वरदराजस्तवः
पञ्चस्तव्यां ४ वरदराजस्तवः
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गल सूत्रताम् ॥
स्वस्ति हस्तिगिरिमस्तशेखरस्सन्तनोतु मयि सन्ततं हरिः ।
निस्समाभ्यधिकमभ्यधत्त यं देवमौपनिषदी सरस्वती ॥ १॥
श्रीनिधिं निधिमपारमर्थिनामर्थितार्थपरिदानदीक्षितम् ।
सर्वभूतसुहृदं दयानिधिं देवराजमधिराजमाश्रये ॥ २॥
नित्यमिन्द्रियपथातिगं महो योगिनामपि सुदूरगं धियः ।
अप्यनुश्रवशिरस्सु दुर्ग्रहं प्रादुरस्ति करिशैलमस्तके ॥ ३॥
वल्लिका श्रुतिमतमल्लिकामयी येन पल्लवितविश्वशाखया ।
स्वश्रिया करिगिरेरनुक्रियां वष्टि मृष्टवरदं तमाश्रये ॥ ४॥
यं परोक्षमुपदेशतस्त्रयी नेति नेति परपर्युदासतः ।
वक्ति यस्तमपरोक्षमीक्षयत्येष तं करिगिरिं समाश्रये ॥ ५॥
एष ईश इति निर्णयं त्रयी भागधेयरहितेषु नो दिशेत् ।
हस्तिधामनि न निर्णयेत को देवराजमयमीश्वरस्त्विति ॥ ६॥
है! कुदृष्ट्यभिनिविष्टचेतसां निर्विशेषसविशेषताश्रयम् ।
संशयं करिगिरिर्नुदत्यसौ तुङ्गमङ्गलगुणास्पदे हरौ ॥ ७॥
न्यायतर्कमुनिमुख्यभाषितैश्शोधितैस्सह कथञ्चन त्रयी ।
जोषयेद्धरिमनंहसो जनान् हस्तिधाम सकलं जनं स्वयम् ॥ ८॥
अद्भुतं महदसीमभूमकं किञ्चिदस्ति किल वस्तु निस्तुलम् ।
इत्यघोषि यदिदं तदग्रतस्तथ्यमेव करिधाम्नि दृश्यते ॥ ९॥
संवदेत किल यत्प्रमान्तैरस्तप्रमाणमिति ये हि मेनिरे ।
तन्मतेऽपि किल मानतां गता हस्तिनाऽद्य परवस्तुनि त्रयी ॥ १०॥
गुणायत्तं लोके गुणिषु हि मतं मङ्गलपदं
विपर्यस्तं हस्तिक्षितिधरपते ! तत्त्वयि पुनः ।
गुणास्सत्यज्ञानप्रभृतय उत त्वद्गततया
शुभीभूयं याता इति हि निरणैष्म श्रुतिवशात् ॥ ११॥
निराबाधं नित्यं निरवधि निरंहो निरुपमं
सदा शान्तं शुद्धं प्रतिभटमवद्यस्य सततम् ।
परं ब्रह्माम्नातं श्रुतिशिरसि यत् तद्वरद ! ते
परं रूपं साक्षात्तदिदमपदं वाङ्मनसयोः ॥ १२॥
प्रशान्तानन्तात्मानुभवजमहानन्दमहिम-
प्रसक्तस्तैमित्यानुकृतवितरङ्गार्णवदशम् ।
परं यत्ते रूपं स्वसदृशदरिद्रं वरद ! तत्
त्रयी पिस्प्रक्षन्ती परनिरसने श्राम्यति परम् ॥ १३॥
न वक्तुं न श्रोतुं न मनितुमथोपासिसिषितुं
न च द्रष्टुं स्प्रष्टुं तदनु न च भोक्तुं हि सूशकम् ।
परं यद्वस्तूक्तं ननु वरद ! साक्षात्तदसि भोः !
कथं विश्वस्मै त्वं करिगिरिपुरस्तिष्ठस इह ॥ १४॥
प्रकृष्टं विज्ञानं बलमतुलमैश्वर्यमखिलं
विमर्यादं वीर्यं वरद ! परमा शक्तिरपि च ।
परं तेजश्चेति प्रवरगुणषट्कं प्रथमजं
गुणानां निस्सीम्नां गणनविगुणानां प्रसवभूः ॥ १५॥
गुणैः षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ
ततस्तिस्रस्तेषां त्रियुग ! युगलैर्हि त्रिभिरभुः ।
व्यवस्था या चैषा ननु वरद ! साऽऽविष्कृतिवशात्
भवान् सर्वत्रैव त्वगणितमहामङ्गलगुणः ॥ १६॥
इयं वैयूही वै स्थितिरथ किलेच्छाविहृतये
विभूतीनां मध्ये सुरनरतिरश्चामवतरन् ।
सजातीयस्तेषामिति तु विभवाख्यामपि भजन्
करीश ! त्वं पूर्णो वरगुणगणैस्तान् स्थगयसि ॥ १७॥
परो वा व्यूहो वा विभव उत वाऽर्चावितरणो
भवन् वाऽन्तर्यामी वरवरद ! यो यो भवसि वै ।
स स त्वं सन्नैशान् वरगुणगणान् बिभ्रदखिलान्
भजद्भ्यो भास्येवं सततमितरेभ्यस्त्वितरथा ॥ १८॥
दयाक्षान्त्यौदार्यम्रदिमसमतासौहृदधृति
प्रसादप्रेमाज्ञाश्रितसुलभताद्या वरगुणाः ।
तथा सौन्दर्याद्यास्तव वरदराजोत्तमगुणाः
विसीमानोऽसङ्ख्याः प्रणतजनभोगं प्रसुवते ॥ १९॥
अनन्याधीनत्वं तव किल जगुर्वैदिकगिरः
पराधीनं त्वां तु प्रणतपरतन्त्रं मनुमहे ।
उपालम्भोऽयं भोः ! श्रयति बत सार्वज्ञ्यमपि ते
यतो दोषं भक्तेष्विह वरद ! नैवाकलयसि ॥ २०॥
पाणिपादवदनेक्षणशब्दैः
अम्बुजान्यपदिशन् वरद ! त्वम् ।
बाहुभिस्त्वतिविशालतमालान्
आञ्जनं करिगिरेरसि शृङ्गम् ॥ २१॥
त्वामुदारभुजमुन्नसमायत्कर्णपाशपरिकर्मसदंसम् ।
आयताक्षमभिजातकपोलं पारणीयति वरप्रद ! दृङ्मे ॥ २२॥
नीलमेघनिभमञ्जनपुञ्जश्यामकुन्तलमनन्तशयं त्वाम् ।
अब्जपाणिपदमम्बुजनेत्रं नेत्रसात्कुरु करीश ! सदा मे ॥ २३॥
त्वक्च दृक्च निपिपासति जिह्वा
विह्वला श्रवणवत्परवृत्तौ ।
नासिका त्वयि करीश ! तथेति
प्राप्नुयां कथमिमां स्विदवस्थाम् ॥ २४॥
आधिराज्यमधिकं भुवनानां
ईश ! ते पिशुनयन् किल मौलिः ।
चूलिकामणिसहस्रमरीचेः
हस्तिभूषण ! भवत्युदयाद्रिः ॥ २५॥
उद्धरत्युपरि भक्तजनानित्यूर्ध्वताश्रयणसूचितशक्तिम् ।
ऊर्ध्वपुण्ड्रतिलकं बहुमानात् किं बिभर्षि वरद ! स्वललाटे ॥ २६॥
कर्णिका तव करीश ! किमेषा
कर्णभूषणमुतांसविभूषा ।
अंसलम्ब्यलकभूषणमाहो !
मानसस्य मम वा परिकर्म ॥ २७॥
पारिजातविटपानभितो या
पुष्पसम्पदुदियात् करिनाथ ।
तां विडम्बयति तावकबाहुषु
आतता तु कटकाङ्गदलक्ष्मीः ॥ २८॥
मथ्यमानचलफेनिलसिन्धु
प्रोत्थितिक्षणदशां गमितौ ते ।
वक्षसि स्फुरितमौक्तिकहारे
कौस्तुभश्च कमला च करीश ! ॥ २९॥
अञ्जनक्षितिभृतो यदि नाम
उपत्यका वरद ! हेममयी स्यात् ।
तादृशी तव विभाति तु लक्ष्मीः
आम्बरी बत विडम्बितविद्युत् ॥ ३०॥
परभागमियाद्रवेस्तमिस्रा
वरदाद्य त्वयि तन्निशामयामः ।
गमिता तव वक्त्रचित्रभानोः
परभागं ननु कौन्तली तमिस्रा ॥ ३१॥
उभयोरपि पक्षयोस्तिथिर्या
विषमीभावनिरासदाऽष्टमीति ।
उपमानजसम्पदे हि सेन्दोः
वरदाभूद्भवतो ललाटलक्ष्म्या ॥ ३२॥
अलकालिचिकीर्षया किलात्ता
सुपरीचिक्षिषया ललाटपट्टे ।
सुमषी निकषीकृता भ्रुवौ ते
वरद ! स्यादकृतत्वतस्तु नैवम् ॥ ३३॥
श्रवसश्च दृशश्च शब्दरूपग्रहणे ते न हि जीववद्व्यवस्था ।
उभयोरखिलेक्षणक्षमत्वाद्वरदातः ! श्रवणाश्रये दृशौ ते ॥ ३४॥
करुणारसवाहिवीक्षणोर्मेर्वरद ! प्रेममयप्रवाहभाजः ।
तततीरवनावली भ्रुवौ दृक्चलसिन्धोस्तव नासिकेव सेतुः ॥ ३५॥
विभवं विवृणोति विस्तृणीते
रुचमाविष्कुरुते कृपामपाराम् ।
अभिवर्षति हर्षमार्द्रभावं
तनुते ते वरदैष दृष्टिपातः ॥ ३६॥
अरुणाधरपल्लवे लसन्ती
वरदासौ द्विजचन्द्रचन्द्रिका ते ।
अधिविद्रुममस्तनिस्तलाली
रुचमाविष्कुरुते हि पुष्कराक्ष ! ॥ ३७॥
स्मितनिर्झरिका विनिष्पतन्ती
तव वक्षःस्थलभूतले विकीर्णा ।
वरद ! प्रबिभर्ति हारलक्ष्मीं
अपि मुक्तावलिका नदीव तज्जा ॥ ३८॥
परिमण्डितरासमण्डलाभिर्वरदाघ्रातं अभीष्टगोपिकाभिः ।
अनुवर्तितदातनप्रहर्षादिव फुल्लं हि कपोलयोर्युगं ते ॥ ३९॥
मुखमुन्नसमायताक्षमुद्यत्स्मितदन्तं रुचिराधरं नतभ्रु ।
लसदंसविलम्बिकर्णपाशं मयि ते निश्चलमस्तु हस्तिनाथ ! ॥ ४०॥
पद्मायाः प्रणयरसात्समासजन्त्याः
स्वं बाहुं सुबहुमतो भुजेन तेन ।
कां नामान्वभवदहो ! दशां तदात्वे
कण्ठस्ते करिगिरिनाथ ! कम्बुकान्तः ॥ ४१॥
सायामा धृतपरिणद्धयोऽब्धयो वा
तादृश्यः स्फुटमथवा दिशश्चतस्रः ।
चत्वारो वरद ! वरप्रदास्त्वदीयाः
भासन्ते भुजपरिघास्तमालनीलाः ॥ ४२॥
आश्लेषे वरद ! भुजास्तवेन्दिरायाः
गोपीनामभिमतरासबन्धने वा ।
बन्धे वा मुदमधिकां यशोदयाऽहो !
संप्राप्तास्तव नवनीतमोषदोषात् ॥ ४३॥
सालीया इव विटपास्सपल्लवाग्राः
कल्लोला इव जलधेस्सविद्रुमाग्राः ।
भोगीद्रा इव च फणामणीद्धवक्त्राः
भासन्ते वरद ! भुजास्तवारुणाग्राः ॥ ४४॥
अम्भोधेस्स्वयमभिमन्थनं चकर्थ
क्षोणीध्रं पुनरबिभश्च सप्तरात्रम् ।
सप्तानां विवलयसि स्म कण्ठमुक्ष्णामम्लाना
वरद ! तथाऽपि पाणयस्ते ॥ ४५॥
रिङ्खातो व्रजसदनाङ्गणेषु किं ते
गोयष्टिग्रहणवशान्नु गोपगोष्ठ्याम् ।
आलम्बाद्धयनयसूत्रतोत्त्रयोर्वा
पाणीनां वरद ! तवारुणत्वमासीत् ॥ ४६॥
सर्वज्ञास्समुचितशक्तयस्सदैव
त्वत्सेवानियमजुषस्त्वदेकभोगाः ।
हेतीनामधिपतयस्सदा किमेतान्
शोभार्थं वरद ! बिभर्षि हर्षतो वा ॥ ४७॥
किं धातुर्गगनविधानमातृकाऽभूत्
वक्षस्ते वरद ! वरेण्य ! यत्र नाम ।
पद्माया मुखमथ कौस्तुभश्च जातौ
चन्द्रार्कावुडुनिकरायते तु हारः ॥ ४८॥
अण्डानां त्वदुदरमामनन्ति सन्तः
स्थानं तद्वरद ! कथं नु कार्श्यमस्य ।
माहात्म्यं स्वस इह येषु नूनमेषां
ऋद्धिस्स्यान्महिमकरी न हीतरेषाम् ॥ ४९॥
सौन्दर्यामृतरसवाहवेगजस्स्यात्
आवर्तस्तव किल पद्मनाभ ! नाभिः ।
तत्पद्मं वरद ! विभाति कान्तिमय्याः
लक्ष्म्यास्ते सकलवपुर्जुषो नु सद्म ॥ ५०॥
या दामोदर इति नामदा तवासीत्
सा दामा किल किणकारिणी बभूव ।
तन्नूनं वरद ! वलित्रयच्छलेन
त्वन्मध्यप्रथमविभूषणी बभूव ॥ ५१॥
यादृग्बीजाध्युषितभुवि यद्वस्तु हस्तीश ! जातं
तत्तादृक्षं फलति हि फलं त्वय्यपीक्षामहे तत् ।
यस्मादण्डाध्युषित उदरे तावके जायमानं
पद्मं पद्मानन ! किल फलत्यण्डषण्डानखण्डान् ॥ ५२॥
अज्ञे यज्ञेश्वर ! किल जने क्वाप्यदर्शं विमर्शं
विश्वाधीशः कतम इति तन्निर्णयं वर्णयामः ।
व्यावक्रोशी नृषु समुदिता यानुपाश्रित्य तेऽपि
ब्रह्माद्यास्ते वरद ! जनितास्तुन्दकन्दारविन्दे ॥ ५३॥
मुष्णन् कृष्णः प्रियनिजजनैर्जय्यहैयङ्गवीनं
दाम्ना भूम्ना वरद ! हि यया त्वं यशोदाकराभ्याम् ।
बद्धो बन्धक्षपणकरणीं तां किलाद्यापि मातुः
प्रेम्णा गात्राभरणमुदराबन्धनाख्यं बिभर्षि ॥ ५४॥
सौन्दर्याख्या सरिदुरसि विस्तीर्य मध्यावरुद्धा
स्थानाल्पत्वाद्विषमगतिजावर्तगर्ताभनाभिः ।
प्राप्य प्राप्तप्रथिम जघनं विस्तृता हस्तिनाथ !
स्रोतोभेदं भजति भवतः पाददेशापदेशात् ॥ ५५॥
रम्भास्तम्भाः करिवरकराः कारभास्सारभाजो
वेषाश्लेषा अपि मरतकस्तम्भमुख्यास्तुलाख्याः ।
साम्यं सम्यग्वरद ! न दधुस्सर्वमुर्वोस्त्वदूर्वोः
न ह्यैश्वर्यं दधति न तथा यौवनारम्भजृम्भाः ॥ ५६॥
या ते गात्रे वरद ! जनिता कान्तिमय्यापगाऽभूत्
तस्यास्स्रोतोयुगलमिह यद्याति पादप्रवादम् ।
तज्जातोर्ध्वभ्रमियुगमिवोद्भानुनी जानुनी ते
स्यादुक्ष्णोर्वा ककुदयुगलं यौवनैश्वर्यनाम्नोः ॥ ५७॥
प्रेम्णाऽऽघ्रातुं करिगिरिशिरोऽधोमुखीभावभाजोः
अङ्घ्रिद्वन्द्वाह्वयकमलयोर्दण्डकाण्डायमाने ।
अद्रिस्पर्शोद्भवसुखत उत्कण्टके रोमहर्षात्
द्रष्टुर्दृष्टिर्वरद ! किमलं लङ्घितुं जङ्घिके ते ॥ ५८॥
भक्तानां यद्वपुषि दहरं पण्डितं पुण्डरीकं
यच्चाम्लानं वरद ! सतताध्यासनादासनाब्जम् ।
आम्नायानां यदपि च शिरो यश्च मूर्धा शठारेः
हस्त्यद्रेर्वा किमतिसुखदं तेषु पादाब्जयोस्ते ॥ ५९॥
पद्यास्वद्याङ्गुलिषु वरद ! प्रान्ततः कान्तिसिन्धोः
वीचीवीथीविभवमुभयीष्वम्भसो लम्भितासु ।
विन्दन्निन्दुः प्रतिफलनजां सम्पदं किं पदं ते
छायाच्छद्मा नखविततितां लम्भितश्शुम्भितस्सन् ॥ ६०॥
शम्भोरम्भोरुहमुख ! सखा सन् सहाङ्कश्शशाङ्कः
कुर्वन् सेवां वरद ! विकलो वृत्तहीनस्सुवक्रः ।
त्वत्पादाब्जे प्रियमख ! नखच्छद्मनाऽऽश्रित्य नित्यं
सद्वृत्तोऽभूत्स च दशगुणः पुष्कलो निष्कलङ्कः ॥ ६१॥
त्वत्पादाब्जे प्रजाता सुरसरिदभवत्प्राक् चतुर्धा ततस्तासु
एकां धत्ते ध्रुवस्सा त्रिभुवनमपुनात्त्रीन्पथो भावयन्ती ।
तत्रैका खं व्रजन्ती शिवयति तु शिवं सा पुनस्सप्तधाऽभूत्
तास्वेका गां पुनाना वरद ! सगरजस्वर्गसर्गं चकार ॥ ६२॥
परिजनपरिबर्हा भूषणान्यायुधानि
प्रवरगुणगणाश्च ज्ञानशक्त्यादयस्ते ।
परमपदमथाण्डान्यात्मदेहस्तथाऽऽत्मा
वरद ! सकलमेतत् संश्रितार्थ चकर्थ ॥ ६३॥
अनाप्तं ह्याप्तव्यं न तव किल किञ्चिद्वरद ! ते
जगज्जन्मस्थेमप्रलयविधयो धीविलसितम् ।
तथाऽपि क्षोदीयस्सुरनरकुलेष्वाश्रितजनान्
समाश्लेष्टुं पेष्टुं तदसुखकृतां चावतरसि ॥ ६४॥
विवेकधियमेकतो ह्यभिनिवेशलेशो हरेत्
महत्त्वभिनिवेशनं किमुत तन्महिम्नस्तव ।
अहो ! विसदृशे जगत्यवततर्थ पार्थादिकं
निजं जनमुदञ्चयन् वरद ! तं समाश्लेषकः ॥ ६५॥
संश्लेषे भजतां त्वरापरवशः कालेन संशोध्य तान्
आनीय स्वपदे स्वसङ्गमकृतं सोढुं विलम्बं बत ! ।
अक्षाम्यन् क्षमिणां वरो वरद ! सन्नत्रावतीर्णो भवेः
किं नाम त्वमसंश्रितेषु वितरन् वेषं वृणीषे तु तान् ॥ ६६॥
वरद ! यदि न भुव्यवातरिष्यः
श्रुतिविहितास्त्वदुपासनार्चनाद्याः ।
करणपथविदूरगे सति त्वयि
अविषयतानिकृताः किलाभविष्यन् ॥ ६७॥
यदपराधसहस्रमजस्रजं
त्वयि शरण्य ! हिरण्य उपावहत् ।
वरद ! तेन चिरं त्वमविक्रियो
विकृतिमर्भकनिर्भजनादगाः ॥ ६८॥
त्वामामनन्ति कवयः करुणामृताब्धे !
ज्ञानक्रियाभजनलभ्यमलभ्यमन्यैः ।
एतेषु केन वरदोत्तरकोसलस्थाः
पूर्वं सदूर्वमभजन्त हि जन्तवस्त्वाम् ॥ ६९॥
भजत्सु वात्सल्यवशात् समुत्सुकः
प्रकाममत्रावतरेर्वरप्रद ! ।
भवेश्च तेषां सुलभोऽथ किन्न्विदं
यदङ्ग दाम्ना नियतः पुराऽरुदः ॥ ७०॥
नरसिंहतनुरगौणी समसमयसमुद्भवश्च भक्तगिरः ।
स्तम्मे च सम्भवस्ते पिशुनयति परेशतां वरद ! ॥ ७१॥
तापत्रयीमयदवानलदह्यमानं
मुह्यन्तमन्तमवयन्तमनन्त ! नैव ।
स्थातुं प्रयातुमुपयातुमनीशमीश !
हस्तीश ! दृष्ट्यमृतवृष्टिभिराभजेथाः ॥ ७२॥
नानाविरुद्धविदिशासु दिशासु चाहो
वन्ध्यैर्मनोरथशतैर्युगपद्विकृष्टः ।
त्वत्पादयोरनुदितस्पृह एष सोऽहं
न स्वस्ति हस्तिगिरिनाथ ! निशामयामि ॥ ७३॥
है ! निर्भयोऽस्म्यविनयोऽस्मि यतस्त्वदङ्घ्रौ
लिप्सामलब्धवति चेतसि दुर्विनीते ।
दुष्कर्मवर्मपरिकर्मित एष सोऽहं
अग्रे वरप्रद ! तव प्रलपामि किञ्चित् ॥ ७४॥
सव्याधिराधिरवितुष्टिरनिष्टयोगः
स्वाभीष्टभञ्जनममर्षकरो निकर्षः ।
कृन्तन्ति सन्ततमिमानि मनो मदीयं
हस्तीश ! न त्वदभिलाषनिधिप्रहाणिः ॥ ७५॥
विद्वेषमानमदरागविलोभमोहादि
आजानभूमिरहमत्र भवे निमज्जन् ।
निर्द्वन्द्व ! नित्यनिरवद्यमहागुणं त्वां
हस्तीश ! कश्श्रयितुमीक्षितुमीप्सितुं वा ॥ ७६॥
पुत्रादयः कथममी मयि संस्थिते स्युः
इत्यप्रतिक्रियनिरर्थकचिन्तनेन ।
दूये न तु स्वयमहं भविताऽस्मि कीदृक्
इत्यस्ति हस्तिगिरिनाथ ! विमर्शलेशः ॥ ७७॥
शम्पाचलं बहुलदुःखमनर्थहेतुः
अल्पीय इत्यपि विमृष्टिषु दृष्टदोषम् ।
दुर्वासनाद्रढिमतस्सुखमिन्द्रियोत्थं
हातुं न मे मतिरलं वरदाधिराज ! ॥ ७८॥
बुद्ध्वा च नो च विहिताकरणैर्निषिद्ध-
संसेवनैस्त्वदपचारशतैरसह्यैः ।
भक्तागसामपि शतैर्भवताऽप्यगण्यैः
हस्तीश ! वाक्तनुमनोजनितैर्हतोऽस्मि ॥ ७९॥
त्वद्दास्यमस्य हि मम स्वरसप्रसक्तं
तच्चोरयन्नयमहं किल चस्खल प्राक् ।
त्वं मामकीन इति मामभिमन्यसे स्म
हस्तीश ! संशयथ नस्तमिमं विवादम् ॥ ८०॥
भोगा इमे विधिशिवादिपदं च किञ्च
स्वात्मानुभूतिरिति या किल मुक्तिरुक्ता ।
सर्वं तदूषजलजोषमहं जुषेय
हस्त्यद्रिनाथ ! तव दास्यमहारसज्ञः ॥ ८१॥
विषयविषधरव्रजव्याकुले
जननमरणनक्रचक्रास्पदे ।
अगतिरशरणो भवाब्धौ लुठन्
वरद ! शरणमित्यहं त्वां वृणे ॥ ८२॥
अकृतसुकृतकस्सुदुष्कृत्तरः
शुभगुणलवलेशदेशातिगः ।
अशुभगुणपरस्सहस्रावृतो
वरदमुरुदयं गतिं त्वां वृणे ॥ ८३॥
शरणवरणवागियं योदिता
न भवति बत ! साऽपि धीपूर्विका ।
इति यदि दयनीयता मय्यहो !
वरद ! तव भवेत्ततः प्राणिमि ॥ ८४॥
निरवधिषु कृतेषु चागस्स्वहो !
मतिरनुशयिनी यदि स्यात्ततः ।
वरद ! हि दयसे न संशेमहे
निरनुशयधियो हता है ! वयम् ॥ ८५॥
शरणवरणवागियं याऽद्य मे
वरद ! तदधिकं न किञ्चिन्मम ।
सुलभमभिमतार्थदं साधनं
तदयमवसरो दयायास्तव ॥ ८६॥
विषयविषययिणी स्पृहा भूयसी
तव तु चरणयोर्न साऽल्पापि मे ।
वरद ! ननु भरस्तवैव त्वयं
यदुत तव पदस्पृहाजन्म मे ॥ ८७॥
इयमिह मतिरस्मदुज्जीवनी
वरद ! तव खलु प्रसादादृते ।
शरणमिति वचोऽपि मे नोदियात्
त्वमसि मयि ततः प्रसादोन्मुखः ॥ ८८॥
वरद ! यदिह वस्तु वाञ्छाम्यहं
तव चरणलभाविरोधस्ततः ।
यदि न भवति तश्च देहि प्रभो !
झटिति वितर पादमेवान्यथा ॥ ८९॥
तदपि किमपि हन्त ! दुर्वासना-
शतविवशतया यदभ्यर्थये ।
तदतुलदय ! सार्व ! सर्वप्रद !
प्रवितर वरद ! क्षमाम्भोनिधे ॥ ९०॥
प्रियमितरदथापि वा यद्यथा
वितरसि वरद ! प्रभो ! त्वं हि मे ।
तदनुभवनमेव युक्तं तु मे
त्वयि निहितभरोऽस्मि सोऽहं यतः ॥ ९१॥
यथाऽसि यावानसि योऽसि यद्गुणः
करीश ! यादृग्विभवो यदिङ्गितः ।
तथाविधं त्वाऽहमभक्तदुर्ग्रहं
प्रपत्तिवाचैव निरीक्षितुं वृणे ॥ ९२॥
अये ! दयालो ! वरद ! क्षमानिधे !
विशेषतो विश्वजनीन ! विश्वद ! ।
हितज्ञ ! सर्वज्ञ ! समग्रशक्तिक !
प्रसह्य मां प्रापय दास्यमेव ते ॥ ९३॥
स्वकैर्गुणैः स्वैश्चरितैः स्ववेदनात्
भजन्ति ये त्वां त्वयि भक्तितोऽथवा ।
करीश ! तेषामपि तावकी दया
तथात्वकृत्सैव तु मे बलं मतम् ॥ ९४॥
यदि त्वभक्तोऽप्यगुणोऽपि निष्क्रियो
निरुद्यमो निष्कृतदुष्कृतो न च ।
लभेय पादौ वरद ! स्फुटास्ततः
क्षमादयाद्यास्तव मङ्गला गुणाः ॥ ९५॥
विलोकनैर्विभ्रमणैरपि भ्रुवोः
स्मितामृतैरिङ्गितमङ्गलैरपि ।
प्रचोदितस्ते वरद ! प्रहृष्टधीः
कदा विधास्ये वरिवस्यनं तव ॥ ९६॥
विविश्य विश्वेन्द्रियतर्षकर्षणीः
मनस्स्थले नित्यनिखातनिश्चलाः ।
सुधासखीर्हस्तिपते ! सुशीतलाः
गिरः श्रवस्याश्शृणुयाम तावकीः ॥ ९७॥
अशेषदेशाखिलकालयोगिनीषु
अहं त्ववस्थास्वखिलास्वनन्यधीः ।
अशेषदास्यैकरतिस्तदाचरन्
करीश ! वर्तेय सदा त्वदन्तिके ॥ ९८॥
इमं जनं हन्त ! कदाऽभिषेक्ष्यति
त्वदक्षिनद्योर्वरद ! श्रमापहा ।
अकृत्रिमप्रेमरसप्रवाहजा
विसृत्वरी वीक्षणवीचिसन्ततिः ॥ ९९॥
सदातनत्वेऽपि तदातनत्वत्
नवीभवत्प्रेमरसप्रवाहया ।
निषेवितं त्वां सततोत्कया श्रिया
करीश ! पश्येम परश्शतं समाः ॥ १००॥
समाहितैस्साधु सनन्दनाभिः
सुदुर्लभं भक्तजनैरदुर्लभम् ।
अचिन्त्यमत्यद्भुतमप्रतर्कणं
वरप्रद त्वत्पदमाप्नुयां कथम् ? ॥ १०१॥
रामानुजाङ्घ्रिशरणोऽस्मि कुलप्रदीपः
त्वासीत्स यामुनमुनेस्स च नाथवंश्यः ।
वंश्यः पराङ्कुशमुनेस्स च सोऽपि देव्याः
दासस्तवेति वरदास्मि तवेक्षणीयः ॥
॥ इति पञ्चस्तव्यां चतुर्थो वरदराजस्तवः समाप्तः ॥
Proofread by Aruna Narayanan narayanan.aruna at gmail.com