श्रीविष्णुसहस्रनामस्तोत्रम् (स्कन्दपुराणोक्त)

श्रीविष्णुसहस्रनामस्तोत्रम् (स्कन्दपुराणोक्त)

श्रीगणेशाय नमः । श्रीलक्ष्मीनारायणाभ्यां नमः । देवा ऊचुः - ब्रह्मन्केन प्रकारेण विष्णुभक्तिः परा भवेत् । तत्सर्वं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदां वर ॥ १॥ ब्रह्मोवाच - श्रूयतां भोः सुरश्रेष्ठा विष्णुभक्तिमनुत्तमाम् । शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ॥ २॥ प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये । लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ॥ ३॥ येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः । अभीप्सितार्थसिद्ध्यर्थं पूज्यते यः सुरैरपि ॥ ४॥ सर्वविघ्नहरस्तस्मै गणाधिपतये नमः । कल्पादौ सृष्टिकामेन प्रेरितोऽहं च शौरिणा ॥ ५॥ न शक्तो वै प्रजाः कर्तुं विष्णुध्यानपरायणः । एतस्मिन्नन्तरे सद्यो मार्कण्डेयो महाऋषिः ॥ ६॥ सर्वसिद्धेश्वरो दान्तो दीर्घायुर्विजितेन्द्रियः । मयादृष्टोऽथगत्वातं तदाहं समुपस्थितः । ततः प्रफुल्लनयनौ सत्कृत्य चेतरेतरम् ॥ ७॥ पृच्छमानौ परं स्वास्थ्यं सुखासीनौ सुरोत्तमाः । तदा मया स पृष्टो वै मार्कण्डेयो महामुनिः ॥ ८॥ भगवन्केन प्रकारेण प्रजा मेऽनामया भवेत् । तत्सर्वं श्रोतुमिच्छामि भगवन्मुनिवन्दित ॥ ९॥ श्रीमार्कण्डेय उवाच - विष्णुभक्तिः परा नित्या सर्वार्तिदुःखनाशिनी । सर्वपापहरा पुण्या सर्वसुखप्रदायिनी ॥ १०॥ एषा ब्राह्मी महाविद्या न देया यस्य कस्यचित् । कृतघ्नाय ह्यशिष्याय नास्तिकायानृताय च ॥ ११॥ ईर्ष्यकाय च रूक्षाय कामिकाय कदाचन । तद्गतं सर्वं विघ्नन्तियत्तद्धर्मं सनातनम् ॥ १२॥ एतद्गुह्यतमं शास्त्रं सर्वपापप्रणाशनम् । पवित्रं च पवित्राणां पावनानां च पावनम् ॥ १३॥ विष्णोर्नामसहस्रं च विष्णुभक्तिकरं शुभम् । सर्वसिद्धिकरं नृणां भुक्तिमुक्तिप्रदं शुभम् ॥ १४॥ अस्य श्रीविष्णुसहस्रनामस्तोत्रमन्त्रस्य मार्कण्डेय ऋषिः । विष्णुर्देवताः । अनुष्टुप्च्छन्दः । सर्वकामानवाप्त्यर्थे जपे विनियोगः ॥ अथ ध्यानम् । सजलजलदनीलं दर्शितोदारशीलं करतलधृतशैलं वेणुवाद्ये रसालम् । व्रजजन कुलपालं कामिनीकेलिलोलं तरुणतुलसिमालं नौमि गोपालबालम् ॥ १५॥ ॐ विश्वं विष्णुर्हृषीकेशः सर्वात्मा सर्वभावनः । सर्वगः शर्वरीनाथो भूतग्रामाऽऽशयाशयः ॥ १६॥ अनादिनिधनो देवः सर्वज्ञः सर्वसम्भवः । सर्वव्यापी जगद्धाता सर्वशक्तिधरोऽनघः ॥ १७॥ जगद्बीजं जगत्स्रष्टा जगदीशो जगत्पतिः । जगद्गुरुर्जगन्नाथो जगद्धाता जगन्मयः ॥ १८॥ सर्वाऽऽकृतिधरः सर्वविश्वरूपी जनार्दनः । अजन्मा शाश्वतो नित्यो विश्वाधारो विभुः प्रभुः ॥ १९॥ बहुरूपैकरूपश्च सर्वरूपधरो हरः । कालाग्निप्रभवो वायुः प्रलयान्तकरोऽक्षयः ॥ २०॥ महार्णवो महामेघो जलबुद्बुदसम्भवः । संस्कृतो विकृतो मत्स्यो महामत्स्यस्तिमिङ्गिलः ॥ २१॥ अनन्तो वासुकिः शेषो वराहो धरणीधरः । पयःक्षीर विवेकाढ्यो हंसो हैमगिरिस्थितः ॥ २२॥ हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः । मन्थनो रत्नहारी च कूर्मो धरधराधरः ॥ २३॥ विनिद्रो निद्रितो नन्दी सुनन्दो नन्दनप्रियः । नाभिनालमृणाली च स्वयम्भूश्चतुराननः ॥ २४॥ प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः । मरीचिः कश्यपो दक्षः सुरासुरगुरुः कविः ॥ २५॥ वामनो वाममार्गी च वामकर्मा बृहद्वपुः । त्रैलोक्यक्रमणो दीपो बलियज्ञविनाशनः ॥ २६॥ यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग्विभुः । सहस्रांशुर्भगो भानुर्विवस्वान्रविरंशुमान् ॥ २७॥ तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षी मनुर्यमः । देवराजः सुरपतिर्दानवारिः शचीपतिः ॥ २८॥ अग्निर्वायुसखो वह्निर्वरुणो यादसाम्पतिः । नैरृतो नादनोऽनादी रक्षयक्षोधनाधिपः ॥ २९॥ कुबेरो वित्तवान्वेगो वसुपालो विलासकृत् । अमृतस्रवणः सोमः सोमपानकरः सुधीः ॥ ३०॥ सर्वौषधिकरः श्रीमान्निशाकरदिवाकरः । विषारिर्विषहर्ता च विषकण्ठधरो गिरिः ॥ ३१॥ नीलकण्ठो वृषी रुद्रो भालचन्द्रो ह्युमापतिः । शिवः शान्तो वशी वीरो ध्यानी मानी च मानदः ॥ ३२॥ कृमिकीटो मृगव्याधो मृगहा मृगलाञ्छनः । बटुको भैरवो बालः कपाली दण्डविग्रहः ॥ ३३॥ स्मशानवासी मांसाशी दुष्टनाशी वरान्तकृत् । योगिनीत्रासको योगी ध्यानस्थो ध्यानवासनः ॥ ३४॥ सेनानीः सैन्यदः(सेनदः) स्कन्दो महाकालो गणाधिपः । आदिदेवो गणपतिर्विघ्नहा विघ्ननाशनः ॥ ३५॥ ऋद्धिसिद्धिप्रदो दन्ती भालचन्द्रो गजाननः । नृसिंह उग्रदंष्ट्रश्च नखी दानवनाशकृत् ॥ ३६॥ प्रह्लादपोषकर्ता च सर्वदैत्यजनेश्वरः । शलभः सागरः साक्षी कल्पद्रुमविकल्पकः ॥ ३७॥ हेमदो हेमभागीच हिमकर्ता हिमाचलः । भूधरो भूमिदो मेरुः कैलासशिखरो गिरिः ॥ ३८॥ लोकालोकान्तरो लोकी विलोकी भुवनेश्वरः । दिक्पालो दिक्पतिर्दिव्यो दिव्यकायो जितेन्द्रियः ॥ ३९॥ विरूपो रूपवान्रागी नृत्यगीतविशारदः । हाहा हूहूश्चित्ररथो देवर्षिर्नारदः सखा ॥ ४०॥ विश्वेदेवाः साध्यदेवा धृताशीश्च चलोऽचलः । कपिलो जल्पको वादी दत्तो हैहयसङ्घराट् ॥ ४१॥ वसिष्ठो वामदेवश्च सप्तर्षिप्रवरो भृगुः । जामदग्न्यो महावीरः क्षत्रियान्तकरो ह्यृषिः ॥ ४२॥ हिरण्यकशिपुश्चैव हिरण्याक्षो हरप्रियः । अगस्तिः पुलहो दक्षः पौलस्त्यो रावणो घटः ॥ ४३॥ देवारिस्तापसस्तापी विभीषणहरिप्रियः । तेजस्वी तेजदस्तेजी ईशो राजपतिः प्रभुः ॥ ४४॥ दाशरथी राघवो रामो रघुवंशविवर्धनः । सीतापतिः पतिः श्रीमान्ब्रह्मण्यो भक्तवत्सलः ॥ ४५॥ सन्नद्धः कवची खड्गी चीरवासा दिगम्बरः । किरीटी कुडली चापी शङ्खचक्री गदाधरः ॥ ४६॥ कौसल्यानन्दनोदारो भूमिशायी गुहप्रियः । सौमित्रो भरतो बालः शत्रुघ्नो भरताऽग्रजः ॥ ४७॥ लक्ष्मणः परवीरघ्नः स्त्रीसहायः कपीश्वरः । हनुमानृक्षराजश्च सुग्रीवो वालिनाशनः ॥ ४८॥ दूतप्रियो दूतकारी ह्यङ्गदो गदतां वरः । वनध्वंसी वनी वेगो वानरध्वज लाङ्गुली ॥ ४९॥ रविदंष्ट्री च लङ्काहा हाहाकारो वरप्रदः । भवसेतुर्महासेतुर्बद्धसेतू रमेश्वरः ॥ ५०॥ ( var रामेश्वरः) जानकीवल्लभः कामी किरीटी कुण्डली खगी । पुण्डरीकविशालाक्षो महाबाहुर्घनाकृतिः ॥ ५१॥ चञ्चलश्चपलः कामी वामी वामाङ्गवत्सलः । स्त्रीप्रियः स्त्रीपरः स्त्रैणः स्त्रियो वामाड्गवासकः ॥ ५२॥ जितवैरी जितकामो जितक्रोधो जितेन्द्रियः । शान्तो दान्तो दयारामो ह्येकस्त्रीव्रतधारकः ॥ ५३॥ सात्त्विकः सत्त्वसंस्थानो मदहा क्रोधहा खरः । बहुराक्षस सम्वीतः सर्वराक्षसनाशकृत् ॥ ५४॥ रावणारी रणक्षुद्र दशमस्तकच्छेदकः । राज्यकारी यज्ञकारी दाता भोक्ता तपोधनः ॥ ५५॥ अयोध्याधिपतिः कान्तो वैकुण्ठोऽकुण्ठविग्रहः । सत्यव्रतो व्रती शूरस्तपी सत्यफलप्रदः ॥ ५६॥ सर्वसाक्षीः सर्वगश्च सर्वप्राणहरोऽव्ययः । प्राणश्चाथाप्यपानश्च व्यानोदानः समानकः ॥ ५७॥ नागः कृकलः कूर्मश्च देवदत्तो धनञ्जयः । सर्वप्राणविदो व्यापी योगधारकधारकः ॥ ५८॥ तत्त्ववित्तत्त्वदस्तत्त्वी सर्वतत्त्वविशारदः । ध्यानस्थो ध्यानशाली च मनस्वी योगवित्तमः ॥ ५९॥ ब्रह्मज्ञो ब्रह्मदो बह्मज्ञाता च ब्रह्मसम्भवः । अध्यात्मविद्विदो दीपो ज्योतीरूपो निरञ्जनः ॥ ६०॥ ज्ञानदोऽज्ञानहा ज्ञानी गुरुः शिष्योपदेशकः । सुशिष्यः शिक्षितः शाली शिष्यशिक्षाविशारदः ॥ ६१॥ मन्त्रदो मन्त्रहा मन्त्री तन्त्री तन्त्रजनप्रियः । सन्मन्त्रो मन्त्रविन्मन्त्री यन्त्रमन्त्रैकभञ्जनः ॥ ६२॥ मारणो मोहनो मोही स्तम्भोच्चाटनकृत्खलः । बहुमायो विमायश्च महामायाविमोहकः ॥ ६३॥ मोक्षदो बन्धको बन्दी ह्याकर्षणविकर्षणः । ह्रीङ्कारो बीजरूपी च क्लीङ्कारः कीलकाधिपः ॥ ६४॥ सौङ्कार शक्तिमाञ्च्छक्तिः सर्वशक्तिधरो धरः । ( var शक्तियाञ्च्छक्तिः) अकारोकार ओङ्कारश्छन्दोगायत्रसम्भवः ॥ ६५॥ वेदो वेदविदो वेदी वेदाध्यायी सदाशिवः । ऋग्यजुःसामाथर्वेशः सामगानकरोऽकरी ॥ ६६॥ त्रिपदो बहुपादी च शतपथः सर्वतोमुखः । प्राकृतः संस्कृतो योगी गीतग्रन्थप्रहेलिकः ॥ ६७॥ सगुणो विगुणश्छन्दो निःसङ्गो विगुणो गुणी । निर्गुणो गुणवान्सङ्गी कर्मी धर्मी च कर्मदः ॥ ६८॥ निष्कर्मा कामकामी च निःसङ्गः सङ्गवर्जितः । निर्लोभो निरहङ्कारी निष्किञ्चनजनप्रियः ॥ ६९॥ सर्वसङ्गकरो रागी सर्वत्यागी बहिश्चरः । एकपादो द्विपादश्च बहुपादोऽल्पपादकः ॥ ७०॥ द्विपदस्त्रिपदोऽपादी विपादी पदसङ्ग्रहः । खेचरो भूचरो भ्रामी भृङ्गकीटमधुप्रियः ॥ ७१॥ क्रतुः सम्वत्सरो मासो गणितार्कोह्यहर्निशः । कृतं त्रेता कलिश्चैव द्वापरश्चतुराकृतिः ॥ ७२॥ दिवाकालकरः कालः कुलधर्मः सनातनः । कला काष्ठा कला नाड्यो यामः पक्षः सितासितः ॥ ७३॥ युगो युगन्धरो योग्यो युगधर्मप्रवर्तकः । कुलाचारः कुलकरः कुलदैवकरः कुली ॥ ७४॥ चतुराऽऽश्रमचारी च गृहस्थो ह्यतिथिप्रियः । वनस्थो वनचारी च वानप्रस्थाश्रमोऽश्रमी ॥ ७५॥ बटुको ब्रह्मचारी च शिखासूत्री कमण्डली । त्रिजटी ध्यानवान्ध्यानी बद्रिकाश्रमवासकृत् ॥ ७६॥ हेमाद्रिप्रभवो हैमो हेमराशिर्हिमाकरः । महाप्रस्थानको विप्रो विरागी रागवान्गृही ॥ ७७॥ नरनारायणोऽनागो केदारोदारविग्रहः । गङ्गाद्वारतपः सारस्तपोवन तपोनिधिः ॥ ७८॥ निधिरेष महापद्मः पद्माकरश्रियालयः । ( var निधिरेव) पद्मनाभः परीतात्मा परिव्राट् पुरुषोत्तमः ॥ ७९॥ परानन्दः पुराणश्च सम्राड्राज विराजकः । ( var सम्राट् राज) चक्रस्थश्चक्रपालस्थश्चक्रवर्ती नराधिपः ॥ ८०॥ आयुर्वेदविदो वैद्यो धन्वन्तरिश्च रोगहा । औषधीबीजसम्भूतो रोगी रोगविनाशकृत ॥ ८१॥ चेतनश्चेतकोऽचिन्त्यश्चित्तचिन्ताविनाशकृत् । अतीन्द्रियः सुखस्पर्शश्चरचारी विहङ्गमः ॥ ८२॥ गरुडः पक्षिराजश्च चाक्षुषो विनतात्मजः । विष्णुयानविमानस्थो मनोमयतुरङ्गमः ॥ ८३॥ बहुवृष्टिकरो वर्षी ऐरावणविरावणः । उच्चैःश्रवाऽरुणो गामी हरिदश्वो हरिप्रियः ॥ ८४॥ प्रावृषो मेघमाली च गजरत्नपुरन्दरः । वसुदो वसुधारश्च निद्रालुः पन्नगाशनः ॥ ८५॥ शेषशायी जलेशायी व्यासः सत्यवतीसुतः । वेदव्यासकरो वाग्ग्मी बहुशाखाविकल्पकः ॥ ८६॥ स्मृतिः पुराणधर्मार्थी परावरविचक्षणः । सहस्रशीर्षा सहस्राक्षः सहस्रवदनोज्ज्वलः ॥ ८७॥ सहस्रबाहुः सहस्रांशुः सहस्रकिरणो नरः । बहुशीर्षैकशीर्षश्च त्रिशिरा विशिराः शिरी ॥ ८८॥ जटिलो भस्मरागी च दिव्याम्बरधरः शुचिः । अणुरूपो बृहद्रूपो विरूपो विकराकृतिः ॥ ८९॥ समुद्रमाथको माथी सर्वरत्नहरो हरिः । वज्रवैडूर्यको वज्री चिन्तामणिमहामणिः ॥ ९०॥ अनिर्मूल्यो महामूल्यो निर्मूल्यः सुरभिः सुखी । पिता माता शिशुर्बन्धुर्धाता त्वष्टार्यमा यमः ॥ ९१॥ अन्तःस्थो बाह्यकारी च बहिःस्थो वै बहिश्चरः । पावनः पावकः पाकी सर्वभक्षी हुताशनः ॥ ९२॥ भगवान्भगहा भागी भवभञ्जो भयङ्करः । कायस्थः कार्यकारी च कार्यकर्ता करप्रदः ॥ ९३॥ एकधर्मा द्विधर्मा च सुखी दूत्योपजीवकः । बालकस्तारकस्त्राता कालो मूषकभक्षकः ॥ ९४॥ सञ्जीवनो जीवकर्ता सजीवो जीवसम्भवः । षड्विंशको महाविष्णुः सर्वव्यापी महेश्वरः ॥ ९५॥ दिव्याङ्गदो मुक्तमाली श्रीवत्सो मकरध्वजः । श्याममूर्तिर्घनश्यामः पीतवासाः शुभाननः ॥ ९६॥ चीरवासा विवासाश्च भूतदानववल्लभः । अमृतोऽमृतभागी च मोहिनीरूपधारकः ॥ ९७॥ दिव्यदृष्टिः समदृष्टिर्देवदानववञ्चकः । कबन्धः केतुकारी च स्वर्भानुश्चन्द्रतापनः ॥ ९८॥ ग्रहराजो ग्रही ग्राहः सर्वग्रहविमोचकः । दानमानजपो होमः सानुकूलः शुभग्रहः ॥ ९९॥ विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः । अपकारोपकारी च सर्वसिद्धिफलप्रदः ॥ १००॥ सेवकः सामदानी च भेदी दण्डी च मत्सरी । दयावान्दानशीलश्च दानी यज्वा प्रतिग्रही ॥ १०१॥ हविरग्निश्चरुस्थाली समिधश्चानिलो यमः । होतोद्गाता शुचिः कुण्डः सामगो वैकृतिः सवः ॥ १०२॥ द्रव्यं पात्राणि सङ्कल्पो मुशलो ह्यरणिः कुशः । दीक्षितो मण्डपो वेदिर्यजमानः पशुः क्रतुः ॥ १०३॥ दक्षिणा स्वस्तिमान्स्वस्ति ह्याशीर्वादः शुभप्रदः । आदिवृक्षो महावृक्षो देववृक्षो वनस्पतिः ॥ १०४॥ प्रयागो वेणुमान्वेणी न्यग्रोधश्चाऽक्षयो वटः । सुतीर्थस्तीर्थकारी च तीर्थराजो व्रती वतः ॥ १०५॥ वृत्तिदाता पृथुः पुत्रो दोग्धा गौर्वत्स एव च । क्षीरं क्षीरवहः क्षीरी क्षीरभागविभागवित् ॥ १०६॥ राज्यभागविदो भागी सर्वभागविकल्पकः । वाहनो वाहको वेगी पादचारी तपश्चरः ॥ १०७॥ गोपनो गोपको गोपी गोपकन्याविहारकृत् । वासुदेवो विशालाक्षः कृष्णोगोपीजनप्रियः ॥ १०८॥ देवकीनन्दनो नन्दी नन्दगोपगृहाऽऽश्रमी । यशोदानन्दनो दामी दामोदर उलूखली ॥ १०९॥ पूतनारिः पदाकारी लीलाशकटभञ्जकः । नवनीतप्रियो वाग्ग्मी वत्सपालकबालकः ॥ ११०॥ वत्सरूपधरो वत्सी वत्सहा धेनुकान्तकृत् । बकारिर्वनवासी च वनक्रीडाविशारदः ॥ १११॥ कृष्णवर्णाकृतिः कान्तो वेणुवेत्रविधारकः । गोपमोक्षकरो मोक्षो यमुनापुलिनेचरः ॥ ११२॥ मायावत्सकरो मायी ब्रह्ममायापमोहकः । आत्मसारविहारज्ञो गोपदारकदारकः ॥ ११३॥ गोचारी गोपतिर्गोपो गोवर्धनधरो बली । इन्द्रद्युम्नो मखध्वंसी वृष्टिहा गोपरक्षकः ॥ ११४॥ सुरभित्राणकर्ता च दावपानकरः कली । कालीयमर्दनः काली यमुनाह्रदविहारकः ॥ ११५॥ सङ्कर्षणो बलश्लाघ्यो बलदेवो हलायुधः । लाङ्गली मुसली चक्री रामो रोहिणिनन्दनः ॥ ११६॥ यमुनाकर्षणोद्धारो नीलवासा हलो हली । रेवती रमणो लोलो बहुमानकरः परः ॥ ११७॥ धेनुकारिर्महावीरो गोपकन्याविदूषकः । काममानहरः कामी गोपीवासोऽपतस्करः ॥ ११८॥ वेणुवादी च नादी च नृत्यगीतविशारदः । गोपीमोहकरो गानी रासको रजनीचरः ॥ ११९॥ दिव्यमाली विमाली च वनमालाविभूषितः । कैटभारिश्च कंसारिर्मधुहा मधुसूदनः ॥ १२०॥ चाणूरमर्दनो मल्लो मुष्टी मुष्टिकनाशकृत् । मुरहा मोदका मोदी मदघ्नो नरकान्तकृत् ॥ १२१॥ विद्याध्यायी भूमिशायी सुदामा सुसखा सुखी । सकलो विकलो वैद्यः कलितो वै कलानिधिः ॥ १२२॥ विद्याशाली विशाली च पितृमातृविमोक्षकः । रुक्मिणीरमणो रम्यः कालिन्दीपतिः शङ्खहा ॥ १२३॥ पाञ्चजन्यो महापद्मो बहुनायकनायकः । धुन्धुमारो निकुम्भघ्नः शम्बरान्तो रतिप्रियः ॥ १२४॥ प्रद्युम्नश्चानिरुद्धश्च सात्वतां पतिरर्जुनः । फाल्गुनश्च गुडाकेशः सव्यसाची धनञ्जयः ॥ १२५॥ किरीटी च धनुष्पाणिर्धनुर्वेदविशारदः ॥ शिखण्डी सात्यकिः शैब्यो भीमो भीमपराक्रमः ॥ १२६॥ पाञ्चालश्चाभिमन्युश्च सौभद्रो द्रौपदीपति । युधिष्ठिरो धर्मराजः सत्यवादी शुचिव्रतः ॥ १२७॥ नकुलः सहदेवश्च कर्णो दुर्योधनो घृणी । गाङ्गेयोऽथगदापाणिर्भीष्मो भागीरथीसुतः ॥ १२८॥ प्रज्ञाचक्षुर्धृतराष्ट्रो भारद्वाजोऽथगौतमः । अश्वत्थामा विकर्णश्चजह्नुर्युद्धविशारदः ॥ १२९॥ सीमन्तिको गदी गाल्वो विश्वामित्रो दुरासदः । दुर्वासा दुर्विनीतश्च मार्कण्डेयो महामुनिः ॥ १३०॥ लोमशो निर्मलोऽलोमी दीर्घायुश्च चिरोऽचिरी । पुनर्जीवी मृतो भावी भूतो भव्यो भविष्यकः ॥ १३१॥ त्रिकालोऽथ त्रिलिङ्गश्च त्रिनेत्रस्त्रिपदीपतिः । यादवो याज्ञवल्क्यश्च यदुवंशविवर्धनः ॥ १३२॥ शल्यक्रीडी विक्रीडश्च यादवान्तकरः कलिः । सदयो हृदयो दायो दायदो दायभाग्दयी ॥ १३३॥ महोदधिर्महीपृष्ठो नीलपर्वतवासकृत । एकवर्णो विवर्णश्च सर्ववर्णबहिश्चरः ॥ १३४॥ यज्ञनिन्दी वेदनिन्दी वेदबाह्यो बलो बलिः । बौद्धारिर्बाधको बाधो जगन्नाथो जगत्पतिः ॥ १३५॥ भक्तिर्भागवतो भागी विभक्तो भगवत्प्रियः । त्रिग्रामोऽथ नवारण्यो गुह्योपनिषदासनः ॥ १३६॥ शालिग्रामः शिलायुक्तो विशालो गण्डकाश्रयः । श्रुतदेवः श्रुतः श्रावी श्रुतबोधः श्रुतश्रवाः ॥ १३७॥ कल्किः कालकलः कल्को दुष्टम्लेच्छविनाश कृत् । कुङ्कुमी धवलो धीरः क्षमाकरो वृषाकपिः ॥ १३८॥ किङ्करः किन्नरः कण्वः केकी किम्पुरुषाधिपः । एकरोमा विरोमा च बहुरोमा बृहत्कविः ॥ १३९॥ वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः । बहुतीर्थकरस्तीर्थः सर्वतीर्थजनेश्वरः ॥ १४०॥ व्यतीपातोपरागश्च दानवृद्धिकरः शुभः । असङ्ख्येयोऽप्रमेयश्च सङ्ख्याकारो विसङ्ख्यकः ॥ १४१॥ मिहिकोत्तारकस्तारो बालचन्द्रः सुधाकरः । किम्वर्णः कीदृशः किञ्चित्किंस्वभावः किमाश्रयः ॥ १४२॥ निर्लोकश्च निराकारी बह्वाकारैककारकः । दौहित्रः पुत्रिकः पौत्रो नप्ता वंशधरो धरः ॥ १४३॥ द्रवीभूतो दयालुश्च सर्वसिद्धिप्रदो मणिः ॥ १४४॥ आधारोऽपि विधारश्च धरासूनुः सुमङ्गलः । मङ्गलो मङ्गलाकारो माङ्गल्यः सर्वमङ्गलः ॥ १४५॥ नाम्नां सहस्रं नामेदं विष्णोरतुलतेजसः । सर्वसिद्धिकरं काम्यं पुण्यं हरिहरात्मकम् ॥ १४६॥ यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः । यश्चेदं श‍ृणुयान्नित्यं नरो निश्चलमानसः ॥ १४७॥ त्रिसन्ध्यं श्रद्धया युक्तः सर्वपापैः प्रमुच्यते । नन्दते पुत्रपौत्रैश्च दारैर्भृत्यैश्च पूजितः ॥ १४८॥ प्राप्नुते विपुलां लक्ष्मीं मुच्यते सर्वसङ्कटात् । सर्वान्कामानवाप्नोति लभते विपुलं यशः ॥ १४९॥ विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् । वैश्यश्च धनलाभाढ्यः शूद्रः सुखमवाप्नुयात् ॥ १५०॥ रणे घोरे विवादे च व्यापारे पारतन्त्रके । विजयी जयमाप्नोति सर्वदा सर्वकर्मसु ॥ १५१॥ एकधा दशधा चैव शतधा च सहस्रधा । पठते हि नरो नित्यं तथैव फलमश्नुते ॥ १५२॥ पुत्रार्थी प्राप्नुते पुत्रान्धनार्थी धनमव्ययम् । मोक्षार्थी प्राप्नुते मोक्षं धर्मार्थी धर्मसञ्चयम् ॥ १५३॥ कन्यार्थी प्राप्नुते कन्यां दुर्लभां यत्सुरैरपि । ज्ञानार्थी जायते ज्ञानी योगी योगेषु युज्यते ॥ १५४॥ महोत्पातेषु घोरेषु दुर्भिक्षे राजविग्रहे । महामारीसमुद्भूते दारिद्र्ये दुःखपीडिते ॥ १५५॥ अरण्ये प्रान्तरे वाऽपि दावाग्निपरिवारिते । सिंहव्याघ्राभिभूतेऽपि वने हस्तिसमाकुले ॥ १५६॥ राज्ञा क्रुद्धेन चाज्ञप्ते दस्युभिः सह सङ्गमे । विद्युत्पातेषु घोरेषु स्मर्तव्यं हि सदा नरैः ॥ १५७॥ ग्रहपीडासु चोग्रासु वधबन्धगतावपि । महार्णवे महानद्यां पोतस्थेषु न चापदः ॥ १५८॥ रोगग्रस्तो विवर्णश्च गतकेशनखत्वचः । पठनाच्छवणाद्वापि दिव्यकाया भवन्ति ते ॥ १५९॥ तुलसीवनसंस्थाने सरोद्वीपे सुरालये । बद्रिकाश्रमे शुभे देशे गङ्गाद्वारे तपोवने ॥ १६०॥ मधुवने प्रयागे च द्वारकायां समाहितः । महाकालवने सिद्धे नियताः सर्वकामिकाः ॥ १६१॥ ये पठन्ति शतावर्तं भक्तिमन्तो जितेन्द्रियाः । ते सिद्धाः सिद्धिदा लोके विचरन्ति महीतले ॥ १६२॥ अन्योन्यभेदभेदानां मैत्रीकरणमुत्तमम् । मोहनं मोहनानां च पवित्रं पापनाशनम् ॥ १६३॥ बालग्रहविनाशाय शान्तीकरणमुत्तमम् । दुर्वृत्तानां च पापानां बुद्धिनाशकरं परम् ॥ १६४॥ पतद्गर्भा च वन्ध्या च स्राविणी काकवन्ध्यका । अनायासेन सततं पुत्रमेव प्रसूयते ॥ १६५॥ पयःपुष्कलदा गावो बहुधान्यफला कृषिः । स्वामिधर्मपरा भृत्या नारी पतिव्रता भवेत् ॥ १६६॥ अकालमृत्युनाशाय तथा दुःस्वप्नदर्शने । शान्तिकर्मणि सर्वत्र स्मर्तव्यं च सदा नरैः ॥ १६७॥ यः पठत्यन्वहं मर्त्यः शुचिष्मान्विष्णुसन्निधौ । एकाकी च जिताहारो जितक्रोधो जितेन्द्रियः ॥ १६८॥ गरुडारोहसम्पन्नः पीतवासाश्चतुर्भुजः । वाञ्छितं प्राप्य लोकेऽस्मिन्विष्णुलोके स गच्छति ॥ १६९॥ एकतः सकला विद्या एकतः सकलं तपः । एकतः सकलो धर्मो नाम विष्णोस्तथैकतः ॥ १७०॥ यो हि नामसहस्रेण स्तोतुमिच्छति वै द्विजः । सोऽयमेकेन श्लोकेन स्तुत एव न संशयः ॥ १७१॥ ( var सोऽहमेकेन) सहस्राक्षः सहस्रपात्सहस्रवदनोज्ज्वलः । सहस्रनामानन्ताक्षः सहस्रबाहुर्नमोऽस्तु ते ॥ १७२॥ विष्णोर्नामसहस्रं वै पुराणं वेदसम्मतम् । पठितव्यं सदा भक्तैः सर्वमङ्गलमङ्गलम् ॥ १७३॥ इति स्तवाभियुक्तानां देवानां तत्र वै द्विज । प्रत्यक्षं प्राह भगवान्वरदो वरदार्चितः ॥ १७४॥ श्रीभगवानुवाच - व्रियतां भोः सुराः सर्वैर्वरोऽस्मत्तोभिवाञ्छितः । तत्सर्वं सम्प्रदास्यामि नाऽत्र कार्या विचारणा ॥ १७५॥ इति श्रीस्कन्दमहापुराणे आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विष्णुसहस्रनामोऽध्यायः ॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : viShNusahasranAmastotram from skandapurANa
% File name             : viShNusahasranAmastotramskandapurANa.itx
% itxtitle              : viShNusahasranAmastotram (skandapurANAntargatam)
% engtitle              : viShNusahasranAmastotram from skandapurANa
% Category              : vishhnu, sahasranAma
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Latest update         : November 28, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org