वैष्णवधर्मोपदेशः

वैष्णवधर्मोपदेशः

श‍ृणु रूप! प्रवक्ष्यामि वैष्णवधर्मलक्षणम् । यज्ज्ञात्वा वैष्णवाः सर्वे मुच्यन्ते कर्मबन्धनैः ॥ १॥ संस्कृताः पञ्चसंस्कारात्प्रभवन्ति च वैष्णवाः । न कुर्वन्ति परद्रोहं कुर्वन्ति चात्मचिन्तनम् ॥ २॥ यथा यज्ञोपवीतं च न त्याज्यं ब्राह्मणैः क्षणम् । वैष्णवैर्न तथा माला न त्याज्या क्षणमेव च ॥ ३॥ मूलाच्छतगुणं पुण्यं जीर्णोद्धारे कृते भवेत् । तस्मात्सर्वं प्रयत्नेन जीर्णस्योद्धारमाचरेत् ॥ ४॥ गीतं नृत्यं च वाद्यं च सामवेदस्य गायनम् । पूजाकाले भवेन्नित्यं शङ्खध्वनिश्च सुस्वरः ॥ ५॥ आद्यस्तु वैष्णवः प्रोक्तो धनुर्बाणाङ्कितो हरेः । तुलसी चोर्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः ॥ ६॥ अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः । न फलन्ति वटो! तेषां शिलायामुप्तबीजवत् ॥ ७॥ यज्ञो दानं जपो होमः स्वाध्यायः धर्मकर्म च । वृथा भवन्ति हे शिष्य! ऊर्ध्वपुण्ड्रं विना कृतम् ॥ ८॥ ध्येयो ज्ञेयश्च रामो हि गेयो वाल्मीकिवाङ्गमयः । जप्यः श्रीराममन्त्रश्चेत्याहुर्वैष्णवदेशिकाः ॥ ९॥ अस्माकं परिवारे तु सम्भविष्यन्ति वैष्णवाः । इतिहासस्य कर्त्तारः सम्प्रदायस्य रक्षकाः ॥ १०॥ अस्माकं सम्प्रदायस्य भविष्यन्ति प्रचारकाः । वृत्तस्य गुरुवर्याणां पूर्वेषां चानुयायिनः ॥ ११॥ एतत्स्थानस्य सूरीणां सानिध्याच्चानुयायिनाम् । भवेयुर्वैष्णवाः सर्वे वैष्णवधर्मशिक्षिताः ॥ १२॥ सर्वशास्त्रेषु निष्णाताः सर्वेषां हितकारकाः । विरक्ता वैष्णवा ये च शिखासूत्रसमन्विताः ॥ १३॥ संन्यासिनस्तु विज्ञेया सन्ति ते साधुसत्तमाः । टीलाचार्येण संन्यासिपरिभाषा विनिश्चिता ॥ १४॥ चतुर्थ आश्रमो ज्ञेयो टीलाचार्येण भाषितः । विरक्तानां च साधूनां वैष्णवानां विशेषतः ॥ १५॥ नीतिशास्त्रोपदेशःऽ आत्मबुद्धिः सुखायैव गुरुबुद्धिर्विशेषतः । भृत्यबुद्धिर्विनाशाय स्त्रीबुद्धिः प्रलयावहा ॥ १६॥ द्वाविमौ पुरुषौ लोके न भूतौ न भविष्यतः । प्रार्थितं यश्च दीयते यश्च नार्थयते परम् ॥ १७॥ अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा । तदिदं देहि देहीति विपरीतमुपस्थितम् ॥ १८॥ सम्पत्सरस्वती सत्यं सन्तानं सदनुग्रहः । सत्ता सुकृतसम्भारः सकाराः सप्त दुर्लभाः ॥ १९॥ उपभोक्तुं न जानाति श्रियः प्राप्यापि मानवः । आकण्ठजलमग्नोऽपि श्वा लेढि जिह्वया जलम् ॥ २०॥ श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च विदन्ति ॥ २१॥ पण्डितैः सह साङ्गत्यं पण्डितैः सह सत्कथाः । पण्डितैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ २२॥ स जीवति गुणा यस्य धर्मो यस्य स जीवति । गुणधर्मविहीनो यो निष्फलं तस्य जीवितम् ॥ २३॥ शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि । सर्वदा सर्वप्रयत्नेन पुत्रे शिष्यवदाचरेत् ॥ २४॥ लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥ २५॥ अविद्यं जीवनं शून्यं दिक्शून्या चेदबान्धवाः । शिष्यहीनो मठः शून्यः सर्वशून्या दरिद्रता ॥ २६॥ घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान् । तस्माद् घृतं च वह्निं च नैकत्र स्थापयेद् बुधः ॥ २७॥ प्रथमे नर्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥ २८॥ प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥ २९॥ धर्मार्थे यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ ३०॥ सन्देहो वैष्णवे मार्गे न कार्योऽन्यैः कुदर्शनैः । रामप्रभावमद्यापि पयोब्धौ पश्य सेतुना ॥ ३१॥ तत्र शिष्य! न वस्तव्यं-यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ ३२॥ नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ॥ ३३॥ दानं वित्तादृतं वाचः कीर्तिधर्मौ तथायुषः । परोपकरणं कुर्यादसारात्सारमाहरेत् ॥ ३४॥ आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणीयम् । रामधामशरणीकरणीयं लीलया भवजलं तरणीयम् ॥ ३५॥ अर्थातुराणां न गुरुर्न बन्धुः कामातुराणां न भयं न लज्जाः । विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न रुचिर्न बेला ॥ ३६॥ गलारत्नं गीतं गगनतलरत्नं दिनमणिः । सभारत्नं विद्वाञ्श्रवणपुटरलं हरिकथा ॥ ३७॥ निशारलं चन्द्रः शयनतलरत्नं च सुन्दरी । महीरत्नं श्रीमाञ्जयति रघुनाथो नृपवरः ॥ ३८॥ उपकारः परो धर्मः परार्थ कर्म नैपुणम् । पात्रे दानं परः कामः परो मोक्षो वितृष्णता ॥ ३९॥ परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् । न हीदृशमनायुष्यं त्रिषु लोकेषु विद्यते ॥ ४०॥ मात्रा स्वस्रा दुहित्रा-वा नैकशय्यासनो भवेत् । बलवानिन्द्रियग्रामो विद्रांसमपि कर्षति ॥ ४१॥ उत्तमा आत्मना ख्याताः पितुः ख्याताश्च मध्यमाः । अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ॥ ४२॥ कुभोज्येन दिनं नष्टं कुमार्गेण च जीवनम् । कुशिष्येण मठो नष्टस्तन्नष्टं यन्न दीयते ॥ ४३॥ अप्युन्नतपदारूढः पूज्यान्नैवापमानयेत् । नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमाननात् ॥ ४४॥ हितोपदेशं श‍ृणुयात्कुर्वीत च यथोदितम् । विदुरोक्तमकृत्वाभूत्कौरवः शोकशल्यभाक् ॥ ४५॥ व्याकुलोऽपि विपत्पातैः स्मरेद्रामं सदा हृदि । शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ ४६॥ मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च । द्विषतां सम्प्रयोगेण पण्डितोऽप्यवसीदति ॥ ४७॥ गुरूणां स गुरुः श्रेष्ठो यस्य शिष्यस्तु पण्डितः । शिष्याणां स वरः शिष्यो येन विश्रूयते गुरुः ॥ ४८॥ अपूज्या यत्र पूज्यन्ते पूज्यानान्तु विडम्बना । त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥ ४९॥ धनानि जीवितश्चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ ५०॥ अनुकूले हरौ देयं यतः पूरयिता हरिः । प्रतिकूले हरौ देयं यतः सर्वं हरिष्यति ॥ ५१॥ स्वाचार्यजन्मतिथ्यां च यः करोति न पूजनम् । प्राचार्यस्य मनुष्येषु स चाधमाधमःश्रुतः ॥ ५२॥ प्राचार्यपूजनं नित्यं कुर्वन्ति वैष्णवा बुधाः । न हि कुर्वन्ति पूजां च धूर्ताः पाखण्डिनस्तथा ॥ ५३॥ पूर्वोक्तेन प्रकारेण भविष्यति परम्परा । रूपदास! वचः सत्यं ममानुयायिनामिदम् ॥ ५४॥ इति श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीतः वैष्णवधर्मोपदेशः सम्पूर्णः । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Mangalacharyamahamunindrapranitah Vaishnavadharmopadeshah
% File name             : vaiShNavadharmopadeshaHmangalAchAryamahAmunIndra.itx
% itxtitle              : vaiShNavadharmopadeshaH (maNgalAchAryamahAmunIndrapraNItaH)
% engtitle              : vaiShNavadharmopadeshaH
% Category              : vishhnu, rAmAnanda, upadesha, advice, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : maNgalAchAryamahAmunIndra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org