वत्सगुल्ममाहात्म्ये नृसिंह आख्यानम्

वत्सगुल्ममाहात्म्ये नृसिंह आख्यानम्

राजोवाच- भगवञ्श्रोतृमिच्छामि तीर्थानां विस्तरं पुनः । आश्रमान्तर्गतानां च बाह्यानां च विशेषतः ॥ १॥ व्यास उवाच- श्रुत्वा मुनिर्नृपेणोक्तं वचः परमशोभनम् । नृसिंहतीर्थमाहात्म्यं वक्तुं समुपचक्रमे ॥ २॥ वसिष्ठ उवाच- राजन् वदामि ते सर्वं तीर्थजातकथानकम् । श्रुणु चैकमनास्त्वं हि गदतो विस्तरेण मे ॥ ३॥ मल्लिकार्जुनतः पूर्वं तीर्थं पुण्यतमं महत् । नारसिंहस्य देवस्य मूर्तिश्चातिशोभना ॥ ४॥ तस्मिंस्तीर्थे नरः स्नाति नृसिंहं यश्च पश्यति । तस्य नास्ति भयं क्वापि दुःखं दारिद्र्यमेव च ॥ ५॥ भक्त्या जपति देवेशं नृसिंहं भक्तकामदम् । स याति मनुजो धीरस्तद्विष्णोः परमं पदम् ॥ ६॥ अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् । यां श्रुत्वा मुच्यते जन्तुर्जन्ममृत्युभयान्नृप ॥ ७॥ निःसपत्नाः पुरा ह्यासन्निर्भया दिवि निर्जराः । वैरभावमजानन्तः सततं सुखवर्तिनः ॥ ८॥ एतस्मिन्नन्तरे ब्रह्मा चिन्तयामास चेतसि । निरान्तकाः सुरा नित्यं निश्चिताः सर्वदा मुदा ॥ ९॥ क्रीडन्ति विविधैर्भोगैः केवलं विषयाकुलाः । न जानन्ति परं ब्रह्म येन विश्वमिदं ततम् ॥ १०॥ दुःखलेशो न चैवास्ति हृदि येषां सदोत्सुकाः । भयेन भजते लोकः स्वधर्मं नान्यथा सुखी ॥ ११॥ दुर्मेधसो दुराचाराः कामभोगपरायणाः । त्यजन्ति नितरां धर्ममधर्मनिरताः परम् ॥ १२॥ वर्तते भुवनेष्वेषामन्येऽपि दुरितानुगाम् । वृत्तिं भजन्ति पापिष्ठाः सा सृष्टेः क्षयकारिणि ॥ १३॥ तस्मादेषु भयं किञ्चित्सृजामि परिदुःसहम् । तेन सेन्द्राः सुरा नित्यमुद्विग्नहृदयाः किल ॥ १४॥ सुखमुत्सृज्य सद्भावं भजन्ति दुरितापहम् । इति यावद्विधिश्चित्ते सञ्चितयति केवलम् ॥ १५॥ तावद्दितिः समायाता कश्यपस्य प्रियां सती । प्रणम्य दण्डवद्देवं ब्रह्माणं कमलासनम् ॥ १६॥ पूजयामास विधिवत्वंशुरं स्वगुरोर्गुरुम् । तस्थौ नम्रतरा तत्र मौनमाश्रित्य सुप्रभा ॥ १७॥ अथ देवः प्रजानाथः क्षणादूर्ध्वमवेक्ष्य च । देवादात्मवधूं प्राप्तामश्यत् पुरतः स्थिताम् ॥ १८॥ प्रहस्य भगवान् सर्वं चिन्तितं हृदि यत्पुरा । मेने तत् सफलं दृष्ट्वा स्नुषा दैवप्रचोदिताम् ॥ १९॥ साऽपि तं सुप्रसन्नस्यममिवीक्ष्य दयानिधिम् । उवाच विधिमामन्त्र्य प्रजाकामा पतिव्रता ॥ २०॥ देवदेव जगन्नाथ भक्तकामप्रपूरक । मयि कारुण्यपूर्णां त्वं दृष्टि देहि जगद्गरो ॥ २१॥ अप्रजाऽहं प्रजानाथ दृष्ट्वा देवांस्तथाविधान् । दुनोमि हृदये नित्यं सपल्याः परितः सुतान् ॥ २२॥ स्त्रीस्वभावान्महाभाग मत्सरग्रस्तमानसा । प्रार्थये हि वरं त्वत्तः सुतो येन भवेन्मम ॥ २३॥ एकोऽपि गुणवान् पुत्रस्त्रैलोक्यविजयी महान् । सौख्यं ददाति वै पित्रोरैहिकामुष्मिकं प्रभो ॥ २४॥ तथा मे भविता पुत्रः शूरो बलसमुन्नतः । जितारिः प्रसभं देवान्विजेता रणमूर्धनि ॥ २५॥ ख्यातः सर्वेषु लोकेषु सम्पादय तथाविधम् । इत्याकर्ण्य वचस्तस्या दितेरूर्जितमात्मभूः ॥ २६॥ स्वाचिन्तितं च संस्मृत्य तस्मिन् काले वधूं प्रति । उवाच प्रहसन् देवि सिद्धस्तेऽद्य मनोरथः ॥ २७॥ भविता ते सुतः सुभ्रु लोकजित् क्रोधवर्जितः । देवान् सर्वानिमञ्जेता महाबलपराक्रमः ॥ २८॥ गच्छ त्वं कश्यपं देवि काले सन्तुष्टमानसा । गुणैः सन्तोष्य भर्तारमिच्छ्रितं प्राप्स्यसे ध्रुवम् ॥ २९॥ इत्युक्त्वा तां ततोवेधा विससर्ज स्नुषान्ततः । साऽपि देवी यथाकाले कश्यपं समुपस्थिता ॥ ३०॥ प्रेम्णा चाटुवचोभिस्तमाभिनन्द्य पतिं मुदा । कश्यपोऽपि तया साध्व्या रेमे सुप्रीतमानसः ॥ ३१॥ ज्ञात्वा विधिविधानं तत्रत्यां गर्भमधात् प्रभुः । दधार गर्भं किल कश्यपात् सा दितिर्महोग्रं परमं प्रगल्भम् ॥ ३२॥ कालेन वृद्धि सहसाऽप तस्य द्युत्या दिशो रेजुरधोर्ध्वरूपाः । अथ सा सुषुवे पुत्रं बालार्कसमतेजसम् ॥ ३३॥ सर्वसम्पत्प्रभुं चोग्रं सुवर्णवपुषं दृढम् । दैत्यराजमनाधृष्ट्यं देवदानवमानवैः ॥ ३४॥ हिरण्यकशिपुस्तत्स ददौ नाम पितामहः । उत्पन्नमात्रः सहसा ववृद्धे किष्कुपञ्चकम् ॥ ३५॥ उत्थाय सहसा मातुः सकाशात्तपसे वनम् । ययावतिबलोन्मत्तः क्रोधी मानी च निर्घृणः ॥ ३६॥ गत्वा गोकर्णमाख्यातं क्षेत्रं सिद्धिकरं परम् । तपस्तत्र चचारोग्रं देवैरपि सुदुष्करम् ॥ ३७॥ दिव्यवर्षसहस्रं च तपस्तप्त्वा महासुरः । व्याकुलं तपसा तस्य सकलं चाभवत् जगत् ॥ ३८॥ सभयं जगदालोक्य विधाता दैत्यपुङ्गवम् । वरेण शमयंस्तत्र प्रयसौ हंसयानगः ॥ ३९॥ हिरण्यकशिपुं दृष्ट्वा तपसा परिवर्धितम् । उवाच प्रहसन् वाचा मेघगम्भीरनादया ॥ ४०॥ वत्सा तुष्टोऽस्मि ते ब्रूहि किं कामं करवाण्यहम् । इत्याकर्ण्य विधेर्वाक्यमुत्थाय करसम्पुटः ॥ ४१॥ प्रणिपत्य जगद्योनिं विनयानतकन्धरः । उवाच प्रसभं दैत्यः सम्बोध्य स्वपितामहम् ॥ ४२॥ पितामह महाभाग प्रसन्नोऽसि यदि प्रभो । तदा वरान् प्रयच्छ त्वं ममेष्टान् वरदायक ॥ ४३॥ तच्छ्रुत्वा वचनं तस्य हिरण्यकशिपोर्महत् । जगत्स्रष्टा स्वयम्भीतः किं मां याचिष्यते परम् ॥ ४४॥ शनैरुवाच तं वेधाः प्रार्थयस्व ह्याभिप्सितम् । अथासौ दितिजः श्रीमान् हिरण्यकशिपुर्वरान् ॥ ४५॥ प्रार्थयामास तानिष्टान् वरान्नृपतिसत्तम । देवदानवदैत्येभ्यो मनुष्येभ्यस्तथा विभो ॥ ४६॥ तिर्यक् कृमिपतङ्गेभ्यो न भयं मम जायताम् । न दिवा न च मे रात्रौ नाकाशे न धरातले ॥ ४७॥ नान्तरामरणं मे स्यान्न शस्त्रास्त्रजलाग्निभिः । त्र्यैलोक्यं वशगं मे स्यादमरत्वं प्रयच्छ मे ॥ ४८॥ श्रुत्वा तत्प्रार्थितं प्राह तथेत्यमरतां विना । सुरश्रेष्ठस्ततः शीघ्रं स्वीयं धाम ययौ पुनः ॥ ४९॥ चिरं न साधुना स्थेयं खलस्याग्रे पापदृक् । साधुं हि वचसा गृहणात्यतः स्वल्पचरो भवेत् ॥ ५०॥ दैत्योऽपि धातरि गते स्वहितं विधाय ज्ञात्वाऽऽत्मनास्त्रिजगतोऽप्यधिकत्वमुच्चैः । सर्वं समाप्य परिहृत्य च तापसानां वेषं स्वयं सकलदैत्यपतिर्बभूव ॥ ५१॥ ततः सपातालतलं प्रविश्य जित्वा समस्तान् सुतलाधिपांश्च । भुवं क्षणादेत्य सभूमिपालान् सर्वान् वशीकृत्य दिनेस्तनूजः ॥ ५२॥ ईयेष जेतुं स च नाकपालनिद्रप्रियां तां नगरी बलोयः । अथदेवैः श्रुतो दैत्यो बलवान् वरदर्पितः ॥ ५३॥ स्वस्थां जेतुमियासुश्च चिन्तामापेदिरेऽमराः । भयभीताः सुरास्तत्र सर्वे सङ्गत्य चाब्रुवन् ॥ ५४॥ किं विधेयमितो दैत्यः सर्वान्नो जेतुमिच्छति । सत्वरं भयनाशार्थमुपायान् कुरुताचिरम् ॥ ५५॥ ततः पुराणि दुर्गाणि विविधान्यायुधानि च बलानि शूरयुक्तानि कचुकोष्णीषवन्त्यलम् ॥ ५६॥ अग्नियन्त्राणि घोराणि वप्रप्राकारभित्तिषु । सुगुप्तास्ते निदधिरे सिद्धान्यन्यानि चासकृत् ॥ ५७॥ एतस्मिन्नन्तरे दैत्यः स्वपुरिं सहसाह्यगात् । सत्वरं नन्दनोद्यानं विध्वस्य बलभित्पुरीम् ॥ ५८॥ रुरोध परितः सर्वे दैत्यास्तस्थुरुदायुधाः । ततो युद्धाय निर्याताः सुराः सज्जाः स्वलङ्कृताः । मरुत्वान् मत्तमातङ्गमारुह्य वरवर्मभृत् ॥ ५९॥ श्वेतातपत्रेण विराजमानः समुन्नतः श्रीपरिपूरिताङ्गः । वज्रं करेणोज्वलितं दधानो ययौ रणं नाकपतिर्महेन्द्रः ॥ ६०॥ तथैवमेष हुतभुग् लुलायं प्रेताधिपश्चाधिरुरोह शीघ्रम् । अन्येऽपि यानानि दिवौकसौ भृशं संस्थाय सज्जाः समराय निर्ययुः ॥ ६१॥ उभे सैन्ये समायाते समराय सुदुर्जये । ततः समभवत्युद्धं तुमुलं रोमहर्षणम् ॥ ६२॥ शस्त्रास्त्रपरमं घोरं चण्डमुण्डाङ्कितं बहु । युद्धे विनिर्जिता देवाः शस्त्रास्त्रैः शकलीकृताः ॥ ६३॥ पराभूता सुरास्तेन दैत्यराजेन चाखिलाः । पलायित्वा गताः सर्वे मत्वा तं वरदर्पितम् ॥ ६४॥ वैकुण्ठभुवनं राजन् ब्रह्मेन्द्रप्रमुखाः सुराः । हिरण्यकशिपुः सर्वानथ जित्वा सुरान् स्वयम् ॥ ६५॥ पुनर्भवं समायातः सैन्येन महता ततः । एकस्मिन् वसतिं चक्रे पुरे हैमवते शुभे ॥ ६६॥ कदाचिच्छुक्रमानाय्य तं पप्रच्छ दितेः सुतः । सर्व दैत्यगुरो काव्य सर्वे विबुधसत्तमाः ॥ ६७॥ क्वेदानीं वसतिं चक्रुर्न तान्जानाति तत्वतः । कथं ते मत्करे यान्ति वदोपायं महामते ॥ ६८॥ निशम्य दैत्यवाक्यं स शुक्रः परमतत्ववित् । दैत्यराजाय देवानां वृत्तान्तं समभाषत ॥ ६९॥ श्रृणु दैत्यपते पूर्वं नारायणमनामयम् । धातारं जगतश्चाप्सु शयानो विश्वतोमुखम् ॥ ७०॥ सृष्टिस्थितिविनाशानां कारणं परमाद्भुतम् । तमादिकारणं गत्वा देवाः प्राञ्जलयोऽब्रुवन् ॥ ७१॥ देवदेव जगन्नाथ जगत्भयविनाशन । श्रृणु विज्ञप्तिमस्माकं वयं भयविमोहिताः ॥ ७२॥ तद्भयस्य गतिं देव चिन्त्यतामाशु मापते । हरिरुवाच- कुतो वो भयमुत्पन्नं येन यूयं विमोहिताः ॥ ७३॥ समाचड्वं महाभागास्तद्धरामि न संशयः । शुक्र उवाच- तद् हरेर्भाषितं श्रुत्वा लेखास्तं पुनरब्रुवन् ॥ ७४॥ देव जानीहि नः प्राप्तं भयं भावि दितेः सुतात् । कदाचित् सा दितिः प्राप्ता ब्रह्मणः सदनं प्रभो ॥ ७५॥ पूजितः परया भक्त्या तया साध्व्या पितामहः । तत्पूजयाऽतिसन्तुष्टस्तमुवाच स्मिताननः ॥ ७६॥ अयि वत्से किमर्थं त्वमागताऽसि गृहं मम । यस्ते कामोऽस्ति हृदये तं ब्रूहि करवाण्यहम् ॥ ७७॥ इत्थं समाकर्ण्य वचः समीरितं स्वयम्भू वा हृष्टमुखी सतीदित्तिः । नत्वा विरिञ्चि बहुकालसम्भृतं कामं स्वकीयं स्वयमब्जजं जगौ ॥ ७८॥ अहं वरिष्ठा किलकश्यपस्य प्रियाऽन्यपत्नीषु ममाल्पभाग्यात् । न सम्भृतः काम इह प्रजायाः प्रजापते ते न दुनोमि नित्यम् ॥ ७९॥ तस्मात् प्रभो त्वामिति प्रार्थयेऽहं प्रदेहि पुत्रं सुखदं वरिष्ठम् । ततो विधिस्तन्मुखतोऽभिलाषं श्रुत्वा ददौ सा स्वगृहं जगाम ॥ ८०॥ वयं ततो भीततरा मुरारे त्वामद्य सर्वे शरणं प्रपन्नाः । तस्मात्भयात् पाहि जगन्निवास नोपेक्षणीयाः स्म वयं त्वदीयाः ॥ ८१॥ इति श्रुतं तेन सुरेन्द्रभाषितं मुरारिणा शङ्खगदारिधारिणा । विहस्य देवानवदन्मुहुर्विभुर्भयं यतो वस्समये हिनस्मि तम् ॥ ८२॥ सुखेन वै गच्छत निर्गतज्वराः सुराः स्वधामानि मनोहराणि । यदा स दैत्यो भवतामलीकं कर्तुं समीहेत तदा पुनर्मम ॥ ८३॥ स्थानं समागच्छत तस्य सर्वं वृत्तान्तमाख्यातुममरं च मह्यम् । इत्थं पुरा तेन सुरामुरारिणा सुसात्विताः स्वानि गृहाणि ते ययुः ॥ ८४॥ अथ त्वया ते समरे विनिर्जिता गताः पुनः श्रीरमणस्य मन्दिरम् । त्वया जितं सामरमुग्रतेजसा जगत्प्रभो तत् कथितं जगत्प्रभुम् ॥ ८५॥ वैकुण्ठ सान्यधुना निविष्टाः सुखे सुरास्त्यक्तभयाः समस्ताः । त्वया न जेतुं परिशक्यते विभो सुरक्षितास्तेन जनार्दनेन ॥ ८६॥ वसिष्ठ उवाच- हिरण्यकशिपुस्तस्य शुक्रस्य वचनं स्फुटम् । निशम्य क्रोधदीप्तासौ हरौ द्वेषमकल्पयत् ॥ ८७॥ तदारभ्य महाद्वेष्टो हृद्यवर्तत विद्विषः । न तस्य पूजनं चक्रे न मानयति वैष्णवान् ॥ ८८॥ पराभूताः समस्तास्ते हरिभक्ताः सुरद्विषा । मूर्तयोऽपि हरेः सर्वा मज्जितास्तेन सागरे ॥ ८९॥ प्रासादा पतिता सर्वे देवतानां भुवि स्थिताः । घर्षणं कृतवान् घोरमृषयोऽपि विनाशिताः ॥ ९०॥ अथ कालेन महता हरिर्दैत्य वधाय च । अकरोन्मतिमाभाष्य विबुधान्निकटस्थितान् । श्रृणुतामरमुख्या मे वाक्यं दैत्यवधाश्रितम् ॥ ९१॥ जगत्रयं तेन दुरात्मना भृशं प्रतापितं चोद्धतमार्गवर्तिना । असह्यमेतन्मम तस्य जातं निहन्मि तं शीघ्रतरं दुरासदम् ॥ ९२॥ इतः परं नैव चिरं हि कुर्यां व्रजामि तद्धाम नियन्तुमुद्धतम् । इत्युक्तवान् देवपतिः स्वयं हरिः स्वांशेन दैत्येन्द्रगृहे सुतोऽभूत् ॥ ९३॥ देवदेवः स्वयं विष्णुर्वैकुण्ठः कमलापतिः । हिरण्यकशिपोः पल्यां स्वांशेनाविर्बभूव ह ॥ ९४॥ हिरण्यकशिपोः पत्नी पातिव्रत्यगुणैर्युता । दधार गर्भं परमं दैत्यवंशविवर्धनम् ॥ ९५॥ अथ सा समये देवि सुषुवे पुत्रमद्भुतम् । नाम्ना प्रह्लादमित्येवं विख्यातं भुवनत्रये ॥ ९६॥ हिरण्यकशिपुः पुत्रं जातं श्रुत्वा मनोहरम् । स्नात्वा सचैलमानीय गुरुं काव्यमुवाच ह ॥ ९७॥ किं कार्यमधुना विप्र पुत्रे जाते मया वद । शुक्रः प्राह तदा दैत्यं मङ्गलस्नानकारिणाम् ॥ ९८॥ दैत्याधिप महाराज जातकर्मणि संस्थिते । विधिवज्जातकर्माद्य कर्तव्यं पुत्रजन्मनि ॥ ९९॥ हिरण्यं धेनु वासांसि मुक्तारत्नादिकं च यत् । धान्यराशिस्तथा चान्यदश्वकुञ्जर वैभवम् ॥ १००॥ देहि द्विजेभ्यश्चान्येभ्यो दीनानाथेभ्य एव च । अद्य धन्यतरं दैत्य पुत्रजन्मदिनं शुभम् ॥ १०१॥ पुत्रलाभात् परो लाभो नास्ति त्रिभुवने महान् । तस्मात् सर्वप्रयत्नेन देयं सर्वं द्विजातये ॥ १०२॥ इति तस्य गुरोर्वाक्यं धर्म्यं श्रुत्वा स दैत्यराट् । स्वभृत्यानाह सामात्यांस्तथा कोशाधिकारिणः ॥ १०३॥ धनमानीयतां क्षिप्रं दातुमिच्छामि चामितम् । तदाज्ञयाऽथ तद्धृत्या धनं बहुलमाहरन् ॥ १०४॥ सर्वं तदद्विजसात् कृत्वा हस्त्यश्वरथसंयुतम् । तथा दीनान्धकुब्जेभ्यः शुक्राय च ददौ बहु ॥ १०५॥ स बालो ववृथे नित्यं शुक्लपक्षे यथा शशी । स सांवत्सरिको बालो हरिस्मरणलालसः ॥ १०६॥ बालभाषणकैर्नित्यं विष्णुनामानि गायति । तच्छ्रुत्वा सपिता तस्य प्रह्लादस्य च दैत्यराट् ॥ १०७॥ न जानाति शिशोर्वाक्यमस्पष्टं गतवर्णकम् । अक्षरारम्भकाले च तस्यादेशमथाकरोत् ॥ १०८॥ स बालः स्वगुरोर्गेहं जगामाक्षरलब्धये । पितुरादेशस्तत्र लिलेखाद्भुतदर्शनः ॥ १०९॥ गुरुणा पाठितान्येव नाक्षराणि पपाठ सः । ककारादिक्षकारान्तान्यनवेक्ष्य हरिं पठन् ॥ ११०॥ न श्रृणोति गुरोर्वाक्यं न बिभेति व्यपेतभीः । निर्भयो नितरां दैत्यतनयः सनयो मुदा ॥ १११॥ स्वमत्या हरिनामानि पठन्नान्यमनाः शिशुः । गुरुणा ताडितो नैव स्वमतं हि जहात्यसौ ॥ ११२॥ तदा गुरुरुवाचैनमर्भकं भर्त्सयन् परम् । रे वत्स जनकस्तेऽद्य श्रृणोति तव दुर्मतिम् ॥ ११३॥ त्वां च मां च क्रुधा दैत्य दैत्यस्ताडयिष्यति मन्युमान् । एवं हि गुरुणा बालो भाषितोऽपि विचक्षणः । जगाद किञ्चिदशुभं शुभं नो स्तब्धलोचनः ॥ ११४॥ पुनस्तथैव तामेव हरिनामस्त्रजं जगौ ॥ ११५॥ समन्युस्तद्गरुस्तस्य गत्वा जनकमुद्धतम् । प्रोवाचायं तव सुतः कथं दैत्यपते प्रियः ॥ ११६॥ न च मद्वचनं मूढो मानयत्यपि केवलम् । हरिनामस्मृतिं नित्यं करोत्येव न चान्यथा ॥ ११७॥ पाठितोऽपि मया नैव पठत्यनयपण्डितः । केनेदं शिक्षितं चास्मै न च तं वेदम्यहं परम् ॥ ११८॥ ताडनार्हो हि सोऽप्यत्र योऽन्यथा शिक्षये शिशुम् । तच्छ्रुत्वा पुत्रकार्यं च चुकोप दितिनन्दनः ॥ ११९॥ निर्भत्सर्य गुरुमप्याशु पुत्रमाहूय मन्युमान् । उवाच क्रोधताम्राक्षः प्रह्लादं ज्ञानिनां वरम् ॥ १२०॥ अयि वत्स वद क्षिप्रं शिक्षितं गुरुणा च तत् । श्रृणोमि परमं पुत्र तापत्रयहरं मुदा ॥ १२१॥ ये पुत्रवन्तो मनुजाः सुतस्यानभावघाञ्च विद्यां विनयोपपन्नाम् । श्रृण्वन्ति पश्यन्ति च तस्य भाग्यं तेषान्न दूरेऽस्ति सुखं परत्र ॥ १२२॥ तापत्रयं ते परिहत्य शीघ्रं भजन्ति सौख्यं भुवि दुर्लभं नराः । मौर्व्यं च तस्यैव विलोक्य दूरात् त्यजन्ति सर्वं न सुखं व्रजेति ॥ १२३॥ त्वमसि प्रेयसां श्रेष्ठ वद शिक्षां गुरोः कृताम् । इति दैत्यवचः श्रुत्वा प्रह्लादो वैष्णवाग्रणी ॥ १२४॥ निर्भयः पितरं प्रीत्या प्रोवाच जनसंसदि । हरिः शिक्षाप्रदो नान्यः सर्वसाक्षी यतो हि सः ॥ १२५॥ तमनादृत्य किं चान्यदवाच्यं वच्मि भो पितः । यस्य नामस्मृतिः सद्यः पातकक्षयकारिणी ॥ १२६॥ विहाय तां कथं चान्यज्जनः स्मरति मादृशः । वासुदेवात् परो देवो नान्योऽस्ति भुवनत्रये ॥ १२७॥ तं विहाय नान्यं वै भजामि जनकप्रियम् । विष्णुना व्याप्तमखिलं जगत् स्थावरजङ्गमम् ॥ १२८॥ मूढत्वात् तं न जानाति जनो ह्यज्ञानमोहितः । संसारबन्धविच्छित्यै सेवनीयो जनार्दनः ॥ १२९॥ तं द्विषन्ति नरा मूढास्ते पतन्ति भवार्णवे । नास्ति तेषां कदाचिद्वा दुःखाब्धेस्तरणं पुनः ॥ १३०॥ ये भजन्ति हरिं तात ते तरन्ति भवं क्षणात् । विमुखास्तं महाभाग ते हि गच्छन्त्यधोगतिम् ॥ १३१॥ तस्मान् मुकुन्द मधुसूदन चक्रपाणे लक्ष्मीपते यदुपते नतपूरितार्थ । वैकुण्ठ माधव जनार्दन वासुदेव संसारतापहरणाच्युत केशवेति ॥ १३२॥ नित्यं पठेदिह पुमान् हरिनाममालां यः संस्मरेदनिशमूर्जितपादयुग्मम् । तस्याशु नश्यति भयं भजतः समस्तं कस्तं प्रभुर्भवति बाधयितुं सुरक्ष्यम् ॥ १३३॥ इति प्रह्लादवचनं समाकर्ण्य दितेः सुतः । तं चुकोपातिताम्राक्षो भर्त्सयन्निदमब्रवीत् ॥ १३४॥ रे रे मन्द त्यजाशु त्वं बाल चापलमञ्जसा । दैव्यगोत्रे समुत्पन्नः कथं शत्रुं स्मरस्यलम् ॥ १३५॥ अस्माकं शत्रवस्तात तव तेऽपि न ते हिताः । त्वदीयं सकलं राज्यं देशकोशबलात्मकम् ॥ १३६॥ मदीयवाक्यकरणात् भविष्यति न चान्यथा । यदि तद्भजने बुद्धिस्तव पुत्र समुत्थिता ॥ १३७॥ तर्हि दुःखं महत्ते स्यान्मरणादधिकं तथा । मातापित्रोर्वचः पाल्यं पुत्रेण हितमिच्छता ॥ १३८॥ तदन्यथा कृतं गर्वाद्धानिस्तस्य पदे पदे । इतःपरं न वक्तव्यं द्विषन्नाम त्वयासुत ॥ १३९॥ तन्नामश्रवणात् कोपो जायते ह्रदि मे महान् । सामभावेन ते प्रोक्तं पुत्र कारुण्यतो मया ॥ १४०॥ अतो दण्डार्हतां यासि यदि भूयो वदिष्यसि । इच्युक्त्वोपररामाथ हिरण्यकशिपुः सुतम् ॥ १४१॥ सकोपस्य पितुर्वाक्यं प्रह्लादेन श्रुतं महत् । विहाय भयमारात्तमुवाच प्रीतिपूर्वकम् ॥ १४२॥ न त्यजामि पितस्तस्य वासुदेवस्य संस्मृतिम् । न शत्रुर्हि हरिर्मित्रं सुहृद्गोत्रं पिता प्रसूः ॥ १४३॥ जगतस्तं विहायान्यं न वेद्मि सुखदायकम् । गोविन्दं भजतां पुंसां भयं न कलिकालतः ॥ १४४॥ कुतो दुःखं कुतो दैन्यं नरकस्य फलं कुतः । अनन्यभजनोपेतः पुमान्नो लभते भयम् ॥ १४५॥ का वा चिन्ता नृणां तात नृहरिं भजतामिह । मरणस्य भयं तेषां येषां नो हृदये हरिः ॥ १४६॥ भक्त्या स्थिरत्वमायाति परब्रह्ममयोहि सः । हरिर्हदि धृतो येन स तु निर्भयतामियात् ॥ १४७॥ इत्थमत्यूर्जितं वाक्यं श्रुत्वोवाच स दैत्यराट् । किमयं शत्रुरूपेण पुत्रो जातो मम गृहे ॥ १४८॥ हितं कथितवानस्मि न श्रृणोति हि मन्दधीः । निर्भयो मां वदत्युच्चैर्जल्पन् यत्किञ्चिदुद्धतः ॥ १४९॥ त्यजाम्येनं यदि सुतं तर्हि तन्नैव शोभनम् । अनीतिर्महती जाता शत्रुपक्षो गृहे मम ॥ १५०॥ समुत्पन्नः किमुत्पन्नं मम भाग्य क्षयाय वै । गृहेषु वसतां पुंसां त्रयोऽमि सुखहेतवः ॥ १५१॥ कलत्रं रूपसम्पन्नं पित्रोर्वचनकृतसुतः । थेष्टं वसुभोगार्थं विगुणं सुखदं न तत् ॥ १५२॥ यस्य नास्ति गृहे भार्या साध्वी रूपगुणान्विता । तनयो विनयी तस्य पुरुषार्थफलं कुतः । तस्य धिग् जन्म दुर्बुद्धेः केवलं दुःखभोगिनः ॥ १५३॥ अस्तु वा मम का चिन्ता पुत्रहेतोरनाथवत् । त्यजेदेकं कुलस्यार्थे गाथेयं परिवर्णिता ॥ १५४॥ दुर्नयं दुष्टचरितं स्वपुत्रं कुलपांसनम् । त्यजन्ति मानिनः शूरास्तस्मादेनं त्यजाम्यहम् ॥ १५५॥ इत्थं विचित्य दैत्येन्द्रो मनसा क्रोधमाविशत् । स क्रुधा तान् महोद्रिक्तान् स्वभृत्यानादिदेश ह ॥ १५६॥ रे रे भृत्याः कुलाङ्गारमिमं नयत दुर्मतिम् । वध्यतामाशु शस्त्रौघैर्नात्र कार्या विचारणा ॥ १५७॥ यदि मच्छासनं मूढा वञ्चयित्वा कुलाधमम् । जीवन्तं मुञ्चतां सद्यः शिरांस्येव हरामि वः ॥ १५८॥ इत्थं निशम्य दितिनन्दन शासनं ते दैत्यानुगाः कामचराः समस्ताः । हाहा रवेण जविनो जगृहुःर्नितान्तं दैत्यराजतनयं विनयोपपन्नम् ॥ १५९॥ निन्युर्बहिर्वधभुवं धृतपाणियुग्मं कोलाहलेन महता सहपौरवर्णैः । सर्वापराधिनमिवावगृहीतचौरं शस्त्रास्त्रपाशविषवह्निजलाभिघातम् ॥ १६०॥ अथ तं कृपयाविष्टाः प्रोचुस्तत्पितृसेवकाः । अपि वत्स महाभाग श‍ृणु प्रह्लाद नो वचः ॥ १६९॥ पितुर्वाक्यं त्वया श्राव्यं गृहे स्थेयं यथासुखम् । तव भृत्या वयं सर्वे दासीदासहयागजाः ॥ १६२॥ राज्यं प्राज्यं च सर्वस्वं वसुर्रत्नमयं महत् । तस्याज्ञावशगाः सर्वे हन्मस्त्वां नात्र संशयः ॥ १६३॥ उग्रशासकृत्तातस्तव वक्रोक्तिमन्युमान् । अवध्यं त्वां क्रुधा तातः स वधाय समादिशत् ॥ १६४॥ यदि त्वं तस्य वाक्यं च करिष्यसि महामते । तदा नेष्यामहे तत्र पुनस्त्वां पुत्रसन्निधौ ॥ १६५॥ अयं तव सुतः श्रीमान्दैत्येन्द्र तव शासनम् । करिष्यति न सन्देहः कृपां कुरु महामते ॥ १६६॥ ततस्ते भविता मोक्षो वधादस्मान्नृपात्मज । तेषां वाक्यं निशम्याथ प्रह्लादो दिव्यदर्शनः ॥ १६७॥ उवाच पुरुषान् धीरः पित्राऽऽ दिष्टान् वधाय तान् । यूयं हिंसत मां शीघ्रं तत्र माऽस्तु विचारणा ॥ १६८॥ हरिं विना सुखं सर्वं त्यजामि विषवत् भटाः । स त्राता सर्वजन्तूनां पापहर्ता निरञ्जनः ॥ १६९॥ तेनेदं सकलं व्याप्तं हरिणा लोकधारिणा । तत्र वै मनसः स्थैर्यं भवेद्यदि हि जन्मिनाम् ॥ १७०॥ न तेषामिह वाऽन्यत्र संसारे दुर्लभं नृणाम् । सुकृतैर्बहुभिर्देही हरौ भक्तिं दधाति हि ॥ १७१॥ प्रसन्ने जगतां नाथे सायुज्यमपि सिध्यति । इति निश्चितमन्तस्थं ज्ञात्वा दैत्यसुतस्य ते ॥ १७२॥ क्रोधेन महता व्याप्ता ताम्रक्षा दैत्यसेवकाः । निहन्युर्निशितैः खड्गैः शस्त्रास्त्रैस्तरनेकधा ॥ १७३॥ न तानि शस्त्राणि सुतेजनानि विशन्ति दैत्येन्द्रसुतस्य देहम् । शिलां समाधाय यथा सुतीक्ष्णा निस्त्रिंशधाराः सहसा विनम्राः । तथा शरीरं दितिजेन्द्रसूनोः सम्प्राप्य शस्त्राणि ततो बभञ्जुः ॥ १७४॥ यदा न शस्त्रैः स ममार बालस्ततोऽग्निमादीप्य च दैत्यभृत्याः । ःउद्धृत्य तं दैत्यसुतं सुघोरास्ते नाग्निना ते ददहुः समग्राः ॥ १७५॥ तथाऽग्निना परिव्याप्तः प्रह्लादो न विषीदति । यथा ग्रीष्मोष्पणा तप्तः सुखं चास्ते जलाशये ॥ १७६॥ तत्रापि स हरिं स्तौति सोऽपि पाति तथाविधम् । शान्तेऽग्नौ स पुनस्तद्वद्यथापूर्वमवस्थितः ॥ १७७॥ तदोत्थाय महाघोरा निर्दया दैत्यसेवकाः । गुर्वी शिलाङ्गले बध्वा तं ममज्ज महाहृदे ॥ १७८॥ मज्जयतं जले दृष्टवा संन्यासिनमिव प्रजाः । न ममज्ज महाधीरोऽलाम्बुनेव सुरक्षितः ॥ १७९॥ यथा कश्चिज्जले याति तद्वद्दितिजनन्दनः । हरिनामजपासक्तो न स जानाति किञ्चन ॥ १८०॥ अथ ते विस्मयाविष्टास्तद् दृष्टवा लाघवं शिशोः । तत्पित्रे कथयामासुर्नायं व्रजति सङ्क्षयम् ॥ १८१॥ अस्माभिर्घातितो बालः शस्त्राग्निजलबन्धनैः । न मृतिं याति किं कुर्मः किं वा जानाति चेटकम् ॥ १८२॥ निशम्य तद्वचो दैत्यः समन्युर्वाक्यमब्रवीत् । कुतस्तेऽस्ति हरिब्रूहि किंवा स्थानं प्रदर्शय । अन्यथा त्वां निहन्म्यद्य तीक्ष्णधारेण चासिना ॥ १८३॥ इत्युक्त्वा सत्वरं दैत्यो विकोशं खड्गमाददे । साक्षेपं तमुवाचाथ मन्द दर्शय मे हरिम् ॥ १८४॥ तदाग्रहं ततो ज्ञात्वा प्रह्लादो दिव्यदर्शनः । उवाच पितरं घोरं हरिः सर्वत्र तिष्ठति ॥ १८५॥ रवेरर्धास्तसमये तर्जन्या निर्दिशन् पितः । अस्मिस्तम्भे हरिर्मेऽस्ति सर्वव्यापी जनार्दनः ॥ १८६॥ स्थावरं जङ्गमं सर्वं जगत्तेनाणुरूपिणा । व्याप्तं तत्सत्तया सर्वं चेष्टते सर्वदा विभो ॥ १८७॥ अचेतनं तेन भवेत्सचेतनं स याति नानाविधतां पुनःपुनः । न तस्य कश्चिन्महिमानमञ्जसा जानाति तं भगवन्तं प्रपश्य ॥ १८८॥ इत्युक्त्वा पितरं भूयो नृसिंहं स्तौति निर्भयः । इति धाष्टर्यं स विज्ञाय पुत्रस्य दितिनन्दनः ॥ १८९॥ क्रोधेन महता दीप्तः खड्गहस्तो महाबलः । स्तम्भमुद्दिश्य वेगेन सहसैवोत्पपात ह ॥ १९०॥ एतस्मिन्नन्तरे देवो नारसिंहाकृतिं दधौ । तस्मिंस्तम्भे सुनिर्भिन्ने हरिराविर्बभूव ह ॥ १९१॥ इति श्रीपद्मपुराणे वत्सगुल्ममाहात्म्ये नृसिंहतीर्थाख्याने नृसिंहाविर्भवो नाम त्रयोदशोऽध्यायः ॥ Proofread by M K Barman
% Text title            : Vatsagulmamahatmye Nrisimha Akhyanam
% File name             : vatsagulmamAhAtmyenRRisiMhaAkhyAnam.itx
% itxtitle              : nRisiMhaAkhyAnam (padmapurANe vatsagulmamAhAtmyAntargatam)
% engtitle              : vatsagulmamAhAtmye nRisiMhaAkhyAnam
% Category              : vishhnu, dashAvatAra, mAhAtmya, padmapurANa, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa. padmapurANe vatsagulmamAhAtmyAntargatam
% Indexextra            : (Scans 1, 2, padmapurANa)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org