वैशाखमासे नरसिंहजयन्तीव्रतम्
अथ वैशाखे नृसिंहजयन्तीव्रतम् । तद्यथा ।
सनत्कुमार उवाच-
अगस्त्याश्रमं पदं पुण्यं हेमाङ्गे पार्श्व उत्तरे ।
पुण्यद्रुमलताकीर्णं पुण्यद्रुमसमाकुलम् ॥ १॥
पुण्यभद्रा नदी यत्र चित्राख्या च महाशिला ।
राजन्ते सततं नानाद्रुमाः पुण्यफलान्विताः ॥ २॥
मृगाश्च सहजं वैरमुत्सृज्य सुखमासते ।
तस्मिन्वटतरोर्मूले चरन्तं दुश्चरस्तपः ॥ ३॥
निगृहीतेन्द्रियग्रामं ब्रह्मभूतमकल्मषम् ।
सनत्कुमारो ददृशे मार्कण्डेयं महामुनिम् ॥ ४॥
अथ तद् हृदयं योगी मृत्युरूपं समाविशत् ।
वसानं वल्कलं रम्यं बिभ्राणं पिङ्गलां जटान् ॥ ५॥
दैदीप्यमानं तपसा ज्वलन्तमिव पावकम् ।
दृष्ट्वा तद् हृदयाम्भोजे विस्मितोभ्युत्थितस्तदा ॥ ६॥
पुरतः तं मुनिं पश्यन् प्रणतः पर्यपूजयेत् ।
मार्कण्डेय उवाच-
धन्योह्यनुगृहीतोऽस्मि मुनीन्द्र तव दर्शनात् ॥ ७॥
किं देवैः किञ्चितैस्तीर्थैः चिरसेवाफलप्रदे ।
दर्शने भवतां पुंसां मूर्त्तानां श्रेयसामिव ॥ ८॥
न भवद्दर्शनादन्यश्रेयसः परमुत्तमम् ।
तथापि किञ्चित्पृच्छामि तत्वतो वक्तुमर्हसि ॥ ९॥
सर्वेषामपि लोकानां लोक वै परमेष्टिनः ।
यमामनन्ति तपसां फलमिज्यामनुत्तमम् ॥ १०॥
यं प्राप्य न निवर्तत योगिनो निर्मलाशया ।
मूर्तिमन्तो यत्र वेदा पुराणानि च कृत्स्नशः ॥ ११॥
यत्र गत्वा न शोचन्ति यत्रकामादयो न वा ।
तत्स्थानं परमं श्रेष्ठं यद्यस्ति वद मे प्रभो ॥ १२॥
सनत्कुमार उवाच-
श्रृणुष्व वक्ष्ये परमं श्लाघ्यं तत्परमेष्ठिनः ।
सकाशाद् ब्रह्मणो यद्वै साक्षात् पूर्वमया श्रुतम् ॥ १३॥
सङ्कर्षणे प्राग्निके च नानाख्यानोपवर्णके ।
ब्रह्मोवाच-
अनन्त श्रुणु वक्ष्यामि कथामन्यां महद्भुताम् ॥ १४॥
तरन्ति हि भवाम्बोधि यस्याः श्रवणमात्रतः ।
मदीया मानसाः पुत्राः श्रीवैकुण्ठदिदृक्षवः ॥ १५॥
गता निवारितास्तस्थुः शप्तवन्तो निरोधिताः ।
ततो जयश्च विजयः प्राप्ता वसुरसम्भवः ॥ १६॥
हिरण्यकशिपुर्नाम हिरण्याक्ष इति श्रुतौ ।
ततो हिरण्यकशिपुस्तपस्तप्त्वा सुदुष्करम् ॥ १७॥
अमृत्युं मामकात्सर्गाल्लब्धं जगदपीडयत् ।
तस्मात्क्रूरतमाज्जातः प्रह्लादो वैष्णवोत्तमः ॥ १८॥
लोकानामुपकाराय सागरादमृतं यथा ।
हरेलालापरे तस्मिन् बालक्रीडासु सर्वशः ॥ १९॥
भक्तिं चकार विश्वेश विश्वेशानुग्रहेरितः ।
नामृष्यत्स हरिद्वेषी प्रह्लादं भगवत्प्रियम् ॥ २०॥
यातनाभिश्च घोराभिः पीडयामास तं सदा ।
शस्त्राण्युत्पलसाराणि वह्वयश्चन्द्रशीतलाः ॥ २१॥
नारायणे हृदिस्थे च विषाण्यमृततां ययुः ।
नैनं व्यथयितुं शेकुः शम्बरा दिग्गजादयः ॥ २२॥
यद्यद्बालवधार्थं स कुरुते क्रूरचेष्टितम् ।
तत्तत्सुखाय तस्यासीत् हृदयस्थे जनार्दने ॥ २३॥
एवभिरर्थयतनोहरिचिन्तनेन
स्तुत्योपदेशभुवनैश्च कुमारस्य ।
आदाय खड्गमतिरोषकषायिताः
प्रोवाच बालक ततस्तवरक्षकः ॥ २४॥
रक्षेन्मां हरिरेवदुष्टशमनः क्वासौ हरिर्दुर्मते ।
स स्तम्भे परिदृश्यतामिति वचः श्रुत्वेति पुत्रोदितम् ॥ २५॥
क्रुद्धस्तम्भमताड्यदृढमहिं सुप्तं यथा बोधयन् ।
तस्मादद्भुत भीषणोध्वनिरभूद्रक्षः सभां भीषयन् ॥ २६॥
रक्षोवधार्थं वै मेनिरे ते सभासदाः ।
दैत्यो पूर्वाद्भुतात्युग्राध्वनिमाकर्ण्य विह्वलाः ॥ २७॥
व्याधुन्वन् सहकेसरैर्ग्रहगणान् श्वासैर्गिरीश्चालयन् ।
धात्री सन्नमयन्मदैर्दशदिशो देदीपयन् दृष्टिभिः ॥ २८॥
ज्वालामुद्गमयन् कठोरदशनैर्हस्तैर्नभः पूरयन् ।
दादद्भुतविग्रहो नरहरिः प्रादुर्भवन्नै क्षणत् ॥ २९॥
योऽद्भुतमुद्भूतं वीक्ष्य दैत्येन्द्रं स नृकेसरी ।
उरौ निपात्य तद्वक्षो ददार नखरैः करैः ॥ ३०॥
तदा नृसिंहहुङ्कारैरन्यैर्दैत्याः क्षयं गताः ।
महान्धतमसव्राता मार्तण्डस्योदयो दिवा ॥ ३१॥
देवदुन्दुभयोर्नेदुर्ववर्षः पुष्पवृष्टयः ।
जज्वलुश्चाग्नयः शान्ताः सुप्रभोभूद्दिवाकरः ॥ ३२॥
दिशस्तु निर्मला जाता वायवः सुखशीतलाम् ।
सकालः सर्वजगतां सुखाय समजायत ॥ ३३॥
ब्रह्मादयस्तदागत्य नन्दतोभिभयान्विताः ।
अदृष्टपूर्वं पश्यन्तो दूरः स्थित्वा नमस्तुवन् ॥ ३४॥
जय श्रीनरसिंहेश महाभयनिवारण ।
प्रसीद करुणाम्भोधे भगवन् भक्तवत्सल ॥ ३५॥
पापेनान्तरिता सेवा येन जन्मत्रयावधि ।
अहोत्यन्तस्य भगवन् निग्रहोऽयमनुग्रहः ॥ ३६॥
इति वैशाखमासे नरसिंहजयन्तीव्रतवर्णनं सम्पूर्णम् ।
Proofread by M K Barman