वैशाखमासे नरसिंहजयन्तीव्रतम्

वैशाखमासे नरसिंहजयन्तीव्रतम्

अथ वैशाखे नृसिंहजयन्तीव्रतम् । तद्यथा । सनत्कुमार उवाच- अगस्त्याश्रमं पदं पुण्यं हेमाङ्गे पार्श्व उत्तरे । पुण्यद्रुमलताकीर्णं पुण्यद्रुमसमाकुलम् ॥ १॥ पुण्यभद्रा नदी यत्र चित्राख्या च महाशिला । राजन्ते सततं नानाद्रुमाः पुण्यफलान्विताः ॥ २॥ मृगाश्च सहजं वैरमुत्सृज्य सुखमासते । तस्मिन्वटतरोर्मूले चरन्तं दुश्चरस्तपः ॥ ३॥ निगृहीतेन्द्रियग्रामं ब्रह्मभूतमकल्मषम् । सनत्कुमारो ददृशे मार्कण्डेयं महामुनिम् ॥ ४॥ अथ तद् हृदयं योगी मृत्युरूपं समाविशत् । वसानं वल्कलं रम्यं बिभ्राणं पिङ्गलां जटान् ॥ ५॥ दैदीप्यमानं तपसा ज्वलन्तमिव पावकम् । दृष्ट्वा तद् हृदयाम्भोजे विस्मितोभ्युत्थितस्तदा ॥ ६॥ पुरतः तं मुनिं पश्यन् प्रणतः पर्यपूजयेत् । मार्कण्डेय उवाच- धन्योह्यनुगृहीतोऽस्मि मुनीन्द्र तव दर्शनात् ॥ ७॥ किं देवैः किञ्चितैस्तीर्थैः चिरसेवाफलप्रदे । दर्शने भवतां पुंसां मूर्त्तानां श्रेयसामिव ॥ ८॥ न भवद्दर्शनादन्यश्रेयसः परमुत्तमम् । तथापि किञ्चित्पृच्छामि तत्वतो वक्तुमर्हसि ॥ ९॥ सर्वेषामपि लोकानां लोक वै परमेष्टिनः । यमामनन्ति तपसां फलमिज्यामनुत्तमम् ॥ १०॥ यं प्राप्य न निवर्तत योगिनो निर्मलाशया । मूर्तिमन्तो यत्र वेदा पुराणानि च कृत्स्नशः ॥ ११॥ यत्र गत्वा न शोचन्ति यत्रकामादयो न वा । तत्स्थानं परमं श्रेष्ठं यद्यस्ति वद मे प्रभो ॥ १२॥ सनत्कुमार उवाच- श्रृणुष्व वक्ष्ये परमं श्लाघ्यं तत्परमेष्ठिनः । सकाशाद् ब्रह्मणो यद्वै साक्षात् पूर्वमया श्रुतम् ॥ १३॥ सङ्कर्षणे प्राग्निके च नानाख्यानोपवर्णके । ब्रह्मोवाच- अनन्त श्रुणु वक्ष्यामि कथामन्यां महद्भुताम् ॥ १४॥ तरन्ति हि भवाम्बोधि यस्याः श्रवणमात्रतः । मदीया मानसाः पुत्राः श्रीवैकुण्ठदिदृक्षवः ॥ १५॥ गता निवारितास्तस्थुः शप्तवन्तो निरोधिताः । ततो जयश्च विजयः प्राप्ता वसुरसम्भवः ॥ १६॥ हिरण्यकशिपुर्नाम हिरण्याक्ष इति श्रुतौ । ततो हिरण्यकशिपुस्तपस्तप्त्वा सुदुष्करम् ॥ १७॥ अमृत्युं मामकात्सर्गाल्लब्धं जगदपीडयत् । तस्मात्क्रूरतमाज्जातः प्रह्लादो वैष्णवोत्तमः ॥ १८॥ लोकानामुपकाराय सागरादमृतं यथा । हरेलालापरे तस्मिन् बालक्रीडासु सर्वशः ॥ १९॥ भक्तिं चकार विश्वेश विश्वेशानुग्रहेरितः । नामृष्यत्स हरिद्वेषी प्रह्लादं भगवत्प्रियम् ॥ २०॥ यातनाभिश्च घोराभिः पीडयामास तं सदा । शस्त्राण्युत्पलसाराणि वह्वयश्चन्द्रशीतलाः ॥ २१॥ नारायणे हृदिस्थे च विषाण्यमृततां ययुः । नैनं व्यथयितुं शेकुः शम्बरा दिग्गजादयः ॥ २२॥ यद्यद्बालवधार्थं स कुरुते क्रूरचेष्टितम् । तत्तत्सुखाय तस्यासीत् हृदयस्थे जनार्दने ॥ २३॥ एवभिरर्थयतनोहरिचिन्तनेन स्तुत्योपदेशभुवनैश्च कुमारस्य । आदाय खड्गमतिरोषकषायिताः प्रोवाच बालक ततस्तवरक्षकः ॥ २४॥ रक्षेन्मां हरिरेवदुष्टशमनः क्वासौ हरिर्दुर्मते । स स्तम्भे परिदृश्यतामिति वचः श्रुत्वेति पुत्रोदितम् ॥ २५॥ क्रुद्धस्तम्भमताड्यदृढमहिं सुप्तं यथा बोधयन् । तस्मादद्भुत भीषणोध्वनिरभूद्रक्षः सभां भीषयन् ॥ २६॥ रक्षोवधार्थं वै मेनिरे ते सभासदाः । दैत्यो पूर्वाद्भुतात्युग्राध्वनिमाकर्ण्य विह्वलाः ॥ २७॥ व्याधुन्वन् सहकेसरैर्ग्रहगणान् श्वासैर्गिरीश्चालयन् । धात्री सन्नमयन्मदैर्दशदिशो देदीपयन् दृष्टिभिः ॥ २८॥ ज्वालामुद्गमयन् कठोरदशनैर्हस्तैर्नभः पूरयन् । दादद्भुतविग्रहो नरहरिः प्रादुर्भवन्नै क्षणत् ॥ २९॥ योऽद्भुतमुद्भूतं वीक्ष्य दैत्येन्द्रं स नृकेसरी । उरौ निपात्य तद्वक्षो ददार नखरैः करैः ॥ ३०॥ तदा नृसिंहहुङ्कारैरन्यैर्दैत्याः क्षयं गताः । महान्धतमसव्राता मार्तण्डस्योदयो दिवा ॥ ३१॥ देवदुन्दुभयोर्नेदुर्ववर्षः पुष्पवृष्टयः । जज्वलुश्चाग्नयः शान्ताः सुप्रभोभूद्दिवाकरः ॥ ३२॥ दिशस्तु निर्मला जाता वायवः सुखशीतलाम् । सकालः सर्वजगतां सुखाय समजायत ॥ ३३॥ ब्रह्मादयस्तदागत्य नन्दतोभिभयान्विताः । अदृष्टपूर्वं पश्यन्तो दूरः स्थित्वा नमस्तुवन् ॥ ३४॥ जय श्रीनरसिंहेश महाभयनिवारण । प्रसीद करुणाम्भोधे भगवन् भक्तवत्सल ॥ ३५॥ पापेनान्तरिता सेवा येन जन्मत्रयावधि । अहोत्यन्तस्य भगवन् निग्रहोऽयमनुग्रहः ॥ ३६॥ इति वैशाखमासे नरसिंहजयन्तीव्रतवर्णनं सम्पूर्णम् । Proofread by M K Barman
% Text title            : Vaishakhamase Narasimhajayantivratam
% File name             : vaishAkhamAsenarasiMhajayantIvratam.itx
% itxtitle              : narasiMhajayantIvratam (vaishAkhamAse)
% engtitle              : vaishAkhamAse narasiMhajayantIvratam
% Category              : vishhnu, dashAvatAra, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa
% Indexextra            : (Scans 1, 2)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org