श्रीवरदराजस्तवः २

श्रीवरदराजस्तवः २

अप्पय्यदीक्षितेन्द्रविरचितः । (काञ्च्यां वरदराजक्षेत्रे) उद्धाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि गृह्यमाणः । यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ १॥ जातो न वेत्ति भगवन्न जनिष्यमाणः पारं परं परमपूरुष ते महिम्नः । तस्य स्तुतौ तव तरङ्गितसाहसिक्यः किं मादृशो बुधजनस्य भवेन्न हास्यः ॥ २॥ मन्ये निजस्खलनदोषमवर्जनीय- मन्यस्य मूर्ध्नि विनिवेश्य बहिर्बुभूषुः । आविश्य देव रसनानि महाकवीनां देवी गिरामपि तव स्तवमातनोति ॥ ३॥ नेतस्तथापि तव निर्ममलोकसेव्यां मूर्तिं मदावलमहीधररत्नभूषाम् । वैकुण्ठ वर्णयितुमस्मि धृताभिलाषः त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥ ४॥ मन्ये सृजन्त्वभिनुतिं कविपुङ्गवास्ते तेभ्यो रमारमण मादृश एव धन्यः । त्वद्वर्णने धृतरसः कवितातिमान्द्यात् यस्तत्तदङ्गचिरचिन्तनभाग्यमेति ॥ ५॥ काञ्ची महार्घमणिकाञ्चनधामचित्रा विश्वम्भरां विबुधनाथ विभूषयन्ती । भाता गजाद्रिशिखरे तव भक्तचिन्ता- रत्नेन राजतितरां शुभविग्रहेण ॥ ६॥ अस्यां भवन्तमभितः स्थितदुग्धसिन्धौ मध्ये त्रयीमय महारविमण्डलस्य । पश्यन्नधःकृतचतुर्मुखविष्टपायां धामत्रयेऽपि कुतुकं विजहाति विद्वान् ॥ ७॥ अस्याममेयगुणपुर्यपराजितायां अश्वत्थवर्यजुषि दिव्यसरःसमीपे । मध्ये हिरण्मयगृहं महिषीयुतं त्वां दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥ ८॥ सम्प्राप्य दुग्धतटिनीविरजां विशुद्धाः सन्तो भवद्भजनदां पदमागतास्ते । त्वत्पादतोयतुलसीकुसुमेषु लग्नं गन्धं रसं च गरुडध्वज ते लभन्ते ॥ ९॥ सौवर्णसालवलयान् समनुप्रविश्य कोशानिव त्रिदशनायक कोऽपि धन्यः । आनन्दवल्ल्युदितदिव्यफलानुरूपं रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥ १०॥ मातङ्गशैलमणिश‍ृङ्गमहाविमान सोपानपर्वचतुरुत्तरविंशतिर्वा । तामेव तत्त्वविततिं पुरुषो विलङ्घ्य पश्यन्भवन्तमुपयाति भवाब्धिपारम् ॥ ११॥ नापारि लब्धुमरविन्दभुवाऽपि साक्षाद्- यं पूर्वमीश्वर विना हयमेधपुण्यम् । अन्यैरनाप्य स कथं तव पुण्यकोटिं प्राप्यस्त्वदाकृतिविलोकनजः प्रमोदः ॥ १२॥ प्रत्यङ्मुखं तव गजाचलराजरूपं प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय । अस्थानमाप्तवचसामवितर्कणीय- माश्चर्यमेतदिति निश्चयमावहन्ते ॥ १३॥ यस्मिञ्जहात्यतिशयोक्तिरलङ्कृतित्वं न्यूनोपमात्वमुपमा समुपैति सर्वा । सूक्ष्मस्वभावकलनापि च न प्रतर्क्या तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥ १४॥ लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि विश्वैकमोहनरसस्य च देवताऽसि । आवासभूमिरसि सर्वगुणोत्तमानां वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ १५॥ सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि । श‍ृङ्गारशेवधिरसि द्विपशैलमौले कल्याणरूप इति कस्त्वयि चित्रवादः ॥ १६॥ अङ्गानि ते निखिललोकविलोचनानां सम्भावनीयगुणसंसरणानि सत्यम् । येष्वेकमाप्य न पुराऽधिगतं स्मरन्ति वाञ्छन्ति नान्यदपि लब्धुमदो विहाय ॥ १७॥ एकत्र मन्मथमजीजनदिन्दरायां पूर्वं भवानिति बुधा किमपूर्वमाहुः । अद्यापि तं न जनयस्यरविन्दनाभ कासु प्रसन्नमधुरस्मितकामिनीषु ॥ १८॥ निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि निर्यात इत्यधिप न त्वयि चित्रमेतत् । हत्वा हठान्मृगदृशां हृदयानि यस्त्व- मेवं निलीय किल तिष्ठसि शैलश‍ृङ्गे ॥ १९॥ मोहं जगत्त्रयभुवामपनेतुमेत- दादाय रूपमखिलेश्वर देहभाजाम् । निस्सीमकान्तिरसनीरधिनाऽमुनैव मोहं विवर्धयसि मुग्धविलोचनानाम् ॥ २०॥ उच्छेदमेकविषयात्कथयन्ति बोधान् मोहस्य ये खलु कथं न मृषावदास्ते । लावण्यमीश तव यन्नयनैर्निपीय तत्रैव मोहमधिकं दधते तरुण्यः ॥ २१॥ शुभ्रांशुवक्त्र शुभगोचरलाभतोषात् सम्प्रस्थितो मृगदृशां नयनाम्बुजौघः । त्वद्भासरित्यथ बिभर्ति मोहं प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥ २२॥ यत्प्राणसंयमजुषां यमिनां मनांसि मूर्तिं विशन्ति तव माधव कुम्भकेन । प्रत्यङ्गमूर्छदतिवेलमहाप्रवाह- लावण्यसिन्धुतरणाय तदित्यवैमि ॥ २३॥ लावण्य सागरभुवि प्रणयं विशेषाद्- दुग्धाम्बुराशिदुहितुस्तव तर्कयामि । यत्तां बिभर्षि वपुषा निखिलेन लक्ष्मी- मन्यां तु केवलमधोक्षज वक्षसैव ॥ २४॥ सारस्वतं वदनपद्मभुवं प्रवाहं त्रैस्रोतसं च तव पादभुवं निरीक्ष्य । सर्वप्रतीकनिकरात्प्रवहन्त्यजस्र- मीर्ष्यावतीश यमुना किमु कायकान्तिः ॥ २५॥ आपूरितत्रिभुवनोदरमंशुजालं मन्ये महेन्द्रमणिवृन्दमनोहरं ते । त्वद्रागदीपितहृदां त्वरितं वधूनां प्राप्ते सरित्सहचरं प्रलयेऽभिवृद्धम् ॥ २६॥ युक्त्याऽऽगमेन च भवान् शशिवर्ण एव निष्कृष्टसत्त्वगुणमात्रविवर्तभूमिः । धत्ते कृपाम्बुभरतस्त्विषमैन्द्रनीलीं शुभ्रोऽपि साम्बुरसितः खलु दृश्यतेऽब्दः ॥ २७॥ सर्वातिशायिसहजद्युतिभूषितस्य विश्वैकनायक विभूषणधारणं ते । आबद्धसौहृदमपारसुखाम्बुराशेः वीक्षे तवैव विषयादिकुतूहलेन ॥ २८॥ मध्ये स्फुरन्मकरतोरणमण्डलस्य चामीकराभरणभूषितसर्वगात्रः । आदित्यबिम्बगतमाप्रपदात्सुवर्णं भासा भवाननुकरोति भवन्तमेव ॥ २९॥ सेवारसागतसुराद्यनुबिम्बदृश्यं भूषामणिप्रकरदर्शितसर्ववर्णम् । त्वां विश्वरूपवपुषेव जनं समस्तं पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥ ३०॥ श‍ृङ्गीसुवर्णरुचिपिञ्जरितैकभागा- न्यङ्गेषु देव तव भूषणमौक्तिकानि । प्रत्यक्षयन्ति भवतः प्रतिरोमकूप- विश्रान्तिसान्द्रजगदण्डसहस्रशोभम् ॥ ३१॥ आबद्धपङ्क्तिमहितानि तव त्रिधामन् वीध्राणि हीरशकलानि विभूषणेषु । सम्मोहनानि सरसीरुहलोचनानां मन्त्राक्षराणि कलये मकरध्वजस्य ॥ ३२॥ आपादमौलिविधृतेषु विभान्ति देव स्थूलेन्द्रनीलमणयो मणिभूषणेषु । रागादुपेत्य तव सुन्दर तत्तदङ्ग- लग्नानि लोकसुदृशामिव लोचनानि ॥ ३३॥ त्वां वीक्ष्य मुक्तिद जनास्तरणिं सखायं भिन्द्युः किलेति तव भूषणपद्मरागाः । शङ्के चिरं जनदृशः स्वकरैः क्षिपन्ति तन्मात्रतोऽपि तव मुक्तिदतामबुद्ध्वा ॥ ३४॥ पादावुपेन्द्र सुकुमारतमाविमौ ते भूषाभरादरुणिमानमिवोद्वमन्तौ । इत्थं किमस्ति सुकुमारमितीव बोद्धुं लोकत्रयेऽपि च करैः स्पृशतः पदार्थान् ॥ ३५॥ मूर्तिं प्रसाधयति ते चरणांशुपुञ्जः तां जैमिनिः कथमधीश निराकरोतु । सर्वत्र योगमुपपादयताऽरुणिम्नः तेनारुणाधिकरणे हि मुनिः स भग्नः ॥ ३६॥ अन्तस्तमांसि यमिनामपसारयन्ती हृत्पङ्कजान्यपि च नाथ विकासयन्ती । भक्तप्रवेकभववारिनिधेस्तरण्योः त्वत्पादयोर्जयति काऽपि मयूखमाला ॥ ३७॥ मुष्णन्प्रभातसमयेषु मुरान्तकारिन् अङ्घ्रिद्वयश्रियमहस्करतस्करस्ते । यत्प्राप्यते न करभङ्गममुष्य बाल- मित्रत्वमेव मिषति ध्रुवमत्र हेतुः ॥ ३८॥ अङ्घ्रिद्वयस्य तव सन्ततमन्तरङ्ग- मम्भोजवर्गमिह योजयति श्रिया यत् । उत्कोचदानमिदमुष्णकरस्य बाल्यात् तत्कान्तिरत्नचयचोरणतत्परस्य ॥ ३९॥ भानुर्निशासु भवदङ्घ्रिमयूखशोभा लोभात्प्रताप्य किरणोत्करमाप्रभातम् । तत्रोद्धृते हुतवहात्क्षणलुप्तरागे तापं भजत्यनुदिनं स हि मन्दतातः ॥ ४०॥ तौल्यं वदन्तु कवयस्तरुपल्लवानां मुग्धास्त्वदीयचरणेन मुकुन्द किं तैः । तान्येव तत्तदधरोष्ठमिषात्तदानीं कम्पं भजन्ति कथयन्ति किलात्मनैच्यम् ॥ ४१॥ पद्मोपमात्पदयुगात्तव रत्नगर्भा- ज्जातेति पद्मसदृशाकृतिमाहुरेनाम् । कार्यं हि कारणगुणानतिवर्ति लोके प्रायः पतङ्गपतिवाह विलोकयामः ॥ ४२॥ कल्याणशालिकमलाकरलालनीय- मासेवकश्रुतिमनोहरनादि हंसम् । आमोदमेदुरमरुन्नमितालिकान्तं शङ्के तवेश्वर पदं शतपत्रमेव ॥ ४३॥ स्पर्शं ययोः समधिगम्य झटित्यहल्या देवी च भूरभवदुज्झितसर्वपङ्का । ताभ्यां घटेत समता भवतः पदाभ्यां आजन्मपङ्कवसतेः कथमम्बुजस्य ॥ ४४॥ मातङ्गशैलमणिशेखर ते पदाभ्यां मोहेन साम्यमनुचिन्त्य कृतापराधम् । शङ्के सरोजमनयोरुभयोरुपेत्य रेखाच्छलेन सततं विदधाति सेवाम् ॥ ४५॥ लेखाधिनाथवनपल्लवधैर्यचोरे रेखामयं पदतले कमलं यदेतत् । तत्रैव विश्रमजुषोऽच्युतरागलक्ष्म्याः क्रीडानिशान्तकमलं तदिति प्रतीमः ॥ ४६॥ यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः पादाम्बुजद्वयमिषात्कमठाधिराजः । मूले वसत्युचितमेव निगद्यते सा मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥ ४७॥ किं द्वादशात्मनि रवौ भगवन्धृतेर्ष्यः चन्द्रस्ततोऽप्यधिकतामधिगन्तुमेव । एते तवेह दश भान्ति पदाङ्गुलीषु स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥ ४८॥ भासा पदं तव रमाधिप भूषयन्ति संसेवकांश्च विबुधान् परितोषयन्ति । नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते संशोषयन्त्यपि तु भक्तभवाम्म्बुराशिम् ॥ ४९॥ गङ्गाच्छलेन तव निःसृतमूर्ध्वगाण्ड- सङ्घट्टनात्पदनखाग्रमयूखलेशम् । आलोक्य नूनममराः पतितं पयोधा- वामथ्य तं जगृहुरीश तदिन्दुरूपम् ॥ ५०॥ पादानमत्सुरशिरोमणिपद्मरागान् सद्यः स्फुरत्सहजरुक्प्रकरान्कराग्रैः । मुक्तामयान्विदधतां प्रकटं मुरारे जैवातृकत्वमुचितं ननु ते नखानाम् ॥ ५१॥ यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः । नित्यं तदेव भजतामतिमुक्तलक्ष्मी- युक्तैव दिव्यमणिनूपुरमौक्तिकानाम् ॥ ५२॥ नाथ त्वदङ्घ्रिनखधावनतोयलग्नाः तत्कान्तलेशकणिकाजलधिं प्रविष्टाः । ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः ॥ ५३॥ सव्यापसव्यशरमोक्षकृतीक्षुधन्वा जङ्घे तव स्वशरधी इति सन्दिहानः । आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन न्यस्याभितो निजशराननुरूपभावम् ॥ ५४॥ जानुद्वयं तव जगत्त्रयनाथ मन्ये मारस्य केलिमणिदर्पणतामुपेतम् । आलोकयन् यदवदातमनोज्ञवृत्तं रूपं निजं कलयते विपरीतमेषः ॥ ५५॥ ऊरोः किमन्यदयतामुपमानभावं वामस्य दक्षिणममुष्य च तं विहाय । रम्भादयः सदृश इत्युचितं किमेतद्- यस्योर्वशी सुभग साऽपि विभूतिलेशः ॥ ५६॥ नाथ त्वया परिहितं वरवर्णिनीनां रागस्य यद्वसनमास्पदतां बिभर्ति । सौन्दर्यसारनिलयेन कटीतटेन तस्यैव किन्नु महिमा परिशीलनस्य ॥ ५७॥ सम्प्राप्य सारसनमध्यतलोदयाद्रिं मध्याम्बरं मसृणयन्नरुणैर्मयूखैः । संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा संसाररात्र्युपरतिं गतवद्भिरेव ॥ ५८॥ नाभेरभूत्तव चतुर्भुज नान्तरिक्षं यन्नाभिरेव यदुनेतरियं ततोऽभूत् । नाभ्या इति श्रुतिविपर्ययगे विभक्ती तां जैमिनेरनुससार पशोश्च सूत्रम् ॥ ५९॥ आरोपमध्यवसितिं च विना तवास्यां नाभौ सरःपदमुपैति कथं नु वृत्तिम् । साक्षादियं सरसिजस्य समुद्रशायिन् उत्पत्तिभूरिति हि नायक नायमूहः ॥ ६०॥ कल्पान्तरेषु विततिं कमलासनानां भूयोऽपि कर्तुमिव भूरि रजो दधानम् । नाभिह्रदे समुदितं नलिनं तवैत- द्भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१॥ उल्लासयत्युदरबन्धनिबद्धदिव्य- शोणाश्मरश्मिकलिकावलिरच्युतैषा । आगाम्यनेकशतकल्पविधातृगर्भ- नाभ्युद्गताम्बुरुहकुट्मलपङ्क्तिशोभाम् ॥ ६२॥ ऊर्ध्वं विरिञ्चिभवनात्तव नाभिपद्मा- द्रोमावलीपदजुषस्तमसः परस्तात् । मुक्तौघमण्डितमुरःस्थलमुन्मयूखं पश्यामि देव परमं पदमेव साक्षात् ॥ ६३॥ सालैरुदंशुचयरत्नललन्तिकाढ्यैः स्फीतोल्लसत्कुसुमया वनमालया च । विभ्राजते विपुलमेनदुरस्त्वदीय- मन्तःपुरं जलधिराजकुमारिकायाः ॥ ६४॥ प्रालम्बिकामुपगतास्तव पद्मरागाः प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः । पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥ ६५॥ अस्तु त्रयीमयतनुस्तव लम्बनाली- रत्नैस्तिरस्क्रियत एव तथाऽपि भानुः । सोढः सतां बत निशान्तमुपागतानां एवं तिरस्कृदीश्वर कः समर्थः ॥ ६६॥ नष्टेऽपि भस्मनि वने गिरिशेन दग्धं स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः । भस्मोच्चये कृतकचप्रतिबोधनं तं शुक्रं जयन्तु न कथं तव हारताराः ॥ ६७॥ उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती पार्श्वद्वये परमपूरुष हारमाला । तत्रत्यकान्तिसरितस्तरलैः प्रणुन्नां ऊर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥ ६८॥ त्वां सर्वभूतमयमाश्रितसर्ववर्णं यद्वैजयन्त्युपगताच्युत सर्वगन्धम् । तेनैव किं त्रिभुवनैकमहावदान्य- सारूप्यमावहति ते सकलाभिनन्द्यम् ॥ ६९॥ ताराभिरामपरिणाहलसत्सिताभ्रं तापिञ्छमेचकमुरः शरदन्तरिक्षम् । प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥ ७०॥ नाभी सरोजकिरणैर्मणिराजभाभिः आत्मप्रभाभिरपि संवलितं विभाति । श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं वक्षः परीतमिव सत्त्वरजस्तमोभिः ॥ ७१॥ वक्षःस्थलं वरद नन्दनमाश्रितस्ते येषां विभाति हरिचन्दन एव मध्ये । एते चतुर्भुज भुजास्तव तस्य शाखाः शङ्के कराब्जदलकोमलिताग्रभागाः ॥ ७२॥ जात्यैव यद्वरद पल्लवराग एष यल्लाल्यते च भवता कटके निवेश्य । मन्ये मणिस्तदुपगम्य मदान्धभावं साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥ ७३॥ ऐन्द्रोपलप्रभमधो भुजदण्डनालं एकत्र चक्रमपरत्र च शङ्खहंसम् । दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धोः उत्फुल्लपद्मयुगमूर्ध्वकरद्वयं ते ॥ ७४॥ चन्द्रार्कचारुतरशङ्खरथाङ्गशोभा सम्भाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् । नक्षत्रदृश्यनवमौक्तिकहारिरूपं मन्ये महापुरुषरूपधरं भवन्तम् ॥ ७५॥ संवर्तजृम्भितविकर्तनदुर्निरीक्षं पश्यामि दक्षिणकरे तव चक्रराजम् । दैत्यौघसिन्धुपतिमन्थमहाचलस्य बाहोः प्रतापघनमिद्धमिवोद्गतं ते ॥ ७६॥ आभाति देव विधृतस्तव सव्यपाणौ अन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः । अन्तेवसन्निव गलस्य गुरोर्गभीर ध्यानक्रियोपनिषदध्ययनार्थमेषः ॥ ७७॥ कौमोदकी स्फुरति ते करपल्लवाग्रे वैरिञ्चवाक्यविकृतेव सरस्वती सा । त्रिस्रोतसस्तव पदाब्जभुवो विशेषं आकाङ्क्ष्य पाणिकमलात्तव निस्सरन्ती ॥ ७८॥ हस्ते विराजति तवाभयमुद्रितेऽस्मिन् अव्याजकोमलरुचिप्रकराभिरामे । वज्रोर्मिकांशुनिकरः कमलाधिराज्य पट्टाभिषेकसलिलौघ इवावदातः ॥ ७९॥ नामैव ते वरद वाञ्छितदातृभावं व्याख्यानतो न वहसे वरदानमुद्राम् । न ह्यागमोदितरसः श्रुतिसिद्धमर्थं लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥ ८०॥ आभाति मौक्तिकगुणग्रथितैरनल्पैः नीलोत्पलैर्वलयितस्तव नाथ कण्ठः । संवर्तमेघवसतिं ध्वननैस्तदन्तैः निश्चित्य तन्निकटगैरिव मेघडिम्भैः ॥ ८१॥ यद्ब्रह्मणश्च जनिभूः प्रियमिन्दरायाः सस्पर्धमोषधिपतौ च सकर्णिकं च । एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥ ८२॥ वक्त्रेण ते यदभिभूतमभूत्सरोजं तन्नाभिभूतमिति शब्दमवाच्यनूनम् । शब्दच्छलादपनिनीषु जनापवादं नाभेरभूत्तव रमाधिप विश्रुतायः ॥ ८३॥ उन्मीलयन्कुमुदमुज्ज्वलयन् गिरीशं उन्मूलयन्विषमवाहभवाभितापम् । उद्दीपयन्वरवधूजनतानुरागं उद्योतते वरद ते वदनामृतांशुः ॥ ८४॥ पक्षद्वयक्रशिमपोषविभाव्यमान- चान्द्रायणव्रतनिषेवण एष नित्यम् । कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते लिप्सुर्मुखाब्जरुचिमेव तपस्यतीन्दुः ॥ ८५॥ नाथ त्वदीयमकलङ्कमिमं मुखेन्दुं आपीय तृप्यति सदा वसुधा यतस्ते । तेनैव किं नवसुधारसगोचरोऽभूत् इन्दुः कलङ्कमलिनीकृतमध्यभागः ॥ ८६॥ आश्रित्य नूनममृतद्युतयः पदं ते देहक्षये विधृतदिव्यपदाभिमुख्याः । लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ ८७॥ त्वद्वक्त्रसाम्यमयमम्बुजकोशमुद्रा- भङ्गात्ततत्सुषममित्रकरोपक्लृप्त्या । लब्ध्वाऽपि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ ८८॥ दृग्भ्यां मुकुन्द मृगलोचनकोमलाभ्यां जाताधिकद्युति विलोक्य तवाननाब्जम् । मन्ये स्वमण्डलमितोऽप्यधिकं विधित्सुः तस्मिन्बिभर्ति मृगमेव जडः सितांशुः ॥ ८९॥ मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ धत्तो मुखे तु तव दृक्तिलकात्मनाऽऽभाम् । दोषावतः क्वचन मेलनतो गुणत्वं वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥ ९०॥ आमोदकान्तभृदहर्निशमेकरूपं आसेवितं द्विजगणैर्दिविषद्गणैश्च । अङ्काधिरूढसहजश्रि मुखं त्वदीयं शङ्कामहे वरद संहतमब्जयुग्मम् ॥ ९१॥ बिम्बस्तवायमधरः प्रतिबिम्बनेन युक्तं सदा युवतिमानसदर्पणेषु । बिम्बाधरः कविभिरीश्वर वर्ण्यसे त्वं एतावतैव न तु तुच्छफलोपमानात् ॥ ९२॥ विद्यामयेषु तव निःश्वसितेष्वपूर्वं विद्याविशेषमिव शिक्षितुमन्तरात्मन् । वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः कायप्रभेव लसति स्मितचन्द्रिका ते ॥ ९३॥ तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता निबुसीकृतस्य । एते कडङ्गरचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रमन्ति ॥ ९४॥ सिद्धौषधं जयति तेऽधररत्नपात्रे तापत्रयी झटिति मुञ्चति येन सिक्तम् । मन्ये तुषारकिरणं गुणलेशयोगा- दस्यैव वारिजविलोचन कल्कपुञ्जम् ॥ ९५॥ आतन्वतामवयवेषु गतागतानि युक्तात्मनां वरद यौवतचक्षुषां च । विश्रान्तिभूर्विधुकरप्रकरावदाता मन्दस्मितच्छविरियं तव मां पुनातु ॥ ९६॥ निःश्वासमन्दमलयानिलकन्दलेन निर्हारिणा बहुतरेण च सौरभेण । नासापुटौ नलिनलोचन ते मनोज्ञौ मन्ये सदैव मधुमाधवयोर्निवासौ ॥ ९७॥ सञ्चारशालि तव निःश्वसिते समस्त- वेदेतिहासवपुषि द्विपशैलनाथ । नाभीसरोरुहनवारुणमण्डले च मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥ ९८॥ देहाद्वदन्ति जननं मुनयस्तिलानां देवेन्द्रवन्द्यचरणाम्बुज तावकीनात् । नारायणैतदुचितं प्रकटीकरोति नासाभिधानमिह दिव्यतिलप्रसूनम् ॥ ९९॥ नेत्रे तव क्व भगवन् क्व च पुण्डरीकं ब्रूते तयोस्तदुपमानमथापि वेदः । सर्वात्मनस्तव समाधिकवस्त्वलाभा- दाकाशवत्स खलु सर्वगतत्वमाह ॥ १००॥ साम्यभ्रमादविनयेन समुन्नतस्य सव्यं तवाक्षि हरति श्रियमम्बुजस्य । तस्यापि तां समधिकां तनुते यदन्यद्- दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥ १०१॥ पद्मानुरागजुषि लोहितशुक्लकृष्णां आसेदुषि प्रकृतिमादृतमीनरूपे । श्रुत्यन्तभासिनि मदावलशैलनाथ त्वल्लोचने त्वयि च भाति न मे विशेषः ॥ १०२॥ मुक्तः प्रजापतिरयं मम दर्शनादि- त्यन्यं विधातुमनसस्तव भालजाता । घर्माम्बुबिन्दुततिरेव किरीटमूल- प्रत्युप्तमौक्तिकततिच्छलतो विभाति ॥ १०३॥ राजन्त्यनर्घमणिसङ्घमये किरीटे राजीवलोचन न नीलमणिप्रवेकाः । आघ्राय गन्धमनिलस्तव कुन्तलानां अन्तः प्रवेष्टुमनसः परितो निलीनाः ॥ १०४॥ आपादमाचिकुरभारमशेषभङ्गं आनन्दवृन्दलसितं सुदृशामसीमम् । अन्तर्मम स्फुरतु सन्ततमन्तरात्मन् अम्भोजलोचन तव श्रितहस्तशैलम् ॥ १०५॥ इति अप्पय्यदीक्षितेन्द्रविरचितः श्रीवरदराजस्तवः सम्पूर्णः । Proofread by PSA Easwaran
% Text title            : varadarAjastavaH 2
% File name             : varadarAjastavaH2.itx
% itxtitle              : varadarAjastavaH 2 (appayyadIkShitendravirachitaH uddhATya yogakalayA hRidayAbjakoshaM)
% engtitle              : varadarAjastavaH 2
% Category              : vishhnu, appayya-dIkShita
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Sri Appayya Dixitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (Scans 1, 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org