श्रीविष्णुरपामार्जनकवचम्

श्रीविष्णुरपामार्जनकवचम्

पूर्वे नारायणः पातु वारिजाक्षस्तु दक्षिणे । प्रद्युम्नः पश्चिमे पातु वासुदेवस्तथोत्तरे ॥ १॥ ऐशान्यां रक्षताद्विष्णुराग्नेय्यां च जनार्दनः । नैरृत्यां पद्मनाभस्तु वायव्यां मधुसूदनः ॥ २॥ ऊर्ध्वं गोवर्धनोद्धर्ता ह्यधरायां त्रिविक्रमः । एताभ्यो दशदिग्भ्यश्च सर्वतः पातु केशवः ॥ ३॥ एवं कृत्वा तु दिग्बन्घं विष्णुं सर्वत्र संस्मरेत् । अव्यग्रचित्तः कुर्वीत न्यासकर्मं यथाविधि ॥ ४॥ अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् । मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् ॥ ५॥ कनिष्ठायां न्यसेद्विष्णुं करपृष्ठे तु वामनम् । एवमेवाङ्गुलिन्यासः पश्चादङ्गेषु विन्यसेत् ॥ ६॥ शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत् । माधवं च ललाटे तु गोविन्दं तु भुवोर्न्यसेत् ॥ ७॥ चक्षुर्मध्ये न्यसेद्विष्णुं कर्णयोर्मधुसूदनम् । त्रिविक्रमं कण्ठमूले वामनं तु कपोलयोः ॥ ८॥ नासारन्ध्रद्वये चापि श्रीधरं कल्पयेद्बुधः । उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाऽधरे ॥ ९॥ दामोदरं दन्तपङ्क्तौ वाराहं चुबुके तथा । जिह्वायां वासुदेवं च ताल्वोश्चैव गदाधरम् ॥ १०॥ वैकुण्ठं करमध्ये तु अनन्तं नासिकोपरि । दक्षिणे तु भुजे विप्रो विन्यसेत्पुरुषोत्तमम् ॥ ११॥ वामे भुजे महायोगं राघवं हृदि विन्यसेत् । कुक्षौ पृथ्वीधरं चैव पार्श्वयोः केशवं न्यसेत् ॥ १२॥ वक्षःस्थले माधवं च कक्षयोर्योगशायिनम् । पीताम्बरं स्तनतटे हरिं नाभ्यान्तु विन्यसेत् ॥ १३॥ दाक्षिणे तु करे देवं ततस्सङ्कर्षणं न्यसेत् । वामे रिपुहरं विद्यात्कटिमध्ये जनार्दनम् ॥ १४॥ पृष्ठे क्षितिधरं विद्यादच्युतं स्कधयोरपि । वामकुक्षौ वारिजाक्षं दक्षिणे जलशायिनम् ॥ १५॥ स्वयम्भुवं मेढ्रमध्ये ऊर्वोश्चैव गदाधरम् । जानुमध्ये चक्रधरं जङ्घयोरमृतं न्यसेत् ॥ १६॥ गुल्फयोर्नारसिंहं च पादयोरमितत्विषम् । अङ्गुलीषु श्रीधर च पद्माक्षं सर्वसन्धिषु ॥ १७॥ नखेषु माधवं चैव न्यसेत्पादतलेऽच्युतम् । रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जसु ॥ १८॥ मनोबुद्ध्योरहङ्कारे चित्ते न्यस्य जनार्दनम् । अच्युतानन्तगोविन्दान्वातपित्तकफेषु च ॥ १९॥ एवं न्यासविधिं कृत्वा यत्कार्यं द्विज तच्छृणु । पादमुले तु देवस्य शङ्खं चैव तु विन्यसेत् ॥ २०॥ वनमालां हृदि न्यस्य सर्वदेवाभिपूजिताम् ॥ गदां वक्षःस्थले न्यस्य चक्रं चैव तु पृष्ठतः ॥ २१॥ श्रीवत्समुरसि न्यस्य पञ्चाङ्गं कवचं न्यसेत् । आपादमस्तकं चैव विन्यसेत्पुरुषोत्तमम् ॥ २२॥ एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् । तनुर्विष्णुमयी तस्य यत्कञ्चिन्न स भासते ॥ २३॥ अपामार्जनको न्यासस्सर्वव्याधिविनाशनः । आत्मनश्च परस्यापि विधिरेष सनातनः ॥ २४॥ वैष्णवेन तु कर्तव्यस्सर्वसिद्धिप्रदायकः । विष्णुस्तदूर्ध्वं रक्षेत्तु वैकुण्ठो विदिशो दिशः ॥ २५॥ पातु मां सर्वतो रामो धन्धी चक्री च केशवः । एतत्समस्तं विन्यस्य पश्चान्यमन्त्रान् प्रयोजयेत् ॥ २६॥ अथ मूलमन्त्रः - ॐ नमो भगवते क्लेशापहर्त्रे नमः । पूजाकाले तु देवस्य जपकाले तथैव च । होमकाले च कर्तव्यं त्रिसन्ध्यासु च नित्यशः ॥ २७॥ आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं फलं लभेत् । यद्यत्सुखतरं लोके तत्सर्वं प्राप्नुयान्नरः ॥ २८॥ एवं भक्त्या समभ्यर्च्य हरिं सर्वार्थदायकम् । अभयं सर्वभूतेभ्यो विष्णुलोकं स गच्छति ॥ २९॥ श्रीविष्णुलोकं स गच्छत्यों नम इति ॥ इति श्रीविष्णुधर्मोत्तरपुराणे श्रीविष्णुरपामार्जनकवचं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : viShNurapAmArjanakavacham
% File name             : viShNurapAmArjanakavacham.itx
% itxtitle              : viShNurapAmArjanakavacham (viShNudharmottarapurANAntargatam)
% engtitle              : viShNurapAmArjanakavacham
% Category              : vishhnu, kavacha, apAmArjana
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org