सर्वव्याधिहर अथवा रोगनाशनवैष्णवकवचम्
हरिरुवाच ।
सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् ।
येन रक्षा कृता शम्भोर्दैत्यान्क्षपयतः पुरा ॥ १॥ शम्भोर्नात्र कार्या विचारणा
प्रणम्य देवमीशानमजं नित्यमनामयम् ।
देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥ २॥
बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् । प्रतीकारं
अमोघाप्रतिमं सर्वं सर्वदुःखनिवारणम् ॥ ३॥
विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः ।
हरिर्मे रक्षतु शिरो हृदयञ्च जनार्दनः ॥ ४॥
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः ।
प्रातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥ ५॥
प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च ।
वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः ॥ ६॥
पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् ।
दक्षिणन्तु गदादेवी सर्वासुरनिवारिणी ॥ ७॥
उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् ।
ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥ ८॥
पार्ष्णी रक्षतु शङ्खश्च पद्मं मे चरणावुभौ ।
सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥ ९॥
वराहो रक्षतु जले विषमेषु च वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ १०॥
हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु ।
साङ्ख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ ११॥
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ।
सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥ १२॥ सूदनः
सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् ।
हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ॥ १३॥
त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु । सर्वपापान्निगृह्णतु
तथा नारायणो देवो बुद्धिं पालयतां मम ॥ १४॥
शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् ।
वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥ १५॥
पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः ।
दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥ १६॥ दत्तात्रेयः कलयतु
सर्वानरीन्नाशयतु रामः परशुना मम ।
रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः ॥ १७॥
शत्रून्हलेन मे हन्याद्रमो यादवनन्दनः ।
प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ।
कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥ १८॥
अन्धकारतमोघोरं पुरुषं कृष्णपिङ्गलम् ।
पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥ १९॥
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ।
धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ॥ २०॥
ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् ।
वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥ २१॥
अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् ।
स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥ २२॥
सिद्धिर्भवतु मे नित्यं यथा मन्त्रमुदाहृतम् ।
यो मां पश्यति चक्षुर्भ्यां यञ्चः पश्यामि चक्षुषा ।
सर्वेषां पापदुष्टानां विष्णुर्बध्नातु चक्षुषी ॥ २३॥
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः ।
ते हि छिन्दन्तु पापान्मे मम हिंसन्तु हिंसकान् ॥ २४॥ पापानि
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ।
विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥ २५॥
नदीसन्तारणे घोरे सम्प्राप्ते प्राणसंशये ।
अग्निचौरनिपातेषु सर्वग्रहनिवारणे ॥ २६॥
विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे ।
जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥ २७॥
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् ।
विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम् ।
स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत् ॥ २८॥
ॐ अनाद्यन्त जगद्बीज पद्मनाभ नमोऽस्तु ते ।
ॐ कालाय स्वाहा । ॐ कालपुरुषाय स्वाहा । ॐ कृष्णाय स्वाहा ।
ॐ कृष्णरूपाय स्वाहा । ॐ चण्डाय स्वाहा । ॐ चण्डरूपाय स्वाहा ।
ॐ प्रचण्डाय स्वाहा । ॐ प्रचण्डरूपाय स्वाहा । ॐ सर्वाय स्वाहा ।
ॐ सर्वरूपाय स्वाहा । ॐ नमो भुवनेशाय त्रिलोकधात्रे इह विटि
सिविटि सिविटि स्वाहा । ॐ नमः अयोखेतये ये ये संज्ञापय var संज्ञायापात्र
दैत्यदानवयक्षराक्षसभूतपिशाचकूष्माण्डान्तापस्मारकच्छर्दनदुर्धराणा-
मेकाहिकद्व्याहिकत्र्याहिकचातुर्थिक मौहूर्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्वज्वरादीनां
लूताकीटकण्टकपूतनाभुजङ्गस्थावरजङ्गमविषादीनामिदं शरीरं
मम पथ्यं त्वं कुरु स्फुट स्फुट स्फुट प्रकोट लफट
विकटदंष्ट्रः पूर्वतो रक्षतु ।
ॐ है है है है दिनकर्सहस्रकालसमाहतो जय पश्चिमतो रक्ष ।
ॐ निवि निवि प्रदीप्तज्वलनज्वालाकार महाकपिल उत्तरतो रक्ष ।
ॐ विलि विलि मिलि मिलि गरुडि गरुडि गौरीगान्धारीविषमोहविषमविषमां
महोहयतु स्वाहा दक्षिणतो रक्ष ।
मां पश्य सर्वभूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय
विजय तेन हीयते रिपुत्रासाहङ्कृतवाद्यतोभय रुदय वोभयोऽभयं
दिशतु च्युतः तदुदरमखिलं विशन्तु
युगपरिवर्तसहस्रसङ्ख्येयोऽस्तमलमिव प्रविशन्ति रश्मयः ।
वासुदेवसङ्कर्षणप्रद्युम्नश्चानिरुद्धकः ।
सर्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः ॥ २९॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
वैष्णवकवचकथनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ॥
Garudapurana pUrvArdha adhyAya 194 - 1/29
Proofread NA.