विंशतिश्लोकी नृसिंहध्यानम्
अथ विंशति श्लोकी ध्यानम् ॥
महाचक्रस्य नाभ्यां तु चिन्तयेत् क्षीरसागरम् ।
क्षीरसागरमध्यस्थं श्वेतद्वीपं विचिन्तयेत् ॥१॥
तन्मध्ये तु महादिव्यं प्रासादं रत्ननिर्मितम् ।
प्रासादमध्ये चन्द्राभं सिंहासनमनुत्तमम् ॥२॥
तस्योपरि महाभागं शेषाख्यं फणिमण्डिलम् ।
तदासनगतं देवं तत्फणैर्व्याप्तमस्तकम् ॥३॥
पूर्णेन्दु कोटिप्रतिभं नीलकण्ठं त्रिलोचनम् ।
बालेन्दुमण्डितसटं कुण्डलाभ्यां विराजितम् ॥४॥
अनेकरत्नखचितं मुकुटेन च शोभितम् ।
काञ्च्याङ्गुलीयवलयं नुपुराङ्गदभूषणैः ॥५॥
वरदाभयहस्तं च चक्रहस्तं पिनाकिनम् ।
सर्वाङ्गसुन्दरं देवं सर्वाभरणभूषितम् ॥ ६॥
स्रष्टारं सर्वजगतां त्रातारं सर्वकामदम् ।
तारैकाक्षरमध्यस्थं नृसिंहं दिव्यरूपिणं ॥ ७॥
योगपट्टासनस्थं च महामायेश्वरं विभुम् ।
वामभागेश्रितां देवीं नीलकुञ्चितमूर्द्धजाः ॥ ८॥
हेमारविन्दप्रतिभां मौक्तिकाभरणोज्वलाम् ।
दाडिमं सव्यहस्तेन दक्षेनालिङ्ग्य सप्ततिम् ॥ ९॥
देवस्याभिमुखीं ध्यायेद्भक्ताभीष्टफलप्रदाम् ।
लक्ष्म्याद्याः शक्तयो देवं वीजयन्त्यः समन्ततः ॥ १०॥
लावण्यामृततोयेन सिंञ्चित्योऽपि च सर्वशः ॥
शक्तिभिर्मदरत्नाभिः सर्वतः परिवारितम् ॥ ११॥
सिद्धगन्धर्वनागैश्च विद्याधरवधूगणैः ॥
चामरैवीराज्यमानं च लक्ष्म्याद्याभिश्च शक्तिभिः ॥ १२॥
गायन्तीभिस्तुवन्तीभिर्निषेवितम् ।
सनकाद्यैयगिवरैर्ब्रह्मेशाद्यैः सुरोत्तमैः ॥ १३।
दक्षेतिग्मद्युतिं चैव हिमांशुं वामतः स्थितम् ।
वेदैः साङ्गैर्मन्त्रवरैस्तूयमानं मुदान्वितम् ॥ १४॥
गीयमानं सुदेवेशं सामगैर्ब्रह्मवादिभिः ।
आयुधप्रवरैश्चैव मूर्तिमद्भिरुपासितम् ॥ १५॥
षभिः सुदर्शनैरन्तर्मायया समलङ्कृतम् ।
अष्टद्वादशपत्रस्थैः सेवितं परम मुदा ॥ १६॥
नारायणैर्वासुदेवैर्वेष्टितं ब्राह्ममायया ।
मातृकाभिः षोडशभिस्तयान्तर्मायेयावृतम् ॥ १७॥
द्वात्रिंशद्भिः नृसिंहैश्च वेष्टितं बाह्ममायया ।
वसुभीर्रुद्रैरादित्यैर्विश्वेदेवैर्यथाक्रमं ॥ १८॥
सर्वापत्तारकं चक्रं कालानलसमप्रभम् ।
एवं नृसिहं चक्रस्थं सकृत्ध्यायालि यो नरः ॥ १९॥
आचष्टे तारकं ब्रह्म कृपालुः परमेश्वरः ।
सर्वापभ्दयो विमुच्यते मृत्युं जयति दुस्तरम् ॥ २०॥
ऐहिकामुष्मिकान्भोगान्प्राप्नोत्यव्यहतान्नरः ॥
य इदं परमं गुह्यं नृसिंहं ध्यानमुत्तमम् ॥
पठत्यनुदिनं भक्त्या नृसिंहत्वमवाप्नुयात् ॥ २१॥
इति शेषभगवत्कृतं विंशती श्लोकी ध्यानं समाप्तम् ॥
Proofread by Manoj Kumar Barman