यं प्रसादं च नित्यमास्वादयामि च ।
ओष्ठरसं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७८॥
श्रीहरेः शयनं प्राप्ता महानन्दं वहामि च ।
आन्तरस्थं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ७९॥
आक्षरं बलमाप्ताऽस्मि नित्यं सुखं गताऽस्मि च ।
एकात्मानं प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ८०॥
तादात्म्यसुखमापन्ना रहस्यानन्दभोगिनी ।
तद्भावं च प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ८१॥
मृत्योः पिता महाकालो येन सृष्टोऽस्मि यद्वशः ।
तं प्रभुं सम्प्रपन्नास्मि किं मां मृत्युः करिष्यति ॥ ८२॥
इत्येवं श्रीहरेर्मे वै मदमाप्ता प्रिया मम ।
निर्भया सेवते मां चाश्नुते सर्वं सुखं मम ॥ ८३॥
सा धन्या सा सफलार्था सा च सर्वसुखस्थिता ।
सफलं जीवितं तस्याः स्तौति या पुरुषोत्तमम् ॥ ८४॥
ॐ नमोऽक्षरवासाय मुक्तसेव्याय ते नमः ।
ॐ नमश्चेश्वरेशायाऽवतारेशाय ते नमः ॥ ८५॥
ॐ नमो मुक्तपतये सतां च पतये नमः ।
ॐ नमोऽक्षरपतये मुक्तानीपतये नमः ॥ ८६॥
नमस्ते परमानन्द नमस्ते परमाऽक्षर ।
नमस्ते नित्यसर्वज्ञ नमस्ते ज्ञानमुक्तिद ॥ ८७॥
नमस्ते चात्मवासाय नमस्ते पुरुषोत्तम ।
सर्वान्तरात्मरूपाय नारायणाय ते नमः ॥ ८८॥
नमस्ते कम्भरापुत्र गोपालजाय ते नमः ।
नमस्ते श्रीपते कृष्णनारायण च ते नमः ॥ ८९॥
नमस्ते कुङ्कुमवापीनिवासायाऽब्धिशायिने ।
ब्रह्मप्रियाधिपतये हरिप्रियाप्रियाय च ॥ ९०॥
जय सत्यजगत्साक्षिन् जय सर्वपुमर्थद ।
जय वेदान्तवेद्यस्त्वं जय कान्त मनोहर ॥ ९१॥
जय सूक्ष्मचिदानन्द जय चित्तनिरञ्जन ।
जय नाथ जय सर्व जय शान्तसनातन ॥ ९२॥
त्वं गुरुस्त्वं हरे कान्तत्वं स्वामी त्वं ममाधिपः ।
धर्मज्ञानादयस्त्वं मे त्वं मे विष्णुः प्रमोक्षदः ॥ ९३॥
त्वं प्रभुस्त्वं समुद्धर्ता त्वं पाता त्वं प्रलुम्पकः ।
त्वं श्रीः पुष्टिस्त्वं च लक्ष्मीस्त्वं प्रभा त्वं च माणिकी ॥ ९४॥
त्वं क्षेत्रज्ञः परेशश्च त्वं यज्ञस्त्वं हुताशनः ।
तव रूपमिदं सर्वं परब्रह्म त्वमीश्वरः ॥ ९५॥
अवतारात्मकमूर्तिं ते भजन्ति दिवौकसः ।
भजने पूजने पाने भोजने पुरुषोत्तम ॥ ९६॥
क्षन्तुमर्हसि देवेश यत्कृतं न कृतं मया ।
न शक्नोमि सदा कर्तुं पूजां सम्यक् क्षमस्व माम् ॥ ९७॥
यत् कृतं जपहोमादि ह्यसाध्यं पुरुषोत्तम ।
न्यूनं पूर्णं मम मत्वा निजां मां स्वीकुरु प्रभो ॥ ९८॥
दिवारात्रौ च सन्ध्यायां सर्वावस्थासु मे प्रभो ।
अचला वै त्वयि भक्तिस्तवाङ्घ्रियुगले स्थितिः ॥ ९९॥
इति स्तोत्रेण मां नाथं भक्त्येडिष्व नरायणि ।
यदिच्छसि ममानन्दं भज भक्त्या जगद्गुरुम् ॥ १००॥
प्रातर्जपेदिदं स्तोत्रं स्मरन्तं पुरुषोत्तमम् ।
स्वर्गं मोक्षं सम्पदं च सर्वान् कामानवाप्नुयात् ॥ १०१॥
पुत्रार्थी लभते पुत्रान् बद्धो मुच्येत बन्धनात् ।
कन्यार्थिनी लभेत् कन्यां कन्या शुभं पतिं लभेत् ॥ १०२॥
रोगाद्विमुच्यते रोगी निर्धनो लभते धनम् ।
जातिस्मरत्वं मेधावी विद्यार्थी ज्ञानमर्जयेत् ॥ १०३॥
जघन्यश्चापि मूर्धन्यस्त्वसाधुः साधुसत्तमः ।
शठोऽपि सत्यवाक् स्याच्च यः स्तौति पुरुषोत्तमम् ॥ १०४॥
सर्वधर्मबहिष्कृता अपि ते साधवो मताः ।
येषां प्रवर्तनं सर्वं हरिमुद्दिश्य जायते ॥ १०५॥
नाऽऽशौचं विद्यते तस्या यस्या भक्तिः परेश्वरे ।
मनो वाग्वर्ष्म सर्वस्वं मया क्षिप्तौ हरौ त्विह ॥ १०६॥
आराध्य सर्वदा कृष्णनारायणं सुखप्रदम् ।
नरो नारी च वा षण्ढः प्राप्नोतीह सुवाञ्छितम् ॥ १०७॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
५७-अध्यायान्तर्गतं वधूगीतायां ध्येयस्य श्रीहरेः
सर्वार्पणस्तोत्रादिप्रदर्शनं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय ५७/६०-१०७॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 57/60-107..
Proofread by PSA Easwaran