श्रीवैकुण्ठस्तवः

श्रीवैकुण्ठस्तवः

पञ्चस्तव्यां १ श्रीवैकुण्ठस्तवः (श्रीवत्सचिह्नमिश्रैरनुगृहीतायां पञ्चस्तव्याम्) श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्म- व्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १॥ त्रैविद्यवृद्धजनमूर्धविभूषणं यत् सम्पच्च सात्त्विकजनस्य यदेव नित्यम् । यद्वा शरण्यमशरण्यजनस्य पुण्यं तत्संश्रयेम वकुळाभरणाङ्घ्रियुग्मम् ॥ २॥ भक्तिप्रभावभवदद्भुतभावबन्ध- सन्धुक्षितप्रणयसाररसौघपूर्णः । वेदार्थरत्ननिधिरच्युत दिव्यधामा जीयात्पराङ्कुशपयोधिरसीमभूमा ॥ ३॥ यन्मङ्गलाय महते जगतामुशन्ति त्रैविष्टपान्यपि पदानि यदाश्रयाणि । वन्दामहे सरसिजेक्षणमद्धितीयं वेदान्तवेद्यमनिदम्प्रथमं महस्तत् ॥ ४॥ पीताम्बरं वरदशीतलदृष्टिपात- माजानुलम्बिभुजमायतकर्णपाशम् । तन्मेघमेचकमुदग्रविशालवक्षो लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥ ५॥ यत्त्तत्वमक्षरमदृश्यमगोत्रवर्णं अग्राह्यमव्ययमनीदृशमद्वितीयम् । ईशानमस्य जगतो यदणोरणीयः तद्वैष्णवं पदमुदात्तमुदाहरामः ॥ ६॥ आम्नायमूर्धनि च मूर्धनि चोर्ध्वपुंसां यद्धाम वैष्णवमभीक्ष्णतरं चकास्ति । तन्मादृशामपि च गोचरमिति वाचो मन्ये तदीयमिदमाश्रितवत्सलत्वम् ॥ ७॥ जानन्नपीह किल मामनपत्रपिष्णुः विष्णोः पदप्रणयिनीं गिरमाद्रियेऽहम् । न श्वावलीढमपि तीर्थमतीर्थमाहुः नोदन्यतापि च शुना किल लज्जितव्यम् ॥ ८॥ देवस्य दैत्यमथनस्य गुणेष्वियत्ता सङ्ख्या च वाङ्मनसगोचरमत्यभूताम् । अप्येवमण्वपि च तत्र ममार्तिशान्त्यै कीटस्य तृप्यत उदन्वति विप्रुषोऽलम् ॥ ९॥ प्रेमार्द्रविह्वलगिरः पुरुषाः पुराणाः स्वां तुष्टुवुर्मधुरिपो मधुरैर्वचोभिः । वाचो विडम्बितमिदं मम नीचवाचः क्षान्तिस्तु ते सविषया मम दुर्वचोभिः ॥ १०॥ आज्ञा तवात्रभवती विदिता त्रयी सा तां हि प्रमाणमभिजग्मुरतीन्द्रियेऽर्थे । आभासभूयमभियान्त्यपराणि दोषैः एषा तु दोषरहिता महिता पुराणी ॥ ११॥ अन्तर्हितो निधिरसि त्वमशेषपुंसां लभ्योऽसि पुण्यपुरुषैरितरैर्दुरापः । तत्र त्रयीं सुकृतिनः कृतिनोऽधिजग्मुः बाह्येषु बाह्यचरितैरितरैर्निपेते ॥ १२॥ चित्रं विधेर्विलसितं त्विदमाविरस्ति दुष्टात्मनामयगहो किल दुर्विपाकः । यत्केचिदत्रभवतीं श्रुतिमाश्रयन्तो- ऽप्यर्थे कुदृष्टिविनिविष्टधियो विनष्टाः ॥ १३॥ बाह्याः कुदृष्टय इति द्वितयेऽप्यपारं घोरं तमस्समुपयान्ति न हीक्षसे तान् । जग्धस्य काननमृगैर्मृगतृष्णिकेप्सोः कासारसत्त्वनिहतस्य च को विशेषः ॥ १४॥ न्यायस्मृति प्रभृतिभिर्भवता निसृष्टैः वेदोपबृंहणविधावुचितैरुपायैः । श्रुत्यर्थमर्थमिव भानुकरैर्विभेजुः त्वद्भक्तिभावितविकल्मषशेमुषीकाः ॥ १५॥ ये तु त्वदङ्घ्रिसरसीरुहभक्तिहीनाः तेषाममीभिरपि नैव यथार्थबोधः । पित्तघ्नमञ्जनमनाप्नुषि जातु नेत्रे नैव प्रभाभिरपि शङ्खसितत्वबुद्धिः ॥ १६॥ वेदार्थधीस्त्वयि तु भक्तित एव लभ्या यावान् हि यश्च भगवन्नसि तत्त्वतस्त्वम् । ज्ञातु तथा भुवनभावन वेदवेद्यं द्रष्टुं प्रवेष्टुमपि भक्तित एव शक्यः ॥ १७॥ तत्त्वार्थतत्परपरश्शतवेदवाक्यैः सामर्थ्यतः स्मृतिभिरप्यथ तादृशीभिः । त्वामेव तत्त्वपरसात्त्विकसत्पुराणैः देवज्ञधीभिरपि निश्चिनुमः परेशम् ॥ १८॥ अन्यत्र तु क्वचन केचिदिहेशशब्दात् लोकप्रसिद्धिमुपगम्य तमीशमाहुः । तैश्च प्रसिद्धविभवस्य समूलतायै ग्राह्या त्रयी त्वयि तु साऽच्युत सम्भुखीना ॥ १९॥ यः खल्वणोरणुतरो महतो महीयान् आत्मा जनस्य जनको जगतश्च योऽभूत् । वेदात्मकप्रणवकारणवर्णवाच्यं तं त्वां वयन्तु परमेश्वरमामनामः ॥ २०॥ आत्मेश्वरोऽसि न परोऽस्ति तवेश्वरोऽन्यो विश्वस्य चासि पतिरस्य परायणं च । नारायणाच्युत परस्त्वमिहैक एव ब्रह्मादयोऽपि भवदीक्षणलब्धसत्ताः ॥ २१॥ नित्स्समाभ्यधिकवर्जित ऊर्जितश्रीः नित्येऽक्षरे दिवि वसन्पुरुषः पुराणः । सत्त्वप्रवर्तनकरो जगतोऽस्य मूलं नान्यस्त्वदस्ति धरणीधर वेदवेद्यः ॥ २२॥ यं भूतभव्यभवदीशमनीशमाहुः अन्तस्समुद्रनिलयं यमनन्तरूपम् । यस्य त्रिलोकजननी महिषी च लक्ष्मीः साक्षात्स एव पुरुषोऽसि सहस्रमूर्धा ॥ २३॥ सर्वं श्रुतिष्वनुगतं स्थिरमप्रकम्प्यं नारायणाह्वयधरं त्वमिवानवद्यम् । सूक्तं तु पौरुषमशेषजगत्पवित्रं त्वामुत्तमं पुरुषमीशमुदाजहार ॥ २४॥ आनन्दमैश्वरमवाङ्मनसाऽवगाह्यं आम्नासिषुश्शातगुणोत्तरितक्रमेण । सोऽयं तवैव नृषु हि त्वमिहान्तरात्मा त्वं पुण्डरीकनयनः पुरुषश्च पौष्णः ॥ २५॥ यन्मूलकारणमबुध्यत सृष्टिवाक्यैः ब्रह्मेति वा सदिति वाऽऽत्मगिराऽथवा तत् । नारायणस्त्विति महोपनिषद्ब्रवीति सौबालिकीप्रभृतयोऽप्यनुजरमुरेनाम् ॥ २६॥ ज्योतिः परं परमतत्त्वमथो परात्मा ब्रह्मेति च श्रुतिषु यत्परवस्त्वधीतम् । नारायणस्तदिति तद्विशिनष्टि काचि- द्विष्णोः पदं परममित्यपरा गृणाति ॥ २७॥ सन्तीदृशाश्श्रुतिशिरस्सु परस्सहस्रा वाचस्तव प्रथयितुं परमेशितृत्वम् । किञ्चेह न व्यजगणःकृमिधातृभेदं क्रामन् जगन्ति निगिरन् पुनरुद्गिरंश्च ॥ २८॥ रूपश्रिया परमया परमेण धाम्ना चित्रैश्च कैश्चिदुचितैः भवतश्चरित्रैः । चिह्नैरनिह्ववपरैरपरैश्च कैश्चित् निश्चिन्वते त्वयि विपश्चित ईशितृत्वम् ॥ २९॥ यस्याः कटाक्षणमनुक्षणमीश्वराणां ऐश्वर्यहेतुरिति सार्वजनीनसिद्धम् । तं श्रीरिति त्वदुपसंश्रयणान्निराहु- स्त्वां च श्रियश्श्रियमुदाहुरुदारवाचः ॥ ३०॥ माया त्वया गुणमयी किल या निसृष्टा सा ते विभो किमिव नर्म न निर्मिमीते । कौतस्कुताः स्थिरकुतर्कवशेन केचित् सत्यां श्रुतौ च बधिरास्त्वयि तन्महिम्ना ॥ ३१॥ यत्स्थावरक्रिमिपतङ्गमतङ्गजादि- ष्वन्येषु जन्तुषु सदैव विजायमानः । त्वन्नित्यनिर्मलनिरञ्जननिर्विकार- कल्याणसद्गुणनिधे स इतीरितस्तैः ॥ ३२॥ त्वद्दृष्टिजुष्टमिदमाविरभूदशेषं नोचेत्कटाक्षयसि नैव भवेत्प्रवृत्तिः । स्थातुं च वाञ्छति जगत्तव दृष्टिपातं तेन श्रुतौ जगदिषे हि जगत्त्वमेव ॥ ३३॥ एव भगो इह भवत्परतन्त्र एव शब्दोऽपि रूपवदमुष्य चराचरस्य । ऐश्वर्यमीदृशमिदं श्रुतिषूदितं ते पापीयसामयमहो त्वयि मोहहेतुः ॥ ३४॥ ये त्वत्कटाक्षलवलक्ष्यमिव क्षणं तै- रैश्वर्यमीदृशमलभ्यमलम्भि पुम्भिः । यत्केऽपि सञ्जगदिरे परमेशितृत्वं तेषामपि श्रुतिषु तन्महिमप्रसङ्गात् ॥ ३५॥ नित्येषु वस्तुषु भवन्निरपेक्षमेव तत्तस्वरूपमिति केचिदिह भ्रमन्तः । ऐश्वर्यमत्र तव सावधिकं गिरन्ते ब्रूते त्रयी तु निरुपाधिकमीशनं ते ॥ ३६॥ इच्छात एव तव विश्वपदार्थसत्ता नित्यं प्रियास्तव तु केचन ते हि नित्याः । नित्यं त्वदेकपरतन्त्र निजस्वरूपा भावत्कमङ्गळगुणा हि निदर्शनं न ॥ ३७॥ विश्वस्य विश्वविधकारणमच्युतत्वं कार्यं तदेतदखिलं चिदचित्स्वरूपम् । त्वं निर्विकार इति वेदशिरस्सु घोषो निस्सीममेव तव दर्शयतीशितृत्वम् ॥ ३८॥ किं साधनः क्व निवसन् किमुपाददानः कस्मै फलाय सृजतीश इदं समस्तम् । इत्याद्यनिष्ठितकुतर्कमतर्कयन्तः त्वद्वैभवं श्रुतिविदो विदुरप्रतर्क्यम् ॥ ३९॥ यत्संवृतं दशगुणोत्तरसप्ततत्त्वै- रण्डं चतुर्दश जगद्भवधातृधाम । अण्डानि तत्सुसदृशानि परश्शतानि क्रीडाविधेस्तव परिच्छदतामगच्छन् ॥ ४०॥ इच्छाविहारविधये विहितान्यमूनि स्यात्तद्विभूतिलवलेशकलायुतांशः । या वै न जातु परिणामपदास्पदं सा कालात्मिका तव परा महती विभूतिः ॥ ४१॥ यद्वैष्णवं हि परमं पदमामनन्ति खं वा यदेव परमं तमसः परस्तात् । तेजोमयं परमसत्त्वमयं ध्रुवं य- दानन्दकन्दमतिसुन्दरमद्भुतं यत् ॥ ४२॥ यद्ब्रह्मरुद्रपुरुहूतमुरवैर्दुरापं नित्यं निवृत्तिनिरतैस्सनकादिभिर्वा । सायुज्यमुज्ज्वलमुशन्ति यदाऽऽपरोक्ष्यं यस्मात्परं न पदमञ्जितमस्ति किश्चित् ॥ ४३॥ रूपेण सद्गुणगणैः परया समृद्ध्या भावैरुदारमधुरैरपि वा महिम्ना । तादृक्तदीदृगिदमित्युपवर्णयन्त्यो वाचो यदीयविभवस्य तिरस्क्रियायै ॥ ४४॥ यद्वृद्ध्यपक्षयविनाशमुखैर्विकारैः एतैरसंस्तृतमनस्तमितास्तिशब्दम् । यद्गौरवात् श्रुतिषु फल्गुफलं क्रियाणा- मादिष्टमन्यदसुखोत्तरमध्रुवं च ॥ ४५॥ निष्कल्मषैर्निहतजन्मजराविकारै- भूयिष्ठभक्तिविभवैरभवैरवाप्यम् । अन्यैरधन्यपुरुषैर्मनसाऽप्यनाप्यं वैकण्ठनाम तव धाम तदामनन्ति ॥ ४६॥ नित्या तवान्यनिरपेक्षमहामहिम्नो - ऽप्येतादृशी निरवधि निर्यता विभूतिः । ज्ञानादयो गुणगणास्समतीतसीमा लक्ष्मीः प्रिया परिजनाः पतगेन्द्रमुख्याः ॥ ४७॥ एकस्य येषु हि गुणस्य लवायुतांशः स्यात्कस्यचित्स खलु वाङ्मनसातिगश्रीः । ते तादृशोऽत्यवधयस्समतीतसङ्ख्याः त्वत्सद्गुणास्त्वमसि तन्निरपेक्षलक्ष्मीः ॥ ४८॥ सर्वस्य चैव गुणतो हि विलक्षणत्व- मैश्वर्यतश्च किल कश्चिदुदञ्चितस्स्यात् । तत्प्रत्युत त्वयि विभो विभवो गुणाश्च सम्बन्धतस्तव भजन्ति हि मङ्गलत्वम् ॥ ४९॥ दूरे गुणास्तव तु सत्त्वरजस्तमांसि तेन त्रयी प्रथयति त्वयि निर्गुणत्वम् । नित्यं हरे निखिलसङ्गुणसागरं हि त्वामामनन्ति परमीश्वरमीश्वराणाम् ॥ ५०॥ ज्ञानात्मनस्तव तदेव गुणं गृणन्ति तेजोमयस्य हि मणेर्गुण एव तेजः । तेनैव विश्वमपरोक्षमुदीक्षसे त्वं रक्षा त्वदीक्षणत एव यतोऽखिलस्य ॥ ५१॥ त्रय्युद्यता तव युवत्वमुखैर्गणौघै- रानन्दमेधितमियानिति सन्नियन्तुम् । ते ये शतन्त्विति परम्परया प्रवृत्ता नैवैष वाङ्मनसगोचर इत्युदाह ॥ ५२॥ एवं तया चतुरया तव यौवनाद्या- स्सर्वे गुणास्सह समस्तविभूतिभिश्च । प्रव्याहृताः स्युरवधीनवधीरयन्तो वाचामगोचरमहामहिमान एव ॥ ५३॥ सवर्तवर्ति निखिलं निरभिज्ञमज्ञं चित्रे च कर्मणि यथार्हमहो नियच्छन् । सद्यः कृमिद्रुहिणभेदमभेदमेत- दाविश्चकर्थ सकृदीक्षणदीक्षणेन ॥ ५४॥ अस्तं यदुद्यदुपचाय्यपचायि चैव- मीशं दरिद्रमथ जङ्गममप्यलिङ्गम् । विश्वं विचित्रमविलक्षणवीक्षणेन विक्षोभयस्यनवधिर्बत शक्तिरैशी ॥ ५५॥ रूपप्रकार परिणामकृतव्यवस्थं विश्वं विपर्यसितुमन्यदसच्चकर्तुम् । क्षाम्यन् स्वभावनियमं किमुदीक्षसे त्वं स्वातन्त्र्यमैश्वरमपर्यनुयोज्यमाहुः ॥ ५६॥ संवर्तसम्भृतकरस्य सहस्ररश्मे- रुस्रं तमिस्रयदजस्रविहारहारि । नित्यानुकूलमनुकूलनृणां परेषा- मुद्वेजनं च तव तेज उदाहरन्ति ॥ ५७॥ नैव ह्यवाप्यमनवाप्तमिहास्ति यस्य सत्ताऽपि तस्य तव वीक्षणतः प्रजानाम् । सम्पत्तु किं पुनरितो न वदान्यमन्यं मन्ये त्वमेव खलु मन्दिरमिन्दिरायाः ॥ ५८॥ पापै रनादिभवसम्भववासनोत्थै- र्दुःखेषु यः खलु मिमङ्क्षति हन्त जन्तुः । तं केवलं नु कृपयैव समुद्धरिष्यन् तद्दुष्कृतस्य ननु निष्कृतिमात्थ शास्त्रैः ॥ ५९॥ शास्त्रैरनादिनिधनैः स्मृतिभिस्त्वदीय- दिव्यावतारचरितैश्शुभया च दृष्ट्या । निःश्रेयसं यदुपकल्पयसि प्रजानां सा त्वत्कृपाजलधितल्लजवल्गितश्रीः ॥ ६०॥ है हन्त जन्तुषु निरन्तरसन्ततात्मा पाप्मा हि नाम वद कोऽयमचिन्त्यशक्तिः । यस्त्वत्कृपाजलधिमप्यतिवेलरवेल- मुल्लङ्घयत्यकृतभासुरभागधेयान् ॥ ६१॥ यद्ब्रह्मकल्पनियतानुभवेऽप्यनाश्यं तत्किल्बिषं सृजति जन्तुरिह क्षणार्धे । एवं सदा सकलजन्मसु सापराधं क्षाम्यस्यहो तदभिसन्धिविराममात्रात् ॥ ६२॥ क्षान्तिस्तवेयमियती महती कथन्नु मुह्येदहो त्वयि कृताञ्जलिपञ्जरेषु । इत्थं स्वतो निखिलजन्तुषु निर्विशेषं वात्सल्यमुत्सकजनेषु कथं गुणस्ते ॥ ६३॥ विश्वं धियैव विरचय्य निचाय्य भूय- स्सञ्जह्रुषस्सति समाश्रितवत्सलत्वे । आजग्मुषस्तव गजोत्तमबृंहितेन पादं पराममृशुषोऽपि च का मनीषा ॥ ६४॥ यः कश्चिदेव यदि किञ्चन हन्त जन्तु- र्भव्यो भजेत भगवन्तमनन्यचेताः । तं सोऽयमीदृश इयानिति वाप्यजानन् है वैनतेय स ममाप्युररीकरोषि ॥ ६५॥ त्वत्साम्यमेव भजतामभिवाञ्छसि त्वं त्वत्सात्कृतैर्विभवरूपगुणैस्त्वदीयैः । मुक्तिं ततोऽपि परमं तव साम्यमाहु- स्त्वद्दास्यमेव विदुषां परमं मतं तत् ॥ ६६॥ तद्वै तथाऽस्तु कतमोऽयमहो स्वभावो यावान्यथाविधगुणो भजते भवन्तम् । तावांस्तथाविधगुणस्तदधीनवृत्तिः संश्लिष्यसे त्वमिह तेन समानधर्मा ॥ ६७॥ श्रीवैकुण्ठनाथमभिष्टौति -- नीलाञ्जनाद्रिनिभमुन्नसमायताक्ष- माजानुजैत्रभुजमायतकर्णपाशम् । श्रीवत्सलक्षणमुदारगभीरनाभिं पश्येम देव शरदश्शतमीदृशं त्वाम् ॥ ६८॥ अम्भोरुहाक्षमरविन्दनिभाङ्घ्रियुग्म- माताम्रतामरसरम्यकराग्रकान्तिम् । भृङ्गालकं भ्रमरविभ्रमकायकान्तिं पीताम्बरं वपुरदस्तु वयं स्तुवाम ॥ ६९॥ भ्रूविभ्रमेण मृदुशीतविलोकितेन मन्दस्मितेन मधुराक्षरया च वाचा । प्रेमप्रकर्षपिशुनेन विकासिना च सम्भावयिष्यसि कदा मुखपङ्कजेन ॥ ७०॥ वज्राङ्कुशध्वजसरोरुहशङ्खचक्र- मत्स्यीसुधाकलशकल्पककल्पिताङ्कम् । त्वत्पादपद्मयुगळं विगळत्प्रभाभि- र्भूयोऽभिषेक्ष्यति कदा नु शिरो मदीयम् ॥ ७१॥ त्रैविक्रम क्रमकृताक्रमणत्रिलोकं उत्तंसमुत्तममनुत्तमभक्तिभाजाम् । नित्यं धनं मम कदा हि मदुत्तमाङ्ग- मङ्गीकरिष्यति चिरं तव पादपद्मम् ॥ ७२॥ उन्निद्रपत्रशतपत्रसगोत्रमन्त- र्लेखारबिन्दमभिनन्दनमिन्द्रियाणाम् । मन्मूर्ध्नि हन्त करपल्लवतल्लजं ते कुर्वन्कदा कृतमनोरथयिष्यसे माम् ॥ ७३॥ आङ्गी निसर्गनियता त्वयि हन्त कान्ति- र्नित्यं तवालमियमेव तथाऽपि चान्या । वैभूषणी भवतिं कान्तिरलन्तरां सा है पुष्कलैव निखिलाऽपि भवद्धिभूतिः ॥ ७४॥ श्रीवत्सकौस्तुभकिरीटललाटिकाभिः केह्यहारकरकोत्तमकर्णिकाभिः । उद्दामदाममणिनूपुर नीविबन्धै- र्भान्तं भवन्तमनिमेषमुदीक्षिषीय ॥ ७५॥ ऐन्दीवरी क्वचिदपि क्वचिदारविन्दी चन्द्रातपी क्वचन च क्वचनाथ हैमी । कान्तिस्तवोढपरभागपरस्परश्रीः पार्येत पारणयितुं किमु चक्षुषोर्मे ॥ ७६॥ त्वां सेवितं जलजचक्रगदासिशार्ङ्गै- स्तार्क्ष्येण सैन्यपतिनाऽनुचरैस्तथाऽन्यैः । देव्या श्रिया सह वसन्तमनन्तभोगे भुञ्जीय साञ्जलिरसङ्कुचिताक्षिपक्ष्मा ॥ ७७॥ कैङ्कर्यनित्यनिरतैर्भवदेकभोगै- र्नीत्यैरनुक्षणनवीनरसार्द्रभावैः । नित्याभिवाञ्छितपरस्परनीचभावै- र्मद्दैवतैः परिजनस्तव सङ्गमीय ॥ ७८॥ यत्किञ्चिदुज्जलमिदं यदुपाख्ययाऽऽहुः सौन्दर्यमृद्धिरिति यन्महिमांशलेशैः । नाम्नैव यां श्रियमुशन्ति यदीयधाम त्वामामनन्ति यतमायतमानसिद्धिः ॥ ७९॥ या च त्वयाप्युदधिमन्थनयत्नलभ्या यान्तर्हितेति जगदुन्मथनोद्यतोऽभूः । या च प्रतिक्षणमपूर्वरसानुबन्धै- र्भवैर्भवन्तमभिनन्दयते सदैव ॥ ८०॥ रूपश्रिया गुणगणैर्विभवेन धाम्ना भावैरुदारमधुरैश्चतुरैश्चरित्रैः । नित्यं तवैव सदृशीं श्रियमीश्वरीं त्वां त्वां चाञ्चितः परिचरेयमुदीर्णभावः ॥ ८१॥ या बिभ्रती स्थिरचरात्मकमेव विश्वं विश्वम्भरा परमया क्षमया क्षमा च । तां मातरं च पितरं च भवन्तमस्य व्युञ्छन्तु रात्रय इमा वरिवस्यतो मे ॥ ८२॥ भावैरुदारमधुरैर्विविधैर्विलासैः भ्रूविभ्रमस्मितकटाक्षनिरीक्षणैश्च । या त्वन्मयी त्वमपि यन्मय एव सा मां नीला नितान्तमुररीकुरुतामुदारा ॥ ८३॥ भावैरनुक्षणमपूर्वरसानुविद्धै- रत्यद्भुतैरभिनवैरभिनन्द्य देवीः । भृत्यान् यथोचितपरिच्छदिनो यथार्हं सम्भावयन्तमभितो भगवन् भवेयम् ॥ ८४॥ हा हन्त हन्त हतकोऽस्मि खलोऽस्मि धिङ्मां मुह्यन्नहो अहमिदं किमुवाच वाचा । त्वामङ्ग मङ्गळगुणास्पदमस्तहेय मा स्मर्तुमेव कथमर्हति मादृगंहः ॥ ८५॥ अंहः प्रसह्य विनिगृह्य विशोध्य बुद्धिं व्यापू(धू)य विश्वमशिवं जनुषाऽनुबद्धम् । आदाय सद्गुणगणानपि नाहमर्ह- स्त्वत्पादयोर्यदहमत्र चिरं निमग्नः ॥ ८६॥ जानेऽथवा किमहमङ्ग यदेव सङ्गा- दङ्गीकरोषि न हि मङ्गलमन्यदस्मात् । तेन त्वमेन मुररीकुरुषे जनं चे- न्नैवामुतो भवति युक्ततरो हि कश्चित् ॥ ८७॥ यन्नाभवाम भवदीयकटाक्षलक्षं संसारगर्तपरिवर्तमतोऽगमाम । आगांसि ये खलु सहस्रमजस्रमेव जन्मस्वतन्महि कथं त इमेऽनुकम्प्याः ॥ ८८॥ सत्कर्म नैव किल किञ्चन सञ्चिनोमि विद्याप्यवद्यरहिता च तु विद्यते मे । किञ्च त्वदञ्चितपदाम्बुजभक्तिहीनः पात्रं भवामि भगवन् भवतो दयायाः ॥ ८९॥ किं भूयसा प्रलपितेन यदेव किञ्चि- त्पापाह्वमल्पमुरु वा तदशेषमेषः । जानन्न वा शतसहस्रपरार्धकृत्वो योऽकार्षमेनमगतिं भगवन् क्षमस्व ॥ ९०॥ देव त्वदीयचरणप्रणयप्रवीण रामानुजार्य विषयीकृतमप्यहो माम् । भूयः प्रधर्षयति वैषयिको विमोहो मत्कर्मणः कतरदत्र समानसारम् ॥ ९१॥ गर्भेषु निर्भरनिपीडनखिन्नदेहः क्षोदीयसोऽतिमहतोऽप्यखिलस्य जन्तोः । जन्मान्तराण्यनुविचिन्त्य परस्सहस्रा- ण्यत्राहमप्रतिविधिर्निहतश्चरामि ॥ ९२॥ भूयश्च जन्मसमयेषु सुदुर्वचानि दुःखानि दुःखमतिरिच्य किमप्यजानन् । मूढोऽनुभूय पुनरेव तु बालभावं दुःखोत्तरं निजचरित्रममुत्र सेवे ॥ ९३॥ भूयांसि भूय उपयन्विविधानि दुःखा- न्यन्यच्च दुःखमनुभूय सुखभ्रमेण । दुःखानुबन्धमपि दुःखविमिश्रमल्पं क्षुद्रं जुगुप्सितसुखं सुखमित्युपासे ॥ ९४॥ लोलद्भिरिन्द्रियहयैरपथेषु नीतो दुप्प्रापदुर्भगमनोरथमथ्यमानः । विद्याधनाभिजनजन्ममदेन काम- क्रोधादिभिश्च हतधीर्न शमं प्रयामि ॥ ९५॥ लभ्येषु दुर्लभतरेष्वपि वाञ्छितेषु जाते सहस्रगुणतः प्रतिलम्भनेऽपि । विघ्नैर्हतेऽप्यपि च तेषुसमूलघातं वर्धिष्णुरेव न तु शाम्यति हन्त तृष्णा ॥ ९६॥ त्वत्कीर्तनस्तुतिनमस्कृतिबेदनेषु श्रद्धा न भक्तिरपि शक्तिरथो न चेच्छा । नैवानुतापमतिरेष्वकृतेषु किन्नु भूयानहो परिकरः प्रतिकूलपक्षे ॥ ९७॥ एतेन वै सुविदितं बत मामकीन- दौरात्म्यमप्रतिविधेयमपारमीश । सम्मूर्च्छतोऽप्यपदमस्मि यतस्त्वदीय निस्सीमभूम करुणामृतवीचिवायोः ॥ ९८॥ ऐश्वर्यवीर्यकरुणागरिमक्षमाद्याः स्वामिन्नकारणसुहृत्त्वमथो विशेषात् । सर्वे गुणास्सविषयास्तव मामपार- घोराघपूर्णमगतिं निहतं समेत्य ॥ ९९॥ त्वत्पादसंश्रयणहेतुषु साधिकारा- नुद्युञ्जतश्चरितकृत्स्नविधींश्च तांस्तान् । त्वं रक्षसीति महिमा तव नालमेषा मां चेदनीदृशमनन्यगतिं न रक्षे ॥ १००॥ या कर्मणामधिकृतिर्य इहोद्यमस्ते एष्वप्यनुष्टितिरशेषमिदं हि पुंसाम् । त्वामन्तरेण न कथञ्चन शक्यमाप्तुं एवं तु तेषु मयि चास्ति न ते विशेषः ॥ १०१॥ निर्बन्ध एष यदि ते यदशेषवैध संसेविनो वरद रक्षसि नेतरांस्त्वम् । तर्हि त्वमेव मयि शक्त्यधिकारवाञ्छाः प्रत्यूहशान्तिमितरच्च विधेहि विश्वम् ॥ १०२॥ व्यक्तीकुर्वन्निगमशिरसामर्थमन्तर्निगूढं श्रीवैकुण्ठस्तुतिमकृत यश्श्रेयसे सज्जनानाम् । कूराधीशं गुरुतरदया दुग्धसिन्धुं तमीडे श्रीवत्साङ्गं श्रुतिमतगुरुच्छात्रशीलैकधाम ॥ १०३॥ इति वैकुण्ठस्तवः सम्पूर्णः । Proofread by PSA Easwaran
% Text title            : vaikuNThastavaH
% File name             : vaikuNThastavaH.itx
% itxtitle              : vaikuNThastavaH (panchastavyAm 1)
% engtitle              : vaikuNThastavaH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji. Also from Vaishnava Stotramala
% Indexextra            : (VSm 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org