वत्सगुल्ममाहात्म्ये नृसिंह आख्यानम्
राजोवाच-
भगवञ्श्रोतृमिच्छामि तीर्थानां विस्तरं पुनः ।
आश्रमान्तर्गतानां च बाह्यानां च विशेषतः ॥ १॥
व्यास उवाच-
श्रुत्वा मुनिर्नृपेणोक्तं वचः परमशोभनम् ।
नृसिंहतीर्थमाहात्म्यं वक्तुं समुपचक्रमे ॥ २॥
वसिष्ठ उवाच-
राजन् वदामि ते सर्वं तीर्थजातकथानकम् ।
श्रुणु चैकमनास्त्वं हि गदतो विस्तरेण मे ॥ ३॥
मल्लिकार्जुनतः पूर्वं तीर्थं पुण्यतमं महत् ।
नारसिंहस्य देवस्य मूर्तिश्चातिशोभना ॥ ४॥
तस्मिंस्तीर्थे नरः स्नाति नृसिंहं यश्च पश्यति ।
तस्य नास्ति भयं क्वापि दुःखं दारिद्र्यमेव च ॥ ५॥
भक्त्या जपति देवेशं नृसिंहं भक्तकामदम् ।
स याति मनुजो धीरस्तद्विष्णोः परमं पदम् ॥ ६॥
अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् ।
यां श्रुत्वा मुच्यते जन्तुर्जन्ममृत्युभयान्नृप ॥ ७॥
निःसपत्नाः पुरा ह्यासन्निर्भया दिवि निर्जराः ।
वैरभावमजानन्तः सततं सुखवर्तिनः ॥ ८॥
एतस्मिन्नन्तरे ब्रह्मा चिन्तयामास चेतसि ।
निरान्तकाः सुरा नित्यं निश्चिताः सर्वदा मुदा ॥ ९॥
क्रीडन्ति विविधैर्भोगैः केवलं विषयाकुलाः ।
न जानन्ति परं ब्रह्म येन विश्वमिदं ततम् ॥ १०॥
दुःखलेशो न चैवास्ति हृदि येषां सदोत्सुकाः ।
भयेन भजते लोकः स्वधर्मं नान्यथा सुखी ॥ ११॥
दुर्मेधसो दुराचाराः कामभोगपरायणाः ।
त्यजन्ति नितरां धर्ममधर्मनिरताः परम् ॥ १२॥
वर्तते भुवनेष्वेषामन्येऽपि दुरितानुगाम् ।
वृत्तिं भजन्ति पापिष्ठाः सा सृष्टेः क्षयकारिणि ॥ १३॥
तस्मादेषु भयं किञ्चित्सृजामि परिदुःसहम् ।
तेन सेन्द्राः सुरा नित्यमुद्विग्नहृदयाः किल ॥ १४॥
सुखमुत्सृज्य सद्भावं भजन्ति दुरितापहम् ।
इति यावद्विधिश्चित्ते सञ्चितयति केवलम् ॥ १५॥
तावद्दितिः समायाता कश्यपस्य प्रियां सती ।
प्रणम्य दण्डवद्देवं ब्रह्माणं कमलासनम् ॥ १६॥
पूजयामास विधिवत्वंशुरं स्वगुरोर्गुरुम् ।
तस्थौ नम्रतरा तत्र मौनमाश्रित्य सुप्रभा ॥ १७॥
अथ देवः प्रजानाथः क्षणादूर्ध्वमवेक्ष्य च ।
देवादात्मवधूं प्राप्तामश्यत् पुरतः स्थिताम् ॥ १८॥
प्रहस्य भगवान् सर्वं चिन्तितं हृदि यत्पुरा ।
मेने तत् सफलं दृष्ट्वा स्नुषा दैवप्रचोदिताम् ॥ १९॥
साऽपि तं सुप्रसन्नस्यममिवीक्ष्य दयानिधिम् ।
उवाच विधिमामन्त्र्य प्रजाकामा पतिव्रता ॥ २०॥
देवदेव जगन्नाथ भक्तकामप्रपूरक ।
मयि कारुण्यपूर्णां त्वं दृष्टि देहि जगद्गरो ॥ २१॥
अप्रजाऽहं प्रजानाथ दृष्ट्वा देवांस्तथाविधान् ।
दुनोमि हृदये नित्यं सपल्याः परितः सुतान् ॥ २२॥
स्त्रीस्वभावान्महाभाग मत्सरग्रस्तमानसा ।
प्रार्थये हि वरं त्वत्तः सुतो येन भवेन्मम ॥ २३॥
एकोऽपि गुणवान् पुत्रस्त्रैलोक्यविजयी महान् ।
सौख्यं ददाति वै पित्रोरैहिकामुष्मिकं प्रभो ॥ २४॥
तथा मे भविता पुत्रः शूरो बलसमुन्नतः ।
जितारिः प्रसभं देवान्विजेता रणमूर्धनि ॥ २५॥
ख्यातः सर्वेषु लोकेषु सम्पादय तथाविधम् ।
इत्याकर्ण्य वचस्तस्या दितेरूर्जितमात्मभूः ॥ २६॥
स्वाचिन्तितं च संस्मृत्य तस्मिन् काले वधूं प्रति ।
उवाच प्रहसन् देवि सिद्धस्तेऽद्य मनोरथः ॥ २७॥
भविता ते सुतः सुभ्रु लोकजित् क्रोधवर्जितः ।
देवान् सर्वानिमञ्जेता महाबलपराक्रमः ॥ २८॥
गच्छ त्वं कश्यपं देवि काले सन्तुष्टमानसा ।
गुणैः सन्तोष्य भर्तारमिच्छ्रितं प्राप्स्यसे ध्रुवम् ॥ २९॥
इत्युक्त्वा तां ततोवेधा विससर्ज स्नुषान्ततः ।
साऽपि देवी यथाकाले कश्यपं समुपस्थिता ॥ ३०॥
प्रेम्णा चाटुवचोभिस्तमाभिनन्द्य पतिं मुदा ।
कश्यपोऽपि तया साध्व्या रेमे सुप्रीतमानसः ॥ ३१॥
ज्ञात्वा विधिविधानं तत्रत्यां गर्भमधात् प्रभुः ।
दधार गर्भं किल कश्यपात् सा दितिर्महोग्रं परमं प्रगल्भम् ॥ ३२॥
कालेन वृद्धि सहसाऽप तस्य द्युत्या दिशो रेजुरधोर्ध्वरूपाः ।
अथ सा सुषुवे पुत्रं बालार्कसमतेजसम् ॥ ३३॥
सर्वसम्पत्प्रभुं चोग्रं सुवर्णवपुषं दृढम् ।
दैत्यराजमनाधृष्ट्यं देवदानवमानवैः ॥ ३४॥
हिरण्यकशिपुस्तत्स ददौ नाम पितामहः ।
उत्पन्नमात्रः सहसा ववृद्धे किष्कुपञ्चकम् ॥ ३५॥
उत्थाय सहसा मातुः सकाशात्तपसे वनम् ।
ययावतिबलोन्मत्तः क्रोधी मानी च निर्घृणः ॥ ३६॥
गत्वा गोकर्णमाख्यातं क्षेत्रं सिद्धिकरं परम् ।
तपस्तत्र चचारोग्रं देवैरपि सुदुष्करम् ॥ ३७॥
दिव्यवर्षसहस्रं च तपस्तप्त्वा महासुरः ।
व्याकुलं तपसा तस्य सकलं चाभवत् जगत् ॥ ३८॥
सभयं जगदालोक्य विधाता दैत्यपुङ्गवम् ।
वरेण शमयंस्तत्र प्रयसौ हंसयानगः ॥ ३९॥
हिरण्यकशिपुं दृष्ट्वा तपसा परिवर्धितम् ।
उवाच प्रहसन् वाचा मेघगम्भीरनादया ॥ ४०॥
वत्सा तुष्टोऽस्मि ते ब्रूहि किं कामं करवाण्यहम् ।
इत्याकर्ण्य विधेर्वाक्यमुत्थाय करसम्पुटः ॥ ४१॥
प्रणिपत्य जगद्योनिं विनयानतकन्धरः ।
उवाच प्रसभं दैत्यः सम्बोध्य स्वपितामहम् ॥ ४२॥
पितामह महाभाग प्रसन्नोऽसि यदि प्रभो ।
तदा वरान् प्रयच्छ त्वं ममेष्टान् वरदायक ॥ ४३॥
तच्छ्रुत्वा वचनं तस्य हिरण्यकशिपोर्महत् ।
जगत्स्रष्टा स्वयम्भीतः किं मां याचिष्यते परम् ॥ ४४॥
शनैरुवाच तं वेधाः प्रार्थयस्व ह्याभिप्सितम् ।
अथासौ दितिजः श्रीमान् हिरण्यकशिपुर्वरान् ॥ ४५॥
प्रार्थयामास तानिष्टान् वरान्नृपतिसत्तम ।
देवदानवदैत्येभ्यो मनुष्येभ्यस्तथा विभो ॥ ४६॥
तिर्यक् कृमिपतङ्गेभ्यो न भयं मम जायताम् ।
न दिवा न च मे रात्रौ नाकाशे न धरातले ॥ ४७॥
नान्तरामरणं मे स्यान्न शस्त्रास्त्रजलाग्निभिः ।
त्र्यैलोक्यं वशगं मे स्यादमरत्वं प्रयच्छ मे ॥ ४८॥
श्रुत्वा तत्प्रार्थितं प्राह तथेत्यमरतां विना ।
सुरश्रेष्ठस्ततः शीघ्रं स्वीयं धाम ययौ पुनः ॥ ४९॥
चिरं न साधुना स्थेयं खलस्याग्रे पापदृक् ।
साधुं हि वचसा गृहणात्यतः स्वल्पचरो भवेत् ॥ ५०॥
दैत्योऽपि धातरि गते स्वहितं विधाय
ज्ञात्वाऽऽत्मनास्त्रिजगतोऽप्यधिकत्वमुच्चैः ।
सर्वं समाप्य परिहृत्य च तापसानां
वेषं स्वयं सकलदैत्यपतिर्बभूव ॥ ५१॥
ततः सपातालतलं प्रविश्य जित्वा समस्तान् सुतलाधिपांश्च ।
भुवं क्षणादेत्य सभूमिपालान् सर्वान् वशीकृत्य दिनेस्तनूजः ॥ ५२॥
ईयेष जेतुं स च नाकपालनिद्रप्रियां तां नगरी बलोयः ।
अथदेवैः श्रुतो दैत्यो बलवान् वरदर्पितः ॥ ५३॥
स्वस्थां जेतुमियासुश्च चिन्तामापेदिरेऽमराः ।
भयभीताः सुरास्तत्र सर्वे सङ्गत्य चाब्रुवन् ॥ ५४॥
किं विधेयमितो दैत्यः सर्वान्नो जेतुमिच्छति ।
सत्वरं भयनाशार्थमुपायान् कुरुताचिरम् ॥ ५५॥
ततः पुराणि दुर्गाणि विविधान्यायुधानि च
बलानि शूरयुक्तानि कचुकोष्णीषवन्त्यलम् ॥ ५६॥
अग्नियन्त्राणि घोराणि वप्रप्राकारभित्तिषु ।
सुगुप्तास्ते निदधिरे सिद्धान्यन्यानि चासकृत् ॥ ५७॥
एतस्मिन्नन्तरे दैत्यः स्वपुरिं सहसाह्यगात् ।
सत्वरं नन्दनोद्यानं विध्वस्य बलभित्पुरीम् ॥ ५८॥
रुरोध परितः सर्वे दैत्यास्तस्थुरुदायुधाः ।
ततो युद्धाय निर्याताः सुराः सज्जाः स्वलङ्कृताः ।
मरुत्वान् मत्तमातङ्गमारुह्य वरवर्मभृत् ॥ ५९॥
श्वेतातपत्रेण विराजमानः समुन्नतः श्रीपरिपूरिताङ्गः ।
वज्रं करेणोज्वलितं दधानो ययौ रणं नाकपतिर्महेन्द्रः ॥ ६०॥
तथैवमेष हुतभुग् लुलायं
प्रेताधिपश्चाधिरुरोह शीघ्रम् ।
अन्येऽपि यानानि दिवौकसौ भृशं
संस्थाय सज्जाः समराय निर्ययुः ॥ ६१॥
उभे सैन्ये समायाते समराय सुदुर्जये ।
ततः समभवत्युद्धं तुमुलं रोमहर्षणम् ॥ ६२॥
शस्त्रास्त्रपरमं घोरं चण्डमुण्डाङ्कितं बहु ।
युद्धे विनिर्जिता देवाः शस्त्रास्त्रैः शकलीकृताः ॥ ६३॥
पराभूता सुरास्तेन दैत्यराजेन चाखिलाः ।
पलायित्वा गताः सर्वे मत्वा तं वरदर्पितम् ॥ ६४॥
वैकुण्ठभुवनं राजन् ब्रह्मेन्द्रप्रमुखाः सुराः ।
हिरण्यकशिपुः सर्वानथ जित्वा सुरान् स्वयम् ॥ ६५॥
पुनर्भवं समायातः सैन्येन महता ततः ।
एकस्मिन् वसतिं चक्रे पुरे हैमवते शुभे ॥ ६६॥
कदाचिच्छुक्रमानाय्य तं पप्रच्छ दितेः सुतः ।
सर्व दैत्यगुरो काव्य सर्वे विबुधसत्तमाः ॥ ६७॥
क्वेदानीं वसतिं चक्रुर्न तान्जानाति तत्वतः ।
कथं ते मत्करे यान्ति वदोपायं महामते ॥ ६८॥
निशम्य दैत्यवाक्यं स शुक्रः परमतत्ववित् ।
दैत्यराजाय देवानां वृत्तान्तं समभाषत ॥ ६९॥
श्रृणु दैत्यपते पूर्वं नारायणमनामयम् ।
धातारं जगतश्चाप्सु शयानो विश्वतोमुखम् ॥ ७०॥
सृष्टिस्थितिविनाशानां कारणं परमाद्भुतम् ।
तमादिकारणं गत्वा देवाः प्राञ्जलयोऽब्रुवन् ॥ ७१॥
देवदेव जगन्नाथ जगत्भयविनाशन ।
श्रृणु विज्ञप्तिमस्माकं वयं भयविमोहिताः ॥ ७२॥
तद्भयस्य गतिं देव चिन्त्यतामाशु मापते ।
हरिरुवाच-
कुतो वो भयमुत्पन्नं येन यूयं विमोहिताः ॥ ७३॥
समाचड्वं महाभागास्तद्धरामि न संशयः ।
शुक्र उवाच-
तद् हरेर्भाषितं श्रुत्वा लेखास्तं पुनरब्रुवन् ॥ ७४॥
देव जानीहि नः प्राप्तं भयं भावि दितेः सुतात् ।
कदाचित् सा दितिः प्राप्ता ब्रह्मणः सदनं प्रभो ॥ ७५॥
पूजितः परया भक्त्या तया साध्व्या पितामहः ।
तत्पूजयाऽतिसन्तुष्टस्तमुवाच स्मिताननः ॥ ७६॥
अयि वत्से किमर्थं त्वमागताऽसि गृहं मम ।
यस्ते कामोऽस्ति हृदये तं ब्रूहि करवाण्यहम् ॥ ७७॥
इत्थं समाकर्ण्य वचः समीरितं स्वयम्भू वा हृष्टमुखी सतीदित्तिः ।
नत्वा विरिञ्चि बहुकालसम्भृतं कामं स्वकीयं स्वयमब्जजं जगौ ॥ ७८॥
अहं वरिष्ठा किलकश्यपस्य प्रियाऽन्यपत्नीषु ममाल्पभाग्यात् ।
न सम्भृतः काम इह प्रजायाः प्रजापते ते न दुनोमि नित्यम् ॥ ७९॥
तस्मात् प्रभो त्वामिति प्रार्थयेऽहं प्रदेहि पुत्रं सुखदं वरिष्ठम् ।
ततो विधिस्तन्मुखतोऽभिलाषं श्रुत्वा ददौ सा स्वगृहं जगाम ॥ ८०॥
वयं ततो भीततरा मुरारे त्वामद्य सर्वे शरणं प्रपन्नाः ।
तस्मात्भयात् पाहि जगन्निवास नोपेक्षणीयाः स्म वयं त्वदीयाः ॥ ८१॥
इति श्रुतं तेन सुरेन्द्रभाषितं मुरारिणा शङ्खगदारिधारिणा ।
विहस्य देवानवदन्मुहुर्विभुर्भयं यतो वस्समये हिनस्मि तम् ॥ ८२॥
सुखेन वै गच्छत निर्गतज्वराः सुराः स्वधामानि मनोहराणि ।
यदा स दैत्यो भवतामलीकं कर्तुं समीहेत तदा पुनर्मम ॥ ८३॥
स्थानं समागच्छत तस्य सर्वं वृत्तान्तमाख्यातुममरं च मह्यम् ।
इत्थं पुरा तेन सुरामुरारिणा सुसात्विताः स्वानि गृहाणि ते ययुः ॥ ८४॥
अथ त्वया ते समरे विनिर्जिता गताः पुनः श्रीरमणस्य मन्दिरम् ।
त्वया जितं सामरमुग्रतेजसा जगत्प्रभो तत् कथितं जगत्प्रभुम् ॥ ८५॥
वैकुण्ठ सान्यधुना निविष्टाः सुखे सुरास्त्यक्तभयाः समस्ताः ।
त्वया न जेतुं परिशक्यते विभो सुरक्षितास्तेन जनार्दनेन ॥ ८६॥
वसिष्ठ उवाच-
हिरण्यकशिपुस्तस्य शुक्रस्य वचनं स्फुटम् ।
निशम्य क्रोधदीप्तासौ हरौ द्वेषमकल्पयत् ॥ ८७॥
तदारभ्य महाद्वेष्टो हृद्यवर्तत विद्विषः ।
न तस्य पूजनं चक्रे न मानयति वैष्णवान् ॥ ८८॥
पराभूताः समस्तास्ते हरिभक्ताः सुरद्विषा ।
मूर्तयोऽपि हरेः सर्वा मज्जितास्तेन सागरे ॥ ८९॥
प्रासादा पतिता सर्वे देवतानां भुवि स्थिताः ।
घर्षणं कृतवान् घोरमृषयोऽपि विनाशिताः ॥ ९०॥
अथ कालेन महता हरिर्दैत्य वधाय च ।
अकरोन्मतिमाभाष्य विबुधान्निकटस्थितान् ।
श्रृणुतामरमुख्या मे वाक्यं दैत्यवधाश्रितम् ॥ ९१॥
जगत्रयं तेन दुरात्मना भृशं प्रतापितं चोद्धतमार्गवर्तिना ।
असह्यमेतन्मम तस्य जातं निहन्मि तं शीघ्रतरं दुरासदम् ॥ ९२॥
इतः परं नैव चिरं हि कुर्यां व्रजामि तद्धाम नियन्तुमुद्धतम् ।
इत्युक्तवान् देवपतिः स्वयं हरिः स्वांशेन दैत्येन्द्रगृहे सुतोऽभूत् ॥ ९३॥
देवदेवः स्वयं विष्णुर्वैकुण्ठः कमलापतिः ।
हिरण्यकशिपोः पल्यां स्वांशेनाविर्बभूव ह ॥ ९४॥
हिरण्यकशिपोः पत्नी पातिव्रत्यगुणैर्युता ।
दधार गर्भं परमं दैत्यवंशविवर्धनम् ॥ ९५॥
अथ सा समये देवि सुषुवे पुत्रमद्भुतम् ।
नाम्ना प्रह्लादमित्येवं विख्यातं भुवनत्रये ॥ ९६॥
हिरण्यकशिपुः पुत्रं जातं श्रुत्वा मनोहरम् ।
स्नात्वा सचैलमानीय गुरुं काव्यमुवाच ह ॥ ९७॥
किं कार्यमधुना विप्र पुत्रे जाते मया वद ।
शुक्रः प्राह तदा दैत्यं मङ्गलस्नानकारिणाम् ॥ ९८॥
दैत्याधिप महाराज जातकर्मणि संस्थिते ।
विधिवज्जातकर्माद्य कर्तव्यं पुत्रजन्मनि ॥ ९९॥
हिरण्यं धेनु वासांसि मुक्तारत्नादिकं च यत् ।
धान्यराशिस्तथा चान्यदश्वकुञ्जर वैभवम् ॥ १००॥
देहि द्विजेभ्यश्चान्येभ्यो दीनानाथेभ्य एव च ।
अद्य धन्यतरं दैत्य पुत्रजन्मदिनं शुभम् ॥ १०१॥
पुत्रलाभात् परो लाभो नास्ति त्रिभुवने महान् ।
तस्मात् सर्वप्रयत्नेन देयं सर्वं द्विजातये ॥ १०२॥
इति तस्य गुरोर्वाक्यं धर्म्यं श्रुत्वा स दैत्यराट् ।
स्वभृत्यानाह सामात्यांस्तथा कोशाधिकारिणः ॥ १०३॥
धनमानीयतां क्षिप्रं दातुमिच्छामि चामितम् ।
तदाज्ञयाऽथ तद्धृत्या धनं बहुलमाहरन् ॥ १०४॥
सर्वं तदद्विजसात् कृत्वा हस्त्यश्वरथसंयुतम् ।
तथा दीनान्धकुब्जेभ्यः शुक्राय च ददौ बहु ॥ १०५॥
स बालो ववृथे नित्यं शुक्लपक्षे यथा शशी ।
स सांवत्सरिको बालो हरिस्मरणलालसः ॥ १०६॥
बालभाषणकैर्नित्यं विष्णुनामानि गायति ।
तच्छ्रुत्वा सपिता तस्य प्रह्लादस्य च दैत्यराट् ॥ १०७॥
न जानाति शिशोर्वाक्यमस्पष्टं गतवर्णकम् ।
अक्षरारम्भकाले च तस्यादेशमथाकरोत् ॥ १०८॥
स बालः स्वगुरोर्गेहं जगामाक्षरलब्धये ।
पितुरादेशस्तत्र लिलेखाद्भुतदर्शनः ॥ १०९॥
गुरुणा पाठितान्येव नाक्षराणि पपाठ सः ।
ककारादिक्षकारान्तान्यनवेक्ष्य हरिं पठन् ॥ ११०॥
न श्रृणोति गुरोर्वाक्यं न बिभेति व्यपेतभीः ।
निर्भयो नितरां दैत्यतनयः सनयो मुदा ॥ १११॥
स्वमत्या हरिनामानि पठन्नान्यमनाः शिशुः ।
गुरुणा ताडितो नैव स्वमतं हि जहात्यसौ ॥ ११२॥
तदा गुरुरुवाचैनमर्भकं भर्त्सयन् परम् ।
रे वत्स जनकस्तेऽद्य श्रृणोति तव दुर्मतिम् ॥ ११३॥
त्वां च मां च क्रुधा दैत्य दैत्यस्ताडयिष्यति मन्युमान् ।
एवं हि गुरुणा बालो भाषितोऽपि विचक्षणः ।
जगाद किञ्चिदशुभं शुभं नो स्तब्धलोचनः ॥ ११४॥
पुनस्तथैव तामेव हरिनामस्त्रजं जगौ ॥ ११५॥
समन्युस्तद्गरुस्तस्य गत्वा जनकमुद्धतम् ।
प्रोवाचायं तव सुतः कथं दैत्यपते प्रियः ॥ ११६॥
न च मद्वचनं मूढो मानयत्यपि केवलम् ।
हरिनामस्मृतिं नित्यं करोत्येव न चान्यथा ॥ ११७॥
पाठितोऽपि मया नैव पठत्यनयपण्डितः ।
केनेदं शिक्षितं चास्मै न च तं वेदम्यहं परम् ॥ ११८॥
ताडनार्हो हि सोऽप्यत्र योऽन्यथा शिक्षये शिशुम् ।
तच्छ्रुत्वा पुत्रकार्यं च चुकोप दितिनन्दनः ॥ ११९॥
निर्भत्सर्य गुरुमप्याशु पुत्रमाहूय मन्युमान् ।
उवाच क्रोधताम्राक्षः प्रह्लादं ज्ञानिनां वरम् ॥ १२०॥
अयि वत्स वद क्षिप्रं शिक्षितं गुरुणा च तत् ।
श्रृणोमि परमं पुत्र तापत्रयहरं मुदा ॥ १२१॥
ये पुत्रवन्तो मनुजाः सुतस्यानभावघाञ्च विद्यां विनयोपपन्नाम् ।
श्रृण्वन्ति पश्यन्ति च तस्य भाग्यं तेषान्न दूरेऽस्ति सुखं परत्र ॥ १२२॥
तापत्रयं ते परिहत्य शीघ्रं भजन्ति सौख्यं भुवि दुर्लभं नराः ।
मौर्व्यं च तस्यैव विलोक्य दूरात् त्यजन्ति सर्वं न सुखं व्रजेति ॥ १२३॥
त्वमसि प्रेयसां श्रेष्ठ वद शिक्षां गुरोः कृताम् ।
इति दैत्यवचः श्रुत्वा प्रह्लादो वैष्णवाग्रणी ॥ १२४॥
निर्भयः पितरं प्रीत्या प्रोवाच जनसंसदि ।
हरिः शिक्षाप्रदो नान्यः सर्वसाक्षी यतो हि सः ॥ १२५॥
तमनादृत्य किं चान्यदवाच्यं वच्मि भो पितः ।
यस्य नामस्मृतिः सद्यः पातकक्षयकारिणी ॥ १२६॥
विहाय तां कथं चान्यज्जनः स्मरति मादृशः ।
वासुदेवात् परो देवो नान्योऽस्ति भुवनत्रये ॥ १२७॥
तं विहाय नान्यं वै भजामि जनकप्रियम् ।
विष्णुना व्याप्तमखिलं जगत् स्थावरजङ्गमम् ॥ १२८॥
मूढत्वात् तं न जानाति जनो ह्यज्ञानमोहितः ।
संसारबन्धविच्छित्यै सेवनीयो जनार्दनः ॥ १२९॥
तं द्विषन्ति नरा मूढास्ते पतन्ति भवार्णवे ।
नास्ति तेषां कदाचिद्वा दुःखाब्धेस्तरणं पुनः ॥ १३०॥
ये भजन्ति हरिं तात ते तरन्ति भवं क्षणात् ।
विमुखास्तं महाभाग ते हि गच्छन्त्यधोगतिम् ॥ १३१॥
तस्मान् मुकुन्द मधुसूदन चक्रपाणे
लक्ष्मीपते यदुपते नतपूरितार्थ ।
वैकुण्ठ माधव जनार्दन वासुदेव
संसारतापहरणाच्युत केशवेति ॥ १३२॥
नित्यं पठेदिह पुमान् हरिनाममालां
यः संस्मरेदनिशमूर्जितपादयुग्मम् ।
तस्याशु नश्यति भयं भजतः समस्तं
कस्तं प्रभुर्भवति बाधयितुं सुरक्ष्यम् ॥ १३३॥
इति प्रह्लादवचनं समाकर्ण्य दितेः सुतः ।
तं चुकोपातिताम्राक्षो भर्त्सयन्निदमब्रवीत् ॥ १३४॥
रे रे मन्द त्यजाशु त्वं बाल चापलमञ्जसा ।
दैव्यगोत्रे समुत्पन्नः कथं शत्रुं स्मरस्यलम् ॥ १३५॥
अस्माकं शत्रवस्तात तव तेऽपि न ते हिताः ।
त्वदीयं सकलं राज्यं देशकोशबलात्मकम् ॥ १३६॥
मदीयवाक्यकरणात् भविष्यति न चान्यथा ।
यदि तद्भजने बुद्धिस्तव पुत्र समुत्थिता ॥ १३७॥
तर्हि दुःखं महत्ते स्यान्मरणादधिकं तथा ।
मातापित्रोर्वचः पाल्यं पुत्रेण हितमिच्छता ॥ १३८॥
तदन्यथा कृतं गर्वाद्धानिस्तस्य पदे पदे ।
इतःपरं न वक्तव्यं द्विषन्नाम त्वयासुत ॥ १३९॥
तन्नामश्रवणात् कोपो जायते ह्रदि मे महान् ।
सामभावेन ते प्रोक्तं पुत्र कारुण्यतो मया ॥ १४०॥
अतो दण्डार्हतां यासि यदि भूयो वदिष्यसि ।
इच्युक्त्वोपररामाथ हिरण्यकशिपुः सुतम् ॥ १४१॥
सकोपस्य पितुर्वाक्यं प्रह्लादेन श्रुतं महत् ।
विहाय भयमारात्तमुवाच प्रीतिपूर्वकम् ॥ १४२॥
न त्यजामि पितस्तस्य वासुदेवस्य संस्मृतिम् ।
न शत्रुर्हि हरिर्मित्रं सुहृद्गोत्रं पिता प्रसूः ॥ १४३॥
जगतस्तं विहायान्यं न वेद्मि सुखदायकम् ।
गोविन्दं भजतां पुंसां भयं न कलिकालतः ॥ १४४॥
कुतो दुःखं कुतो दैन्यं नरकस्य फलं कुतः ।
अनन्यभजनोपेतः पुमान्नो लभते भयम् ॥ १४५॥
का वा चिन्ता नृणां तात नृहरिं भजतामिह ।
मरणस्य भयं तेषां येषां नो हृदये हरिः ॥ १४६॥
भक्त्या स्थिरत्वमायाति परब्रह्ममयोहि सः ।
हरिर्हदि धृतो येन स तु निर्भयतामियात् ॥ १४७॥
इत्थमत्यूर्जितं वाक्यं श्रुत्वोवाच स दैत्यराट् ।
किमयं शत्रुरूपेण पुत्रो जातो मम गृहे ॥ १४८॥
हितं कथितवानस्मि न श्रृणोति हि मन्दधीः ।
निर्भयो मां वदत्युच्चैर्जल्पन् यत्किञ्चिदुद्धतः ॥ १४९॥
त्यजाम्येनं यदि सुतं तर्हि तन्नैव शोभनम् ।
अनीतिर्महती जाता शत्रुपक्षो गृहे मम ॥ १५०॥
समुत्पन्नः किमुत्पन्नं मम भाग्य क्षयाय वै ।
गृहेषु वसतां पुंसां त्रयोऽमि सुखहेतवः ॥ १५१॥
कलत्रं रूपसम्पन्नं पित्रोर्वचनकृतसुतः ।
थेष्टं वसुभोगार्थं विगुणं सुखदं न तत् ॥ १५२॥
यस्य नास्ति गृहे भार्या साध्वी रूपगुणान्विता ।
तनयो विनयी तस्य पुरुषार्थफलं कुतः ।
तस्य धिग् जन्म दुर्बुद्धेः केवलं दुःखभोगिनः ॥ १५३॥
अस्तु वा मम का चिन्ता पुत्रहेतोरनाथवत् ।
त्यजेदेकं कुलस्यार्थे गाथेयं परिवर्णिता ॥ १५४॥
दुर्नयं दुष्टचरितं स्वपुत्रं कुलपांसनम् ।
त्यजन्ति मानिनः शूरास्तस्मादेनं त्यजाम्यहम् ॥ १५५॥
इत्थं विचित्य दैत्येन्द्रो मनसा क्रोधमाविशत् ।
स क्रुधा तान् महोद्रिक्तान् स्वभृत्यानादिदेश ह ॥ १५६॥
रे रे भृत्याः कुलाङ्गारमिमं नयत दुर्मतिम् ।
वध्यतामाशु शस्त्रौघैर्नात्र कार्या विचारणा ॥ १५७॥
यदि मच्छासनं मूढा वञ्चयित्वा कुलाधमम् ।
जीवन्तं मुञ्चतां सद्यः शिरांस्येव हरामि वः ॥ १५८॥
इत्थं निशम्य दितिनन्दन शासनं
ते दैत्यानुगाः कामचराः समस्ताः ।
हाहा रवेण जविनो जगृहुःर्नितान्तं
दैत्यराजतनयं विनयोपपन्नम् ॥ १५९॥
निन्युर्बहिर्वधभुवं धृतपाणियुग्मं
कोलाहलेन महता सहपौरवर्णैः ।
सर्वापराधिनमिवावगृहीतचौरं
शस्त्रास्त्रपाशविषवह्निजलाभिघातम् ॥ १६०॥
अथ तं कृपयाविष्टाः प्रोचुस्तत्पितृसेवकाः ।
अपि वत्स महाभाग शृणु प्रह्लाद नो वचः ॥ १६९॥
पितुर्वाक्यं त्वया श्राव्यं गृहे स्थेयं यथासुखम् ।
तव भृत्या वयं सर्वे दासीदासहयागजाः ॥ १६२॥
राज्यं प्राज्यं च सर्वस्वं वसुर्रत्नमयं महत् ।
तस्याज्ञावशगाः सर्वे हन्मस्त्वां नात्र संशयः ॥ १६३॥
उग्रशासकृत्तातस्तव वक्रोक्तिमन्युमान् ।
अवध्यं त्वां क्रुधा तातः स वधाय समादिशत् ॥ १६४॥
यदि त्वं तस्य वाक्यं च करिष्यसि महामते ।
तदा नेष्यामहे तत्र पुनस्त्वां पुत्रसन्निधौ ॥ १६५॥
अयं तव सुतः श्रीमान्दैत्येन्द्र तव शासनम् ।
करिष्यति न सन्देहः कृपां कुरु महामते ॥ १६६॥
ततस्ते भविता मोक्षो वधादस्मान्नृपात्मज ।
तेषां वाक्यं निशम्याथ प्रह्लादो दिव्यदर्शनः ॥ १६७॥
उवाच पुरुषान् धीरः पित्राऽऽ दिष्टान् वधाय तान् ।
यूयं हिंसत मां शीघ्रं तत्र माऽस्तु विचारणा ॥ १६८॥
हरिं विना सुखं सर्वं त्यजामि विषवत् भटाः ।
स त्राता सर्वजन्तूनां पापहर्ता निरञ्जनः ॥ १६९॥
तेनेदं सकलं व्याप्तं हरिणा लोकधारिणा ।
तत्र वै मनसः स्थैर्यं भवेद्यदि हि जन्मिनाम् ॥ १७०॥
न तेषामिह वाऽन्यत्र संसारे दुर्लभं नृणाम् ।
सुकृतैर्बहुभिर्देही हरौ भक्तिं दधाति हि ॥ १७१॥
प्रसन्ने जगतां नाथे सायुज्यमपि सिध्यति ।
इति निश्चितमन्तस्थं ज्ञात्वा दैत्यसुतस्य ते ॥ १७२॥
क्रोधेन महता व्याप्ता ताम्रक्षा दैत्यसेवकाः ।
निहन्युर्निशितैः खड्गैः शस्त्रास्त्रैस्तरनेकधा ॥ १७३॥
न तानि शस्त्राणि सुतेजनानि विशन्ति दैत्येन्द्रसुतस्य देहम् ।
शिलां समाधाय यथा सुतीक्ष्णा निस्त्रिंशधाराः सहसा विनम्राः ।
तथा शरीरं दितिजेन्द्रसूनोः सम्प्राप्य शस्त्राणि ततो बभञ्जुः ॥ १७४॥
यदा न शस्त्रैः स ममार बालस्ततोऽग्निमादीप्य च दैत्यभृत्याः ।
ःउद्धृत्य तं दैत्यसुतं सुघोरास्ते नाग्निना ते ददहुः समग्राः ॥ १७५॥
तथाऽग्निना परिव्याप्तः प्रह्लादो न विषीदति ।
यथा ग्रीष्मोष्पणा तप्तः सुखं चास्ते जलाशये ॥ १७६॥
तत्रापि स हरिं स्तौति सोऽपि पाति तथाविधम् ।
शान्तेऽग्नौ स पुनस्तद्वद्यथापूर्वमवस्थितः ॥ १७७॥
तदोत्थाय महाघोरा निर्दया दैत्यसेवकाः ।
गुर्वी शिलाङ्गले बध्वा तं ममज्ज महाहृदे ॥ १७८॥
मज्जयतं जले दृष्टवा संन्यासिनमिव प्रजाः ।
न ममज्ज महाधीरोऽलाम्बुनेव सुरक्षितः ॥ १७९॥
यथा कश्चिज्जले याति तद्वद्दितिजनन्दनः ।
हरिनामजपासक्तो न स जानाति किञ्चन ॥ १८०॥
अथ ते विस्मयाविष्टास्तद् दृष्टवा लाघवं शिशोः ।
तत्पित्रे कथयामासुर्नायं व्रजति सङ्क्षयम् ॥ १८१॥
अस्माभिर्घातितो बालः शस्त्राग्निजलबन्धनैः ।
न मृतिं याति किं कुर्मः किं वा जानाति चेटकम् ॥ १८२॥
निशम्य तद्वचो दैत्यः समन्युर्वाक्यमब्रवीत् ।
कुतस्तेऽस्ति हरिब्रूहि किंवा स्थानं प्रदर्शय ।
अन्यथा त्वां निहन्म्यद्य तीक्ष्णधारेण चासिना ॥ १८३॥
इत्युक्त्वा सत्वरं दैत्यो विकोशं खड्गमाददे ।
साक्षेपं तमुवाचाथ मन्द दर्शय मे हरिम् ॥ १८४॥
तदाग्रहं ततो ज्ञात्वा प्रह्लादो दिव्यदर्शनः ।
उवाच पितरं घोरं हरिः सर्वत्र तिष्ठति ॥ १८५॥
रवेरर्धास्तसमये तर्जन्या निर्दिशन् पितः ।
अस्मिस्तम्भे हरिर्मेऽस्ति सर्वव्यापी जनार्दनः ॥ १८६॥
स्थावरं जङ्गमं सर्वं जगत्तेनाणुरूपिणा ।
व्याप्तं तत्सत्तया सर्वं चेष्टते सर्वदा विभो ॥ १८७॥
अचेतनं तेन भवेत्सचेतनं स याति नानाविधतां पुनःपुनः ।
न तस्य कश्चिन्महिमानमञ्जसा जानाति तं भगवन्तं प्रपश्य ॥ १८८॥
इत्युक्त्वा पितरं भूयो नृसिंहं स्तौति निर्भयः ।
इति धाष्टर्यं स विज्ञाय पुत्रस्य दितिनन्दनः ॥ १८९॥
क्रोधेन महता दीप्तः खड्गहस्तो महाबलः ।
स्तम्भमुद्दिश्य वेगेन सहसैवोत्पपात ह ॥ १९०॥
एतस्मिन्नन्तरे देवो नारसिंहाकृतिं दधौ ।
तस्मिंस्तम्भे सुनिर्भिन्ने हरिराविर्बभूव ह ॥ १९१॥
इति श्रीपद्मपुराणे वत्सगुल्ममाहात्म्ये नृसिंहतीर्थाख्याने नृसिंहाविर्भवो नाम त्रयोदशोऽध्यायः ॥
Proofread by M K Barman