श्रीवरदराजाष्टकम्
ॐ
श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ काञ्चीस्थलाय विद्महे । वरदाय च धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥
॥ अथ श्रीवरदराजाष्टकम् ॥
हस्ताभयवरदराजं हस्तिगिरिराजकम् ।
हरिनारायणं वन्दे काञ्चीस्थलविराजकम् ॥ १॥
न्यग्रोधविग्रहं वन्दे जलनिम्नवरप्रभुम् ।
ह्रदमध्यनिवासं तं वन्दे ब्रह्मप्रतिष्ठितम् ॥ २॥
दशचत्वारिवर्षैकबहिर्दर्शनदैवतम् ।
सद्भक्तिवशसौलभ्यं वन्दे भक्तवरं वरम् ॥ ३॥
ब्रह्मोत्सवातिकोलाहलकाञ्चीपुरिवैभवम् ।
वैशाखोत्सवविख्यातं वैनतेयसुवाहनम् ॥ ४॥
गोपुरद्वारसंदर्शमनोगालनहर्षकम् ।
वन्दे वरदराजं तं गरुडारूढविग्रहम् ॥ ५॥
वेदघोषसुनादार्चितश्रीरमणभूपतिम् ।
भक्तिसङ्गीतसंतोषं वन्देहं श्रीरमापतिम् ॥ ६॥
त्यागराजगुरुस्वामिरागकीर्तनसंस्तुतम् ।
शिष्यापुष्पासुभक्त्यामोदश्लोकसुमवन्दितम् ॥ ७॥
मङ्गलं हस्तिनाथाय लक्ष्मीधवाय मङ्गलम् ।
मङ्गलम् वरदाय श्रीविष्णवे शुभमङ्गलम् ॥ ८॥
काञ्चीक्षेत्रवरदराजश्लोकाष्टकवन्दनम् ।
भगदं भगवत्प्रीतं भक्तिगायनमङ्गलम् ॥ ९॥
ॐ
शुभमस्तु ।
Footnote (verse 7) :
VaradarAja ninnu kori in SvarabhUShaNi,
VinatAsuta in Jayantasena,
VinAtasuta in Harikambhoji
Encoded and proofread by
Radhika Vathsan radhika vathsan at gmail dot com
Copyright Pushpa Srivatsan