वसुदेवकृतं बलरामकृष्णयोः स्तोत्रम्

वसुदेवकृतं बलरामकृष्णयोः स्तोत्रम्

कृष्ण कृष्ण महायोगिन् सङ्कर्षण सनातन । जाने वामस्य यत्साक्षात्प्रधानपुरुषौ परौ ॥ ३॥ यत्र येन यतो यस्य यस्मै यद्यद्यथा यदा । स्यादिदं भगवान् साक्षात्प्रधानपुरुषेश्वरः ॥ ४॥ एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज । आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्यज ॥ ५॥ प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः । पारतन्त्र्याद्वैसादृश्याद्द्वयोश्चेष्टैव चेष्टताम् ॥ ६॥ कान्तिस्तेजः प्रभा सत्ता चन्द्राग्न्यर्कर्क्षविद्युताम् । यत्स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थतो भवान् ॥ ७॥ तर्पणं प्राणनमपां देवत्वं ताश्च तद्रसः । ओजः सहो बलं चेष्टा गतिर्वायोस्तवेश्वर ॥ ८॥ दिशां त्वमवकाशोऽसि दिशः खं स्फोट आश्रयः । नादो वर्णस्त्वमोङ्कार आकृतीनां पृथक्कृतिः ॥ ९॥ इन्द्रियं त्विन्द्रियाणां त्वं देवाश्च तदनुग्रहः । अवबोधोभवान्बुद्धेर्जीवस्यानुस्मृतिः सती ॥ १०॥ भूतानामसि भूतादिरिन्द्रियाणां च तैजसः । वैकारिको विकल्पानां प्रधानमनुशायिनम् ॥ ११॥ नश्वरेष्विह भावेषु तदसि त्वमनश्वरम् । यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम् ॥ १२॥ सत्त्वंरजस्तम इति गुणास्तद्वृत्तयश्च याः । त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया ॥ १३॥ तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः । त्वं चामीषु विकारेषु ह्यन्यदाव्यावहारिकः ॥ १४॥ गुणप्रवाह एतस्मिन्नबुधास्त्वखिलात्मनः । गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभिः ॥ १५॥ यदृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभाम् । स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर ॥ १६॥ असावहम्ममैवैते देहे चास्यान्वयादिषु । स्नेहपाशैर्निबध्नाति भवान् सर्वमिदं जगत् ॥ १७॥ युवां न नः सुतौ साक्षात्प्रधानपुरुषेश्वरौ । भूभारक्षत्रक्षपण अवतीर्णौ तथात्थ ह ॥ १८॥ तत्ते गतोऽस्म्यरणमद्य पदारविन्द- मापन्नसंसृतिभयापहमार्तबन्धो । एतावतालमलमिन्द्रियलालसेन मर्त्यात्मदृक्त्वयि परे यदपत्यबुद्धिः ॥ १९॥ सूतीगृहे ननु जगाद भवानजो नौ सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै । नानातनूर्गगनवद्विदधज्जहासि को वेद भूम्न उरुगाय विभूतिमायाम् ॥ २०॥ इति श्रीमद्भागवतमहापुराणे दशमस्कन्धे उत्तरार्धे पञ्चाशीतितमाध्यायान्तर्गतं वसुदेवकृतं बलरामकृष्णयोः स्तोत्रं समाप्तम् । भागवतपुराण । अध्याय १०/८५/३-१८॥ bhAgavatapurANa . adhyAya 10/85/3-18.. Proofread by PSA Easwaran
% Text title            : Vasudevakritam Balaramakrishnayoh Stotram
% File name             : vasudevakRRitaMbalarAmakRRiShNayoHstotram.itx
% itxtitle              : balarAmakRiShNayoHstotram (vasudevakRitaM bhAgavatapurANAntargatam)
% engtitle              : vasudevakRRitaM balarAmakRRiShNayoHstotram
% Category              : vishhnu, vishnu, krishna, bhAgavatapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhAgavatapurANa | adhyAya 10/85/3-18||
% Indexextra            : (Text 1, 2, 3, Scans 1, 2, 3, 4, 5, 6, Hindi)
% Latest update         : October 1, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org